प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तद् आहुर् अन्नाद्यं वा एतस्माद् धरन्ति यस्माद् अग्निं हरन्तीति। तम् अनुमन्त्रयेत -
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषायुषा।
पुनर् नः पाह्य् अंहसः॥
सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया।
विश्वप्स्न्या विश्वतस् परि॥
इति पुनर् एवान्नाद्यम् आत्मन् धत्ते। येन प्रस्तौति तेन निधनम् उपयन्ति। तस्माद् असाव् आदित्य आ च परा च संचरति। यत एवाद्योदगात् तत श्व उदेता। अथ वामदेव्यम्। पशवो वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। विश्वाः पृतना अभिभूतरं नरस् सजूस् ततक्षुर् इन्द्रं जजनुश् च राजस इति जनद्वतीर् भवन्ति। जनद्वद् एतस्य वैराजस्याह्नो रूपम्॥3.71॥

तासु त्रैशोकम्। व्यवप्लीनातीव वै वैराजं यज्ञम्। तं त्रैशोकेनोत्तभ्नुवन्ति वर्षीयसेव छन्दसा। इमे वै लोकास् सह सन्तस् त्रेधाप्यायन्। ते ऽशोचन् यथैकस् त्रेधा विच्छन्नश् शोचेद् एवम्। ते देवा अब्रुवन्न् एतेषां त्रयाणां लोकानां तिस्रश् शुचो ऽपहनामेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनैषां त्रयाणां लोकानां तिस्रश् शुचो ऽपाघ्नन्। तद् यद् एषां त्रयाणां लोकानां तिस्रश् शुचो ऽपाघ्नंस् तत् त्रैशोकस्य त्रैशोकत्वम्। अप शुचं हते य एवं वेद। ताः क्लीबे कितवे पुंश्चल्यां न्यवेशयन्। तस्माद् एते शुचा विद्धाश् शोचन्ति। न हास्यैत आजायन्ते य एवं वेद। तस्माद् उ हैतेषां नो ऽप ब्रूवीत नेच् छुचो ऽपभजा इति। कण्वो वै नार्षदो ऽखगस्यासुरस्य दुहितरम् अविन्दत। तस्यां हास्य त्रिशोकनभाकौ पुत्रौ जज्ञाते। सा ह क्रुद्धा ज्ञातीन् आययौ। तां हान्वाजगाम। तं हासुरा अवलेपेनावलिम्पन्त ऊचुर् - अत्र व्युष्टां विजानीहि यदि ब्राह्मणो ऽसीति। तद् उ हाश्विनाव् अनुबुबुधाते। आश्विना उ ह वै देवानां बद्धमुचौ। तौ हैनम् अदृश्यमानाव् एत्योचतुर् - यदैव त्वावं वीणां समाघ्नन्ता उपर्य् उपर्य् अतिपतावो ऽथ व्युष्टां विजानीताद् इति। ते ह स्मेमे रात्रिम् उत्पतन्त्य् - उत्तिष्ठत, व्यापद् द्युर्, युङ्गध्वं सीराणीति। न वाव नु व्युच्छतीति ह स्माह। अथ हेमौ वीणां समाघ्नन्ता उपरय् उपर्य् अतिपेततुः। स होवाचापहरतेदम् एतर्हि व्यापद् द्युर्, युङ्गध्वं सीराणीति॥3.72॥

ते होचुर् ब्राह्मणो वा अयम् ऋषिर् आसीत्। दुरपहरा वा अस्य जाया। हन्तास्मा इमां ददामेति। तां हास्मै ददुः। सा होवाच पुनर् वाव त्वा परोक्षेणेव जिघांसन्ति। अश्रौषं वा एषां संवदमानानाम्। आसन्दीं वै ते हिरण्मयीं प्रच्छाये निधास्यन्ति। तस्यां मोपवेशीर् इति। ते ह प्रययुः। तस्मै ह हिरण्मयीम् आसन्दीं प्रच्छायै निदधुः। तस्यां ह प्रमत्त उपविवेश। सा हैनं तद् एव शिला भूत्वाभि संविवेष्टे। तद् उ ह त्रिशोकनभाकौ पुत्राव् अनुबुबुधाते - ऽसुरा ह वै नौ पितरं शिलयाभिसमविवेष्टन्न् इति। ताव् आगच्छताम्। सो ऽकामयत नभाकः - प्रैनान् दम्भयेयम् इति। स एतन् नाभाकं सूक्तम् अपश्यत्। तेनैनाम् अभ्यष्टौत्। तस्यां पर्यदृश्यत - ॥3.73॥

यथा मणौ मणिसूत्रं परिदृश्येतैवम्। अथाकामयत त्रिशोको - व्य् एनाम् अस्येयम् इति। स एतत् सामापश्यत्। तेनैनां द्वेधा व्यास्यत्। तस्यै तान्तो निवर्तत। तम् अकामयत जीवेद् इति। तम् ओ यि जीवेत्य् एवाभ्यमृशत्। सो ऽजीवत्। तस्मै तम इवासीत्। सो ऽकामयत दिवेवास्मै स्याद् इति। तम् ओ यि दिवेत्य् एवाभ्यमृशत्। तस्मै दिवेवासात्। तम् अकामयत स्वर्गम् एवैनं लोकं गमयेयम् इति। तम् ओ यि दिवम् इत्य् एव स्वर्गं लोकम् अगमयत्। ययस् तान्त इव स्यात् तस्य ओ यि जीवेति निधनम् उपेयात्। अथ यस्मै तम इव स्यात् तस्य ओ यि दिवेति निधनम् उपेयात्। अथ य स्वर्गकाम स्यात् तस्य ओ यि दिवम् इत्य् एव निधनम् उपेयात्। एतानि वा एतस्य साम्नो निधनानि, एते कामाः। एतान् एव कामान् अवरुन्द्धे। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् उ त्रिशोको ऽपश्यत् तस्मात् त्रैशोकम् इत्य् आख्यायते॥3.74॥

यो राजा चर्षणीनाम् इति राज्यम् इव ह्य् एतर्ह्य् अगच्छन्।
याता रथेभिर् अध्रिगुः।
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे॥
इति ज्यैष्ठयम् इव ह्य् एतर्ह्य् अगच्छन्।
इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि।
हस्तेन वज्रः प्रति धायि दर्शतो महान् देवो न सूर्यः॥
इति सूर्यवतीर् भवन्ति। सौर्यं ह्य् एतद् अहर् एकविंशम्। प्रतिष्ठा वैराजम्। तासु पृश्नि। वाग् वै पृश्नि। वाचम् एतेनाह्ना समिच्छन्ति। ताम् एवैतत् संविदन्ति। तद् व् एवाचक्षते भरद्वाजस्य पृश्नीति। भरद्वाजो वा अकामयत बहुः। प्रजया पशुभिः प्रजायत। सो ऽब्रवीत् पृश्निर् वै बहुः प्रजया पशुभिः प्राजनिषीति। तत् पृश्निनः पृश्नित्वम्। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। अथो ह स्मैतेनैव साम्ना भरद्वाजः पृश्न्य् अन्नाद्यम् अवरुन्द्धे। तद् व् अन्नाद्यस्यावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे, ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ भरद्वाजो ऽपश्यत् तस्माद् भरद्वाजस्य पृश्नीत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.75॥

परि प्रिया दिवः कविर् इत्य् आर्भवस्य पवमानस्य परिवतीर् गायत्र्यो भवन्त्य् अन्तस्य रूपम्। अन्तो वा अनुष्टुप् छन्दसाम्। आनुष्टुभम् एतद् अहः। प्रप्र क्षयाय पन्यस इति प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। स सूनुर् मातरा शुचिर् जातो जाते अरोचयद् इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथौर्णायवम्। ऊर्णायुर् वै गन्धर्वो ऽप्सरसो ऽकामयत। स एतत् सामापश्यत्। तेनास्तुत। तेन यां याम् अकामयत ताम ईयाम् इति यां याम् एवाभ्यमृशत् ताम् उपैत् ताम् अवारुन्द्ध। तद् एतत् कामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। यद् ऊर्णायुर् गन्धर्वो ऽपश्यत् तस्माद् और्णायवम् इत्य् आख्यायते॥3.76॥

अङ्गिरस स्वर्गकामास् सत्रम् आसत। ते स्वर्गं लोकं न प्राजानन्। स श्वित्र आंगिरसस् समिद्धारः परैत्। तम् ऊर्णायुर् गन्धर्व एतेन साम्नोपरिष्टाद् अभ्यवपत्याब्रवीत् - साम वा इदं स्वर्ग्यं, तेन स्तुध्वं, तेन स्तुत्वैव स्वर्गं लोकं प्रज्ञास्यथ। मम त्व् एव साम ब्रूतात्। यस् त्वा पृच्छेत् - कस् त इदम् अवोचद् इत्य्, ऊर्णायुर् मे ऽवोचद् इत्य् एव ब्रूतात्। मैव मद् अन्यस्य वोच इति। स पुनर् एत्याब्रवीत् - साम वा इदं स्वर्ग्यम्। तेन स्तवामहै। तेन स्तुत्वैव स्वर्गं लोकं प्रज्ञास्याम इति। तम् अब्रुवन् - कस् त इदम् अवोचद् इति। अहम् एवादर्शम् इत्य् अब्रवीत्। तेनास्तुवत। तेन स्तुत्वैव स्वर्गं लोकं प्रजानन्। तेषां स्वर्गं लोकं यतां सो ऽहीयत् अनृतं ह्य् अब्रवीत्, स एष श्वित्रो ऽभवत्। एते ह वा अहयो यच् छ्वित्राः। यद् अहीयत तद् अहीनाम् अहित्वम्। अथ हान्ये सर्पा एव। तस्माद् उ ह यस्माद् एवानुब्रवीत, तं ब्रूयाद् - अमुष्माद् अन्वोच इति। अथो ह सत्यम् एव विवदिषेत्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। त्वं ह्य अंग दैव्येति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान जनिमानि द्युमत्तम इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति॥3.77॥

तासु बृहत्कं बृहताम् एकम्। एतेन ह वा एतद् अहर् बार्हतं क्रियते। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् बृहद् एव भूत्वा स्वर्गं लोकम् अवहत्। तेनाब्रुवन् स्वर्गं लोकं गत्वा - बृहद् वाव न इदं कम् अभूद् येन स्वर्गं लोकं व्यापामेति। तद् एव बृहत्कस्य बृहत्कत्वम्। तद् एतत स्वर्ग्यं साम। बृहद् अस्मै कं भवत्य्, अश्नुते स्वर्गं लोकं य एवं वेद।
सोमः पुनान ऊर्मिणा अव्यं वारं वि धावति।
अग्रे वाचः पवमानः कनिक्रदत्॥
इत्य् अग्रम् इव भवति। अग्रं ह्य् एतद् अहर् यद् बार्हतम्। धीभिर् मृजन्ति वाजिनम् इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना।
असर्जि कलशं अभि मीढ्वान् सप्तिर् न वाजयुः।
पुनानो वाचं जनयन्न् असिष्यदत्॥
इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति। सवनात् सवनाद् ध वै षोडशिनं प्रजनयन्ति॥3.78॥

तास्व् आतीषादीयम्। प्रजापतिः प्रजा असृजत। ता अस्य सृष्टा अताम्यन्। सो ऽकामयत न म इमाः प्रजास् ताम्येयुर् इति। स एतत् सामापश्यत्। तेनैना अभ्यमृशत्। तास् समानम्। प्रेव मीयन्ते चतुर्थेनाह्नानुष्टुभं हि गच्छन्ति। अनुष्टुब् वै परा। परावत् सम् एवैतेनानन्ति। तस्माद् उ हैतस्य साम्न आतमितोर् निधनम् उपेयात् सर्वस्यायुषो ऽवरुद्ध्यै। तद् आहुर् अताम्यन्न् एवोपेयात्। यदा वै ताम्यत्य् अथ म्रियते। तस्माद् अताम्यन्न् एवोपेयाद् इति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् साद एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन्न् एति वै साद इति। यद् अब्रुवन्न् एति वै साद इति, तद् एतीषादीयस्येतीषादीयत्वम् । त उ स्वर्गं लोकं गत्वाब्रुवन्न् आत इव बत स्वर्गे लोके सदामेति। तद् व् एवातीषादीयस्यातीषादीयत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। अथैता भवन्ति पुरोजिती वो अन्धस इति विराजो ऽनुष्टुभो वैराजे ऽहन्, विराज एवान्नाद्यस्यावरुद्ध्यै। अथो यथान्यौ नवतरौ चक्राव् उपास्येद्, एवम् एवैताम् अनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति स्वर्गस्य लोकस्य समष्ट्यै॥3.79॥

तासु नानदम्। नानदेन वा इन्द्रो वृत्रं नानद्यमानम् अहन्। यन् नानद्यमानम् अहंस् तन् नानदस्य नानदत्वम्। नानद्यमानम् एवैतेन द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद। तस्य षोडशभिर् अक्षरैः प्रस्तौति। षोडशिनम् एवैतेन प्रत्यक्षम् आरभन्ते। औपोदितिर् ह स्माह गौपालयो - विशालं लिबुजयाभ्यधात्। अनुष्टुभि नानदम् अकृद् गौरिवीतेन षोडशिनम् अतुष्टुवन्, न श्रियावपद्य इति। न ह वै श्रियावपद्यते य एवं वेद। तद् उ श्वस्तनवद् अपि प्रजया उपक्लृप्तम्। अधान्धीगवं वैराजं साम वैराजे ऽहन् क्रियते, वैराज एवान्नाद्यस्यावरुद्ध्यै। तस्यैतां दशाक्षरां विराजं मध्यत उपयन्ति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै।
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः।
जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्र्स्य जनितोत विष्णोः॥
इति जनिता जनितेति भवति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति। यथा बाधस्व बाधस्व जायस्व जायस्वेत्य् एवम् एवैतद् अभिपूर्वं तृतीयसवनात् षोडशिनं प्रजनयन्ति॥3.80॥