जैमिनीयाश्वमेधपर्व/अध्यायः १०
← अध्यायः ०९ | जैमिनीयाश्वमेधपर्व। अध्यायः १० [[लेखकः :|]] |
अध्यायः ११ → |
जैमिनिरुवाच ॥
निवारितं तु कृष्णेन ज्ञात्वाऽमानं वृकोदरः ॥
प्रहसन्नब्रवीद्राजन्मेघगम्भीरया गिरा॥१॥
भीम उवाच ॥
मामवज्ञाय कृष्णोऽसौ भोजनं कुरुते यदि।।
सैरंध्रि वद देशेऽस्मिन्किं चिकीर्षति माधवः ॥२॥
मृता किं देवकी देवी सत्यभामाथवा मृता ॥
महर्घं किल धान्यानां मेघो राष्ट्रे न वर्षति ॥३॥
किञ्च पुत्रास्तत्र पौत्रा राक्षसेन हता बलात् ॥
किंवा स्त्रीभिः सहैवायं भोजनं कुरुते हरिः॥४॥
जैमिनिरुवाच ॥
एवं वदति भीमे तु कौतुकार्थं महीपते ॥
कृष्णश्च वादयामास फेणिकाचर्वणस्वनम्॥५॥
पर्पटानां महच्छब्दस्तत्र कृष्णेन वै कृतः ॥
प्रपिबन्कथिकाशब्दं घंटिकाघटनिस्वनम् ॥६॥
कुर्वन्नोष्टपुटं रम्यं भीमसेनं प्रकोपयन् ॥
वृकोदरस्तु तच्छ्रुत्वा वाक्यं प्राह हसन्निव ॥७॥
तक्रं पिबति यः पूर्वं सांप्रतं क्वथितं कथम् ॥
सूतिकां तां न जानामि यया कण्ठोऽस्य वर्धितः ॥८॥
नासाच्छेदो वधो न्याय्यः पापिष्ठायास्ततोऽधिकम् ॥
किमंगुष्ठेन जनितो मुसलेन हलेन वा ॥ ९॥
न शृणोति यदा शब्दं पुनरेवाह पांडवः ॥
वटकः किं गले लग्नो गदया पोथयाम्यहम् ॥10.१०॥
धिक् धिक् तर्को मदीयोऽयं यस्य कण्ठे महीधराः॥
दृश्यंते प्रलये नित्यं विशमाना निरर्गलम् ॥ ११॥
वटकस्य वराकस्य गणना कात्र कीर्त्यते॥
तेनाभ्यासेन गोविन्द मा कुटुंबं प्रभक्षय ॥१२॥
दूरदेशात्समायांतं मा मा भक्षय मामितः॥
भक्षितो नैव सुखदो भविष्यामि हरे तव ॥ १३ ॥
अधो न गमनं मह्यमूर्ध्वं गन्तास्मि ते शिरः ॥
यत्र प्रविष्टेन मया दृश्यते सचराचरम् ॥ १४ ॥
कुत्सयिष्यंति वै लोकास्त्वामेव पुरुषोत्तमम् ॥
आशया परया प्राप्तं भक्षमाणं हि पांडवम् ॥१५॥
एकाकिनं भीमसेनं नृपवाक्यप्रणोदितम् ॥
किं करिष्यति कुन्ती सा विना भीमं रसातले॥१६॥
तस्मात्पुत्रयुतां कुन्ती भक्षयित्वा सुखी भव ॥
पालितं धर्मराजेन त्वया चाद्य निपातितम् ॥ १७॥
श्रुत्वा तु भगिनी भद्रा मन्यसे त्वां तु राक्षसम् ॥
कथयिष्यति कस्मै सा बाला पुत्रवियोगिनी ॥१८॥
सर्वान्संहरसे त्वं च तव दोषो न जायते ॥
सर्वान्सृजसि पश्चात्त्वं भीमसेनं तु मा सृज ॥ १९॥
सृजसे यदि मां नाथ स्वदासं न वृथा सृज ॥
जैमिनिरुवाच ॥
एतद्वृकोदरवचः श्रुत्वा विस्मितमानसः॥10.२०॥
उवाच देवकीपुत्रो भीमसेनं स्मयन्निव ॥
श्रीकृष्ण उवाच॥
भीमसेन स्वागतं ते कुशल्यास्ते युधिष्ठिरः ॥२१॥
मया त्वं सहितो वीर भोजनं कुरु मानद ॥
भीम उवाच ॥
तृप्तोऽसि कृष्ण पश्चान्मां परिपृच्छसि सादरम् ॥२२॥
तृप्ते त्वयि जगन्नाथे परां तृप्तिं गतोऽस्म्यहम् ॥
श्रीकृष्ण उवाच ।।
भुज्यतां भवता भीम मया दत्तं महाबल ॥२३॥
न च मेऽस्ति प्रियं किंचिद्विना पार्थाद्धनञ्जयात् ॥
न दारा न च पुत्रो वा न मित्राणि न बांधवाः॥२४॥
कश्चिद्वान्यः प्रियतमः कुंतीपुत्राद्धनञ्जयात् ॥
एतावदुक्त्वा वचनं गृहीत्वा दक्षिणे करे ॥ २५ ॥
भीमसेनं भोजयित्वा सहैव स समुत्थितः ॥
फणिव्रततिपत्राणि फालेयं स्निग्धशालयः ॥२६॥
दिव्यचंदनकर्पूरमुखामोदसमान्वितम् ॥
गृहीत्वा भीमसेनाय ददौ देवो जनार्दनः ॥२७॥
उवाच च तदाऽक्रूरं सांबं जांबवतीसुतम् ॥
प्रद्युम्नमनिरुद्धं च निशठं शठमेव च ॥२८ ॥
उवाच कृतवर्माणं दुन्दुभिं ताडयाशु वै॥
यथा महाजनः सर्वो धर्मराजपुरं व्रजेत् ॥२९॥
मदाज्ञया वाजिमेधं प्रयान्त्वेते यथासुखम् ॥
देवकीप्रमुखाश्चैव मातरो मम यान्तु वै॥10.३०॥
रुक्मिणीसत्यभामाद्याः सर्वा वध्वस्तथैव च ॥
एक एव पुरे रामो वसुदेवसमान्वितः॥३१ ॥
पालयन्द्वारकां रम्यां तिष्ठत्वत्र यथासुखम् ॥
अतः परं धर्मपुत्रो हयमेधं करिष्यति ॥ ३२॥
यत्किंचिद्विद्यते वित्तं शकटैः करभैश्च तत् ॥
अश्वैरश्वतरैर्यातु धर्मराजनिकेतनम् ॥ ३३॥
सुवर्णमणिमाणिक्यरुक्ममुक्ताफलानि च ॥
यत्राहं तत्र दारिद्र्यं कथमेतद्भवेत्क्षमम् ॥३४॥
जैमिनिरुवाच॥
कृतवर्मा तदा राजन्समाहत्याथ दुंदुभिम् ॥
प्रोवाच स्वजनान्सर्वान्कृष्णादेशेन यादवाः॥३५॥
सर्वाः प्रकृतयश्चैव निर्गच्छंतु ममाज्ञया॥
श्रुत्वाकूरवचः सर्वे द्वारकावासिनो जनाः॥३६॥
द्रष्टुं तमश्वमेधं च धर्मराजस्य मन्दिरे ॥
विनिर्गता द्वारकाया गन्तुं तन्नागसाह्वयम् ॥३७॥
परं कौतुकयुक्तास्ते कृष्णादेशेन भूपते ॥
ये ये विनिर्गता राजंस्तांस्तांश्च कथयामि ते ॥ ३८॥
ब्राह्मणा वेदनिपुणाः सर्वशास्त्रविशारदाः ॥
धर्मज्ञाः कर्मनिपुणाः शुचयः समदर्शनाः ॥ ३९ ॥
भार्यापुत्रयुताः सर्वे शिष्यैर्बहुभिरन्विताः॥
वैश्या धनसमृद्धाश्च विनिर्यातास्तदाज्ञया ॥10.४० ॥
शूद्रा विनिर्गताः सर्वे द्विजसेवारताः स्वयम् ॥
कांस्योपजीविनः सर्वे बहुभाजनसंयुताः॥४१॥
परीक्षकाश्च रत्नानां मणीनां चैव सर्वशः॥
मुक्ताफलानां च तथा साधकाः स्वर्णकारकाः॥४२॥
गोविंदपुरवासाद्वै साग्नयो निर्ययुश्च ते ॥
मणीनां जन्मकर्तारः पूरकास्त्रपुजीविनः॥४३॥
धान्यविक्रयिणश्चैव वस्त्रनिर्णेजकास्तथा ॥
पूगीफलयुताश्चान्ये वरतांबूलजीविकाः ॥४४॥
मालाकारास्तैलकाराः सहयंत्रा विनिर्ययुः ॥
तन्तुवायास्तथैवान्ये वरसूत्रधराश्च ये ॥ ४५ ॥
कोष्ठिकाः कर्मनिरता मार्ष्टिकाः क्षौमवाससाम् ॥
कर्मणो गुरवः सूत्रवर्धकारास्तथैष्टिकाः ॥ ४६ ॥
आंत्रिकाः शस्त्रकर्तारः कुलालाश्चांबुवाहकाः॥
निर्णेजकाः सरजका नटास्तत्रैव सूचकाः ॥४७॥
नापिता भित्तिकर्तारश्चित्रकर्मरतास्तथा ॥
तथा सुराप्रकर्त्तारो ध्वजिनश्चर्मजीविनः॥४८॥
मृगयाजीविनश्चैव गोविंदेनप्रणोदिताः॥
कुहिनीगुरवो वेश्या नानाभावप्रवेदकाः॥४९॥
नृपमण्डनकर्त्तारो मल्ला भट्टाश्चिकित्सकाः ॥
शैलूषा मागधाश्चैव सर्ववर्णोपजीविनः॥ 10.५० ॥
तथेन्द्रजालकाराश्च कथकाः पाठकाः परे॥
तथा जाङ्गलिका भूप क्षुरकर्मोपजीविनः ॥५१॥
व्याधाः सपंजराश्चैव कृष्णं संवाहयंति ये ॥
घटकाश्चांबुवाहाश्च तृणवाहास्तथाऽपरे ॥५२॥
सैरंध्यासंगता दास्यस्तथा ये सौविदल्लकाः॥
सूक्तिकाः शस्त्रवैद्याश्च जलौकाजीविनश्च ये ॥५३॥
अन्ये कृष्णाज्ञया प्रीता द्वारकाया विनिर्ययुः॥
निर्गतं बहुधा सैन्यं चतुरङ्गं महत्तदा ॥५४॥
न दृश्यते तदा सूर्यो रजसा संवृतं नभः॥
महारावस्तदा ह्यासीत्तस्मिन्सैन्यविसर्पति ॥५५॥
वणिजानां तु शकटैर्नानावीथिवहैस्तथा ॥
द्वीपिवाहैः पक्षिवाहैर्मार्गो नैव तु लभ्यते ॥५६ ॥
शंभल्येका तदा वृद्धा प्रहसंती सखीजनैः॥
प्रोवाच धावमाना सा वृथा किं क्रियते श्रमः ॥५७ ॥
अविवेकी हरिश्चायं न धनं संप्रदास्यति ॥
सन्तुष्टो हि भवेद्येषां तेषां हरति वै धनम् ॥ ५८ ॥
वृषभे सा समारूढा यावद्याति स्वलीलया ॥
तावत्तस्याश्च वृषभो दृष्ट्वा दासेरकं पथि ॥१९॥
पलायनपरो भूत्वा पातयामास शंभलीम् ॥
पतितांतां समालोक्य प्रहसंति स्म सैनिकाः॥ 10.६० ॥
श्रीकृष्णस्य कृता निन्दा सांप्रतं दुष्टयाऽनया ॥
स्वकर्मणेयं वृषभात्पतिता धरणीतले ॥६१ ॥
नूनमेत्तत्तु संभाव्यं पापिनां पतनं भुवि ॥
सा च तेषां वचः श्रुत्वा शंभली पुनरुत्थिता ॥ ६२॥
कथयंती शुभं वाक्यं सैनिकान्प्रति भारत ॥
कृष्णमत्र विलोक्याहं पुनरेव वृषस्थिता ॥ ६३॥
तस्मान्मूढा न जानंति स्मरणं केशवस्य वै ॥
पतितानां पावनं हि नान्यं पश्यामि केशवात् ॥ ६४ ॥
जैमिनिरुवाच ॥
कृष्णस्ततो हयं शुभ्रं समारुह्याग्रतो ययौ ॥
मध्याह्नसमये सर्वैर्हृष्टस्तु स्वपुराद्बहिः ॥६५॥
कशामादाय तत्रैव द्विगुणां दर्शयत्यसौ ॥
धर्मराजस्य तं मार्गं यथालोका व्रजन्ति ते ॥६६॥
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥
खर्वसंख्यैर्महासैन्यैर्वेष्टितो देवकीसुतः ॥ ६७॥
भीमसेनयुतो भूप स्वदारपरिवारितः ॥
कृष्णं विना न तिष्ठंति द्वारकावासिनो जनाः॥६८॥
सर्वे विनिर्गता हर्षात्स्वेच्छया कौतुकेन तु ॥
मालाकारी हरिं वीक्ष्य हृष्टा वचनमब्रवीत्॥६९॥
मालाकार्युवाच॥
कथं मध्यंदिने कृष्ण निर्गमिष्यंति मानवाः ॥
सर्वे गच्छंति देवेश स्ववस्तुधनजीविनः ॥ 10.७० ॥
वयमत्र परं शोच्याः सुमनोभिश्च जीविनः ॥
त्वदर्थे संगृहीतानि सुमनांसि मयाऽच्युत ॥ ७१ ॥
न म्लायंतु च तान्येव मम देयं च मौक्तिकम्॥
छत्रच्छायासमुदितं वदनं तव माधव ॥७२॥
तापपूर्णा कथं यामि देव कृष्ण पदानुगा ॥
गुणयुक्तानि माल्यानि गृहाण त्वं जनार्दन ॥७३॥
तस्यास्तद्वचनं श्रुत्वा कृष्णः प्रोवाच सस्मितः॥
श्रीकृष्ण उवाच ॥
दास्यामि भद्रे सर्वं ते वांछितं मौक्तिकं धनम् ॥ ७४ ॥
धर्ममाश्रयमद्वाक्याद्यथा तुष्यति मे मनः ॥
जैमिनिरुवाच ॥
एवं वदति वै यावत्तावत्तैलान्विता परा ॥ ७९ ॥
उवाच वचनं देव श्रूयतां क्रियतां विभो ॥
तैलं निःसरते कृष्ण भित्त्वा जीर्णघटं मम ॥ ७६ ॥
व्यथां न कृष्ण जानासि मदीयां यंत्रसंभवाम् ॥
अधुनैव समुत्तीर्य गृहीत्वा स्नेहमेव च ॥ ७७ ॥
मार्गो न लभ्यते नाथ शकटैस्तैलपूरितः ॥
चलितुं नैव शक्नोमि तथा नीतिर्विधीयताम् ॥ ७८ ॥
इत्याश्वमेधिकेपर्वणि जैमिनीये श्रीकृष्णप्रयाणं नाम दशमोऽध्यायः ॥१०