प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०१ जैमिनीयाश्वमेधपर्व।
अध्यायः २
[[लेखकः :|]]
अध्यायः ०३ →

॥ जैमिनिरुवाच ॥
ततोऽब्रवीद्भीमसेनः प्रहसन्निव भारत ॥
अहं हयं तं तु बलादानयिष्यामि मारिष।।१॥
एकाकी तत्र यास्यामि जित्वा तं बलिनं नृपम् ॥
ससैन्यं यातु ते राजन् संशयः सुमहानपि ॥२॥
वासुदेवं चिन्तयानो नरः कर्म करोति यः ॥
सर्वार्थसिद्धिं लभते सत्यमेतद्ब्रवीमि ते ॥३॥
वासुदेवमनादृत्य तपोयज्ञादिकं च यत् ॥
निष्फलं जायते सर्वं यथाभाग्यस्य चेष्टितम् ॥४॥
नानये तुरगं चाहं गति घोरामवाप्नुयाम् ॥
ये लोका मातृहन्तॄणां ये चैव पितृघातिनाम् ॥५॥
ते लोका मम जायेरन्यदि तं नानये हयम् ॥
एककूपोदकग्रामे ये वसन्ति द्विजातयः॥ ६॥
न वेदाध्ययनं यत्र यत्र नो शिवपूजनम्॥
तत्र क्षणं निवसतां लोका ये मम सन्तु ते ॥ ७॥
इत्येवमुक्त्वा वचनं भीमस्तूष्णीं स्थितस्तदा ॥
युधिष्ठिर उवाच ॥
भीमसेन महाबाहो ग्रहणं तुरगस्य मे ॥ ८॥
विषमं भाति हृदये त्वयैकेन वृकोदर ॥
यौवनाश्वोऽपि बलवान्बलिनस्तस्य सैनिकाः ॥९॥
एकाकी तत्र गन्तासि चिन्ता तु महती मम ॥
जैमिनिरुवाच ॥
धर्मराजस्य तद्वाक्यं श्रुत्वा कर्णात्मजोऽब्रवीत् ॥
भीमसेन द्वितीयं मां सहायं नय मा चिरम् ॥2.१०॥
भीमसेन उवाच ॥
पिता तव हतोऽस्माभिर्यदाप्रभृति पुत्रक।
विलोक्य त्वन्मुखं लज्जा जायते महती हि नः ॥११॥
वृषकेतुरुवाच ॥
उपकारः कृतः सम्यग्जनको मे रणे हतः॥
भवद्भिः क्षात्रधर्मेण कुत्सितं तस्य नाशितम् ॥ १२॥
दुर्योधनस्य भृत्योऽसौ यावज्जीवं धरातले ॥
सञ्जातो धर्मविद्वेषी समलोऽनन्तवर्जितः॥१३॥
क्लिश्यन्ती च सभामध्ये द्रौपदी योषितां वरा ॥
तेन कर्णेन सा दृष्टा यथा तु विजने सती ॥ १४॥
गोसहस्राणि मत्स्यस्य गृहीतानि मया श्रुतम् ॥
मत्पित्रा पाण्डवेनापि मोचितानीति चिन्तये॥ १५॥
अत्यन्तमलपूर्णाय कर्णाय युधि पातनम् ॥
कृतं तु पाण्डवैवीरैः शुद्धयर्थं दानमुत्तमम् ॥ १६॥
कश्चिद्गृह्णाति हि करात्काचं वापि वराटिकाम् ॥
दत्त्वा चिन्तामणिं यद्वदर्जुनेन तथा कृतम् ॥ १७॥
गृहाङ्गणे वर्तमानं कस्यचित्त्वफलं तरुम् ॥
समुन्मूल्य नयेत्कश्चित्संस्थाप्य सुरपादपम् ॥१८॥
तदापराधः किं तेन ब्रूहि भीम महामते ॥
भवत्प्रसादात्कर्णोऽसौ प्राप्तवान्भास्करं पदम् ॥१९॥
अपकीर्तिस्तु तस्येयं वर्ततेऽद्यापि भूतले ॥
तामस्मिन्यज्ञकाले ते नाशयिष्यामि पाण्डव ॥2.२०॥
यौवनाश्वस्य नृपतेर्निर्मथ्य बलसागरम् ॥
तुरङ्गं भीमसेनस्तु समानयतु सत्वरम् ॥२१॥
जैमिनिरुवाच ॥
भीमस्तस्य वचः श्रुत्वा समालिङ्ग्याथ कर्णजम् ॥
समीपस्थं निजं पौत्रमिदं वचनमब्रवीत् ॥२२॥
घटोत्कचेन ते पित्रा तारिताः सर्वपाण्डवाः॥
स्वपृष्ठं तान्समारोप्य नीता वै गन्धमादनम् ॥२३॥
तथा त्वं धर्मराजानं वीर पालय पृष्ठतः॥
अहं तु कर्णपुत्रेण सहितो हयमानये ॥२४॥
पार्थेन च त्वया राजा रक्षणीयः प्रयत्नतः ॥
यावद्गृहीत्वा तुरगं पुनरायामि सत्वरम् ॥ २५ ॥
मेघवर्ण उवाच ॥
तव गात्रात्समुत्पन्नो धीरः स च घटोत्कचः॥
पवित्रं तत्कृतं कर्म तेन कश्चात्र विस्मयः॥२६॥
तावद्रथ्याजलं हीनं यावत्सुरनदीगतम् ॥
न जायते पुनः प्राप्तं वारि तत्पातकापहम् ॥ २७ ॥
सतां सङ्गाच्च दुःप्रापं किञ्च नैवास्ति देहिनाम् ॥
शिला रामपदं प्राप्य किं न पूता पुराऽभवत् ॥२८॥
पुरीं भद्रावतीं वीर गमिष्यस्यमुना सह॥
तत्र मां नय भद्रं ते हयं तमहमानये ॥२९॥
भवान्युद्धगतस्थो हि युद्धं कर्ता तु कर्णजः ॥
अहं स्वपृष्ठमारोप्य तुरगं तमिहानये ॥ 2.३० ॥
शीघ्रं निर्गच्छ भीमाद्य नमस्कृत्य धराधिपम् ॥
ध्रुवस्ते विजयः पार्थ भविष्यति महद्यशः ॥३१॥
नमस्कारो हरेः पुंसां किं किं न कुरुते बत ॥
पुत्रमित्रकलत्रार्थराज्यस्वर्गापवर्गदः ॥ ३२॥
हरिस्त्वघं ध्वंसयति व्याधीनाधीन्निरस्यति ॥
धर्मः विवर्धयन्नित्यं प्रयच्छति मनोरथम् ॥ ३३ ॥
किञ्चिन्न दुष्कृतं पार्थ हरिं प्रणमतां नृणाम् ॥
भीम उवाच ॥
धन्योऽसि पुत्र कुशलं भाषसे परमं हितम् ॥३४॥
त्वमागच्छ मया सार्द्धं वृषकेतुरयं तथा ॥
साहाय्यार्थं महावीर तथा त्वमपि पुत्रक ॥ ३५ ॥
त्रयो वयं गमिष्यामः परराष्ट्रे न संशयः॥
जैमिनिरुवाच ॥
एतत्तयोः शुभं वाक्यं निशम्य कुरुनन्दनः ॥ ३६॥
महता चैव हर्षेण प्रत्युवाच वृकोदरम् ॥
मुनिना भाषितं कार्यं तत्सर्वमवधारितम् ॥ ३७ ॥
क्रियते भवता सर्वमावाभ्यामपि पाण्डव ॥
रात्रिर्जाता तु महती गन्तुकामस्तपोधनः॥ ३८॥
तस्माद्गच्छामहे सर्वे ऋषिं भावयितुं गृहात् ॥
व्यासस्ततो निर्जगाम गृहात्संपूजितस्तु तैः॥ ३९ ॥
गते व्यासे धर्मराजः पुनश्चिन्तापरोऽभवत् ॥
कं च पृच्छामि सुहृदं कथं वित्तसमागमः ॥ 2.४० ॥
भ्रातृभिः सहितो रात्रौ दुःखितो वाक्यमब्रवीत् ॥
युधिष्ठिर उवाच ॥
कथं हयस्यानयनं कथं यज्ञक्रिया भवेत् ॥४१॥
सर्वास्वापत्सु नः पाति सर्वदा मधुसूदनः ॥
सदूरे देवकीपुत्रः को हितं मे करिष्यति ॥४२॥
हा निमग्नोऽस्मि गोविन्द गोत्र हिंसार्णवेऽप्लवे॥
कथं यज्ञं करिष्यामि त्वं चेत्त्राता न जायसे ॥४३॥
यथा लज्जार्णवे मग्ना द्रौपदी तारिता त्वया ॥
तथा तारयमामस्माद्वृजिनान्मधुसूदन ॥४४॥
एह्येहि कृष्ण गोविन्द दामोदर दयार्णव ॥
त्वं चेत्त्राता न चास्माकं तर्हि ह्येष विधिश्च्युतः ॥ ४५ ॥
जैमिनिरुवाच ॥
एतावदुक्त्वा वचनं पुनः कृष्णकथामृतम् ॥
यावत्स्मरति गोविन्दं तावद्द्वारे समागतः॥४६॥
स्वयं स कृष्णो भगवान्सर्वव्यापी रमापतिः॥
अब्रवीच्चप्रतीहारं मां निवेदय भूपतेः॥४७॥
समयेनैव राजानो द्रष्टव्या विदुषां मतम् ॥
तत्केशववचः श्रुत्वा द्वारपो वाक्यमब्रवीत् ॥४८॥
प्रतीहार उवाच ॥
सर्वदा तव गोविन्द समयो धर्मनन्दने ॥
कथितो धर्मराजेन ममाग्रे समयस्तव ॥
परापवादनिरताः परद्रव्यापहारिणः ॥४९॥
परस्त्रीकामुका यत्र तत्र नावसरस्तव ॥
नायं परद्रव्यरतो नापवादी न कामुकः ॥ 2.५० ॥
तस्माद्विलोकय नृपं कुरु चास्य मनोरथम् ॥
अर्जुनं पुरतः कृत्वा भीमसेनसमन्वितः॥५१॥
त्वां चिन्तयति गोविन्द तस्याशां परिपूरय ॥
जैमिनिरुवाच ॥
एवं तु कथ्यमानं तं प्रत्युवाच जनार्दनः ॥५२॥
राजानं याहि भद्रं ते शासनान्मम सत्वरम् ॥
इत्युक्तो वासुदेवेन त्वरितो धर्मनन्दनम् ॥ ५३ ॥
प्रत्युवाच हसन्वाग्ग्मी गत्वा कृष्णं न्यवेदयत् ॥
कृष्णश्चैवागतो द्वारि प्रवेशं कर्तुमिच्छति ॥
तच्छ्रुत्वा भाषितं तस्य धर्मराजस्त्वरान्वितः॥५४॥
विहाय चासनं भीमं प्रत्युवाच महामतिः॥
युधिष्ठिर उवाच ॥
भीम ब्रूते प्रतीहारः कृष्णमत्र समागतम् ॥५५ ॥
अर्धरात्रे मत्प्रियार्थं मखनिष्पत्तयेऽथवा ॥
त्वमायाहि मया सार्धं यामि यत्र स मे प्रियः॥५६॥
निर्ययौ धर्मराजोऽथ भ्रातृभिस्तं हरिं प्रति ॥
तावत्तेनापि हरिणा शिरसा स नमस्कृतः॥५७॥
समुत्थाप्य कराभ्यां तं मूर्ध्नि चाघ्राय पाण्डवः ॥
समालिंग्य स्थितः कृष्णं नेत्राम्भश्शिरसि क्षिपन् ॥५८॥
कृष्णबाह्वन्तरे लीनः स तद्दोरन्तरे हरिः॥
भीमार्जुनौ हरिपदे संलग्नौ पुरतो यमौ ॥ ५९॥
अर्घ्यादिक्रिययाभ्यर्च्य पाण्डवा विस्मयं ययुः ॥
द्रौपदी तं नमस्कृत्य हसन्ती वाक्यमब्रवीत् ॥2.६०॥
द्रौपद्युवाच ॥
किमर्थं क्रियते वीरौ विस्मयः केशवं प्रति॥
अर्धरात्रे पुरा प्राप्तो यदा दुर्वाससो भयम् ॥ ६१॥
आजगाम भयत्राता युष्मान्स मधुसूदनः॥
वस्त्ररूपी सभामध्ये मिषतां वः पुरा हरिः ॥
भक्तानामनुकम्पार्थं तस्याविर्भाव इष्यते ॥ ६२ ॥
यस्मिन्काले न जननी न पिता न च बान्धवाः॥
भर्तारो न भवन्तश्च गुरवो न पितामहाः ॥ ६३ ॥
रक्षितुं मां समर्था हि तदा संरक्षिताऽमुना ॥
दुर्योधनेन प्रहितो दुर्वासा मुनिपुङ्गवः ॥ ६४॥
शिष्यायुतैः परिवृतो वने निवसतां यदा ॥
तदा मे मनसा ध्यातो दयासिन्धुर्जनार्दनः ॥ ६५॥
प्रियामङ्कगतां त्यक्त्वा वायुवेगः समागतः ॥
स्थाल्याः कोणेऽवशिष्टं तु शाकपत्रं नराधिप ॥६६॥
भुक्त्वा मुनिगणाः सर्वे नीतास्तृप्तिं कृपालुना॥
यदा यदा स तां ग्लानिर्जायते भुवि भारत ॥६७॥
तदातदा स्वयं कृष्णस्त्राता भवति संस्मृतः॥
जैमिनिरुवाच ॥
इत्थं स्तुतस्तया देव्या तुतोष निषसाद च ॥
ततः परं धर्मराजो वचनं चेदमब्रवीत् ॥६८॥
युधिष्ठिर उवाच॥
अधुनैव स्मृतोऽसि त्वं क्लेशितेन मया हरे ॥
सफलं कार्यमेतन्मे भविष्यति जनार्दन ॥६९॥
हयमेधे मतिर्जाता हितं प्रब्रूहि केशव ॥
यदि यज्ञं प्रति विभो समर्थोऽस्मि धरातले ॥ 2.७० ॥
श्रीकृष्ण उवाच ॥
त्वया कर्तुं न शक्योऽस्ति समये धर्मनन्दन ॥
यागोऽयं सहसा भूमौ वीराणां तपतामिह ॥ ७१ ॥
भीममन्त्रेण राजेन्द्र क्रियते शोभना मतिः॥
नायं जानाति बह्वाशी कञ्चिन्मन्त्रं तथा मतिम् ॥७२॥
स्थूलोदरः परं मन्दो जायते नात्र संशयः॥
विवर्ण्णा राक्षसी भार्या विद्यतेऽस्य गृहे सदा ॥ ७३ ॥
तया हृता मतिश्चास्य तस्माद्वेत्ति न पाण्डवः ॥
ईदृशस्याल्पबुद्धेश्च भवान्मन्त्रं करोति चेत् ॥ ७४ ॥
तर्हि जातः परोयागो मन्त्री यस्य वृकोदरः॥
व्यङ्गाङ्गहीना बधिराः कुयोनिषु रताश्च ये ॥ ७५ ॥
तेषां मन्त्रो ह्यसुखदः प्रोक्तः कविभिरेव च ॥
कामुकानां जडानां च स्त्रीजितानां तथैव च ॥७६॥
श्वशुरस्य गृहे नित्यं जामाता कर्मकारकः॥
तस्यापि न भवेन्मन्त्रः कार्यसिद्धौ कदाचन ॥ ७७॥
भीमो वेत्ति जरासन्धं हिडम्बं बकमेव च ॥
साम्प्रतं ये तु सञ्जाताः क्षत्रियाः सुमहाबलाः ॥७८॥
येन दृष्टा राजसूये भीमसेनादिभिर्नृपाः॥
धर्मिष्ठाः सुमहावीर्या वदान्याश्च जितेन्द्रियाः ॥७९॥
तान्न जानाति भीमोऽसौ सुबहून्बलदर्पितान् ॥
अर्जुनेन प्रतिज्ञानं जयद्रथवधं प्रति ॥ 2.८० ॥
अनामंत्र्य मया सार्धं तत्साहसतरं महत् ॥
अधुनापि महाराज भीमसेनबलेन च ॥८१॥
कथं यास्यसि यज्ञस्य पारं पाण्डवभूमिप ॥
यज्ञेऽस्मिंश्च महीपाल तत्साहसतरं मम ॥
कथं संपाल्यते घोटो दिक्षु सर्वासु भारत ॥८२॥
सर्वत्रपरिगन्ताऽसौ देवगन्धर्वमानवान् ॥
तेऽपि वीरा विजेतव्या धारयन्ति च ये हयम्॥८३॥
असिपत्रव्रतं कार्यं प्रथमं दीक्षितेन हि ॥
पुरा रामेण रक्षार्थं तुरगस्य महाबलः॥८४॥
नियुक्तो भरतो वीरो बद्धः स च हयान्वितः ॥
वीरेण सुरथेनैव पुरीं शुक्तिमतीं प्रति ॥८५॥
पश्चात्स राघवेणापि मोचितः पौरुषेण सः॥
हयं ते पाण्डवः पार्थः पालयिष्यति मत्सखा॥८६॥
कस्त्वामत्रस्थितं त्राता कस्तु मोचयिताऽर्जुनम् ॥
गृहीतं तत्र केनापि वीरेण हयरक्षकम् ॥
एष मे संशयस्तीव्रो जायते धर्मनन्दन ॥ ८७ ॥
इत्याश्वमेधिकेपर्वणि जैमिनिकृते श्रीकृष्णोक्तिश्रवणंनाम द्वितीयोऽध्यायः॥२॥