जैमिनीयाश्वमेधपर्व।
अध्यायः १
[[लेखकः :|]]
अध्यायः ०२ →

श्रीगणेशाय नमः॥
श्रीसरस्वत्यै नमः ॥
श्रीवेदव्यासाय नमः॥
अथ श्रीमज्जैमिनीयाश्वमेधपर्वप्रारम्भः॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥
जनमेजय उवाच ॥
कथं युधिष्ठिरः प्रीतो मम पूर्वपितामहः॥
हयमेधं क्रतुवरं चक्रे बन्धुभिरन्वितः ॥२॥
जैमिनिरुवाच ॥
शृणु राजन् प्रवक्ष्यामि धर्मराजस्य चेष्टितम् ॥
दिवं पितामहे याते धर्मपुत्रोऽतिदुःखितः॥३॥
यदृच्छया च संप्राप्तं व्यासं पप्रच्छ सादरम् ॥
केनोपायेन मे ब्रह्मन् गोत्रहत्याकृतं भयम् ॥४॥
ध्रुवं विनाशमाप्नोति तन्मे ब्रूहि तपोधन ॥
विना भीष्मेण कर्णेन तथा द्रोणेन वर्जितम् ॥५॥
न मे प्रीतिप्रदं राज्यं यत्प्राप्तं पूर्वजार्जितम् ॥
कर्णस्य मन्दिरं रम्यं ब्रह्मघोषसमन्वितम्॥६॥
मया शून्यं कृतं तच्च सांप्रतं दानवर्जितम् ॥
यत्रार्थिनां गणा नित्यं लब्ध्वा मानं तथा धनम् ॥ ७॥
हर्षादश्रूणि मुञ्चन्ति तत्र मुञ्चन्ति शोकजम् ॥
धिङ्मदीयमिदं राज्यं यत्र भीष्मो न भानुजः ॥ ८॥
ताभ्यां विरहितं तद्वद्देहं चक्षुर्विवर्जितम्॥
बहुधा शासितस्तेन भीष्मेणामितबुद्धिना ॥ ९॥
न जहाति च मां शोको घातयित्वा तथाविधान् ॥
त्यक्त्वा राज्यं गमिष्यामि राज्यं भीमः करोतु वै ॥1.१०॥
यानि तीर्थानि दानानि तथा यज्ञक्रियाः शुभाः ॥
कृत्वा पूतो भविष्यामि न पश्यामि हि सांप्रतम् ॥ ११॥
व्यास उवाच ॥
मा भयं कुरु राजेन्द्र न दोषस्ते भविष्यति ॥
तमुपायं करिष्यामि येन पूतो भविष्यसि ॥१२॥
यथा गोत्रकृतां हिंसामपहास्यसि पाण्डव ॥
अश्वमेधं क्रतुवरं यजस्व कुरुनन्दन ॥ १३ ॥
रामेणापि पुरा वीर हयमधत्रयं कृतम् ॥
यज्ञं कृत्वा तथा पुत्र राज्यं पालय मारिष ॥ १४ ॥
राजधर्मेण यल्लब्धं शासनान्माधवस्य तु ॥
तद्राज्यं तु परित्यज्य कस्माद्गन्तुमिहेच्छसि ॥१५॥
इहलोके परां कीर्तिं कुरु पुत्रक सुस्थिराम् ॥
यावत्ते बान्धवाः सर्वे वशगाः सन्ति सांप्रतम् ॥१६॥
शरीरं दोषरहितं तावच्छ्रेयः समाचर ॥
दिवं प्राप्ता हि राजानः कृत्वा पुण्यादिकाः क्रियाः ॥ १७॥
जैमिनिरुवाच ॥
एतच्छ्रुत्वा वचस्तस्य व्यासस्यामिततेजसः॥
उवाच दीनया वाचा धर्मराजो युधिष्ठिरः॥ १८॥
युधिष्ठिर उवाच ॥
न वित्तं विद्यते मह्यं विना वित्तेन वै क्रतुः ॥
जायते मम विप्रर्षे न च पीडयितुं प्रजाः ॥ १९ ॥
न शक्नोमि नृपान्हन्तुं पितृमातृविवर्जितान् ॥
दुर्योधनेन क्षपिता पृथिवी वित्तकारणात् ॥1.२०॥
तां कथं पीडयिष्यामि धरणीं काञ्चनेच्छया ॥
साहाय्यं नैव पश्यामि सुहृदः समरे हताः ॥२१॥
तस्माद्राज्यं परित्यज्य गमनं मम रोचते ॥
किमत्रानन्तरं कार्यं तन्मे गदितुमर्हसि ॥२२॥
व्यास उवाच ॥
मरुत्तेन कृतो यागस्तुष्टाः सर्वे द्विजोत्तमाः ॥
तैस्त्यक्तं बहुलं भूमौ काञ्चनं नृपनन्दन ॥२३॥
हिमाचले तिष्ठति तत्पतितं त्वं समानय ॥
यन्नेतुमसमर्थास्ते विप्रा राज्ञा समर्पितम् ॥२४॥
मरुत्तेन वदान्येन द्रविणं शतधा मखे ॥
युधिष्ठिर उवाच ॥
धन्योऽसौ मरुतो राजा येन यागस्तथाविधः॥२६॥
कृतो बहुसुवर्णाढयो यत्र विप्रास्तु तर्पिताः॥
त्यक्त्वा सुवर्णं च गताः कथं तदहमानये ॥२६॥
ब्राह्मणानां विशेषेण वित्तं दुःखतरं मम ॥
मत्तः परो न निन्द्योऽन्यो भविष्यति नराधिपः॥२७॥
ब्रह्मस्वे यस्य नृपतेर्मतिर्भवति दारुणा ॥
ग्रहणान्मज्जयत्येनं शिलेवाम्भसि दुस्तरा ॥२८॥
प्रहसिष्यन्ति मां विप्रा मम यज्ञे तथाविधे ॥
अस्मदीयं धनं राजा प्रयच्छति हि नः करे ॥२९॥
तस्मान्न कुत्सितं कर्म करिष्यामि कथञ्चन ॥
एका त्रपा मे महती यन्मया सङ्गरे हताः॥1.३०॥
कुरवो गुरवश्चैव सुहृत्सम्बन्धिबान्धवाः।
संमार्जयितुमेकां हि न समर्थोऽस्मि तां त्रपाम् ॥ ३१ ॥
द्वितीयैषा महाभाग विप्रद्रव्याद्भविष्यति ॥
व्यास उवाच ॥
धन्योऽसि नृपशार्दूल सम्यगुक्तं त्वया वचः॥ ३२॥
ब्रह्मस्वं प्रति यां शङ्कां प्रकरोषि वृथा हि सा ॥
यदा त्यक्तं धनं तैर्हि स्वाम्यं तेषां तदा गतम् ॥३३॥
रामेण भूः पुरा दत्ता कश्यपाय महात्मने ॥
कथं गृह्णन्ति च महीं राजानः पापभीरवः ॥३४॥
दैत्यैर्जिता धरा चेयं दैत्येभ्यः क्षत्रियैर्जिता ॥
गतं स्वाम्यं च विप्राणां तस्माद्दोषो न विद्यते ॥३५॥
यदा धराधिपत्यं हि प्राप्तं येन नृपेण च ॥
तदा तस्याखिलं वित्तं जायते नात्र संशयः ॥३६॥
तद्धनं त्वं समानीय कुरु यज्ञं च पाण्डव ॥
श्रुत्वा व्यासवचो राजा ह्यपृच्छद्यज्ञसाधनम् ॥३७॥
युधिष्ठिर उवाच ॥
ब्राह्मणाः कतिसंख्याका दक्षिणा कीदृशी क्रतौ॥
हयश्च कीदृशो भाव्यस्तन्मे व्याख्यातुमर्हसि ॥ ३८ ॥
व्यास उवाच ॥
द्विजा विंशतिसाहस्रा मखादौ संप्रकीर्तिताः ॥
कुलीनाः संमताः प्राज्ञा वेदशास्त्रार्थपारगाः॥
एकैकस्मै द्विजायात्र दाक्षिणां प्रवदामि ते ॥ ३९ ॥
एको गजो रथश्चैको हयश्चैकः सकाञ्चनः ॥
प्रत्येकं गोसहस्रं च रत्नप्रस्थं सकाञ्चनम् ॥1.४०॥
भारश्च काञ्चनस्यैकः प्रदेया दक्षिणा मखे ॥
यस्मिन्दिने हयो राजन्मुच्यते प्रथमा हि सा ॥४१॥
दक्षिणा कथिता रम्या तुरगं कथयामि ते ॥
गोक्षीरसमवर्णं च कुन्देन्दुहिमसन्निभम् ॥४२॥
पतिपुच्छं श्यामकर्णं सर्वतो गतिमुत्तमम् ॥
श्यामं चापि महीपाल यज्ञेस्मिंस्तुरगं विदुः॥४३॥
चैत्रमासस्य राकायां मोच्योऽयं तुरगो नृप ॥
वर्षमात्रं रक्षणीयः सर्वयोधैर्महाबलैः ॥४४॥
पुत्रो वा बान्धवः शूरो रक्षणार्थं नियोज्यते ॥
स्वयं यः कुरुते यज्ञमसिपत्रव्रतं1 चरेत् ॥४५॥
नियतः स च राजेन्द्र नात्र कार्या विचारणा ॥
इष्टभोगान्वर्षमात्रं सेवेन्नारीविवर्जितान्॥४६॥
एकत्र शयनं कार्यं पत्न्या सह नराधिप ॥
यावदागमनं तस्य पुनरेव प्रजायते ॥४७॥
तावत्प्रयत्नवान्कर्ता निवसेद्धैर्यसंयुतः ॥
हयः पुरीषं मूत्रं वा कुरुते यत्र यत्र च ॥४८॥
गोसहस्रं प्रदेयं हि कर्तव्यं हवनं द्विजैः॥
पूजनीयाश्च ते विप्रा दक्षिणाभिर्न संशयः ॥ ४९ ॥
ललाटे तुरगस्यापि पत्रं संलिख्य काञ्चनम् ॥
बद्ध्वा स्वनामसंयुक्तं स्वप्रतापसमन्वितम् ॥५०॥
कथनीयमिदं वाक्यं मयायं तुरगोत्तमः ॥
विमुक्तोऽस्ति नृपः कश्चित् प्रतिगृह्णातु चेद्बली ॥ 1.५० ॥
यस्तु तं प्रतिगृह्णाति स जेतव्यो बलात्स्वयम् ॥
अनेन विधिना वीर क्रतुरेष प्रजायते ॥५२॥
असिपत्रव्रतयुतो बहुपुण्यफलप्रदः॥
एवमेव पुरा शक्रश्चक्रे हयक्रतोः शतम् ॥ ५३॥
देवेन्द्रत्वमवाप्यासौ मोदते च त्रिविष्टपे ॥
हयमेधशतं चक्रे देवेन्द्रो व्रतवर्जितम् ॥ ५४॥
यस्तु व्रतयुतं कुर्यादश्वमेधं महाक्रतुम् ॥
सर्वपापविनिर्मुक्तां प्रकरोति वसुन्धराम् ॥५५॥
अनङ्गं को भवेज्जेता विना भीष्मं हि मानवः।
तस्माद्भीता न कुर्वन्ति व्रतयुक्तं महामखम् ॥५६॥
यदि ते विद्यते शक्तिरनङ्गं प्रति भारत ॥
विजेतुं कुरु यज्ञस्य प्रारम्भं कुरुनन्दन ॥९७॥
युधिष्ठिर उवाच ॥
सर्वथा हयमेधेऽहं शोच्योऽस्मि मुनिसत्तम ॥
न च द्रव्यं न च हयो न सहायाश्च सन्ति मे ॥५८॥
भीमादयोऽपि च मया क्लेशिता बहवो रणे॥
कर्णस्य पुत्रो बलवान्वृषकेतुरुदारधीः॥५९॥
बालः षोडशवर्षीयो धर्मतस्तं न योजये॥
घटोत्कचसुतं चैकं मेघवर्णं न योजये॥1.६०॥
पिताऽस्य निहतो रात्रौ मदर्थे भानुसूनुना॥
यस्य प्रसादात्सततं पाण्डवः पृथिवीपतीन् ॥६१॥
जितवान्केशवश्चापि स दूरे मधुसूदनः॥
एतावदुक्त्वा वचनं समाहूय वृकोदरम् ॥६२॥
प्रत्युवाच महाबुद्धिर्भीमसेनमिदं वचः ॥
भीम भीम महाबाहो कथं यज्ञः प्रजायते ॥ ६३॥
गोत्रहिंसां कथं भीम नाशयिष्ये हि तद्वद॥
बहुविघ्नकरो यागस्तस्माच्छोचामि पाण्डव ॥६४॥
उपहास्यपदं यास्ये यद्यपूर्णो भविष्यति॥
भीम उवाच ॥

टिप्पणी


१ दर्शनं स्पर्शनं क्रीडा शृंगारो गुह्यभाषणम् ॥ मृष्टान्नं प्रियमेकत्र शयनं भार्यया सह ॥ निर्वकारं मनः कुर्यादसिपत्रव्रतं त्विदम् ॥ १ ॥


हयो न विद्यते राष्ट्रे न वित्तं भवतोदितम् ॥६५॥
न समीपे हृषीकेशः कस्मात्प्रोक्तं हि तद्वचः॥
समीपस्थः सदा कृष्णो विद्यते तव मारिष ॥६६॥
सर्वाश्च सम्पदः सन्ति यदि कृष्णः समीपगः॥
सर्वपापविनिर्मुक्ता यन्नामग्रहणेन च ॥ ६७ ॥
नरा भवन्ति राजेन्द्र समीपस्थस्य किं फलम् ॥
न पातकं ते नृपते गोत्रहिंसाकृतं भुवि ॥ ६८ ॥
विनापि माधवो यज्ञं पावयिष्यति मे मतिः॥
पूर्वमेव हि राजेन्द्र युद्धकाल उपस्थिते॥६९ ॥
नोदिताः स्मो वयं तेन कृष्णेनामितबुद्धिना ॥
कुर्वन्तु युद्धं सततमिति ते विस्मृतं कथम् ॥ 1.७० ॥
राजसूयाश्वमेधानां पुण्यं पावयितुं जनम् ।।
न समर्थं महाराज विना तं यज्ञनायकम् ॥ ७१ ॥
व्यासं पृच्छस्व राजेन्द्र क्रतुयोग्यं तुरङ्गमम् ॥
कुत्रापि वर्तमानं मे शंसत्वेष महामुनिः ॥ ७२ ॥
जैमिनिरुवाच ॥
एतच्छ्रुत्वा वचस्तस्य भीमस्यामिततेजसः ॥
प्रत्युवाच पुनर्व्यासो धर्मराजमिदं वचः॥७३॥
व्यास उवाच ॥
धन्योऽसि वीर भद्रं ते रुचिरं तव भाषितम् ॥
हयस्तु विद्यते दूरे पुरीं भद्रावतीं प्रति ॥ ७४ ॥
यौवनाश्वेन वीरेण रक्ष्यमाणो दिनदिने॥
अक्षौहिणीभिर्दशभिः पाल्यते धर्मनन्दन ॥ ७५॥
पवनेनापि संपर्को लभ्यते नास्य वाजिनः ।
मानवस्य वराकस्य संख्या का ग्रहणे नृप ॥ ७६॥
कृपणेन यथा वित्तं पाल्यते तुरगस्तथा ॥
राजा रक्षापरो नित्यं बलात्तं कः समानयेत् ॥
तुरङ्गं यज्ञसिद्ध्यर्थं धर्मराजस्य पाण्डव ॥ ७७ ॥
इत्याश्वमेधिके पर्वणि जैमिनीये यज्ञप्रारम्भो नाम प्रथमोऽध्यायः॥१॥