प्रमुखा विकल्पसूचिः उद्घाट्यताम्

प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां प्रजायेय भूमानं गच्छेयम् इति। सो ऽष्टादशैवाक्षराणि प्रजायत। तानि द्वेधा व्यौहन् नवान्यानि नवान्यानि। स एव त्रिवृच् च स्तोमो ऽभवत् गायत्री च छन्दः। सो ऽयं संपूर्णस् त्रिवृत् स्तोम आसीद्, अथ गायत्री प्रणवनवमासीत्। प्रणवस् तस्यै नवम् आसीत्। ताम् अयं त्रिवृत् स्तोमो ऽब्रवीद् गायत्रीम् एहि संभवावेति। तौ समौ सन्तौ नाशक्नुतां संभवितुम्। ताम् अब्रवीन् न वैतर्हि शक्ष्यावस् समौ सन्तौ संभवितुम् । यत् त एतन् नवमम् अक्षरं तद् उदूहस्वेति। तत् किं भविष्यति। यद् एवास्ति तद् भविष्यतीति। तथेति। तद् उदौहत। स एव प्रणवो ऽभवत्॥3.321॥


स प्रतिगरस् स उद्गीथस् तद् आश्रावणम्। तस्माद् ओम् इति प्रणौत्य् ओम् इति प्रत्यागृणात्य् ओम् इत्य् उद्गायत्य् ओम् इत्य् आश्रावयति। एतद् वा अस्ति यद् अभवत्। ताम् अब्रवीद् एतर्हि वै तस्मा अलं स्वो यत् प्रजनयेवेहि प्रजनयावेति। ताम् अब्रवीत् संभव छन्दांसि त्वं प्रजनयतात् स्तोमान् अहं प्रजनयिष्यामीति। सो ऽयं त्रिवृत् स्तोमश् चतुर्विंशतिं स्तोत्र्याः प्राजनयत्। अथ गायत्री चतुर्विंशतिम् अक्षराणि प्रजायत। ताम् अब्रवीद् विभव यावत्य् असि तावत्य् एधीति। साष्टाक्षरा सत्य् अक्षराणि त्र्यक्षराण्य् अकुरुत। तानि चतुर्विंशतिर् अभवन्। चतुर्विंशतिः पूर्वाणि। तद् अस्या अष्टाचत्वारिंशत् प्रजातम् आसीत्। सेयं गायत्री चत्वार्य् अक्षराण्य् आदत्त। सोष्णिग् अभवत्। षड् इतर आदत्त - ॥3.322॥


- स पञ्चदश स्तोमो ऽभवत्। चत्वारीयम् आदत्त। सानुष्टुब् अभवत्। षड् इतर आदत्त। स एकविंश स्तोमो ऽभवत्। चत्वारीयम् आदत्त। सा बृहत्य् अभवत्। षड् इतर आदत्त। स त्रिणव स्तोमो ऽभवत्। चत्वारीयम् आदत्त। सा पंक्तिर् अभवत्। षड् इतर आदत्त। स त्रयस्त्रिंश स्तोमो ऽभवत्। तद् एषो ऽन्तम् अगच्छत्। चत्वारीयम् आदत्त। सा त्रिष्टुब् अभवत्। अपराणि चत्वार्य् आदत्त। सा जगत्य् अभवत्। ताव् अन्तम् अगच्छताम्। ताम् अब्रवीन् न वा अतः पराञ्चौ प्रजनयिष्याव, एहि, यावदक्षरैवाग्रे ऽभूस् तावदक्षरा भूत्वेति। साष्टाक्षरैव भूत्वै(त्)। तस्माद् एतत् पतिर् यथाकामं जायां नेनीयते॥3.323॥


तौ पञ्चदशं चैकविंशं च व्यूह्य मध्ये समभवताम्। स एवैष प्रजापतिस् सप्तदशो ऽन्नाद स्तोमो ऽभवत्। तस्मै त्रिवृत्पञ्चदशाव् इत स्तोमौ बलिं कुरुत, एकविंशस् त्रिणवस् त्रयस्त्रिंशः परस्तात्। ताम् अब्रवीत् संभवं छन्दांसि त्वं प्रजनयतात्, स्तोमान् अहं प्रजनयिष्यामीति। सो ऽयं त्रिवृत् स्तोमश् चतुष्टोमं चतुर्दशं षोडशम् अष्टादशं नवदशं पञ्चविंशं षट्त्रिंशम् इत्य् एतान् मृगस्तोमान् प्राजनयत्। अथ गायत्री एकपदां द्विपदाम् अक्षरपंक्तिं विष्टारपंक्तिं विराजम् अतिच्छन्दसम् अमितं छन्द इत्य् एतानि मृगच्छन्दसानि प्राजायत। सैषा स्तोमानां च छन्दसां च प्रजापतिः। तद् ध शौनकं कापेयं चैकितानेयः पप्रच्छ - यत् षडुत्तरेण वै स्तोमाः प्रजनयन्ति, चतुरुत्तरेण छन्दांस्य्, अथ को ऽयम् अषडुत्तरी स्तोमस् सप्तदश आक्षिस् सन् मध्ये व्यवहित इति। स होवाच - स्तोमाश् च छन्दांसि च यन् न प्रजायन्त स एवैष प्रजापतिस् सप्तदशो मध्ये व्यवक्रम्य प्रजनयन्न् अतिष्ठत्। स यो वा एतम् आक्षितं वेदाक्षिद् वै स सर्वत्रैव भवति। अनाक्षिद् वा एष यत् प्रजापतिः। सर्वं हीदं प्राजापत्यम् इति। ते हैत आक्षित इव चैकितानेयाः। तानीमानि छन्दांसि स्तोमैर् अकल्पन्त॥3.324॥


त्रिवृता गायत्र्य् अकल्पत, पञ्चदशेन त्रिष्टुप, सप्तदशेन जगत्य्, एकविंशेनानुष्टुप्, त्रिणवेन पंक्तिस्, त्रयस्त्रिंशेन विराट्, पञ्चविंशेन बृहत्य्, अष्टादशनवदशाभ्याम् उष्णिक्ककुभौ। ता या नव गायत्र्यश् चतुर्विंशतिस् ते त्रिवृतः। अथ या पञ्चदश त्रिष्टुभश् चतुश्चत्वारिंशत् ते पञ्चदशाः। अथ यास् सप्तदश जगत्यो ऽष्टाचत्वारिंशत् ते सप्तदशाः। अथ या एकविंशतिर् अनुष्टुभो द्वात्रिंशत् त एकविंशाः। अथ यास् सप्तविंशतिः पंक्त्यश् चत्वारिंशत् ते त्रिणवाः। अथ यास् त्रयस्त्रिंशद् विराजस् त्रिंशत् ते त्रयस्त्रिंशाः। अथ याः पञ्चविंशतिर् बृहत्यष् षट्त्रिंशत् ते पञ्चविंशाः। अथ या अष्टादशनवदशोष्णिक्ककुभो ऽष्टाविंशतिस् ते ऽष्टादशनवदशाः॥3.325॥


एकं वावेदम् अग्रे ऽक्षरम् आसीद् वाग् एव। साकामयत - बह्वय् असानि, प्रजायेय, भूमानं गच्छानि, यज्ञं तनवा इति। सा स्वाहा स्वाहा स्वाहेत्य् एव द्वादशकृत्वो ऽजुहोत्। सा त्रिंशतम् एवासिनोत्। त्रिंशदक्षरो एवात्मनाभवत्। तस्यै पश्चेवाक्षरे उपोदसर्पताम्। सैवैषानुष्टुब् अभवत्। तस्माद् एतद् योषितः पश्चेव स्तनाव् उपोत्सर्पतः। सैषा विराड् एव स्तनिनी। सा यत् तद् द्वादशकृत्वो ऽजुहोद् एतान् एव तद् द्वादश मासो ऽसृजत। तान्य् एवैतानि द्वादशाहस्य द्वादशाहान्य् अभवंस्, त एव चतुर्विंशतिर् अर्धमासा अभवंस् तान्य् एव सप्त च शतानि विंशतिं चाहोरात्राण्य् अभवन्। सैतं संवत्सरं यज्ञम् असृजत। एष ह वाव यज्ञो यस् संवत्सरः। सा नावेद् - यज्ञं वा असृक्षीति। किम् उ चिद् असृक्षीत्व् एवामन्यत। तां मोदः प्रत्यागच्छत्। ततो ऽवेद् - यज्ञं वा असृक्षीति। सैक्षत - यम् इमं यज्ञम् असृक्षि हन्तैनम् आत्मन एवाधि तनवा इति॥3.326॥


साष्टाभिर् एवाक्षरैः प्रथमम् अहर् अतनुत, एकादशभिर् द्वितीयं, द्वादशभिस् तृतीयम्। अक्षरम् एव त्र्यक्षरं पर्यशिष्यत। तद् एवोत्तरं त्र्यहम् अनुव्यदधात्। सैतं पृष्ठ्यं षडहम् अतनुत। सैतं पृष्ठ्यं षडहं तत्वैक्षत केन न्व् इमं तृतीयं त्र्यहं तन्वियेति। स्वात्मानम् एवापश्यत्, यो न्वाव मे ऽसाव् आत्मा सो ऽयम्। हन्तैनम् आत्मन् एवाधि तनवा इति। साष्टाभिर् एवाक्षरैस् सप्तमम् अहर् अतनुतैकादशभिर् अष्टमं, द्वादशभिर् नवमम्। अथ यद् अक्षरं पर्यशिष्यत तद् एवैतद् द्वादशाहस्य दशमम् अहर् अभवत्। सैषा श्रान्ता विकृष्टाशये वाग् यज्ञम् ऊहिषी कालिलिमत्ता यथा सिंही वा विजाता स्याद् व्याघ्री वा शिंशुमारी वैवम्। तां यद् एतर्हि प्रत्यक्षम् आलभेरन् व्याप्तम् अस्या आपद्येरन्। यद्य् उ वा सा इयुर् एतस्मात् सर्वस्माद् इयुः। ताम् एतां परोक्षम् अनुष्टुभं कुर्वन्ति॥3.327॥


न होता चनानुष्टुभश् शंसति, विराज एव स शंसति। ते देवा अब्रुवन्न् इयम् इयं यज्ञम् असृष्टैतानन यजामहा इति। ते बृहद्रथन्तराभ्याम् अस्तुवत। ते बृहद्रथन्तरे एते एव प्रथमे अहनी ऊढ्वा नाकामयेतां वोढुम्। ते बृहतीम् अब्रुवन्न् इदं नस् त्वं तृतीयम् अहर् वह। अभिजितं वै नस् सत् तद् अव्याप्तम् इति। सद् ध वै बृहती भवति यत् सा पृष्ठं भवति। सैतद् बृहती तृतीयम् अहर् ऊढ्वा नाकामयत वोढुम्। त इमम् एव लोकं रथन्तरेणाजयन्न् अन्तरिक्षं बृहत्यामुं बृहता। त एतेन त्र्यहेण व्यजयन्त। तद् यथा विजितेन यन्ति सैन्धवान् अजन्ति हस्तिनं वहन्ति धूर्गृहीतं रथं याति हुलुभ्यां याति विच्छिद्वहाभ्याम् एवं गर्दभरथेन । एवम् एतं द्वितीयं त्र्यहं देवा अत्यायन्॥3.328॥


ते बृहद्रथन्तरे एतानि रूपाणि प्रत्यौहतां वैरूपं वैराजं महानाम्नी रेवतीर् इति। अथ बृहती प्रत्यौहद् विराजं शक्वरीं रेवतीम् इति। तानीमान्य् अत्यायन्। तानि देवा अन्वपश्यन् यथा मत्स्यम् ऊर्म्या यन्तम् अनुपश्येद् एवम्। तानि सप्तमे ऽहन् समुदमज्जन् यथा मत्स्यास् समुन्मज्जयुर् एवम्। तान्य् एतानि छन्दोमेषु सर्वाणि रूपाणि संसृज्यन्ते। एतद् बृहत्यां बृहद् भवति, बृहत्यां रथन्तरम्। स यथोग्रगाधे संरभ्यातीयाद् एवम् एवैतं तृतीयं त्रियहं देवा अत्यायन्। त एतं स्वर्गं लोकम् आगच्छन्न् एतद् दशमम् अहः। एष वाव स्वर्गो लोको यद् दशमम् अहः। तच् चतुर्विंशं भवति। ततो या विंशतिर् विराट् सा। अथ याश् चतस्रस् तद् एव ब्रध्नस्य विष्टपम्। तस्मिन्न् एतद् देवास् सर्वान् कामान् दुह्रे। उपसृजन् धरुणं मात्रे मातरं धरुणो धयन् रायस् पोषम् इषम् ऊर्जम् अस्मासु दीधरत् स्वाहेति जुहोति। स यं कामं कामयेत तं ध्यायेत्। एतस्यां हुतायां स हैवास्मै कामस् समृध्यत एवंविदे। किम् उ नैवंविदे समृध्येतेति ह स्माह शाट्यायनिः॥3.329॥


एति प्रेत्य् आशुमद् वीतीमद् रुक्मवत् तेजस्वद् युञ्जानं प्रथमस्याह्नो रूपं, त्रिवृत स्तोमस्य, गायत्र्यै छन्दसो, रथन्तरस्य साम्नः। वृषवद् वृत्रहवद् रयिमद् विश्ववद् उपस्थितं द्वितीयस्याह्नो रूपं, पञ्चदशस्य स्तोमस्य, त्रिष्टुभश् छन्दसो, बृहतस् साम्नः। उद्वत् त्रिवद् दिग्वद् गतवत् पुराणवत् तृतीयस्याह्नो रूपं, सप्तदशस्य स्तोमस्य, जगत्यै छन्दसो, वैरूपस्य साम्नः। राजन्वज् जनद्वद् विराट्सूर्यवच् चतुर्थस्याह्नो रूपम्, एकविंशस्य स्तोमस्य, अनुष्टुभश् छन्दसो, वैराजस्य साम्नः। चित्रवच् छिशुमत् पंक्त्यश् शक्वर्यो व्यूनाक्षरा गोमद् वृषभवद् वज्र्यभिमत् पञ्चमस्याह्नो रूपं, त्रिणवस्य स्तोमस्य, पंक्तेश् छन्दसश्, शाक्वरस्य साम्नः। परिवत् प्रतिवत् सप्तपदा द्विपदा विनाराशंसं गोमद् वृषभवद् वज्र्यभिमत् षष्ठस्याह्नो रूपं, त्रयस्त्रिंशस्य स्तोमस्यातिच्छन्दसश् छन्दसो, रैवतस्य साम्नः॥3.330॥