← अध्यायः ०८ जैमिनीयाश्वमेधपर्व।
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →

युधिष्ठिर उवाच ॥
कथं लक्ष्मी स्थिरा तात प्राणिनां जायते गृहे ॥
गोविन्देन सहावासं कथं जायेत तद्वद ॥ १॥
व्यास उवाच ॥
शृणु वत्स प्रवक्ष्यामि यथा लक्ष्मीः स्थिरा भवेत् ॥
सत्यं शौचविशेषेण प्राणिनां शिवचिंतनम् ॥ २॥
तत्र स्थिरायते लक्ष्मीस्तत्र नारायणो हरिः ॥
मातरं पितरं पुत्रो भ्रातरं ज्येष्ठमेव च ॥ ३॥
मन्यते बांधवगणं तत्र लक्ष्मीः स्थिरायते ॥
भार्या पतिपरा यत्र पतिः क्रोधवशो न चेत् ॥ ४॥
कृतं जानाति यो मानी कूटसाक्ष्यं न यो वदेत् ॥
श्राद्धं न वंचयेद्यस्तु वित्तशाठयेन पैतृकम् ॥५॥
श्रद्धावान्कुरुते कर्म दत्त्वा दानं न यो वदेत् ॥
कृत्वा शूरत्वमाजौ हि न भवेद्यो विकत्थनः॥६॥
परास्त्रियं हि वन्देत मातृतुल्यां महीपते ॥
आरामकारकश्चैव वापीकूपमठादिकृत् ॥ ७॥
तडागसत्रप्रासादविप्रमन्दिरकारकः॥
कन्यादानं च यो दद्यात्सदातीर्थावगाहकः॥८॥
सदा दानपरोऽतीतः पापाच्चैव नरोत्तमः ॥
एवंविधं नरं पार्थ रमा संश्रयते भुवि ॥९॥
दुष्टात्मानं त्यजेल्लक्ष्मीः पिशुनं वृषलीपतिम् ॥
तथा च द्यूतकर्तारं द्यूतं च तव सुप्रियम् ॥ 9.१० ॥
प्रथमं वारितश्चासि सर्वैः पार्थिवबन्धुभिः॥
दुर्योधनादिभिः साध कृतं द्यूतं वराटकैः ॥ ११ ॥
अक्षैश्चतुर्भिर्भवता क्रीडितं न च शोभनम् ॥
जितमित्येव शकुनिः सह ताताधमैर्नरैः ॥ १२॥
मया तदैव विज्ञातं कौरवाणां ध्रुवं क्षयः॥
स त्वं श्रिया परित्यक्तो द्यूतदोषेण भारत ॥ १३ ॥
त्यज्यते स श्रिया नित्यं परान्ने यस्तु लंपटः॥
मदिरापानमत्तो यो मृगयासक्तचेतनः ॥१४॥
साधुनिन्दाकरो यस्तु यस्त्वारामादिभञ्जकः॥
तस्करः काञ्चनादीनां धातूनां च तथा नृप ॥ १५॥
रसानां चैव धान्यानां पुस्तकस्यापहारकः ॥
तृणकाष्ठसमूहानां फलादीनां नराधिप ॥१६॥
स्तेनोऽपि वस्तुजातानां स श्रिया त्यज्यते नरः ॥
अमायां रविसंक्रान्तौ व्यतीपाते च वैधृतौ ॥१७॥
पितृक्षयाहे तीर्थे यो मैथुनी न रमास्पदम् ॥
इति ते कथिता धर्मा अत ऊर्ध्वं निशामय ॥१८॥
समानय त्वं गोविंदं यथा यज्ञः प्रजायते॥
विना तु वासुदेवं ते न हि वासः सुखावहः॥१९॥
जैमिनिरुवाच ॥
एतच्छ्रुत्वा वचस्तस्य मुनेरमिततेजसः ॥
प्रत्युवाच ततो राजा भीमं विनयतत्परम् ॥9.२०॥
युधिष्ठिर उवाच॥
भीम याहि महाबाहो कृष्णं प्रति ममाज्ञया ॥
तमानयाशु गोविन्दं पुत्रपौत्रसमन्वितम् ॥२१॥
यशोदां देवकीं देवीं सत्यभामां च रुक्मिणीम् ॥
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतः॥ २२ ॥
नमस्कृत्य च तं भीमः प्रतस्थे द्वारकां प्रति ॥
मार्गे बहुविधान्देशानतिचक्राम सत्वरः ॥ २३॥
नानाविधानि रम्याणि नानावृक्षयुतानि च ॥
वनानि समतिक्रम्य चचार पवनात्मजः ॥ २४॥
पर्वतान्विविधान्रम्याञ्छिखरैरतिशोभितान् ॥
अतिवेगवतीश्चैव सरितो विपुलाः पथि॥२५॥
अतिक्रम्य ददर्शासौ दूरात्कृष्णपुरीं तदा ॥
सुवर्णकलशोपेतां तोरणैरतिशोभिताम् ॥२६॥
चन्दनोदकसेकेन सिक्तमार्गा तथैव च ॥
हृष्टपुष्टजनोपेतामुग्रसेनेन पालिताम् ॥ २७॥
नानावृक्षसमाकीर्णैर्नानावाल्लिविराजितैः॥
क्रीडावनैर्विराजन्तीं प्राकारैः परिखावृताम् ॥ २८॥
अक्रूराद्या यत्र भक्ताः सेवन्ते गरुडध्वजम् ॥
रुक्मिणीसत्यभामाद्याः स्त्रियो भगवतश्च याः॥२९॥
तास्सर्वा भगवत्प्रीत्या यस्यां सेवन्ति तं हरिम् ॥
एवंविधां द्वारकां तां दृष्ट्वा भीमो महाबलः ॥9.३०॥
हर्षेण महता युक्तो बभूव जनमेजय ॥
द्वारकाया बहिर्देशे महासरसि शोभने ॥३१॥
स्नात्वा सर्वविधिं कृत्वा प्रवेशायोपचक्रमे ॥
परद्वारेण संप्राप्य द्वारवत्यां वृकोदरः॥३२॥
यदा प्रवेशं कुरुते मन्दिरे माधवस्य सः॥
तदा स कुरुते कृष्णो भोजनं बहुभिर्वृतः ॥३३॥
रम्यं तु देवकीदत्तं पात्रे वै काञ्चने शुभे ॥
कचोलानां चतुःषष्टिन्यस्ते सुघटिते हरिः॥३४॥
पायसं चन्द्रसंकाशं सितशर्करया युतम्।।
भक्तं कुमुदवर्णाभं मुद्गदालिस्तथैव च॥३५॥
नानाव्यंजनसंयुक्तं त्रिभिः पंक्तिभिरेव च॥
निम्बूरसेन सार्द्रेण फलमूलयुतेन च॥३६॥
विकृतानि कृतान्येव शतशो भोजने विभो ॥
मरीचं पिप्पली चार्द्रं रंभाशर्करया युता ॥३७॥
सितया सहितेनाथ दुग्धेन क्वथितेन च ॥
घृतं सितायुतं देव्या दत्तं प्रीत्या यशोदया ॥३८॥
पूरिकाश्च तथा क्षीरविकाराश्च प्रसाधिताः ॥
मृद्वीका शिंशपा चूत करमर्दकृताः शुभाः ॥३९॥
मरीचपिप्पलीयुक्ता एलाचंद्रकसंयुताः॥
क्वथिताः कथिका यस्मिन्भोजने भूरिशो हरेः॥ 9.४० ॥
प्रलेहिकाः कृता यत्र कचोले रससंयुताः॥
नानाकुसुमसंमोदयुक्ताः सूदैः कृता हि ते॥४१॥
मण्डका वर्तुला रम्याः समाः सर्वत्र बिंबवत् ॥
मधुयुक्तेन गव्येन युक्ते तस्मिन्सुभाजने ॥४२॥
काञ्चने तु कचोले वै स्थितं कांचनसुप्रभम् ॥
घृतं सुवासितं प्रीत्या दत्तं देव्या यशोदया ॥४३॥
तत्र गोधूमचूर्णेन चन्द्रकेण विलोडितम् ॥
घृतं न दृश्यते तत्र काञ्चनप्रभयान्वितम् ॥४४॥
सौहालिकाः पूरिकास्तु शतच्छिद्रास्तु वेष्टिकाः॥
पूपिकास्तु तथा क्षीरविकारास्तु प्रकाशिकाः॥४५॥
मणयः सूत्रसंघाश्च मालतीकुसुमादयः॥
पर्पटाः कर्बुरा रम्या माषकूष्माण्डसंयुताः॥४६॥
वटकान्विविधान्रम्यान्भुंक्ते वै देवकीसुतः ॥
हिंगुजाजीरमरिचैः पूरितार्द्रेण ते शुभाः ॥४७॥
शुक्लेन लवणेनापि शुद्धतैलेन पूरिताः॥
कुंकुमाभाः स्नेहहीनाः सक्षता इव दुर्जनाः॥४८॥
दधिदुग्धयुताः केचिच्चिंचिणीचूतसंयुताः॥
द्राक्षारसयुताः केचित्तथान्ये कथिकायुताः॥४९॥
राजिकाजलमध्याश्च शुभान्ये सितया युताः॥
रसैश्चतुर्भिश्चैवान्ये वटका नवधा स्थिताः॥9.५०॥
वज्रप्रभास्तु कनकाश्चारबीजसुखारिकैः॥
शकलैर्नारिकेलस्य लवंगशतसंयुतैः॥५१॥
घृतक्षीरसितान्यस्ताः कटाहे तु प्रलोडिताः ॥
लब्ध्वा सितास्तु कृसरं रम्यास्तत्रैव फेनिकाः ॥५२॥
पेडारिकास्तु वै बह्वयः कृता राजन्कवोष्णिकाः॥
मोदकास्तत्र संभूताश्चारबीजभवाः परे॥५३॥
सितया तु कृताश्चान्ये दुग्धाज्येन विनिर्मिताः॥५४॥
नारिकेलफलैश्चान्ये तिलैश्चणकबीजकैः॥
ईदृशान्मोदकान्रम्यान्कृष्णस्यार्थे तु भोजने ॥५५॥
मांसं तु संस्कृतं सूदैर्मृगवाराहसंभवम्॥
शाशिकं रौहिकं चैव चैत्तलं मेषसंभवम् ॥५६॥
मस्त्यंमांसं लाविकं च तैत्तिरं रुचिदायकम् ॥
नानारसयुतं रम्यं बुभुजे देवकीसुतः ॥५७॥
अर्शोऽघ्नं मानिनीकंदं सिंधुवारेन्द्रवाहकम् ॥
नारिंगं चिंचिडीकंद कौकुरीफलमेव च॥५८॥
दशारं कर्कटीजातं शुभं निंबफलं शिवम् ॥
टिंटाफललवंगंच श्रीफलं नीरकल्ककम् ॥ ५९॥
वल्कलं वंशकारीरं तथा कायफलं नवम् ॥
द्राक्षाफलं चूतफलं रम्यं कंटकितं फलम् ॥ 9.६० ॥
धात्रीफलं शुक्तिभवं फलमंबाडकं तथा ॥
रंभाफलं पिप्पली च मरीचाश्च मनोहराः ॥६१ ॥
शुद्धसर्षपतैलेन लवणेन च वेष्टितम् ॥
तथा राजिकया विद्धं त्रिभिर्वर्षैर्घटेस्थितम् ॥ ६२ ॥
भुंक्ते च भगवांस्तत्र देवकीवाक्यतोषितः ॥
समीपस्था रुक्मिणी तु लक्ष्मणा चारुलोचना ॥ ६३ ॥
सत्यभामाजांबवतीव्यजनेन समन्विताः॥
चारुनूपुरसंरावा रणद्वलयमेखलाः ॥ ६४ ॥
हारकेयूरशोभिन्यः कृष्णपार्श्वे सुसंस्थिताः ॥
पृथक्पृथङ्निरीक्षंत्यो वीजयन्त्यो हसंति च ॥ ६५॥
कथयंत्यः कथाः काश्चिन्निरीक्षंत्यो जगत्प्रभुम् ॥
पारिजातभवान्यानि बिभ्रंत्यः कुसुमानि ताः॥६६॥
सत्यभामा स्मितं कृत्वा कृष्णं वचनमब्रवीत् ॥
सत्यभामोवाच ॥
सांप्रतं भोजनं कृष्ण समीचीनं सुशिक्षितम् ॥ ६७॥
गोपालत्वं परित्यज्य तक्रपानं तथोदकम् ॥
ईषन्नम्रो भवान्भूत्वा दुग्धं पक्वं तु यः पुरा ॥ ६८॥
पीत्वा च धावसेऽरण्ये कालिंदीतीरसंस्थितः ॥
गोपालानां यदन्नानि हरसे तत्तु विस्मृतम् ॥ ६९॥
इदानीं मानुषं धर्मं जानाति सकलं भवान् ॥
धर्मपुत्रस्य संगत्या विज्ञातं भवताखिलम्॥9.७०॥
चामरैर्वीज्यते दिव्यैः पश्य रुक्मिणि वैभवम् ॥
अस्याश्रयेण मे नाशः कर्मणः संभविष्यति ॥ ७१॥
मत्तोऽन्यां पट्टमहिषीमात्मानं च सुशोभनम् ॥
न मां पश्यति कल्याणि भुञ्जानां कर्मणां फलम् ॥ ७२ ॥
आयामि यामि पुरतो न मां वारयते हरिः ॥
वेदभाषितमाकर्ण्य कृष्णे मे रमते मनः ॥७३॥
तस्मान्मयापि क्रियते सेवनं सर्वदा क्षितौ ॥
देवक्युवाच ॥
न लज्जसे कथं त्वं वै ब्रुवंती केशवं प्रति ॥ ७४॥
अहं तथाऽस्य जननी वसुदेवोऽस्य वै पिता ॥
उभाभ्यां क्रियते कर्म कृष्णतुष्टिकरं परम् ॥ ७९ ॥
निखिलोऽयं पुरा देहे विधृतस्तु मया लघुः ॥
अहं करोम्यस्य कर्म ब्रुवती त्वं न लज्जसे ॥ ७६॥
ममोदरे यदा प्राप्तस्तदा प्राप्तं सुबन्धनम् ॥
वसुदेवेन वीरेण पश्य त्वं कर्मणो गतिम् ॥७७॥
अलक्ष्यलक्षणश्चायं संवृतः शत्रुसूदनः॥
तस्मान्माता चास्य पिता न भार्या प्राप्नुते सुखम् ॥७८॥
सर्वे स्वकर्मणा भद्रे जीवंत्येव हि मानवाः ॥
ये भजन्ति हरिं कृष्णं प्राप्नुयुस्ते सुखं शुभे ॥ ७९ ॥
सत्यभामोवाच ॥
भवत्या साधुवचनं प्रोक्तं कृष्णस्य सन्निधौ ॥
तत्कथं वै प्रशंसंति सर्वे विप्रा जनार्दनम् ॥ 9.८० ॥
एनं हि तावकं पुत्रं विस्मयस्तत्र मेऽपरः॥
कर्मणां नाशकृद्देवो महतां देवकीसुतः॥ ८१ ॥
अस्मिन्देहे महत्कष्टं कुर्वाणां वेत्ति माधवः ॥
हृदये तु धृतः पूर्वं त्वया नैव निरीक्षितः॥ ८२॥
मया तु धार्यते भद्रे हृदये परिदृश्यते ॥
तस्मात्ते कर्मणां नाशः क्रियते ह्यमुना शुभे॥८३॥
तस्यास्तद्वचनं श्रुत्वा प्रसन्नवदनो हरिः॥
यावद्वदति तां देवीं तावद्भीमः समागतः॥८४॥
दृष्ट्वा तदा समायांतं हृषीकेशो वृकोदरम् ॥
वारयामास हि तदा सैरन्ध्रीवचनेन तम् ॥ ८५॥
किं वदिष्यति भीमोऽसाविति बुद्ध्या नराधिप ॥
कौतुकी भीमवचनश्रवणे सर्वदा हरिः ॥ ८६॥
इत्याश्वमेधिके पर्वणि जैमिनीये भीमागमो नाम नवमोऽध्यायः॥९॥