प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तासु वामदेव्यम्। स्तुतशस्त्रयोर् ह खलु वा एषा शान्तिर् यद् वामदेव्यम्। यद् ध वै किं च यज्ञस्य मिथ्योल्बणं क्रियते तद् एतेनैव शमयित्वोत्तिष्ठन्ति। मत्यं वा एतद् यज्ञस्य यद् वामदेव्यम्। स यथा स्थूललोष्टम् मत्येन शमयेद् एवम् एवैतद् वामदेव्येन सर्वाणि स्तुतशस्त्राणि शमयन्ति। प्रजापतिर् ह खलु वा एतत् स्तोत्राणां यद् वामदेव्यम्। यथा ह वा इदं प्रजापतौ सर्वा जातविद्याः प्रतितिष्ठन्त्य् एवं ह वै वामदेव्ये सर्वाणि स्तोत्राणि प्रतितिष्ठन्ति। योनिर् वै वामदेव्यम्। तद् दशमे ऽहन् योनेश् च्यावयन्ति। तस्माद् दशमास्या गर्भा योनेश् च्यवन्ते प्रजात्यै। प्राणा वै वामदेव्यम्। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये यज्ञीयस्य कर्मणो ऽतिपादयन्ति, यदि वा नातिपादयन्ति। को हि तद् वेद यदि ते ऽति वा पादयन्ति न वा। तद् यद् अत्र वामदेव्यं भवति प्राणैर् एव तत् समृध्यन्ते। सद् ध खलु वै वामदेव्यं स्तोत्राणां, सद् अग्निर् देवतानां, सद् विराट् छन्दसां, सत् त्रयस्त्रिंश स्तोमानाम्। सत्य् एवैतत् सन्निधायोत्तिष्ठन्ति। सद् एव भवन्ति। एतां ह खलु वा एतद् द्वादशाहयाजी चतुष्पदीं देवासन्दीम् अविव्याधिनीम् अन्ततो ऽभ्यारोहति वामदेव्यं सामाग्निं देवतां विराजं छन्दस् त्रयस्त्रिंशं स्तोमम्। अभि हैताम् आरोहति य एवं वेद॥3.301॥


गौरीवितिर् वा एतं शाक्त्यस् त्रयस्त्रिंशं स्तोमम् अपश्यद् उभयेषां पशूनाम् अवरुद्ध्यै ये च ग्राम्या ये चारण्याः। ततो वै स उभयान् पशून् अवारुन्द्ध। तद् यत् त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति तस्मात् त्रयस्त्रिंश स्तोमो ऽन्ततः क्रियत, उभयेषाम् एव पशूनाम् अवरुद्ध्यै। पुरुषो ह वा एष परस्ताद् धितस् तिष्ठति। दश वै पुरुषस्य हस्त्या अंगुलयो, दश पद्या, दश प्राणा, द्वे प्रतिष्ठे, आत्मा त्रयस्त्रिंशः। पराञ्च आरण्याः पशवः प्रेरते। तस्माद् अभ्यासृणतो मृगं श्रयन्ते। अभ्यासृणतो ह्य् एष एतत् क्रियते। प्रजापतेर् वा एत एकवीराः पुत्रा, यद् द्वादशाहस्य स्तोमाः। तद् आहुश् चतुर्विंशम् एतद् अहः। तत् सर्वम् एव चतुर्विंशं कार्यम्, एतेषां प्रजापतेः पुत्राणाम् एकवीराणाम् अविलोमायेति। यद् व एवैतास् त्रयस्त्रिंशदक्षरा भवन्ति तेन त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति। भूयांसि तु रूपाण्य् अपराध्यन्ते। इतराण्य् एव भूयांसि रूपाणि। त्रयस्त्रिंश एव कार्यः। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठन्ति। अथो एष वाव दृढः प्रतिष्ठितस् सर्वदेवत्य स्तोमो यत्र त्रयस्त्रिंशः। तस्मात् त्रयस्त्रिंश एव स्तोमो ऽन्ततः कार्य इति॥3.302॥


सम्पदं ह तु लोभयन्ति। ब्रह्मसाम्न एव नव स्तोत्र्या उपादायात्रोपदध्यात्। न सम्पदो यन्त्य्, उभयेषु स्तोमेषु प्रतितिष्ठन्ति य चायुजो ये च युग्मन्तः। तद् यथान्तरीषे तिष्ठन् विमु़ञ्चेद् एवम् एवैतद् वामदेव्येन सर्वाणि स्तुशस्त्राण्य् अन्ततो विमुच्यन्ते। तद् आहुर् व्युच्या3 न व्युच्या3म् इति। न व्युच्यम् इत्य् आहुः। आजिं वा एते यन्ति य एतद् अहर् आगच्छन्ति। तेषाम् एष हीयते य उपहन्यते। स यथा हीनम् उपादधीत तादृक् तत्। यो वै हीनम् उपाधत्त उभौ वाव तौ हीयेते। अथो प्रजापतिं वैवैतेनाह्ना परिवेविषन्ति। तद् यन् न व्याहुः को हि श्रेयसः परिवेषणम् अववदितुम् अर्हति। यो वै श्रेयसः परिवेषणम् अववदति यया वै स तम् आर्त्या कामयते तयैनं निनयति। तद् आहुः ब्रह्मैव विब्रूयाद् इति। ब्रह्म वै ब्रह्मा। ब्रह्मैव तद् यज्ञं व्याह। अथो आहुर् उद्गातैव विब्रूयाद् इति। प्रजापतिर् वा उद्गाता। प्रजापतिर् एव तद् यज्ञं व्याह। अथो आहुर् यजमान एव विब्रूयाद् इति। यज्ञो वै यजमानः। यज्ञ एव तद् यज्ञं व्याह। अथो यथाकामं वै स्वं परिवेषणं प्रशास्तीति। अथो आहुः प्राङ् एवोत्क्रम्य् क्रोशेद् - इत्य् अमी अकुर्वतेत्य् अमी अकुर्वतेति। तद् एव व्युक्तं चाव्युक्तं चेति। तद् उ वा आहुर् व्युच्यम् एव। यद् अव्युच्यमाने तूष्णीम् आसीरन् विच्छिद्येरन् वै यज्ञाद् यज्ञीयस्यैवानार्तिर् उपेत्याव्यु्च्यम् एवेति। तद् यावता व्याह तद् धोत्रे प्राह। तद् धोतानुष्टुभम् अभि संपादयति - सम् इदं दशमम् अहर् अपादीति। संव्याहरन्ति यद् एवात्रोनाक्षरासु स्तुवन्ति यद् अतिरेचयन्ति। तद् एवैतत्प्रजापतिम् अभि संपादयन्ति संपरिवेषणं प्रशास्ति॥3.303॥


अपशव्या इव वै युग्मन्त स्तोमा श्लक्ष्णा इव हि समा इव। तद् यत् त्रिवृतं स्तोमम् अन्ववस्यन्ति मिथुनत्वायैव प्रजात्यै। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। प्र प्रजया पशुभिर् जायते य एवं वेद। इयं वै पृथिव्यरिक्षेवा लोकम् आसीत्। साकामयत पृश्निं वर्णं पुष्येयम् इति। सैतम् मन्त्रम् अपश्यत् आयं गौः पृश्निर् अक्रमीद् इति। ततो वा इयं पृथिवी पृश्निं वर्णम् अपुष्यत्। पृश्निं ह वै वर्णं प्रजया पशुभिः पुष्यति य एवं वेद। तद् आहुर् ऊर्ध्वा वा एते स्वर्गलोकं रोहन्ति ये यजन्ते। त ईश्वराः पराञ्चो ऽतिपत्तोर् इति। तद् यत् सर्पराज्ञीषु स्तुवन्ति - इयं वै सर्पराज्ञी - अस्याम् एवैतत् प्रतितिष्ठन्ति। इयं वै सर्पतां राज्ञी। न ह वा एनं सरीसृपं हिनस्ति य एवं वेद॥3.304॥


गायत्रीषु स्तुवन्ति - गायत्री वै छन्दसाम् अयातयाम्न्य् - अयातयामताया एव। तिसृषु स्तुवन्ति - त्रयो वा इमे लोका - एषां लोकानां समष्ट्यै। अथो त्रयो वै प्राणापानव्यानाः। तान् एवैतत् संतत्य तेषु प्रतिष्ठायोदृचम् अश्नुवते। गायत्रं साम भवत्य् - अयातयाम वै गायत्रम् - अयातयामताया एव। अथो मनो वै गायत्रम्। मनसैवैनत् तत् समृद्धयन्ति, मनसोपावर्तयन्ति, मनसा हिंकुर्वन्ति, मनसा प्रस्तौति, मनसादिम् आदत्ते, मनसोद्गायति, मनसा प्रतिहरति, मनसोपद्रवति, मनसा निधनम् उपयन्त्य् असमाप्तस्य समाप्त्यै। यद् वै देवा यज्ञस्य वाचा न समाप्नुवंस् तद् अस्य मनसा समाप्नुवन्। तद् यन् मनसा स्तुवन्त्य् असमाप्तस्यैव समाप्त्यै। रसो वा एतस्याह्नो ऽत्यनेदत्। तम् मनसैव पर्यगृह्णन्। एष वै स रसः तद् यन् मनसा स्तुवन्ति रसस्यानतिनेदाय॥3.305॥


महाव्रतभाजनं वा एता ऋचः। स यावन् महाव्रतेनावरुन्द्धे तावद् अवरुन्द्ध एताभि ऋग्भिस् तुष्टुवानः। मनसो वा अन्यद् अहर् आसीद् वाचो ऽन्यत्। तद् यन् मनसो ऽहर् आसीत् तद् देवा संगृह्योर्ध्वा स्वर्गं लोकम् उदक्रामन्। अथ यद् वाचो ऽहर् आसीत् तद् एतद् अहर् अभवत्। तेनास्मिन् लोके प्रजया च पशुभिश् च प्रत्यतिष्ठन्। तद् यन् मनसा स्तुवन्ति तस्यैवाह्नो ऽनुख्यात्यै। चतुर्होतॄन् होतानुव्याचष्टे - ब्रह्म वै चतुर्होतारः। ब्रह्म वा अस्यै स्तोत्रशस्त्राणाम् आप्तुम् अर्हति। एतान्य् उ ह वै देवानां गुह्यानि नामानि यच् चतुर्होतारः। तान्य् एव तत् प्रकाशं गमयति। तान्य् एतं प्रकाशं गतानि प्रकाशतां गमयन्ति। गच्छति प्रकाशतां य एवं वेद। तद् यं ब्राह्मणम् अलं यशसे सन्तम् अथ यशो नार्च्छेत् सो ऽरण्यं परेत्य ग्रन्थीन् उद्ग्रथ्य, तेभ्यश् चतुर्होतॄन् व्याचक्षीत, ब्राह्मणं वोपद्रष्टारं कृत्वा। एतान्य् उ ह वै देवानां गुह्यानि नामानि यच् चतुर्होतारः। तान्य् एव तत् प्रकाशं गमयति। तान्य् एनं प्रकाशं गतानि प्रकाशतां गमयन्ति। गच्छति प्रकाशतां य एवं वेद॥3.306॥


तूष्णीं स्तुतं वाचानुशंसति। तस्माद् यन् मनसाधिगच्छति तद् वाचा वदति। तस्माद् ओषधयो मूलतो जायन्ते ऽग्रतः पच्यन्ते। तद् आहुस् समिष्टेषु पत्नीसंयाजेषु स्तोतव्या3म् असमिष्टेषू3 इति। असमिष्टेष्व् इत्य् आहुः। प्रतीचीष्व् एवासु तद् गर्भान् दधति। स्त्री बलं च ह तु भवति पापवस्यसं च। समिष्टेष्व् एव स्तोतव्यं पापवस्यसस्य व्यावृत्त्यै। अथो ह न तथा स्त्री बलं भवति। अथो हासु तत् पराचीष्व् एव गर्भान् दधति। प्रत्यञ्चश् च वै पराञ्चश् च मनुष्यास् संभवन्ति। तस्मात् समिष्टेष्व एव स्तोतव्यम् इति। औदुम्बरीं समारभन्त् - ऊर्ग् वा अन्नम् उदुम्बर - ऊर्जं एवान्नाद्यस्यावरुद्ध्यै। वाचं यच्छन्ति। वाग् वै ब्रह्म। वाचम् एव तद् ब्रह्म यज्ञम् आत्मसु यच्छन्ति। इह धृतिर् इह स्व धृतिर् मैरमो मैरमतिर् इति। यच् चित्तं या धृतिर् यन् मनो या वाक् तान्य् एवैतद् आत्मसु यच्छन्ति। यद् अस्तम् इते विसृजेरन्न् अहर् भ्रातृव्यलोकम् उच्छिंष्युः। यद् अनस्तम् इते विसृजेरन् रात्रिं भ्रातृव्यलोकम् उच्छिंष्युः। अर्धास्तम् इत आहवनीयं परेत्य विसृजन्ते। उभाभ्याम् एव तद् अहोरात्राभ्यां द्विषन्तं भ्रातृव्यम् अन्तर्यन्ति। उभाभ्याम् एवाहोरात्राभ्यां द्विषन्तं भ्रातृव्यम् अन्तरेति य एवं वेद। तद् उ वा आहुर् अस्तम् इत एव विसृज्यम्। अहोरात्रे वै परिवर्तमाने संवत्सरम् आप्नुतः। संवत्सरो यज्ञः। यज्ञम् एवैतद् आप्त्वा विसृजन्त - उपसृजन् धरुणं मात्रे मातरं धरुणो धयन् रायस् पोषम् इषम् ऊर्जम् अस्मासु दीधरत् स्वाहेति। स यथा न्योकसं गां संयुज्य प्रार्जयेद् एवम् एवैतद् वाचं च यजमानं च संयुज्य प्रार्जयन्ति। यथा हैनया वदति, तथैभ्यो ऽनपक्रमणी भवति। ते यं कामं कामयेरंस् तं ध्यायेयुः। स हैवैभ्यः कामस् समृध्यते। सुब्रह्मण्यया वाचं विसृजन्ते। ब्रह्म वै सुब्रह्मण्या। ब्रह्म वाक्। ब्रह्मणैव तद् वाचं विसृजन्ते॥3.307॥


अग्निर् एव प्रथमम् अहर्, इन्द्रो द्वितीयं, प्रजापतिस् तृतीयं, बृहस्पतिश् चतुर्थं, मरुतः पञ्चमं, विश्वे देवाष् षष्ठं, वसवस् सप्तमं, रुद्रा अष्टमम्, आदित्या नवमं, प्रजापतिर् एव दशमम् अहः। इयम् एव दिक् प्रायणम्, इयम् उदयनम्। तस्माद् असाव् आदित्य इतो ऽस्तम् एतीत उदेति। एतद् एव प्रायणं चोदयनं चानुसंचरति। आशुस् त्रिवृद्, भान्तः पञ्चदशो, व्योम सप्तदशो, धरुण एकविंश, ओजस् त्रिणवः, प्रतिष्ठा त्रयस्त्रिंशो, ब्रह्म चतुर्विंशः, क्षत्रं चतुश्चत्वारिंशो, विवर्तो विशां स्तोमो ऽष्टाचत्वारिंशः, प्रजापतिर् एव दशमम् अहः॥3.308॥


तद् यद् आशुस् त्रिवृद् इति, यथा क्षिप्रः पक्ष्य् एवम् एष यत् त्रिवृत् स्तोमः। अथ यद् भान्तः पञ्चदश इति क्षत्रं हि तत्। क्षत्रम् उ वै भाति। अथ यद् व्योम सप्तदश इति, प्रजापतिर् हि सः। प्रजापतिर् वै व्योम। अथ यद् धरुण एकविंश इत्य् असौ हि स आदित्यः। एतस्मिन् वा इदं सर्वं धृतम्। अथ यद् ओजस् त्रिणव इति, मरुतो हि सः। ओजो वै वीर्यं मरुतः। ओजो वीर्यं त्रिणवः। अथ यत् प्रतिष्ठा त्रयस्त्रिंश इत्य्, अन्तो हि सः। अथ यद् ब्रह्म चतुर्विंश इति। गायत्री हि सा। ब्रह्म वै गायत्री। अथ यत् क्षत्रं चतुश्चत्वारिंश इति त्रिष्टुब् भि सः। क्षत्रम् उ वै त्रिष्टुप्। अथ यद् विवर्तो विशां स्तोमो ऽष्टाचत्वारिंश इति, जगती हि सा। विड् वै जगती। विश उ वा इदं सर्वं विवर्तम्। अथ यत् प्रजापतिर् एव दशमम् अहर् इत्य् अनुष्टुब् भि सा। प्रजापतिर् वा अनुष्टुप्। इदम् एव प्रायणम्, इदम् उदयनम्। तस्माद् इत एव प्रयन्त्य् अत उद्यन्ति। अग्निर् एव प्रायणम्, आदित्य उदयनम्। अनुष्ठ्यैतं लोकं प्रजानन्न् एति य एवं वेद॥3.309॥


गायत्रमुखो वै प्रथमस् त्र्यहः। तस्माद् अयम् अग्निर् अस्मिन् लोक ऊर्ध्वो दीदाय। गायत्रमध्यो द्वितीयस् त्र्यहः। तस्माद् अयं वायुर् अस्मिन्न् अन्तरिक्षे तिर्यङ् पवते। गायत्रोत्तमस् तृतीयस् त्र्यहः। तस्माद् असाव् अर्वाङ् आदित्यो दिवस् तपति। एता वै देवेषवः प्रणिहिता अनिशिता अनिलयन्तीर् एषु लोकेषु सर्वं पाप्मानम् अपसेधन्तीस् तिष्ठन्त्य् - अग्निः पृथिव्यां, वायुर् अन्तरिक्ष, आदित्यो दिवि। एता अस्य सर्वं पाप्मानम् अपघ्नत्यो यन्ति य एवं वेद। एताभिर् वै विजितिभिर् विविक्तिभिर् विजिता विविक्ता इमे लोका यथायथम्। यस्माद् एते समाने यज्ञक्रतौ सन्तो ऽथ नाना भवन्ति तस्माद् ध वै देवाः पितरो मनुष्यास् समाने लोके सन्तो ऽनुसंददर्शिरे। एताभिर् ह विजितिभिर् विविक्तिभिर् विजिता विविक्ता यथायथम्॥3.310॥