प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३ जैमिनीयाश्वमेधपर्व।
अध्यायः ४
[[लेखकः :|]]
अध्यायः ०५ →

जैमिनिरुवाच ॥
भीमस्य वचनं श्रुत्वा प्रत्युवाच स कर्णजः ॥
अक्षौहिणीनां दशकं श्रूयते चास्य भूपते ॥ १ ॥
तन्मध्ये हयरक्षार्थमागमिष्यन्ति केचन ॥
त्वद्बाहुबलमासाद्य न भवन्ति रणे जनाः ॥ २ ॥
गङ्गातटमिवासाद्य पातकानां गणा नृणाम् ॥
विनाशं चैव गच्छन्ति तथा भीम तवाहिताः ॥३॥
कालकूटं विषं तावत्परितापेन दारुणम् ॥
रुद्रस्य पुरतो नैव यावद्भवति सङ्गतम् ॥ ४ ॥
कामुका विषयैस्तावद्बाध्यन्ते प्राणिनो भुवि ॥
यावद्वस्तुविचारेण सङ्गता न भवन्ति ते ॥९॥
गमनागमनन्तावद्देहिनामिह जायते ॥
स्मरणं वासुदेवस्य यावत्तेषां न रोचते ॥६॥
पितॄणां बन्धनं तावन्नरके पतनं तथा ॥
न यावत्कुलजः पुत्रो गयापिण्डप्रदो भवेत् ॥७॥
धर्मराजनिमित्तं च कृष्णप्रीत्यै वृकोदर ॥
तुरगग्रहणे नूनं सिद्धिरत्र विलोक्यते ॥ ८॥
एते पश्य गजाः प्राप्ताः समदा मधुपैर्वृताः॥
करेणवश्च करभाः कज्जलस्येव पर्वताः॥९॥
जलपानं न कुर्वन्ति निर्मलं कलुषं जलम् ॥
उन्मज्जन्ति निमन्जन्ति महामात्रैरधिष्ठिताः ॥4.१०॥
प्रीताः प्रेमजलैः स्त्रीणां कामुकाः पुरुषाइव ॥
जलेन येन जीवन्ति सरागं कुर्वते च तत् ॥ ११ ॥
सिन्दूरेणातिरागेण स्वकपोलच्युतेन च ॥
नागकुम्भान्दानहीनान्मधुपा नलिनीवने ॥ १२ ॥
प्रविष्टास्तान्परित्यज्य मलिनेषु न सौहृदम् ॥
मृणालानि मरालाश्च गृह्णन्ति कृपयान्विताः॥१३॥
षट्पदेभ्यः प्रयच्छन्ति भूतसाम्यं गता इव ॥
उच्छलन्ति जले मत्स्या धनं प्राप्य यथाऽधनाः ॥ १४॥
चक्रवाकाश्चक्रवाक्यः संगताः प्रेमपूरिताः॥
दृश्यन्तेऽस्मिन् हि सरसि भीमसेन महाबल ॥१५॥
अतःपरं हि तुरगाः समागच्छन्ति सत्वराः॥
गोक्षीरहिमवर्णाश्च रक्ष्यमाणा महारथैः ॥ १६॥
रेणुः समुत्थितो भूरि पश्य पाण्डव वाजिभिः॥
वादित्राणां तथा घोषः पताका गगनङ्गताः ॥ १७॥
धूयन्ते च महाबाहो कालजिह्वा यथास्थिताः ॥
यौवनाश्वो नृपः प्राप्तो भविष्यति न संशयः ॥ १८॥
वीराणां पश्य धीराणां मण्डलानि सहस्रशः॥
ध्वजाग्रे विद्यते गृध्रः कस्य तञ्च न विद्महे ॥ १९॥
शुको भाति ध्वजस्थोऽपि रोरवीति च दुन्दुभिः॥
एवं हि बहवो यान्ति वीरा रणविशारदाः॥ 4.२० ॥
एवं विलोक्य ते यत्र तत्र वीरसमागमः ॥
जैमिनिरुवाच ॥
इत्थं वदति वीरे तु वृषकेतौ महाबले ॥२१॥
तुरगा जलपानार्थं यौवनाश्वस्य मारिष ॥
मध्याह्ने तत्र संप्राप्ता नानावर्णाः सहस्रशः ॥२२॥
त्रिभिस्त्रिभिस्ते विधृता दश ध्रुवकमण्डिताः॥
मन्दुरैर्बलिभिश्चित्रगतयः शिक्षिताश्च ये ॥२३॥
धाराभिः पञ्चभिर्युक्ताश्चलत्प्रोथाः सुकन्धराः ॥
मुखेभ्यो निःसरन्तीव दृश्यते खुरसन्ततिः॥ २४॥
द्विजाननेभ्यो हि यथा निर्याति पदपद्धतिः॥
मायूरी तैत्तिरीमौष्ट्रीं कुर्वतो गतिमुत्तमाम् ॥ २५ ॥
नाकुलीं गतिमास्थाय समायाति महत्सरः॥
आकण्ठं विनिमग्नास्ते पपुस्तोयं सनिःस्वनम् ॥२६॥
आगता निर्गताश्चान्ये दृष्टा भीमेन भारत ॥
वृषकेतुं प्रत्युवाच भीमो वचनमुत्तमम् ॥२७॥
भीम उवाच ॥
प्राप्ता हयाश्च बहवः स हयो नैव वीक्ष्यते ॥
यन्निमित्तमिह प्राप्ता वयं तावत्रयोजनाः॥२८॥
किंवा नृपगृहे बद्धः स जलं परिपास्यति ॥
हरिं विना नैव गतिर्धर्मराजस्य मन्दिरे ॥२९॥
अस्माकं विद्यते तात भवाञ्जानाति नेतरः ॥
अपुत्राणां यथा लोका भवन्ति न सुखप्रदाः॥ 4.३० ॥
अदातॄणां यथा कामा ब्रह्मचर्यवतां यथा ॥
बन्धूनां च यथा सङ्गो जितस्त्रीणां विलोक्यते ॥ ३१ ॥
नृपतीनाममंत्राणां चिरं राज्यं न सुस्थिरम् ॥
न यशः पुण्यहीनानां न सुखं परिवादिनाम्॥३२॥
न मोक्षो भक्तिहीनानां विष्णोरमिततेजसः ॥
वैभवं हि यथा नॄणामनाराध्य च शंकरम् ॥ ३३ ॥
तथा हयं विनास्माकं गमनं न गजाह्वये ॥ ।
भीमस्य वचनं श्रुत्वा यावद्वदति कर्णजः ॥३४॥
तावत्स तुरगः प्राप्तो रथिभिः परिवारितः ॥
महागजैश्च समदैः सादिभिः पत्तिभिस्तथा ॥३५॥
चामरैर्वीज्यमानस्तु सबलो बद्धचामरः ॥
श्वेतातपत्रैः संछन्न क्षुद्रघण्टाभिरन्वितः ॥३६॥
चन्दनेन सुगन्धेन कुङ्कुमेनापि चर्चितः॥
तरुणीकरचिह्नानि धारयन्स्वतनौ हयः॥ ३७॥
धृतमाल्यो विचित्राङ्गो मालाभिश्च विभूषितः।।
उभाभ्यां संगृहीतश्च जयशब्दैः सुमङ्गलैः ॥३८॥
कृष्णागुरुमुखैर्धूपैर्धूप्यमानः पुरोगमैः ॥
स्पृशते न खुराग्रैश्च धरणीं बहुवल्लभाम् ॥ ३९॥
नानावादित्रनादेन वीराणां गर्जितेन च ॥
हयहषेण नागानां बृंहितेन बभौ हयः॥4.४०॥
भाविदर्शनपुण्येन श्रीकृष्णस्य न संशयः ॥
पूज्यते तुरगो नानाधूपैर्दीपैः सुमङ्गलैः ॥४१॥
तं विलोक्य तथारूपं रक्षितं सुमहारथैः॥
बालस्तद्ग्रहणे बुद्धिं स चक्रे भीमनन्दनः ॥४२॥
उत्सुकं तं तथालोक्य भीमसेनोऽब्रवीत्सुतम् ॥
भीमसेन उवाच ॥
किं चिकीर्षसि वत्स त्वं ब्रूहि सत्यं ममाग्रतः ॥ ४३ ॥
उवाच भीमं तरसा मेघवर्णोऽथ राक्षसः ॥
मेघवर्ण उवाच ॥
त्वया ज्ञप्तो भीमसेन तुरगं पर्वतोपरि ॥४४॥
गृहीत्वा वत्सवद्वीर तिष्ठामीति मतिर्मम ॥
सर्वेषां पश्यतां वीर वीराणां गणना न मे ॥४५॥
तं हरिं प्रसमीक्ष्याथवायुजं समयाचत ॥
अनुज्ञां देहि मे स्वामिन्यौवनाश्वं सपुत्रकम् ॥ ४६॥
बद्ध्वानयामि पश्य त्वं वृषकेतुश्च कर्णजः॥
अथवा क्षात्रधर्मेण युद्धे जित्वा महारिपुम्॥४७॥
तुरङ्गमानयिष्यामि संभूतो यद्यहं त्वया ॥
स्वभृत्ये विद्यमाने किं स्वामी युध्यति मारिष ॥४८॥
आनीयाहं चतुरगं करिष्ये वृक्षसंयुतम् ॥
एतावदुक्त्वा वचनं प्रययौ राक्षसस्तदा॥ १९॥
भूधरात्खं समुत्पत्य मायां कुर्वन्स राक्षसीम् ॥
अन्धकारस्तदा ह्यासीत्कालमेघ इवोदितः ॥4.५०॥
स्फुरन्ति विद्युतोऽजस्रं स्फूर्जथुश्च मुहुर्मुहुः॥
तन्मध्ये सिंहनादं च स चकार पुनःपुनः ॥५१॥
व्याकुलाश्च दिशः सर्वा न प्राज्ञायत किंचन ॥
देवासुरमनुष्याणां महद्भयमुपाविशत् ॥५२॥
मेघनादस्य रूपेण व्याप्तं तद्व्योममण्डलम् ॥
विमानानि च सर्वाणि भ्रमन्ति स्म इतस्ततः॥ ५३ ॥
एतस्मिन्नन्तरे देवः कश्चिदागत्य सत्वरः॥
उवाच शक्रमासीनं सभामध्येऽतिदुःखितः ॥५४॥
देव उवाच ॥
भो भोः स्वामिन्न जानीषे ह्यात्मनश्च शुभाशुभम् ।।
दैत्यः कश्चिदिहागत्य कुरुते लोकयातनाम् ॥५५॥
मायां विकुरुतेऽत्यन्तं लोकक्षयचिकीर्षया ॥
तं त्वं जहि महाबाहो लोकानां रक्षको ह्यसि ॥५६॥
इति श्रुत्वा महेन्द्रोऽसौ रोषात्प्रस्फुरिताधरः ॥
उवाच सकलान्देवाञ्जानीध्वं कोऽयमागतः ॥५७॥
समागत्य प्रपश्यन्ति देवा दूरस्थिताश्च तम् ॥
दूतस्तुतैः समाहूतः पृच्छ गत्वा च को भवान् ॥५८॥
स दूतस्तत्र गत्वा वै पृष्टवान्मेघवर्णकम् ॥
देवदूत उवाच ॥
कस्त्वं वीर समायातः सत्यं ब्रूहि ममाग्रतः ॥१९॥
त्वयि दृष्टे महावीर देवानां भयमाविशत् ॥
दूतोऽहं प्रेषितस्तैस्तु किं तवात्र चिकीर्षितम् ॥ 4.६०॥
मेघवर्ण उवाच ॥
न भेतव्यं सुरैः क्वापि नाम्नाऽहं मेघवर्णकः॥
भीमस्य पौत्रो हैडिम्बि यज्ञसाहाय्यकारकः॥६॥
हयं ग्रहीष्ये राज्ञोऽहं यौवनाश्वस्य भोः सुर ॥
संभ्रमस्तु तदर्थं मे धर्मयज्ञार्थसिद्धये ॥ ६२॥
इति श्रुत्वा स दूतस्तु हर्षनिर्भरमानसः ॥
इन्द्राय सवृत्तान्तं धर्मराजार्थमुत्तमम् ॥ ६३ ॥
कथयामास हृष्टास्ते देवा इन्द्रादयस्तदा॥
अपश्यन्कौतुकं तत्र मेघवर्णस्य संयुगे ॥ ६४ ॥
मेघवर्णोऽपि तं दृष्ट्वा हयं चांबरमाश्रितः ॥
जिहीर्षुराव्रजत्तत्र यत्रासौ यज्ञियो हयः ॥ ६५ ॥
मोहयित्वा तु तान्सर्वान्भूमौ पात्याय वायुना ॥
रजउद्धूय च बलात्सैनिका भयविह्वलाः ॥ ६६॥
केचिद्गृहीतशस्त्रास्ते केऽप्यधावन्नितस्ततः॥
एवं तु व्याकुलीकृत्य शिलावर्षेण वायुना॥६७॥
सिंहनादं प्रकुर्वाणो हरितं जगृहे मुदा॥
खमुत्पतन्तं ददृशुर्नीलमेघाकृतिं जनाः॥६८॥
कुण्डलाङ्गदकेयूरमुकुटाद्यैर्विराजितम्॥
कोऽयं कोऽयं कुतश्चायं छिंधि भिंधीति वादिनः॥६९॥
इति जल्पंति ते वीरा वीक्षन्तः खं समाश्रितम् ॥
साश्वं व्रजन्तं ते देवाः पुष्पवृष्ट्या सिषेविरे॥4.७०॥
हैडिम्बेकृतकृत्योऽसौ धर्मराजोऽनुजैः सह ॥
त्वादृशो यस्य पौत्रोऽभूद्धर्मसाहाय्यहेतवे ॥ ७१॥
इति स्तुत्वा तु तं देवा जग्मुस्ते स्वमथालयम् ॥
मेघनादोऽपि हंसं तं गृहीत्वा शीघ्रमागतम् ॥७२॥
आकाशस्थं समालोक्य साश्वं तौ हर्षपूरितौ ॥
सिंहनादं प्रकुर्वन्तौ वीक्षंतौ च मुहुर्मुहुः॥७३॥
अत्रांतरे महानासीद्गते हंसेरवस्तदा॥
यौवनाश्वबले तस्मिन्नन्योन्यं जघ्नुरुद्भटाः॥ ७४ ॥
गत्वा ते कथयामासू राज्ञे वृत्तान्तमादितः ॥
तच्छ्रुत्वा सहसा राजा पुत्रैः सह समागतः ॥ ७५ ॥
गतं हंसं तु तं श्रुत्वा दुःखक्रोधसमन्वितः॥
उवाच केन नीतोऽयं हंसो ह्यल्पायुषा मम ॥ ७६ ॥
सदेवानपि नेष्यामि मानवान्यमःसादनम् ॥
इत्युक्त्वा सहसा राजा क्रोधेन व्याकुलीकृतः॥ ७७ ॥
आजुहाव रथान्दिव्यान्नाम्ना कालान्तकोपपमान् ॥
आयातास्ते रथाः शीघ्रं नमस्कृत्य च तं प्रभुम् ॥ ७८ ॥
आदेशो दीयतां स्वामिन्कोऽद्य प्राणैर्वियोज्यताम् ॥
राजोवाच ॥
वियन्नीतो हरिर्वीराः शीघ्रं धावत माचिरम् ॥ ७९ ॥
इत्युक्ताः सहसोत्पत्य सहस्राणां चतुष्टयम् ॥
तरसा गगने तन्तु रुरुधुर्मुमुचुः शरान् ॥ 4.८० ॥
मेघनादस्तु तान्वीरान्प्रहसन्वाक्यमब्रवीत् ॥
मेघनाद उवाच ॥
यमलोके हि गन्तव्यं भवद्भिर्नात्र संशयः ॥ ८१ ॥
इत्युक्त्वा ताञ्जघानाशु तलमुष्टिभिराशुगान् ॥
शिलामादाय तान्सर्वान्पोथयामास राक्षसः ॥ ८२॥
ते हता भीमकर्माणः कायं त्यक्त्वा दिवं गताः ॥
शापान्मनुष्यजन्मा नः प्राप्तास्ते वै सुरालयम् ॥ ८३॥
स तान्निर्मथ्य संग्रामे यत्र तौ वृषपाण्डवौ॥
विहायसा तत्र गन्तुं मेघवर्णः प्रचक्रमे ।। ८४ ॥
सैनिकाश्च परे राज्ञो युद्धायैव मनो दधुः ॥
हाहाकारो महानासीत्संगृहीते हये तदा ॥ ८५ ॥
गृहीतस्तुरगो येन तं गृह्णीतेति वादिनः॥
क्व गतः केन नीतोऽसौ कुतो यास्यति नः पुरः॥८६॥
नूनमात्मविनाशाय जहार तुरगं हि यः ॥
अमर्त्यमपि नेष्यामो मृत्युलोकं न संशयः ॥ ८७॥
जैमिनिरुवाच ॥
एवं ब्रुवंतस्ते सर्वे गगने राक्षसेन हि ॥
नीयमानं च ददृशुर्हरिं कोपसमन्विताः ॥८८॥
मुमुचुः शरवर्षाणि रुरुधुस्ते दिशो दश ॥
बाणैर्व्याप्य नभः सर्वं पातयन्ति स्म राक्षसम् ॥८९॥
एतस्मिन्नेव काले तु वृषकेतुर्महाबलः।
उवाच भीमं प्रहसन्प्राप्तोऽसौ मेघवर्णकः॥4.९०॥
वृषकेतुरुवाच ॥
धन्योऽसौ राक्षसो भीम श्लाघ्यं कर्मामुनाकृतम् ॥
गृहीत्वा तुरगं प्राप्तः स कथं पात्यते परैः॥९१॥
एतान्पश्य रणे प्राप्तान्वीरान्रणविशारदान् ।
धारयामि समक्षं ते पातयिष्ये न संशयः ॥ ९२ ॥
एतावदुक्त्वा वचनं गृहीत्वा परमं धनुः॥
पदातिः प्रययौ धन्वी भीमसेनस्य पश्यतः॥९३॥
पिनाकपाणिर्भगवान्यथा दैत्यगणांस्तथा ॥
अधुना चरणे वीरास्तिष्ठध्वमिति चाब्रवीत् ॥ ९४॥
निवर्तध्वं वृथा प्राणान्मा त्यजध्वं ममान्तिके ॥
ते तु श्रुत्वा वचस्तस्य विस्मयोत्फुल्ललोचनाः ॥९५॥
कोऽयं कस्यात्मजो वीरः किंवा ज्ञापयति स्वयम् ॥
अस्माकं पुरतः स्थित्वा समाह्वयति कालवत् ॥ ९६॥
प्रब्रुवंतो वचश्चैवं पुनस्ते रुरुधुस्तदा ॥
तं कर्णपुत्रं समरेऽवर्षयंस्ते यथा धनाः ॥ ९७ ॥
स तान्बाणगणैर्घोरैः पातयित्वा धरातले ॥
ननाद सिंहवद्वीरः सिंहस्कंधो महाभुजः ॥९८॥
महारथाः शरैश्छन्ना न दृश्यन्ते नराधिप ॥
गजा विदारिता बाणैः पतिता धरणीतले ॥ ९९ ॥
सादिनः पत्तयः सर्वे विनष्टाः शतशो रणे ॥
तानि सैन्यानि भग्नानि तस्मात्कर्णात्मजात्तदा ॥4.१०० ॥
स्मरणाद्वासुदेवस्य पातकानीव सर्वशः॥
तत्र केचित्पुरीं प्राप्ताः कथयंति हि वै क्षयम् ॥१॥
हयो नीतः परैराजनयुतं विदलीकृतम् ॥
वीराणां रणधीराणां यौवनाश्वं नृपं प्रति ॥२॥
जैमिनिरुवाच॥
यौवनाश्वो महाबाहुर्विस्मयं परमं गतः ॥
तच्छ्रुत्वा भाषितं तेषां महाकोपेन पूरितः॥३॥
निर्ययौ स्वबलेनैव निखिलेन जनाधिपः॥
पप्रच्छ कतिते प्राप्ताः संति वीराः कियद्बलम् ॥ ४॥
ऊचुस्तेपि त्रयो दृष्ट्वा चतुर्थो न समागतः॥
एकेन गगने राजन्नीतः स तुरगस्तव ॥५॥
यूनापरेण सैन्यं तु पातितश्चापरः स्थितः॥
यथाह्यवैष्णवः पुत्रः स्वकुलं निरयेऽशुचौ ॥ ६॥
यौवनाश्व उवाच ॥
त्रयो देवाश्च ते नूनं गृह्णन्ति तुरगं मम ॥
न मानुषैः शक्यतेऽसौ हयो नेतुं कथंचन ॥७॥
नयंति मानुषा हंसं यदि ते नैव मानुषाः॥
रणयज्ञे हि तान्देवांस्तोषयिष्येऽहमद्य वै ॥ ८॥
जैमिनिरुवाच ॥
इत्युक्त्वा प्रययौ राजा सैन्येन महतावृतः ॥
प्रथमं राजशार्दूलस्तं ददर्श वृकोदरम् ॥९॥
वृषध्वजं स्थितं युद्धे विलोक्य हृषितोऽभवत् ॥
धन्योऽसौ बालकश्चैको वीक्षते मां समागतम् ॥ 4.११०॥
न भयं विद्यते चास्य मृगराडिव लक्ष्यते ॥
मृत्योर्भयं न कुरुते यथा योगी तथा शिशुः॥ ११॥
तस्मात्सर्वे ममैतस्य पश्यन्तु बलमुत्तमम् ॥
जैमिनिरुवाच ॥
तं तथा भाषमाणं तु ससैन्यं हि समागतम् ॥ १२॥
निरीक्ष्य भीमस्तरसा योद्धुं प्रायाद्गदान्वितः॥
वारयन्कर्णपुत्रं च पातयन्निव तद्बलम् ॥ १३॥
प्रत्युवाच तदा भीमं वृषकेतुर्मुदा वचः॥
त्रैलोक्यं यदि संप्राप्तं संग्रामे कुंतिनन्दन ॥१४॥
तदा तव भवेद्युद्धं स्वल्पं सैन्यं च मामकम् ॥
सेनेयन्तु वृता तात प्रथमं पुत्रकेण ते ॥ १५॥
मया भीम महायुद्धे वर्जनीया त्वया ऽद्य सा ॥
इमां निर्मथ्य सकलां यशः पैत्रं तु ते करे ॥ १६॥
समुत्पाद्य प्रदास्यामि मा त्वं क्रीडय मारिष ॥
न स्थिरः सर्वदा देहस्तारुण्यं चञ्चलं तथा॥ १७ ॥
स्थिरारमानकस्यापि दृश्यते मंदिरे विभो ॥
तस्माद्यशः स्थिरं कार्यं प्राणिभिर्भूतलेऽखिले ॥ १८॥
विपरीतः परो धर्मः कविभिर्भाषितः क्षितौ ॥
परसेनामतिप्रौढां नानामुखविलोकिनीम् ॥ १९॥
निर्मथ्य ये नरा यांति प्राप्नुयुस्ते यशः स्थिरम् ॥
वधूस्ते मम सेनास्त्रीसभावं मां निरीक्षते ॥4.१२०॥
कर्तुं च सक्षतं वक्षः शस्त्ररूपैर्नखैर्दृढम् ॥
सेनामुखं मम मुखे सङ्गतं पश्य पाण्डव ॥२१॥
भवन्तं श्वशुरं वीक्ष्य विमुखा हि भविष्यति ॥
पताका पल्लववृतं न मुखं दर्शयिष्यति ॥२२॥
तस्मात्त्वया च स्थातव्यं यावद्भवति संगतम् ॥
ममाद्य संगरे तात सेनायास्तावदेव हि ॥२३॥
भीमसेन उवाच ॥
भवान्प्रयातु प्रथमं सेनामेनां विलासिनीम् ॥
वधूजितं यदा वीक्ष्ये त्वां तु पुत्रक संगरे ॥२४॥
तदा वधूं शासयिष्ये गदादण्डेन दूरतः ॥
शासिता हि वधूः पुत्र सफला ते भविष्यति ॥२५॥
गुरुभिः शास्यते नैव स्नुषा यदि धरातले ॥
तस्या दुर्वृत्तभावेन तेषां हि पतनं ध्रुवम् ॥२६॥
एतत्समीक्ष्य गन्तव्यं त्वया वीर महाचमूम् ॥
पदातिस्त्वं रथस्थास्ते परे प्राप्ता हि कर्णज ॥२७॥
एकाकिनं प्रेरयितुं न क्षमोऽस्मि महाबल ॥
जैमिनिरुवाच ॥
एतस्मिन्नन्तरे राजन्वृषकेतुरुदारधीः॥२८॥
भीमं प्रदक्षिणीकृत्य निर्ययौ स चमूं प्रति ॥
कामी वाऽरुणनेत्रोऽयमबलां वरवर्णिनीम् ॥२९॥
श्रीखण्डघनसारेण कटदानेन वासिताम् ॥
बिभेद वाहिनीमध्ये गजकुम्भपयोधराम् ॥ 4.१३० ॥
बाणैस्तीक्ष्णैर्महाबाहुर्वीक्षमाणः पितामहम् ॥
वीरान्पातयते रोषान्न रोषस्तस्य शाम्यति ॥ ३१ ॥
मद्बाणैः पातिता वीरा रणमध्ये विदारिताः॥
शत्रुतां नैव मुञ्चंति किंकर्तव्यमितो मया ॥ ३२॥
एवं संचिन्तयानोऽपि पुनः शत्रून्व्यपोथयत्॥
चन्दनागुरुगन्धीनि रणे राज्ञां मुखानि सः॥३३॥
विच्छिन्नानीव पद्मानि निरीक्ष्य समरे हसन् ॥
एतानि जलहीनानि न म्लायन्ति ममाग्रतः॥३४॥
मत्वा बिभेद राजेन्द्र रणे गजघटाः पुनः॥
मौक्तिकानि सुवृत्तानि गजकुंभच्युतानि च ॥३५॥
शूरकंठेषु चिक्षेप मंडनानि स कर्णजः ॥
तं तथा समरे वीरं संहरंतं निजं बलम् ॥३६॥
यौवनाश्वो गजारूढः समागत्येदमब्रवीत् ॥
यौवनाश्व उवाच ॥
रथं गृहाण वीर त्वं मया दत्तं समारुह ॥ ३७॥
भूमिस्थेन समं युद्धं न प्रशंसंति सूरयः॥
परदेशात्पुरं प्राप्तं बालं श्रमसमन्वितम् ॥३८॥
योधितं बहुभिः सार्धं विरथं योधये कथम् ॥
तव नाम न जानामि न गोत्रं जनकं च ते ॥३९॥
विष्णोरिव जगत्पूज्यं न वेद्मि कुलनिर्णयम् ॥
तस्मात्प्रब्रूहि समरे यथा युद्धं करोमि ते ॥4.१४० ॥
धन्यस्त्वमपरो धन्यस्त्वत्तो नास्तीति मे मतिः॥
वृषकेतुरुवाच ॥
कुलं कश्यपसंभूतं मामकं रविभासितम् ॥ ४१॥
पृथिव्यां नापरो दाता यं विना जनकः समे ॥
सभामध्ये द्रौपदी च क्लिश्यती येन वीक्षिता ॥४२॥
धर्मादयो न गणिता दुर्योधनहितैषिणा ॥
विनानतांस्थितो यस्तु तस्य पुत्रं निबोध माम् ॥४३॥
अर्जुनेनैव नीतोऽसौ परमं पदमव्ययम् ॥
कर्णः पिता मे संग्रामे वृषकेतुरहं स्थितः ॥४४॥
युधिष्ठिरस्य यज्ञार्थं तुरगो नीयते मया ॥
न रथं च त्वया दत्तं प्रतिगृह्णामि सङ्गरे ॥४५॥
युद्धे जितं तु गृह्णति न दत्तं वै नराधिप॥१४६॥
इत्याश्वमेधिकेपर्वणि जैमिनिकृते यौवनाश्ववृषकेतुवाक्यवर्णनं नाम चतुर्थोऽध्यायः॥४॥॥