प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तासु सुज्ञानं । देवान् वा असुरा व्यवह्वारम् अजिघांसन् यद् रूपं देवानाम् आसीत् तेन रूपेणानुप्रविश्य - तेषां ह देवानां ये ऽरण्ये स्वाध्यायं चेरुर्, ये ग्राम आसुस्, तेषां तान् रूपेण जिघांसांचक्रुः। अथ ये ग्राम आसुर्, ये ऽरण्ये स्वाध्यायं चेरुर्, तेषाम् उ तान् रूपेण जिघांसांचक्रुः। तान् हैव व्यवंह्वारं जिघांसां चक्रुः। तद् देवाः प्रत्यबुध्यन्त। ते ऽब्रुवन् - संवाचनं करवामहा इति। ते संवाचनम् अकुर्वत - यं पृच्छाम चरन्तं कम् अच्छ चरसीति, इन्द्रम् अच्छ चरामीत्य एव स ब्रूताद् इति। ते ह स्म यं पृच्छन्ति चरन्तं - कम् अच्छ चरसीति, इन्द्रम् अच्छ चरामीति ह स्मैवाह। सुज्ञानो ऽसीति ह स्माहुः। तद् एव सुज्ञानस्य सुज्ञानत्वम्। तत् संज्ञानं वा एतत् साम। संज्ञानम् एवास्मै तेन भवति, येन कामयते ऽनेन संजानीयेति, य एवं वेद। तेषाम् उ यो य एव पृष्टो न प्रत्यमनुत, तस्यैतद् एव प्राघ्नन्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद।
देवा वै स्वर्गं लोकं यन्तो ज्ञानाद् अबिभयुः। ते ऽकामयन्त ज्ञानम् आविर्भावं गच्छेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ज्ञानम् आविर्भावम् अगच्छन्। ज्ञानम् आविर्भावं गच्छति य एवं वेद।
अयं पूषा रयिर् भगस् सोमः पुनानो अर्षति।
पतिर् विश्वस्य भूमनो व्य् अख्यद् रोदसी उभे॥
इत्य् उभयोर् एवाह्नोस् समारम्भाय। यथा ह वा इदं श्रमणं व्यवलम्बमानं नयेद् एवं ह वा एतद् अहर् एते अहनी नयतो बार्हतं राथन्तरे। तासु गौरिवीतम् उक्तब्राह्मणम् ॥3.31॥

अथ क्रौञ्चम् । क्रुंङ् आंगिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यद् द्वितीयम्। तस्माद् द्वितीये ऽहन् क्रियते। एकं वावाहर् आसीत्। स क्रुंङ् आङ्गिरसो ऽकामयताह्न एवाहर् निर्मिमीयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽह्न एवाहर् निरमिमत। तद् यद् एतत् साम भवत्य्, अह्न एवैतेनाहर् निर्मिमत। एतद् ध स्म वै तत् क्रुंङ् आगिरसो ऽह्न एवाहर् विपिपीते। यद् ध वा इदम् आहुः - क्रुंङ् क्षीरं विपिपीत इति, न ह वै तत् क्रुङ् विपिपीते। क्रुङ् ह स्म वै तद् आंगिरसो ऽह्न एवाहर् विपिपीते। क्रुंङ् आङ्गिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वर्गं लोकम् आश्नुत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपसमृद्धम्। यद् उ क्रुंङ् आंगिरसो ऽपश्यत् तस्मात् क्रौञ्चम् इत्य् आख्यायते। वृषा मतीनां पवते विचक्षण इति वृषण्वतीर् भवन्ति। बार्हतं वा एतद् अहस् त्रैष्टुभं क्षत्रस्य रूपम्॥3.32॥

तासु यामम् । यमम् इव वा एतद् अहर् यद् द्वितीयम्। यथा वै यमौ जायेयाताम् एवम् एतद् अहः। यमैर् वै यमोत्गमोरवं लोकान् निरुंह्य लोकम् अस्याभ्यारोहत्। लोकाद् एव द्विषन्तं भ्रातृव्यं रुंह्य लोकम् अस्याभ्यारोहति य एवं वेद। मन्त्रेणर्षयो निदानवन्तो यामेन यमः। निदानवन्तो ऽसामेति सत्रम् आसते। निदानवन्त एव भवन्ति। तद् गृहा वै निदानं, प्रजा निदानं, पशवो निदानं, स्वर्गो लोको निदानम्। निदानवान् भवति य एवं वेद। यमं वैवस्वतं देवा अमुष्मै लोकायासुवत। सो ऽकामयत निदानवान् अस्मिन् लोके स्याम् इति। स एतानि यामानि सामान्य् अपश्यत्। तैर् अस्तुत। तैर् अस्मिन् लोके निदानवान् अभवत्। एतन्निदानो ह वाव सो ऽस्मिन् लोक एतत्प्रजा एतैर् एव सामभिर् य एवैतानि सामानि वेद। तेनास्मिन् लोके निदानवान् यमस्य पुत्रतां गच्छति य एवं वेद। तद् आहुः पितृदेवत्यानि सामानि। ईश्वरः पुरायुषो ऽमुं लोकम् एतोर् इत्य् आयुर् इति वा स्तोभत्य् अथो वायुर् इति। तथा ह पुरायुषो ऽमुं लोकं नैति। यद् उ यमो ऽपश्यत् तस्माद् यामम् इत्य् आख्यायते। अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्।
एह्य् ऊ षु ब्रवाणि ते अग्न इत्थतरा गिरः।
एभिर् वर्धास इन्दुभिः॥
इति वृद्धं ह्य् एतद् अहर् यद् बार्हतम्॥3.33॥

तासु साकमश्वं स्वर्ग्यं साम स्वर्गस्य लोकस्य समष्टयै। एवा ह्य् असि वीरयुर् इत्य् एवेति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। तास्व् आमहीयवं प्राजापत्यं साम। क्षत्रं वै प्रजापतिः। प्राजापत्यम् एतद् अहः। तद् गायत्रीषु भवति। ब्रह्म वै गायत्री। क्षत्रम् एतद् अहः। तद् यद् गायत्रीष्व् आमहीयवं भवति, ब्रह्मैव तद् यशसार्पयन्ति। ब्रह्मणो ऽस्य सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद। एतस्माद् ध वा इदं ब्राह्मणानां राज्ञाम् इव प्रकाशो यद् गायत्रीषूक्थं ब्रह्मसाम भवति। तत् समानं वदन्तीषु भवति। यद् ध वै बहवस् समानम् आचक्षते तत् सत्यम्। तद् यद्
एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः।
एवा ते राध्यं मनः॥
इति भवति सत्यस्यैवर्द्ध्यै। इन्द्रं विश्वा अवीवृधन्न इति वृद्धं ह्य् एतद् अहर् यद् बार्हतम्। तास्व् आष्टादंष्ट्रम् उक्तब्राह्मणम्। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति। अभीळायै स्वरेण तृतीयम् अह स्वरति॥3.34॥

दविद्युतत्या रुचेति प्रतिपदो भवन्ति। दविद्युतत्या रुचेति वै गायत्र्यै रूपम्। परिष्टोभन्त्या कृपेति त्रिष्टुभः। सोमाश् शुक्रा गवाशिर इति जगत्यै। छन्दसां वा एषां रूपं छन्दोभिस् तृतीयसवनं क्रियते। तृतीयसवनम् इव वै तृतीयम् अहः। ता एता भवन्ति गायत्र्यो जगद्वर्णा अह्नोरूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। एते असृग्रम् इन्दव इत्य् अनुरूपो भवति। भूतानुवादिनीर् एत एत इति वै पूर्वाण्य् अतो ऽनुदिशन्ति। बृहद्रथन्तरयोर् एवैतद् यातेन यान्ति त्रिवृत् - पञ्चदशयो स्तोमयोः। तद् आहुस् साम्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेणाह्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति॥3.35॥

ता गोमतीर् इळावतीर् अश्ववतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः। विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। अन्तरिक्षवतीर् भवन्ति। अन्तरिक्षं ह्य् एतद् अहः। आशीर्वतीर् भवन्ति। आशीर्वद् ध्य् एतद् अहः। अथो आशिरं वै तृतीयसवने ऽवनयन्ति। तृतीयसवनभाजनम् एतद् अहः। पञ्चर्चं भवति - पञ्च वै दिशो - दिशाम् एव धृत्यै। अथो पांक्तो वै यज्ञो यज्ञस्यैवारम्भाय। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। सप्तदशस्तोमो भवति। प्रजापतिर् वै सप्तदशः। प्रजापताव् एवैतत् प्रतितिष्ठन्तो यन्ति॥3.36॥

अग्निनाग्निस् सम् इध्यत इत्य् आग्नेयम् आज्यं भवति राथन्तरम्। राथन्तरं ह्य् एतद् अहः। यद् ध वा अग्निआग्निस् समिद्ध्यते वैरूपं ह वै तद् रथन्तरेण समिध्यते, रथन्तरं वा वैरूपेण। तद् उ होवाच सौजातस्याराटेर् जाया - यन् नु मे द्वे एव पृष्ठे पतिर् अमन्यताथ को ऽयं गर्दभ औदुम्बरिम् अभिनानद्यत इति। तद् आहू राथन्तरम् एतद् अहः। तस्माद् एतस्याह्नो वैरूपम् एव पृष्ठं कार्यम् इति। तद् उ वा आहुः को वा न्वै स्यात् पुरुषः को वा यद् अस्यात्मेव स्यान् न पशवः। आत्मा वै बृहद्रथन्तरे। पशवः पृष्ठानि। तस्माद् एतस्याह्नो वैरूपम् एव पृष्ठं कार्यम् इति। तद् यद् एतस्याह्नो वैरूपं पृष्ठं भवत्य् आत्मन्न् एवैतत् पशून् प्रतिष्ठापयन्ति॥3.37॥

मित्रं हुवे पूतदक्षम् इति मैत्रावरुणं भवति। हु इति वै रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। वरुणं च रिशादसं धियं घृताचीं साधन्तेति सिद्धया एव।
ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा।
क्रतुं बृहन्तम् आशाथे॥
कवी नो मित्रावरुणा
इति वीति भवत्य् अन्तरिक्षस्य रूपम्। अन्तरिक्षभाजनम् एतद् अहः। इन्द्रेण सं हि दृक्षस इत्य् ऐन्द्रं भवति। सम् इति च वै वीति वान्तरिक्षस्य रूपम्। इतो वा अयं ऊर्ध्वो लोको ऽर्वाङ् असाव् अमुतः। सम् इति च वा इदम् अन्तरिक्षं वीति च। संजग्मानो अबिभ्युषा मन्दू समानवर्चसेति। समानं वै तृतीयं च चतुर्थं चाहनी। तृतीयाद् वा अह्नश् चतुर्थम् अहः प्रजातम्। आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिर इति पुनर् एवैतत् तृतीय ऽहनि गर्भत्वम् एरयन्ते चतुर्थस्याह्नः प्रजात्यै।
दधाना नाम यज्ञियम्।
वीळु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः।
अविन्द उस्रिया अनु॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः॥3.38॥

ता हुवे ययोर् इदम् इत्य् ऐन्द्राग्नं भवति। वाचम् एवैतद् यज्ञम् ऊहिषीमन्त त उपह्वयन्ते पप्ने विश्वं पुरा कृतम् इति। पुरेव ह्य् एतद् एतर्हि कृतं भवति।
इन्द्राग्नी न मर्धतः।
उग्रा विघनिना मृध
इति। वीति भवत्य् अन्तरिक्षस्य रूपम् अन्तरिक्षभाजनम् एतद् अहः।
हथो वृत्राण्य् आर्या हथो दासानि सत्पती।
हथो विश्वा अप द्विषः॥
इति वार्त्रघ्नं भवत्य् अन्ततो विजित्यै। एतेन वै त्र्यहेण देवा अग्रे व्यजयन्त। तद् यद् एतद् वार्त्रघ्नम् अन्तत आज्यं क्रियते, विजित्या एव भ्रातृव्यस्यैव वधाय। विजयते, हन्ति द्विषन्तं भ्रातृव्यं, य एवं वेद। सप्तदश स्तोमो भवति। प्रजापतिर् वै सप्तदशः। प्रजापताव् एवैतत् प्रतितिष्ठन्तो यन्ति॥3.39॥

उच्चा ते जातम् अन्धसेति। माध्यन्दिनस्य पवमानस्यान्धस्वतीर् गायत्र्यो भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्धयै। दिवि सद् भूम्य् आ दद इति द्यावापृथिवीया भवन्ति। अ - प्रतिष्ठितम् इव वा एतद् अहर् यद् वैरूपम्। तद् यद् एता द्यावापृथिवीया भवन्त्य् अहर् एवैताभिः प्रतिष्ठापयन्ति। स न इन्द्राय यज्यवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। एना विश्वान्य् अर्य आ इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। अथ वैष्टम्भम्। ऊर्ध्वा वै देवा स्वर्गं लोकम् उदक्रामन्। ते दिशो नापश्यन्। ते ऽकामयन्त दिशः पश्येमेति। त एते सामनी अपश्यन्। ताभ्याम् अस्तुवत। ततो दिशो ऽपश्यन्। तास्व् आक्रमन्त। तास् सम् इवाप्लीयन्त। ता एताभ्यां निधनाभ्यां यथा चर्म कुशीभ्याम् अन्वस्येद् एवम् एवाभ्याम् अन्वास्यन्। ता अध्रियन्त। तद् यद् एते सामनी भवतो दिशाम् एव धृत्यै स्वर्गस्य च लोकस्योज्जित्यै। दिशो वा एतद् अहर्, दिश एते सामनी। तद् यद् एते सामनी एतस्मिन्न् अहनि क्रियेते, दिश एवैतत् प्रत्यक्षम् आरभन्ते। अभि सोमास आयव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः॥3.40॥