ज्ञापकसंग्रहः/पञ्चमोऽध्यायः
← चतुर्थोऽध्यायः | ज्ञापकसंग्रहः पञ्चमोऽध्यायः [[लेखकः :|]] |
षष्ठोऽध्यायः → |
।। अथ पञ्चमोऽध्यायः ।।
झ्र्ज्ञा.ट प्राक्क्रीताच्छः (सू.5-1-1)।। "असमासे निष्कादिभ्यः' (सू.5-1-20) । निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्तविधेः प्रतिषेधो नेति । झ्र्वि.ट ननु "असमासे निष्कादिभ्यः' इति सूत्रे असमासग्रहणं व्यर्थम् । न च तदभावे परमनिष्कशब्दात्समासादप्यनेन ठक् स्यात् , ठञेवेष्यते । तथा च परमनिष्कशब्दव्यावर्तनार्थं असमासग्रहणमिति वाच्यम् । ग्रहणवता प्रतिपदिकेन तदन्तविधः प्रतिषेधात् निष्कादिभ्यो विधीयमानष्ठक् निष्काद्यन्तान्न भविष्य तीति असमासग्रहणमन्तरेणापि परमनिष्कदिव्यावृत्तिसिद्धेरित्याशङ्क्य, एतत्सूत्रात्प्राक्तनेषु सूत्रेषु प्रातिपदिकग्रहणेन तदन्तदस्यापि ग्रहणमिति ज्ञापनार्थम् असमासग्रहणम् । तथा च तन्न्यायेनात्र सूत्रेऽपि तदन्तविधिप्राप्तौ परमनिष्कादिभ्यऽपि ठक् स्यादिति तद्वारणार्थमसमासग्रहणं सार्थकम् । ज्ञापनप्रयोजनम् तु "खलयवमाषतिलवृषब्रह्मणश्च' (सू.5-1-7) इति सुत्रेण खलादिभ्यो विधीयमानः हितार्थे यत्प्रत्ययः खलाद्यन्तादपि भवति । तेन कृष्णतिलेभ्यो हितः कृष्णतिल्यः राजमाषेभ्यो हितं राजमाष्यमित्यादिकं सिध्यति । सर्वमिदमभिप्रेत्याह--निष्कादिष्विति । झ्र्ज्ञा.ट विंशतित्रिंशद्भ्याम् (सू.5-1-24)।। विंशतिकात्खः (सू.5-1-32) इति कप्रत्ययान्तोच्चारणं ज्ञापयति भवत्येतत्सूत्रोपात्ताभ्यां कन्निति । झ्र्वि.ट ननु "विंशतित्रिंशद्भ्यां ड्ड्डत्ध्;वुन्नसंज्ञायाम्' इता सूत्रेण आर्हीयेष्वर्थेषु विंशतित्रिंशद्भ्यां ड्ड्डत्ध्;वुन्प्रत्ययो विधीयते । विंशकः त्रिंशकः इत्युदाहरणम् । तत्रासंज्ञायामित्यनुक्तौ संज्ञायां विषयेऽपि ड्ड्डत्ध्;वुन् भवेत्, कनेव तु तत्र विंशतिकः त्रिंशत्कःइत्येवमिष्यते । अतः असंज्ञायामित्युक्तमिति वक्तव्यम् । परं तु प्रत्युदाहरणे विंशतिकः त्रिंशत्कः इत्युभयत्रापि कन् दुर्लभः । "संख्याया अतिशदन्तायाःकन्' (सू.5-1-22) इति सूत्रे त्यन्तायाः शदन्तायाश्च कन्प्रतिषेधादित्याशङ्क्य,"विंशतिकात्खः' इति सूत्रे कन्प्रत्ययान्ततया उच्चारणेन विंशतित्रिंशद्भ्यां कन् भवतिति ज्ञापनान्न दोष इत्याह--कप्रत्ययान्तोच्चारणमिति । न च विंशतिकशब्द एव सूत्रकारेणोच्चारितः । तेन च विंशतिकशब्दस्य साधुत्वावगमेऽपि त्रिंशत्कशब्दस्य कथं साधुत्वमवगम्येत इति वाच्यम् । विंशतिकशब्देन विंशतिशब्दघटितसूत्रोपलक्षणेन तत्सूत्रोपात्ताभ्यां विंशतित्रिंशद्भ्यामुबाभ्यामपि कन्प्रत्ययस्य ज्ञापनादित्याशयः । योगापेक्षत्वात् ज्ञापकत्वस्येति यावत् । झ्र्ज्ञा.ट तत्र तस्येव (सू.5-2-116)।। अस्मादेव ज्ञापकादिवशब्देन सप्तमी भवति । झ्र्वि.ट ननु "तत्र तस्येव' इति सूत्रेण सप्तम्यन्तात् षष्ट्यन्ताच्च इवार्थे वतिप्रत्ययो विधीयते । मथुरायामिव मथुरावत् स्त्रुघ्रे प्राकारः, देवदत्तस्येव देवदत्तवत् यज्ञदत्तस्य गावः इत्यादिकमुदाहरणम् । तत्रेवशबढद्धठ्ठड़14;दयोगे सम्बन्धसामान्ये षष्ठ्याः स्भवेऽपि इवयोगे केनापि सूत्रेण सप्तम्याः अविधानेन सप्तम्यन्तादिवार्थे वतिविधानं कथं सङ्गच्छत इत्याशङ्क्य, अस्मादेव इवार्थे सप्तम्यन्ताद्वतिविधानात् ज्ञापकात् इवयोगे सप्तमीविभक्तिर्भवतीति ज्ञापनात् न कोऽपि दोष इति समाधत्ते--अस्मादेवेति । इवशब्देनेति । योग इति शेषः। ज्ञापनस्य फलं तु देवेष्विव नाम ब्राह्मणेष्विव नाम इत्यादिप्रयोग उपपन्नो भवतीति । झ्र्ज्ञा.ट किमिदंभ्याम् (सू.5-2-40)।। एतदेव ज्ञापयति किमिदंब्यां वतुबिति । झ्र्वि.ट ननु "किमिदंभ्यां वे घः' इति सूत्रं किमिदंभ्यां परस्य वतुपो वकारस्य घत्वं विधत्ते । कियान् इयान् इत्युदाहरणम् । तत्र किमिदंब्यां वतुपो दुर्लभत्वात् धत्वविधानमसंगतम् । "यत्तदेतेब्यः परिमाणे वतुप् ' (सू.5-2-39) इति सूत्रे यत्तदेतच्छब्देब्य एव
वतुपो विधानादित्या शङ्क्याह--एतदेवेति । किमिदंभ्यां वतुपोऽभावे तदवयववकारस्य घत्वविधानमनुपपन्नमिति आदेशविधानान्यथानुपपच्या वतुप्प्रत्ययः किमिदंब्यां भवतीत्यनुमीयत इति भावः । झ्र्ज्ञा.ट (षष्ठादे) झ्र्षष्ठ्यादेट श्चासं (सू.5-2-58)।। असंख्यादेरित्येतत् ज्ञापयति (भवति) हि झ्र्भवतीहट तदन्तविधिरिति । तेनैकविंशतितमः सिद्धः । झ्र्वि.ट ननु षष्ठ्यादेश्चासंख्यादेः' इति सूत्रेणासंख्यादेः षष्टिप्रभृतेः संख्यावाचकशब्दात् परस्य डड्डत्ध्;टस्तमडड्डत्ध्;ागमो नित्यं विधीयते । षष्टितम इत्यादिकमुदाहरणम् । तत्रासंख्यादेरित्यनुक्तौ एकषष्टितमः इत्यत्रापि नित्यं तमडड्डत्ध्;ागमः स्यात्, "विंशत्यादिभ्यस्तमडड्डत्ध्;न्यतरस्यां' (सू.5-2-56) इत्यनेन विकल्पेन तु तमडिड्डत्ध्;ष्यते इति असंख्यादेरित्यस्य प्रयोजनं वक्तव्यम् । तन्न युक्तम् । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् षष्टिशब्देन षष्टिशब्दान्तस्य एकषष्टिशब्दस्य ग्रहणासंभवादेव ततः एतत्सूत्राप्रवृत्तेः इत्याशङ्क्याह-असंख्यादेरत्यिेतदिति । तथा च पूर्वोक्तरीत्या व्यर्थं सत् असंख्यादेरित्येतत् इह तमट्प्रकरणे तदन्तविधिरस्तीति ज्ञापयति । ततश्च एकषष्टिशब्दादपि तदन्तविधिना अनेन सूत्रेण नित्यं डड्डत्ध्;टस्तमडड्डत्ध्;ागमप्रसक्तौ तद्वारणार्थं असंख्यादेरिति । एकषष्टिशब्दस्य संख्यावाचकैकशब्दाद्यवयवकत्वेनासंख्यादित्वं नास्तीति न दोषः । ज्ञापनफलवमाह-तेनैकविंशतितमः सिद्ध इति । "विंशत्यादिंभ्यस्तमडड्डत्ध्;न्यतरस्यां' (सू.5-2-56) इति सूत्रे तदन्तविधिना विंशत्याद्यन्तस्यापि ग्रहणात् एकषष्टिशब्दादपि तेन डड्डत्ध्;टस्तमटि एकषष्टितम इति सिध्यति । डड्डत्ध्;टस्तमट्प्रकरणे तदन्तविध्यभावे तु षष्टिशब्दान्तस्य एकषष्टिशब्दस्य "विंशत्यादिभ्यः' इति सूत्रे ग्रहणाभावात् डड्डत्ध्;टस्तमट् न स्यात् एकषष्ठ इत्येव रूपं भवेदिति भावः । झ्र्ज्ञा.ट सिध्मादिभ्यश्च (सू.4-2-97)।। अदन्तपिच्छादितुन्दाद्यन्यतरपाठेनैव सिद्धे भेदेन पाठो ज्ञापयति लजन्यतरस्यामिति समुच्चय इति । "केशाद्वोऽन्यतरस्यां' (सू.5-2-109) इत्यन्यतरस्यांग्रहणस्य पुनः करणाच्येदं समुच्चयार्थम् । द्युद्रुभ्यां नित्यार्थमेके एतदन्यतरस्यांग्रहहणमिच्छन्ति विभाषयोर्मध्ये ये विधयस्ते वित्या भवन्तीति । झ्र्वि.ट ननु "सिध्मादिभ्य' इति सुत्रे "प्राणिस्थादातो लजन्यतरस्यां' (सू.5-2-96) इति सूत्रादन्यतरस्यामित्यनुवर्तते । तथा च सिध्मादिब्यः मत्वर्थेऽन्यतरस्यां लच् भवतीति सूत्रार्थो लभ्यते । एवं सति सिध्यादिगणे यान्यकारान्तानि तेभ्यो विकल्पेन लचि विहिते लजभावपक्षे "अत इनिठनौ' (सू.5-2-115) इति सूत्रेण इनिठनावपि प्राप्नुतः । मतुबेवेष्यते । कथमेतत्सिध्यतीत्याशङ्क्याह-अदन्तेत्यादिना । अयमाशयः--निपातानामनेकार्थत्वादत्र सूत्रेऽनुवलृत्तः अन्यतरस्यांशब्दः समुच्चयार्थकः न विकल्पार्थकः । अतः अन्यतरस्यांग्रहणेन प्रकृतः मतुप् समुच्चीयते । सिध्मादिबप्यः लच् मतुप् च बवतः इति सूत्रार्थः । अतः इनिठनोः न प्रसक्तिः । समुच्चयार्थोऽयमन्यतरस्यांशब्द इत्यत्र किं ज्ञापकमिति चेत् पिच्छादीनां तुन्दादीनां च पृथक् सूत्रे ग्रहणमिति ग्रहाण। तथा हि-"तुन्दादिभ्य इलच्च' (5-2-117) इत्येकं सूत्रम् । तत्र च चत्वार- प्रत्ययाः इष्यन्ते इलच् इनिठनौ मतुप् चेति । यद्यन्यतरस्याग्रहणानुवृत्त्या प्रत्ययचतुष्टयं सिध्मादिब्योऽपि भवेत् तर्हि अस्यैवान्यतरस्यांशब्दस्य "लोमादिपामादिपिच्छादिब्यः शनेलचः' (सू.5-2-200) इति सूत्रेऽप्यनुवृत्त्या पिच्चादभ्यिोऽपि चत्वारः प्रत्यया भवेयुः । तथा सति तुन्दादीनां पिच्छादिगणे पाठेनैव तुन्दादिब्यः "लोमादिपामादि' इति प्रत्ययचतुष्टयसिद्धेः
"तुन्दादिब्य इलच्च' इति पृथक्सूत्रमनर्थकम् । यद्वा तुन्दादिगणे पिच्छादीनां पाठेनैव पिच्छादिब्यः "तुन्दादिभ्यः इलच्च' इति सूत्रेण प्रत्ययचतुष्टयसिद्दौ "लोमादिपामादि' सूत्रे पिच्छादिग्रहणमनर्थकम् । एवं चानयोः पिच्छादितुन्दाद्योः पृथक्पाठः पूथग्योगकरणं चायुक्त मिति "सिध्मादिभ्यश्च' इति सूत्रे अन्यतरस्यांशब्दः समुच्चयार्थो न विकल्पार्थ इति ज्ञापयति । तथा च प्रकृतस्य मतुपः समुच्चयेन प्रत्ययद्वयसिद्धावपि प्रत्ययचतुष्टयं तुन्दादिभ्यो न सिध्येदिति पिच्छादिभ्यः पृथक्कृत्य "तुन्दादिब्य इलच्च' इति सूत्रं प्रणीतम् । तस्य च इनिठन्ब्यामनन्तरं प्रवृत्तत्वात् चकारेण मतुप् इनिठनौ च समुच्चीयेते इति प्रत्ययचतुष्टयसिद्धिः । सिध्मादिपिच्छादिसूत्रयोस्तु इनिठनोः पूर्वं पाठात् समुच्चयार्थकेनान्यतरस्यांग्रहणेन पूर्वकृतो मतुबेव समुच्चीयत इति तेभ्यः प्रत्ययद्वयमेवेति व्यवस्था सिध्यति । विकल्पार्थकत्वापक्षे तु अभावपक्षे पूर्वेण परेण वा विहिताः सर्वेऽपि प्रत्याया यथाप्राप्तं भवेयुरिति भावः ।"सिध्मादिभ्यस्च' (5-1-97) इति सूत्रेऽनुवृत्तं अन्यतरस्यांग्रहणं समुच्चयार्थकमित्यत्र ज्ञापकान्तरमुपन्यस्यति "केशाद्वः' इत्यादिना । "केसाद्वोऽन्यतरस्याम्' (सू.5-1-109) इति सूत्रेऽन्यतरस्यांग्रहणानुवृत्त्यैव तत्फलसिद्धेः । अतः व्यर्थं सत् तत् पूर्वत्र अन्यतरस्यांग्रहणं समुच्चयार्थकमिति ज्ञापयति । तथा च तस्य केशाद्व इत्यत्रानुवृत्तौ समुच्चयार्थ एव लभ्येत । विकल्पार्थस्तिवष्यते । तेन इनिठनावपि प्राप्येते । अत एव केशवः केशी केशिकः केशवानिति रूपचतुष्टयं सिध्यति इति भावः । अन्ये तु-"केशाद्वोऽन्यतरस्याम्' (सू.5-2-109) इति सूत्रे अन्यतरस्यांग्रहणं "द्युद्रुब्यां मः' (सू.5-2-107) इति पूर्वसूत्रस्य नित्यत्वज्ञापनाय । अन्यथा तत्रापि अन्यतरस्याम् इत्यस्यानुवृत्तौ तस्याप्यनित्यत्वापत्तेः । तथा च तत्र सूत्रेऽन्यतरस्यामित्यस्य निवृत्तिं सूचयति । एतदेव विबाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीति शब्दान्तरेमोक्तम् । तथा च "केशाद्व' इति सूत्रस्थान्यतरस्यांग्रहणस्य प्रयोजनान्तरसद्भावात् तत्कथं समुच्चयार्थे ज्ञापकं भवेदिति वदन्ति । तदनुवदति--द्युद्रुभ्यां नित्यार्थमेक इति । वस्तुतस्तु-"द्युद्रुभ्यां मो नित्यं' इति नित्यपदं संयोज्य नित्यत्वे साधयितुं शक्ये सति तदर्थं उत्तरसूत्रे अन्यतरस्यांग्रहणोपादानमित्येतन्न युज्यते इति अन्यतरस्यांग्रहणं ज्ञापकमेव । इदमेवास्वारस्यम् एके इत्यनेन सुचितमित्यवधेयम् । झ्र्ज्ञा.ट एकगोपूर्वात् (सू.5-2-117)।। नित्यग्रहणं ज्ञापयति प्रागेतस्माद्योगाद्विभाषानुवर्तत इति । झ्र्वि.ट ननु "एकगोपूर्वाट्ठञ् नित्यम्' इति सूत्रे नित्यग्रहणं व्यर्थम् । न च तदभावे "केशाद्वोऽन्यतरस्यां' (सू.5-2-109) इति सूत्रात् अन्यतरस्यामित्यनुवर्तेत । ततश्च पक्षे मतुबपि स्यादिति तन्निवृत्त्यर्थं नित्यग्रहणमिति वाच्यम् । पूर्वसूत्र एव अन्यतरस्यामित्यस्य निवृत्तेरत्रानुवृत्त्यसम्भवादित्यतः ज्ञापकार्थंत्वमाह--नित्यग्रहणमिति । यतोऽत्र सूत्रे नित्यग्रहणं कृतं तेन पूर्वसूत्रेऽन्यतरस्यांग्रहणमनुवर्तत इति ज्ञापयति । एवं चात्रापि तदनुवृत्तौ पक्षे मतुप् स्यादिति तन्निवृत्त्यर्थं नित्यग्रहणमिति भावः । ज्ञापनफलं तु "व्रीह्यादिभ्यश्च'(सू.5-1-116) इति सूत्रस्य वैकल्पिकत्वमिति । झ्र्ज्ञा.ट प्रशस्यस्य श्रः (सू.5-3-60)।। अजाद्योरेतदादेशविधानं ज्ञापयत्येतेभ्योऽगुणवचनेभ्योऽप्यजादी इति । झ्र्वि.ट ननु "प्रशस्यस्य श्रः' इति सूत्रे "अजादी गुणवचना