जैमिनीयाश्वमेधपर्व/अध्यायः ०५
← अध्यायः ०४ | जैमिनीयाश्वमेधपर्व। अध्यायः ५ [[लेखकः :|]] |
अध्यायः ०६ → |
यौवनाश्व उवाच॥
धन्योऽसि कर्णपुत्र त्वं प्रथमं प्रहराशु माम् ॥
बालं चपलमालोक्य तस्मान्न प्रहरामि ते ॥ १॥
वृषकेतुरुवाच ॥
बहुपुत्रोऽसि राजेंद्र मत्तो वृद्धतरो भवान् ॥
कृष्णदर्शनहीनोसि न समो मद्बलेन वै॥२॥
त्वच्छरीरे महाराज विद्यते न बलं क्वचित् ॥
अहं तावद्युवा राजन्भवान्वृद्धतरो मम ॥३॥
जैमिनिरुवाच ॥
तच्छ्रुत्वा वचनं तस्य नृपतिर्दशभिः शरैः॥
ताडयामास हृदये वृषकेतुं हसन्निव ॥ ४ ॥
सताञ्छरांस्त्रिधा चक्रे नृपकोदण्डनिर्गतान् ॥
बाणेनैकेन तरसा छित्त्वा तं त्रिभिरार्दयत् ॥५॥
तस्य बाणा नृपं विद्ध्वा प्रविष्टा धरणीतलम् ॥
पूर्वजाः कूटसाक्ष्यं हि ब्रुवंतो यांत्यधो यथा ॥६॥
अर्धचन्द्रेण चिच्छेद कोदण्डं नृपतेः पुनः॥
सगुणं चातपत्रं च चामरव्यजनानि सः॥७॥
चक्रवाकेन तीक्ष्णेन च्छिद्यंते प्रीतिजा गुणाः॥
यथा चैकेन बालस्य बाणेनैकेन तत्तथा ॥८॥
निखिलं भूपतेस्तत्र पातितं धनुरादिकम् ॥
सोऽन्यत्कार्मुकमादाय सज्यं कृत्वा महाबलः ॥९॥
विव्याध कर्णजं षष्ट्या शराणां नतपर्वणाम् ॥
ते तस्य हृदयं भित्त्वा पपुः शोणितमाहवे ॥5.१०॥
जीवनं भानुकिरणाः पिबंति तरसा यथा ॥
तथा स भिन्नहृदयो बहुभिः परिवारितः॥ ११ ॥
चकार युद्धं सुमहन्नृपतिं परिपीडयन् ॥
चतुर्भिस्तुरगांस्तस्य शरैर्निन्ये यमक्षयम् ॥ १२॥
सारथेश्च शिरः कायात्पातयामास भूतले ॥
अदृश्यं नृपतिं चक्रे योधानां पश्यतामपि ॥ १३॥
हतो राजेति शब्दोऽभूत्तस्मिन्युद्धे तथाविधे ॥
बाणांधकारे च कृते कर्णपुत्रेण लीलया ॥ १४ ॥
पितामहस्य स्वस्यैव नाशं युधि रिपोः पुरः ॥
लज्जितः संदधे घोरं पावकास्त्रं समंत्रकम् ॥ १५॥
प्रकाशमकरोत्तेन वह्निना नृपसत्तम ॥
वारुणेनाथ राजापि शमयामास पावकम् ॥ १६॥
पवनास्त्रेण बलवान्कर्णपुत्रोऽपि वारुणम् ॥
विध्वंसयित्वा व्यनदन्महानादं रणांगणे ॥१७॥
यौवनाश्वस्तदा क्रुद्धो दृष्ट्वाऽमानुषपौरुषम् ॥
रथमन्यं समारुह्य पर्वतास्त्रेण संहरन् ॥१८॥
मारुतास्त्रं च राजेंद्र कर्णपुत्रमपीडयत्।
शिलासहस्रधाकाशादपतन्भुवि भासुराः ॥१९॥
तस्योपरि शरास्तीक्ष्णा पतिता नृपहस्ततः॥
शरैर्न दृश्यते वीर संग्रामे लोमहर्षणे ॥5.२०॥
तं वीक्ष्य कुपितो भीमः पुत्रं मोचयितुं ययौ ॥
तं विलोक्य रणे प्राप्तं भीमं कर्णात्मजस्त्वरन् ॥२१॥
प्रमथ्य शरवृष्टिं तां नृपमुक्तां हसन्निव ॥
पर्वतास्त्रं च चक्रेण विनाश्य व्यचरद्रणे ॥२२॥
यौवनाश्वेन वीरेण तदस्त्रं च वृथाकृतम् ॥
भल्लेन हृदयं तस्य भिन्नं तेन महात्मना॥२३॥
मूर्च्छितो निपपातोर्व्यां वृषकेतुर्महाबलः॥
कर्णपुत्रे च पतिते भीमः कोपसमन्वितः॥२४॥
चिंतयित्वा स्वहृदये किं वदिष्यामि धर्मजम् ॥
कुंतीं कृष्णं च पार्थं तां विना कर्णसुतं गतः॥२५॥
एतस्मिन्नेव काले तु गृहीत्वा महतीं गदाम् ॥
तद्बलं पोथयामासेवगाद्रुद्र इवाहरत् ॥२६॥
गजकुंभान्स गदया विदार्य च बहून्क्षणात् ॥
रथानश्वानपि नरान्पातयामास भूतले ॥ २७॥
जानुभ्यां भीमसेनस्य पवनस्तु समुत्थितः॥
भ्रामितास्तेन मातङ्गा गगने सरथाहयाः॥ २८॥
नरा भ्रमंते राजेंद्र मुक्त केशा यथाऽसुराः॥
गजा गजैर्नीयमानाः सम्प्राप्ता वसुधातले ॥२९॥
भ्राम्यमाणं च तत्सैन्यमितश्चेतश्च दृश्यत ॥
वासुदेवस्य माहात्म्यमश्रुत्वा च यथा जगत् ॥5.३०॥
ऊर्ध्वपादा वस्त्रहीना नानालंकारवर्जिताः॥
अधोवक्त्राः सरुधिराः शुष्कास्या गजसादिनः ॥ ३१ ॥
राजपुत्रा भिन्नगात्राः स्रवतो रुधिरं मुखात् ॥
गगनाद्भूतलं प्राप्ताः क्षीणपुण्या यथा नराः ॥ ३२॥
नराश्वगजदेहेभ्यः शोणितौघाः सहस्रशः॥
प्रावर्तंत महाराज भीमे युध्यति भूतले ॥३३॥
ततो नृपसुतः प्राप्तः सुवेगो नाम वीर्यवान् ॥
भीमं योधायितुं क्रोधादिदं वचनमब्रवीत् ॥३४॥
सुवेग उवाच ॥
यौवनाश्वसुतं विद्धि सुवेगं मां महाबलम् ॥
तिष्ठ युद्धं कुरु मया सार्द्धं यास्यसि वै कुतः ॥३९॥
इत्युक्त्वा सरथं त्यक्त्वा गृहीत्वा महतीं गदाम् ॥
भीमं जघान गदया मूर्ध्नि वक्षःस्थले तदा ॥३६॥
वृकोदरस्तं गदया जघान समरे बली॥
तावन्योन्यं गदाभ्यां च जघ्नतुः क्रोधमूर्च्छितौ ॥ ३७॥
ततो भीमः समुत्थाप्य सुवेगं गगने क्षिपत् ॥
भ्रामयित्वा शतगुणं निष्पिपेष धरातले ॥ ३८॥
सुवेगः पुनरुत्थाय गृहीत्वा पवनात्मजम् ॥
भूमौ ममर्द राजेंद्र तदद्भुतमिवाभवत् ॥ ३९ ॥
भीमो गजं गृहीत्वैकं सुवेगोपरि चिक्षिपे ॥
समायान्तं गजं तं तु चिक्षेप पवनात्मजे॥
स गजः प्रेरितस्ताभ्यां यातायातं च कुर्वते ॥ 5.४०॥
मुष्टिभिर्जानुभिर्घोरैः प्रहारैस्तौ च जिग्यतुः ॥
उभौ तौ मार्दितौ तत्र पतितौ धरणतिले ॥४१॥
जैमिनिरुवाच ॥
वृषकेतुस्ततो मूर्च्छां त्यक्त्वा राजानमाहवे ॥
पंचभिस्ताडयामास शरैः सन्नतपर्वभिः ॥४२॥
तैर्बाणैर्मूर्च्छितो राजा यौवनाश्वो महाबलः ॥
विसंज्ञं समरे वीक्ष्य वृषकेतुः समीपगः ॥४३॥
वस्त्रवातेन नृपतिं वीजयन्वाक्यमब्रवीत् ॥
वृषकेतुरुवाच ॥
यत्किंचिद्विद्यते पुण्यं कृष्णाराधनसंभवम्॥४४॥
सर्वेण तेन राजासौ पुनर्जीवतु संगरे।
पौरुषं वेत्ति मे कस्तु चेन्न जीवति पार्थिवः ॥४५॥
मूर्च्छां विहाय राजाऽपि तिष्ठतिष्ठेति वै पुनः ॥
उत्थाय चरणे प्राहतं ददर्श तथाविधम् ॥४६॥
कर्णपुत्रं समालिंग्य चेदं वचनमब्रवीत् ॥
यौवनाश्व उवाच ॥
प्राणदस्त्वं मदीयोऽसि यत्त्वया परिभाषितम् ॥४७॥
तच्छ्रुत्वा क्रियते युद्धं न निन्द्योस्ति हि मां विना ॥
गृहाण राज्यं सकलं जीवितं वशगं तव ॥४८॥
त्वत्प्रसादाद्धरिं वीक्ष्ये भीमं दर्शय मारिष ॥
मर्त्ये कर्णः सदा दाता दातृत्वं तस्य दर्शितम् ॥ ४९॥
त्वया पुत्रेण वीरेण पालयित्वा हि मां रणे ॥
त्वमायाहि मया सार्धं यत्र तौ बलिनौ रणे ॥
सुवेगभीमौपतितौ मूर्च्छिताविव लक्षितौ ॥5.५०॥
इति जै० यौवनाश्वपराजयो नाम पंचमोऽध्यायः॥५॥॥