प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ बृहत्। वर्ष्म वै बृहत्। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तज् जागते ऽहन् भवति। पुंसो वा एतद् रूपं यद् बृहत् स्त्रियै जगती। तद् यद् अत्र बृहत् पृष्ठं भवति, तेनैवैतद् अहर् मिथुनं क्रियते। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षतेति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। वसूनि जातो जनिमान्य् ओजसेति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः।
प्रति भागं न दीधिमः॥
अलर्षिरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्॥
इत्य् आशिषम् एवैतेनाशास्ते॥3.261॥


तासु श्रायन्तीयम्। देवा वै सत्रम् उपयन्तो ऽब्रुवन् - यन् नः क्रूरम् आत्मनस् तन् निर्भिमामहै। मा सक्रूरा उपगामेति। तद् यद् एषां क्रूरम् आत्मन् आसीत्, तन् निर्माय शरावयोस् संमार्जं न्यदधुः। अथ सत्रम् उपायन्। तत एषो ऽखलो देवो ऽजायत। तद् यच् छरावाभ्याम् अजायत, तद् अस्यैतन् नाम। एष ह वाव सो ऽग्निर् जज्ञे। न हैनम् एष हिनस्ति य एवं वेद। स देवान् अब्रवीत् - कस्मै माम् अजीजनतेति। औपद्रष्ट्र्यायेत्य् अब्रुवन् - यो ऽतिपादयात् तं हनासा इति। प्रजापतिर् होषसं स्वां दुहितरम् अभ्यध्यायत्। सास्मै रोहिद् भूत्वातिष्ठत्। तां पृषतो भूत्वास्कन्दत्। स ऐषतास्मै वै मां देवा अजीजनन्न् औपद्रष्ट्र्याय। अति वा अयं पादयति, हन्तैनं विध्यानीति। तम् अविध्यत्। स विद्ध एतद् रूपं प्रत्यस्योर्ध्व उदक्रामत्॥3.262॥


स एष इषुस् त्रिकाण्डः। तस्मात् पृषतो ऽस्वादुतमः। तस्माद् उ शोचतीव। तस्य विद्धस्य रेतः परापतत्। तद् धिमवति प्रत्यतिष्ठत्। तन् मानुषम् अभवत। तद् देवाश् चर्षयश् चोपसमेत्याब्रुवन् - मेदं दुषद इति। यद् अब्रुवन् - मेदं दुषद् इति, तन् मादुषस्य मादुषत्वम्। मादुषं ह वै नामैतत्। तन् मानुषम् इत्य् आख्यायते। तद् अग्निना पर्यैन्धत। मरुतो ऽधमन्। श्रायन्तीयेनैनद् अश्रीणन्। तच् छ्रायन्तीयस्य श्रायन्तीयत्वम्। ततः पशवो ऽसृज्यन्त। ये प्रथमे ऽसृज्यन्त ते रोहिताः। ये ऽभितप्यमानाद् असृज्यन्त ते ऽरुणाः। ये ऽभितप्ताद् असृज्यन्त ते बभ्रवः। ये दह्यमानाद् असृज्यन्त ते श्वेताश् च कृष्णाश् च। तस्माद् व् अयम् एवाग्निर् दहति श्वेतं चैव कृष्णं च। विष्फुलिंगाभ्य एवाजाश् चैणेयाश् चासृज्यन्त, अङ्गारेभ्यो ऽङ्गिरसः॥3.263॥


अङ्गारमिश्राद् भस्मनस् तिस्रो वशा असृज्यन्त - मैत्रावरुणी बार्हस्पत्या वैश्वदेवी। भस्मन एव गर्दभो ऽसृज्यत। तस्मात् स भस्मनः प्रतिरूपः। तस्मात् स बभ्रियमाणो जीवति। तद् एतद् वीरजननं पशव्यं साम। वीरा वै तद् अजायन्त यद् अङ्गिरसः। एत उ पशवो ऽसृज्यन्त। अस्य वीरो जायते, ऽव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। स यो यज्ञविभ्रष्ट स्याच् छ्रायन्तीयम् अस्य पृष्ठेषु ब्रह्मसाम कुर्युः। पृष्ठानि च वा एतं स्तोत्राणि चावधून्वते यो यज्ञस्य विभ्रष्टः। पृष्ठेषु चैवैनं तत् स्तोत्रेषु च प्रतिष्ठापयन्ति।
यत इन्द्र भयामहे ततो नो अभयं कृधि।
मघवन् शग्धि तव तन् न ऊतये वि द्विषो वि मृधो जहि॥
इति मृध एवैतेन पाप्मानम् अपघ्नते। तासु समन्तम् उक्तब्राह्मणम्। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.264।


त्वं सोमासि धारयुर् इति धृत्यै। अन्तम् इव ह्य् एतर्हि गच्छन्ति छन्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति। त्वं सुतो मदिन्तम इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधति। ऐवैनद् एतेन प्याययन्ति। त्वं सुष्वाणो अद्रिभिर् इति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
अभ्य् अर्ष कनिक्रदत्।
द्युमन्तं शुष्मम् उत्तमम्॥
इत्य् उत्तमो ह्य् एष त्र्यहः क्रियते यश् छन्दोमाः। तास् समानप्रभृतयो भवन्ति नानोदर्काः। इदं वै प्रथमं पदम् इदं द्वितीयम् अदस् तृतीयम्। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये द्वादशाहयाजिनो ऽन्तम् इव हि गच्छन्ति। तद् यद् एतास् समानप्रभृतयो भवन्ति नानोदर्का, अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। नानाप्रभृतयस् समानोदर्काष् षष्ठे ऽहन् भवन्ति। अमुष्मिन्न् उताभिर् लोके प्रतितिष्ठन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथैदावसुनिधनं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। असुर् ह वै नामर्षिर् अपशुर् आस। सो ऽकामयताव पशून् रुन्धीयेति। स एतत् सामापश्यत्। तेनास्तुत। स इदं वस्व् इत्य् एव निधनम् उपैत्। तद् एवैदावसुनिधनस्यैदावसुनिधनत्वम्। तत् पशवो वै वसु। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै॥3.265॥


अथ काशीतम्। कशीतिं वै सौभरं सत्रे यक्ष्माविन्दत्। सो ऽकामयताप यक्ष्म हनीयेति। स एतत् सामापश्यत्। तेनास्तुत।
वात आ वातु भेषजं शंभु मयोभु नो हृदे।
प्र न आयूंषि तारिषत्॥
यद् अदो वात ते गृहे ऽमृतस्य निधिर् हितः।
ततो नो देहि जीवसे॥
उत वात पितासि न उत भ्रातोत नस् सखा।
स नो जीवातवे कृधि॥
इति वात एवास्मै भेषजम् अकरोत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तस्यो प्रतीचीम् इळाम् उपयन्ति, छन्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ कशीतिस् सौभरो ऽपश्यत् तस्मात् काशीतम् इत्य् आख्यायते। अथाश्वसूक्तम् उक्तब्राह्मणम्। तत् पञ्चाक्षरणिधनं भवति - पञ्चपदा वै पंक्तिः। पांक्ताः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। अथ शाम्मदम् उक्तब्राह्मणम्। अथ हाविष्कृतम् उक्तब्राह्मणं निरुक्तिर् हविषः। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। त्वं ह्य् अंग दैव्येति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान जनिमानि द्युमत्तम इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। तासु सौपर्णम् उक्तब्राह्मणम्। पवस्व देववीतय इति सर्वदेवत्यं भवति। वैश्वदेवं ह्य् एतद् अहर् जागतम्। तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुर् इति वृद्धं ह्य् एतद् अहः। आ नस् सुतास इन्दव इत्य् आवतीर् भवन्त्य् अनतिपादायैव॥3.266॥


तासु वैश्वमनसम्। विश्वमनसं वै समिद्धारं परेतम् अरण्य ऋक्षो ऽविन्दत्। सो ऽकामयतापर्क्षं हनीयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। तम् इन्द्रो ऽपश्यद् - विश्वमनसम् ऋक्षो ऽविदद् इति। तम् अभ्याद्रवत्। तस्याद्रवत श्वसथात् प्राव्लीयत। तम् अपृच्छद् - विश्वमनः कस् त्वैष परेणेति। सूर्मी मघवन्न् इति ब्रूहीत्य् अब्रवीत्। सूर्मी मघवन्न् इत्य् अब्रवीत्। अङ्गैनां दण्डेनाभिजहीति सो ऽब्रवीत्। तृणकम् आछिद्य शनैर् अध्यस्येति। तं तृणकम् आछिद्य शनैर् अध्यास्यत्। तद् एवेन्द्रो वज्रम् असिञ्चत्। तस्यो तद् एव प्राघ्नन्। तद् उ भ्रातृव्यहा रक्षोहा साम। हन्ति द्विषन्तं भ्रातृव्यं, अप रक्षः पाप्मानं हते, य एवं वेद। यद उ विश्वमना अपश्यत् तस्माद् वैश्वमनसम् इत्य् आख्यायते॥3.267॥


परि त्यं हर्यतं हरिम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
बभ्रुं पुनन्ति वारेण।
यो देवान् विश्वं इत् परि

इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। मदेन सह गच्छतीति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति।

द्विर् यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम्।
प्रियम् इन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः॥
इत्य् आशिषम् एवैतेनाशास्ते। इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यस इति वर्त्रघ्न्यो भवन्त्य् अन्ततो विजित्यै। तासु गौरिवीतम् उक्तब्राह्मणम्। अथ निहवः। इन्द्रो वै तृतीयसवनाद् बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तम एतेन विश्वे देवास् साम्नान्वह्वयन्तायिही आयिही इति। ततो वा इन्द्रस् तृतीयसवनम् उपावर्तत। ततो ऽस्माद् अनपक्रम्य् अभवत्। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवति। अभ्य् अस्येन्द्रो यज्ञम् आवर्तते। नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद। तद् व् एवाचक्षते वसिष्ठस्य निहव इति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत प्रजां पशून् निह्वयेयेति। स एतत् सामापश्यत्। तेनास्तुत। तेनायिही आयिही इत्य् एव प्रजां पशून् न्यह्वयत। तद् व् एव निहवस्य निहवत्वम्। प्रजां पशून् निह्वयते य एवं वेद। तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम्। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वासिष्ठस्य निहव इत्य् आख्यायते॥3.268॥


अथ यद्वाहिष्ठीयम्। अग्निर् वै देवेभ्यो हव्यं नवमाद् अह्नो दशमम् अहर् अभ्य् अतिवोढुं नाकामयत। ते देवा अकामयन्ताति न इदम् अग्निर् हव्यं वहेद् इति। त एतत् सामापश्यन्। तेनैनम् अस्तुवन् -
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो।
महिवीव त्वद् रयिस् त्वद् वाजा उद् ईरते॥
तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत्।
उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः॥
एवो अग्निं वसूयवस् सहसानं ववन्दिम॥
स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः॥
इति। यथा नावातिपारयेद् एवम् एवैभ्य एतद् अग्निर् हव्यं नवमाद् अह्नो दशमम् अहर् अभ्य् अत्यपारयत्। एष ह वा एतद् अतिपारयितुम् अर्हति। तद् यद् अत्र यद्वाहिष्ठीयं भवति यज्ञस्यैव संतत्यै। सम् अस्मै यज्ञस् तायते तस्याग्निर् हव्यं पारयति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपसमृद्धम्॥3.269॥


अथासितम्। ऋषयो वा अब्रुवन्न् - एतेमम् उपरिश्येनं स्वर्गं लोकं जिगीषाम, यद् अस्मिन्न् एते ऽथर्वाण इति। प्रेणी सौमाहितो मधुच्छन्दा वैश्वामित्रो ऽसितो दैवलो य उ चान्ये तस्य हान्तिकम् दिदीक्षते, तेषां ह ज्योग् एव यजमानानां नोपशुश्रुवुर् बहू य् एव वर्षाणि। तेषाम् उ होपशुश्रुवुर् - आश्रावयति वै, वषट्करोति वा इति। स होद्वन्तो नामाथर्वणाम् एकश् चमसहस्त उपावरुरोह। तान् होवाच - किंकामा आध्व इति। इमम् उपरिश्येनं स्वर्गं लोकं जिगीषाम्, यस्मिन्न् एते ऽथर्वाण इति। तान् होवाचेथ ग्रामं जघनेना इति। इमो हीति। कस्मै कामायेति। पथ इति। ओम् इति होवाच, न नु वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् अवेक्षांचक्रे। स होवाचाश्नीय मांसा3म् इति। अश्नीमो हीति। कस्मै कामायेति। चक्षुषश् च प्राणानां चेति। ओम् इति होवाच्, नो वाव वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् अवेक्षांचक्रे। स होवाचाश्नीथ मांसा3म् इति। उपेमो हीति। कस्मै कामायेति। प्रजायै संतत्या अव्यवच्छेदायेति। ओम् इति होवाच, नो वाव वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् एवावेक्षांचक्रे। स होवाच-वदथानृता3म् इति। वदामो हीति। कस्मै कामायेति। स्त्रीकाम्या वा नर्मकाम्या वा सखीकाम्या वेति। ओम् इति होवाच॥3.270॥