← पञ्चमोऽध्यायः ज्ञापकसंग्रहः
षष्ठोऽध्यायः
[[लेखकः :|]]
सप्तमोऽध्यायः →

।। अथ षष्ठोऽध्यायः ।।
    झ्र्ज्ञा.ट दाश्वान् साढद्धठ्ठड़14;वान् (सू.6-1-12)-"अब्यासस्यासवर्णे' (सू.6-4-78) इत्यसवर्णग्रहणं ज्ञापयति वार्णादाङ्गं बलीय इति । न ह्यन्तरेण गुणवृद्धी असवर्णपरोऽभ्यासो भवति । झ्र्वि.ट परिभाषेयमिति न व्याख्यायते । झ्र् ज्ञा.ट न सम्प्रसारणे (सू.6-1-37)।। अयमेव निषेधो ज्ञापयति (पूर्वस्य) झ्र्परस्यट न (परस्येति) झ्र्पूर्वस्येतिट । झ्र्वि.ट ननु "न सम्प्रसारणे सम्प्रसारणं' इति सूत्रेण सम्प्रसारणे परतः पूर्वस्य यणः सम्प्रसारणं न भवतीत्युच्यते । यून इत्यादिकमुदाहरणम् । युवन् शब्दात् शसि युवन् अस् इति स्थिते वकारस्य "श्वयुवमघोनामतद्धिते' (सू.6-4-133) इति सूत्रेम सम्प्रसारणे उकारे युउ अन् इति स्थिते "सम्प्रसारणाच्च' (सू.6-1-108) इति पूर्वरूपे यु उन् इति स्थिते सवर्णदीर्घे यूनः इति रूपं सिध्यति । तत्र यकारस्यापि सम्प्रसारणे प्राप्ते "न सम्प्रसारणे' इति सूत्रेण वकारस्थानिके उकाररूपे सम्प्रसारणे परे यकारस्य संप्रसारणं न भवतीति निषिध्यते । तदेतत् तदा घटते यदि युवन्शब्दे वकारस्य पूर्वं सम्प्रसारणं स्यात् । यदा तु आदौ यकारस्य सम्प्रसारणं क्रियते तदा सम्प्रसारण परकत्वाभावान्निषेधो न प्रवर्तेत । तथा च आदौ यकारस्य सम्प्रसारणं पश्चद्वकारस्येत्येवमुभयोः सम्प्रसारणं प्रसज्यत इत्याशङ्क्याह--अयमेव निषेधो ज्ञापयतीति । यदि हि द्वयोः सम्प्रसारणं स्यात् निषेधारम्भो व्यर्थो भवेत् । निषेधमहिम्ना च परस्य यणः पूर्वं सम्प्रसारणं न पूर्वस्येति ज्ञापयति । ततश्च परस्य सम्प्रसारणे कृते पूर्वस्यापि प्राप्तौ सत्यां निषेध आरभ्यते इति निषेधस्य चरितार्थतेति भावः । झ्र्ज्ञा.ट प्रथमयोः पूर्व (सू.6-1-102)।। अत्र विभक्त्योर्ग्रहणे "तस्माच्छसो नः'(6-1-103) इति पूर्वलसवर्णदीर्घपरामर्शकं तस्मादिति ज्ञापकम् । झ्र्वि.ट ठप्रथमयोः पूर्वसवर्णः' इति सूत्रे, प्रथमशब्दः क्कचित् सन्निवेशे क्रमेण सन्निविष्टानामादिभूतं बोधयति । "दीर्घाज्जसि च' (सू.6-1-105) इति लिङ्गात् सबात्मकसन्निवेशघटकानामादिभूतयोरित्यर्थः पर्यवस्यति । तत्रादिभूतयोः कयोः ? किं विभक्त्योः ? उत प्रत्यययोः इति सन्देहः । ननु "इको यणचि' (सू.6-1-77) इत्यत अचीत्यनुवर्तते । तच्च प्रथमयोरित्यस्य विशेषणम् । तेन अजाद्योः प्रथमयोरित्यर्थः सम्पन्नः । तत्र प्रथमन्निके सु इत्यस्याजादित्वासम्भचवेऽपि अवयवान्तरगतमजादित्वमादाय प्रथमयोर्द्वयोर्विभक्त्योरजादित्वं वक्तुं शक्यते । प्रत्यययोस्तु ग्रहणे सुशब्दस्याजादित्वासम्भवात् औजसोश्चाप्रथमत्वात् प्रथमयोरजाद्योः प्रत्यययोरिति व्याख्यानं न सम्भवति . तथा च प्रथमयोः विभक्त्योरेव ग्रहणमिति क्व सन्देहावकाश इति चेन्न । अजादी इत्येतदेव प्रथमावित्यस्य विशेषणम् । तथा च अजादित्वेन सिद्धौ यौ प्रथमौ इतराजादिप्रत्ययापेक्षयेति यावत् तयोः परतः पूर्वसवर्णदीर्घ इत्यपि व्याख्यानसम्भवेन औजसोः प्रत्यययोरेव ग्रहणमित्यपि वक्तुं शक्यत्वात् । ततश्च प्रथमयोर्विभक्त्योर्ग्रहणं उत प्रथमयोः प्रत्यययोरिति सन्देहरतदवस्थ इत्यत आह--अत्रेति । "तस्माच्छसो नः पुंसि' (सू.6-1-103) इति सूत्रे प्रथमयोरजाद्योः प्रत्यययोर्ग्रहणे औजसोरेव पूर्वसवर्णदीर्घः तेन सूत्रेण लभ्येत । शसि तु पूर्वसवर्णदीर्घाप्राप्त्या कृतपूर्वसवर्णदीर्घात्परत्वं शसवयवसकारस्य कथं भवितुमर्हति । अतस्तस्मादित्यनेन शस्यपि पूर्वसवर्णदीर्घमनुमन्यमानः सूत्रकारः "प्रथमयो' रिति सूत्रे प्रथमयोर्विभक्त्योरेव ग्रहणमभिप्रेतीति भावः । झ्र्ज्ञा.ट सम्प्रसारणाच्च (सू.6-1-108)।। आङि पररुपं ज्ञापकमन्तरङ्गबलीयस्त्वस्य। अद्य आ ऊढा अद्योढा धातूपसर्ग(योगः) झ्र्योःट कार्यं
गुणोऽन्तरङ्गः । पूर्वमुपसर्गस्य दातुना योगः नाद्यशब्देन । अद्यशब्दस्य तु समुदायेन योगादिति । झ्र्वि.ट ठसम्प्रसारणाच्च' इति सूत्रे "आद्गुणात्सवर्णदीर्घत्वमाङभ्यासयोः' इति वार्तिकम् । आङि अभ्यासे च परे आद्गुणसवर्णदीर्घयोः प्राप्तौ सवर्णदीर्घ एव भवति न आद्गुण इति तदर्थः । आङि अद्योढा इत्युदाहरणम् । अद्य आ ऊढा इति स्थिते अद्य आ अनयोः सवर्णदीर्घे अद्या उढा इति स्थिते आद्गुणे अद्योढा इति सिध्यति । आदौ अ ऊढा अनयोर्गुणे तु अद्य ओढा इति स्थिते वृद्धौ अद्यौढा इति भवेत इति वार्तिकाशयः । नन्वेतद्वार्तिकमयुक्तम् । आदौ सवर्णदीर्घे सति "ओमाङोश्च' (सू.6-1-95) इति सूत्रेण आङि पररूपविधानस्य वैर्यथ्यापत्तेः । तथा हि शिव आ इहीत्यत्र आ इहीत्यनयोराद्गुणे शिव एहि इति श्थिते "वृद्धिरेचि' (सू.6-1-88) इत्यनेन वृद्धौ प्राप्तायां तदपवादत्वेन पररूपं विधीयते । यदि च आद्गुणात्सवर्णदीर्घः आदौ भवेत् तदा शिव आ अनयोः सवर्णदीर्घे पश्चाद्गुणो शिवेहि इतीष्टं रूपं सिद्धमेवेति किमाङि पररूपविधानेन इत्याश्ङ्क्याह--आङि पररूपमिति । तथा च "अन्तरङ्ग बलीयः' इति वचनज्ञापनार्थ आङि परूपविधानम् । धातूपसर्गयोर्थत्कार्थंतदन्तरङ्गम् । आद्गुणस्य च धातूपसर्गकार्यत्वेनान्तरङ्गत्वात् आ इहि इत्यनयोर्गुणे पश्चात् वृद्धौ सत्यां शिवैहि इत्यनिष्टं रूपं प्रसज्येतेति वृद्दिबाधनार्थमाङि पररूपविधानं सार्थकमिति भावः । उपसर्गस्य पूर्वं धातुनैव योगः न अद्यशब्देनेत्यत्र नियामकमाह अद्यशब्दस्य तु इति । अद्य इत्यस्याधारार्थस्य आङा सम्बन्धो नास्ति, क्रियासापेक्षत्वादाधारस्य आङश्च क्रियावाचित्वाभावात् । क्रिया च धातूपसर्गसमुदायेनोच्यते । अतः धातूपसर्गसमुदायेनैव अद्यशब्दस्य सम्बन्धः, न तु क्रियाया अवाचकेन केवलेन आङा इति भावः । झ्र्ज्ञा.ट अनुदात्तस्य च यत्रो (सू.6-1-161)।। अयचश्चित्करणादत्र अन्त इत्यस्यासम्बन्धो ज्ञाप्यते । एवं चार्थादादिरुदात्तः । झ्र्वि.ट ठअनुदात्तस्य च यत्रोदात्तलोपः' इति सूत्रस्य यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्यानुदात्तस्य उदात्तो भवतीत्यर्थः । अत्र अविद्यमानोदात्तकं यं निमित्तीकृत्य उदात्तलोपः तस्योदात्त इति वा,निमित्तत्वानादरेण अविद्यमानोदोत्ते यस्मिन् वर्णे परत उदात्तलोपस्तस्य वर्णस्योदात्त इति वा व्याख्यानं भवितुमर्हति । तत्र प्रथमपक्षे "कर्षात्वतो घञोऽन्त उदात्तः' (सू.6-1-159) इति सूत्रात् अन्त इत्यनुवर्तय अविद्यमानोदात्तकस्यान्त उदात्त इति सूत्रर्थः सम्पद्यते । द्वितीयपक्षे तु अनुदात्तस्य वर्णस्यैवोदात्तविधानात् अन्त इति नानुवर्तते फलाभावात् । तथा च द्वितीयपक्षे अनुदात्तस्यादेरुदात्त इति फलितम् । प्रथमपक्षे अनुदात्तस्यान्त उदात्त इति फलितम् । तत्र कतरः पक्षः श्रेयान् इति शङ्कायां द्वितीयः पक्ष एव श्रेयानित्याह--अयचश्चित्करणादिति । द्वाववयवावस्य त्रयोऽवयवा अस्येति चार्थे "संख्याया अवयवे तयप्' (सू.5-2-42) इति सूत्र्ण द्वित्रिभ्यां तयप् । तषपश्च "द्वित्रिब्यां तयस्यायज्वा' (सू.5-2-43) इति सूत्रेणायजादेशः । तयप् पित्त्वादनुदात्तः । तत्स्थानिकोऽयचू अपि स्थानिवद्बावेनानुदात्तः तस्मिन् परे च "यस्येति च' (सू.6-4-148) इतीकारलोपे द्वयं त्रयमित्यत्र "अनुदात्तस्य च यत्रोदात्तलोपः' इति प्रकृतसूत्रेण अय इत्यस्यादेरकारस्योदात्तत्वे प्राप्ते अन्तोदात्तत्वाय अयचश्चित्करणम् । यदि च "अनुदात्तस्य च' इति सूत्रे अन्त इत्यनुवर्तेत तदा अनुदात्तस्य अय इत्यत्यान्त एवोदात्तो भविष्यतीति इष्टसिद्धेः किमयचश्चित्करणेन । अतश्चित्करणमयचो ज्ञापयति यदत्र सूत्रऽन्त इति नानुवर्तते इति । यदि नानुवर्तते तदा अनुदात्तस्य अय इत्यस्य उदात्त इत्युक्ते प्रथमातिक्रमे कारणाभावादर्थादादेरेव
भवेदिति अन्तस्योदात्तत्वार्थमयचश्चित्करणं सार्थकमिति भावः । ज्ञापनफलं तु विन्दाते इत्यत्र आकारस्योदात्तत्वसिद्धिः । अन्यथा अन्तः एकार उदात्तः स्यात् । "विद विचारणे' इति धातोः परस्य आते इत्यस्य "तास्यनुदात्तेन्ङिददुपदेसाल्लसार्वधातुकमनुदात्तं' (सू.6-1-186) इति सूत्रेण अनुदात्तत्वम् । श्नमः प्रत्ययत्वादुदात्तत्वम् । ततः श्नसोरल्लोपे आकारस्योक्तसूत्रेण उदात्तत्वमिष्यते । अन्तग्रहणानुवृत्तौ तु एकार एवोदात्तो भवेदिति । झ्र्ज्ञा.ट अष्टनो दीर्घात् (सू.6-1-182)।। अष्टनो दीर्घग्रहणं षट्संज्ञायं ज्ञापकं आकारान्तस्य नुडड्डत्ध्;र्थम् । आत्वविकल्पस्य च ज्ञापकमेतत । झ्र्वि.ट ननु "अष्टनो दीर्घात् ' इति सूत्रस्य दीर्घादष्टन्शब्दात्परा शसादिर्विभक्तिरुदात्तेत्यर्थः । अष्टासु इत्युदाहरणम् । अत्र दीर्घग्रहणं मास्तु । न च तदभावे "अष्टसु' इत्यत्र हस्वादष्टन्शब्दात्परस्याः सु इति विभक्तेरुदात्तत्वं स्तात्, तद्वारणार्थंदीर्घग्रहणमिति वाच्यम् । "अष्टसु' इत्यत्र "झल्युपोत्तमम' (सू.6-1-180) इति सूत्रेण परेण षट्त्रिचतुर्भ्यौ या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यादित्यर्थकेन उपोत्तमस्य टकारोत्तराकारस्यैवोदात्ततया "सु' इत्यस्य पूर्वेण "अष्टनः' ( सू6-1-172) इत्यनेनोदात्तत्वाप्राप्तेः । न च "अष्टासु' इत्यत्रापि उपोत्तमस्वरः परत्वात्सयादिति प्रश्ने येन नाप्राप्तिन्यायेन "अष्टनः' इति स्वरस्योपोत्तमस्वरबाधकत्वमिति समाधातव्यम् । तथा च तुल्ययुक्त्या "अष्टसु' इत्यत्रापि परं उपोत्तमस्वरं बाधित्वा अपवादत्वात् "अष्टनः' इत विभक्तिस्वरः स्यादिति तद्वारकतया दीर्धग्रहणं सार्थकमिति वाच्यम् । अष्टासु इत्यत्र हि नकारस्यात्वे कृतेनकारान्तत्वाबावेन षट्संज्ञाविरहात् षट्संज्ञामाश्रित्य विधीयमानः झल्युपोत्तमम् इति स्वरो नैव भविष्यतीति तस्मिन्नवश्यं प्राप्ते सति अष्टनः इति सूत्रमारब्यत इति वक्तुमशक्यतया अपवादत्वाभावात् । तथा च अष्टसु इत्यत्र परत्वात् उपोत्तमस्वर एव भविष्यति । नलोपेकृतेऽपि तस्यासिद्धत्वात् नकारान्तत्वेन षट्संज्ञकत्वादुपोत्तमस्वरप्रवृत्तेः । तथा च दीर्घग्रहणं व्यर्थमित्यत आह--अष्टनो दीर्घग्रहणमिति । तथा च दीर्घग्रहणं आत्वे कृतेऽपि षट्संज्ञा भवतीति ज्ञापनार्थम् । तथा च अष्टासु इत्यत्रापि षट्संज्ञकत्वात् उपोत्तमस्वरे प्राप्त एव "अष्टनः' इति सूत्रारम्भात् येन नाप्राप्तिन्यायेनापवादत्वं "अष्टन' इत्यस्य सूत्रस्येति अष्टासु इत्यत्र उपोत्तमस्वरो न प्रवर्तते । तुल्यन्यायेन अष्टसु इत्यत्राप्यपवादत्वात् विभक्तिस्वरे प्राप्ते तद्वारकतया तीर्घग्रहणमिति स्वांशे चारितार्थ्यम् । अन्यत्र ज्ञापनस्य फलमाह--आकारान्तस्य नुडड्डत्ध्;र्थमिति । अष्टन् आम् इत्यत्र "अष्टन आ विबक्तौ'(सू.7-1-84) इति नकारस्य आत्वे कृते आकारान्तस्याप्युक्तज्ञापकेन षट्संज्ञकत्वात् "षट्चतुर्भ्यश्च' (सू.7-1-55) इति आमः नुटि अष्टानामिति रूपं सिध्यतीति भावः । यद्वा "अष्टन आ विभक्तौ' इति सूत्रविहितस्य आत्वस्य नित्यत्वात् सप्तमीबहुवचने "अष्टासु' इति दीर्घघटितमेव रूपं न ढद्धठ्ठड़14;नस्वघटितं "अष्टसु' इति रूपम् । तथा च तध्द्यावर्तकं दीर्घग्रहणं व्यर्थमित्याशङ्क्य, अष्टनः विधीयमानमात्वं वैकल्पिकमिति ज्ञापनार्थं दीर्घग्रहणम् । तथा च आत्वाभावपक्षे अष्टसु इति रूपस्यापि सद्धावात् तत्र "अष्टनः' इति सूत्रविहितस्वराप्रवृत्यर्थं तत्सूत्रे दीर्घग्रहणं सार्थकमित्याह--आत्वविकल्पस्य च इति । तथा च एकमेव दीर्घग्रहणं वचनद्वयस्य ज्ञापकम् । अन्यथानुपपत्त्या अनेकस्याप्यर्थस्य ज्ञापनसम्भवादित्याश्यः । तदेतत्सूचनाय चेत्युक्तम् । वस्तुतस्तु अष्टन् आम् इत्यत्र आत्वापेक्षया अन्तरङ्गत्वात् षट्संज्ञायाः षट्संज्ञायां कर्तव्यायां आत्वस्य बहिरङ्गतया असिद्धत्वात्
नान्तत्वादेव षट्संज्ञासिद्धेः तन्निमित्तकनुटि "नोपधायाः' (सू.6-4-7) इति दीर्घे नलोपे च अष्टानामितीष्टरूपस्य सिद्धेः ज्ञापनफलाभावात् "भवत्यात्वे कृते षट्संज्ञा' इति न ज्ञापनीयम् । विबाषा आत्वमिति वचनज्ञापकतयैव दीर्घग्रहणम् । प्रयोजनं च अष्टभिः अष्टाबिरित्यादिरूपद्वयसिद्धिः । तता च आत्वविकल्पस्य चेत्यत्र चकारो वाकारार्थे इति प्रतिभाति । झ्र्ज्ञा.ट तित्सवरितम् (सू.6-1-185)।। "दिव (औत) झ्र्उत्ट (सू.6-1-131) इति तपरत्वं ज्ञापयति (ऊकारेण) झ्र्उकारेणट बाव्यमानेन सवर्णानां ग्रहणमिति । एवं च ऊठि दीर्घवारणाय तपरत्वम् । तिति प्रत्ययग्रहणं कर्तव्यमित्येतदादेशेषु दकारमाश्रित्य प्रत्याख्यातम् । तपरसूत्रे दकारोऽपि र्चत्वभूतः प्रश्लिष्यते ।। झ्र्वि.ट ठतित्स्वरितं' इति सूत्रे "तिति प्रत्ययग्रहणं' इति वार्तिकम् । तस्य चायमर्थः तित् प्रत्ययः एव स्वरितो भवति इति वक्तव्यम् । अन्यथा "किरति' इत्यत्र "ऋत इद्धातोः' (सू.7-1-100) इति सूत्रेण विधीयमानस्य इकारस्यापि तित्त्वेन स्वरितत्वापत्तेरिति । एतद्धार्तिकं प्रत्याचिख्यासुः भष्यकारः ॠतः इद् इति दित् इकारः आदेशः स च न तित् इति स्वरितो न प्रवर्तिष्यते इति अवदत्। तदुपरि ॠतः इद् इति यदि छेदः क्रियते तदा स्थानिनः दीर्घस्य अन्तरतमः दीर्घ एव इकारः स्यात् । तपरकरणे तु तत्कालो ढद्धठ्ठड़14;नस्व एव भविष्यतीत्याशङ्क्य, भाव्यमानेन सवर्णानां ग्रहणं नेति परिभभाषया ढद्धठ्ठड़14;नस्व एव इकारो भवति अतः इद् इति दकारानुबन्धवानेवादेश इति समाधाय, यदि भाव्यमानेन सवर्णानां ग्रहणं नेत्युच्यते तदा अमूभ्यामित्यत्र अदा भ्यामित्यवस्थायां दकारात् परस्य आकारस्य "अदसोऽसेर्दादु दो मः' (सू.8-2-80)इति सूत्रविहितः उकारः विधीयमानत्वात् सवर्णस्य ऊकारस्य ग्राहको न भवेत् । ततश्च अमुभ्यामिति ढद्धठ्ठड़14;नस्व एव उकारः स्यादिति पुनः आक्षिप्य भाष्ये उक्तम्--- "एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति भवत्युकारेण भाव्यमानेन सवर्णानां ग्रहणमिति । यदयं "दिव उत्' (सू.6-1-131) इति उकारं तपरं करोति' इति । तदेतन्मनसिकृत्याह--इति तपरत्वं ज्ञापयतीत्यादिना । स्वांशेचारितार्थ्यमाह--एवं च ऊठीति । द्युभ्यामित्यत्र दिव् भ्यामिति स्थिते झल्परकत्वात् वकारस्य "चछ्वोः शुडड्डत्ध्;नुनासिके च" (सू.3-4-19) इति सूत्रेण ऊठि दिऊभ्यामिति स्थिते ऊकारस्य"दिव उत्' (सू 6-1-131) इति उकारे यणि च द्युब्यामिति सिध्यति । अत्र बाव्यमानस्य उकारस्य सवर्णग्राहकत्वेन स्थान्यान्तर्थात् उकारे प्राप्ते तन्निवर्तकतया उत् इति तपरकरणं सार्थकमिति भावः । अन्यत्र प्रयोजनं तु अमूभ्यामिति । ननु "दिव उत्' इति सूत्रविहितस्य उकारस्य तित्त्वेन "तित्स्वरितं' इति स्वरितवारणाय तिति प्रत्ययग्हहणं कर्तव्यमेनेत्यत आह--तिति प्रत्ययग्रहणमिति। तथा च "दिव उद्' इति सूत्रेऽपि उद् इत्येव आदेशः । तथा च तित्त्वाबावेनैव स्वरितस्वरो न प्राप्स्यतीति प्रत्ययग्हहणमनावश्यकमिति भावः । ननु यदि उद् इत्यादेशस्तदा "तपरस्तत्कालस्य' (सू 1-1-70) इति सूत्राप्रवृत्त्या ऊकारोऽप्यादेशो भवेदित्याशङ्क्याह--तपरसूत्र इति । तथा च द्तपरः इत्यत्र दकारस्य र्चत्वेन त्तपर इति सूत्रम् । दपरः तपरश्च, तत्कालस्य संज्ञेति सूत्रार्थः । ततश्च उद् इत्यस्याप तत्कालस्यैव प्रवृतेतः न दीर्घस्यापत्तिरिति भावः ।झ्र्ज्ञा.ट भीह्रीभृ (सू.6-1-192)।। अत्रत्यप्रत्ययग्रहणं ज्ञापकं स्वरविधौ सङ्घातः कार्यीति । पूर्वग्रहणं ज्ञापकं स्वरविधौ सप्तम्यस्तदन्तसप्तम्य इति । झ्र्वि.ट ननु "भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति' (सू.6-1-192) इति सूत्रेण भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं
स्यादिति विधीयते । जुहोति इत्युदाहरणम् । अत्र प्रत्ययात्पूर्वस्य ओकारस्य उदात्तत्वम् । एतत्सूत्राभावे "अनुदात्ते च' (सू.6-1-190) इत्याद्युदात्तस्वरः स्यात् । तत्र प्रत्ययग्रहणं किमर्थम् । न च तदभावे "बिभयानि' इत्यत्र "नि' इति पिति परे पूर्वस्य आटः उदात्तत्वं भवेत् । आटः पूर्वस्यैव चेष्यते । तदर्थं प्रत्ययग्रहणम् । सति च तस्मिन् यदागमन्यायेन आट्सहितस्य प्रत्ययत्वात् प्रत्यात्पूर्वस्य उदात्तत्वमित्युक्ते "आनि' इत्यतः पूर्वस्य भकारोत्तराकारस्यैवोदात्तत्वं भविष्यतीत्येतदर्थं प्रत्ययग्रहणमिति वाच्यम् । प्रत्ययग्रहणाभावेऽपि पिति पूर्वमुदात्तमित्युक्ते पितः नेर्भक्तः आडड्डत्ध्;पि पिद्ग्रहणेन ग्रहीष्यत इतिआनि इत्यस्मिन् परे ततः पूर्वस्यैवोदात्तत्वमिति आटः उदात्तत्वाप्रप्त्या प्रत्ययग्रहणवैर्यथ्यादित्याशङ्क्य ज्ञापकतया तत्सार्थक्यमाह--अत्रत्यप्रत्ययग्रहणं इति । तथा च पूर्वेक्तरीत्या व्यर्थं सत् प्रत्ययग्रहणं स्वरविधौ संघातः सार्यीति ज्ञापयति । ततश्च आनि इत्यतः पूर्वस्य संघातस्य उदात्तत्वं मा भूत् अपि तु प्रत्ययात्पूर्वस्याचः उदात्तत्वं यथा स्यादित्येवमर्थं प्रत्ययग्रहणमिति भावः । ज्ञापनफलं तु भाष्ये एवमुक्तम् "चित्सवरात्तास्यादिभ्योऽनुदात्तत्वं विप्रतिषेधेनेति यदुक्तं तदुपपन्तं भवति' इति । अयमस्याशयः--आसीनः शयान इत्यत्र शानयः चित्त्वात् चितोऽन्त उदात्तः प्राप्तः । "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तं ' (सू.6-1-186) इति शानचः अनुदात्तोऽपि प्राप्तः । उभयोः प्राप्तौ "विप्रतिषेधे परं कार्यं' (सू.1-4-2) इति परत्वात् अनुदात्त एव भवतीति वार्तिककारेणोक्तं "तास्यनुदात्तेत्' इति सूत्रे । तच्च स्वरविधौ यदि संघातस्य कार्यित्वं स्यात् तदैवोपपद्यते । अन्यथा "आदेः परस्य' (सू.1-1-54) इति परिभाषया शानचः आदेः आकारस्यानुदात्तत्वं, अन्तस्य च "चितः' इत्यन्तोदात्तत्वमिति विरोधाभावात् विप्रतषिेधसूत्रसञ्चारो नोपपद्येत । संघातस्य स्वरकार्थित्वे तु आन इति संघातस्यानुदात्तत्वं तदन्तस्योदात्तत्वेन विरुध्यत इत्येवं विप्रतिषेधात् वार्तिकरीत्या परत्वादनुदात्तत्वोक्तिः साधु सङ्गच्छत इति । "भीह्री' (सू.6-1-192) इति सूत्र एव "पिति' इति सप्तमीश्रवणात् "तस्मिन्निति निर्दिष्टे पूर्वस्य' (सू.1-1-66) इति परिभाषया पूर्वस्येति लप्स्यत इति "प्रत्ययात्पूर्वं पिति' (सू.6-1-192) इति पूर्वग्रहणं किमर्थमित्याशङ्कयाऽह--पूर्वग्रहणमिति । तथा च स्वरविधौ सप्तम्यस्तदन्तसप्तम्यो भवन्तीति ज्ञापनार्थं पूर्वग्रहणम् । तदन्तपक्षे च भीप्रभृतिभ्यो विहितः यः पित् तदन्तमुदात्तं भवतीति सूत्रार्थः स्यात् । एवं च सर्वेषामचां पर्यायेणोदात्तत्वं स्यात् । एकस्य प्रत्ययात्पूर्वस्यैवेष्यत इति तदर्थं पूर्वग्रहणमिति स्वांशे चारितार्थ्यम् । ज्ञापनप्रयोजनं तु "उपोत्तमं रिति' (सू.6-1-216) इत्यादौ । तत्र हि रिति प्रत्यये परतः उपोत्तमस्योदात्तत्वं नेष्यते, अपि तु रित्प्रत्ययान्तस्य यदुपोत्तमं तस्योदात्तत्वमिष्यत इति । झ्र्ज्ञा.ट संज्ञायामुपमानम् (सू.6-1-204)।। उपमानस्याद्युदात्तवचनं ज्ञापकं अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य । झ्र्वि.ट ननु "संज्ञायामुपमान' मिति संज्ञायामुपमानस्याद्युदात्तत्वविधायकं सूत्रं व्यर्थम् । न च तदभावे चञ्चेव चञ्चा इत्यादौ "संज्ञायाम्' (सू.5-3-96) इति विहितस्य कनः "लुम्मनुष्ये' (सू.5-3-98) इति लुपि चञ्चा इति शब्दे आद्युदात्तः कथं सिध्येदिति वाच्यम् । लुप्तस्य कनः प्रत्यलक्षणमाश्रित्य "ञ्नित्यादिर्नित्यम्' (सू.6-1-198) इति सूत्रेणैव आद्युदात्तत्वसिद्धेः । आद्युदात्तत्वस्य अङ्गाधिकारीयत्वाभावेन "न लुमताङ्गस्य' (सू.1-1-63) इति प्रत्ययलक्षणनिषेवस्याप्रवृत्तेरित्याशङ्क्याह--उपमानस्य इति । तथा च चञ्चेत्यादौ प्रत्ययलक्षणेनैव
सिद्धे स्वरे "संज्ञायामुपमानम्' इति सूत्रं व्यर्थं सत् अनुबन्धनिमित्तके स्वरे प्रत्ययलक्षणं न भवतीति ज्ञापयति । एवं च "ञ्नित्यादिर्नित्यं' इति स्वरस्य इत्संज्ञानिमित्तकत्वात् तस्मिन् कर्तव्ये कन्लुपः प्रत्ययलक्षणाभावात् चञ्चा इत्यस्य ञ्निदन्तत्वं नास्तीति आद्युदात्तस्वराप्राप्तौ तत्प्रापकं "संज्ञायामुपमानं' इति सूत्रं सार्थकमिति भावः । ज्ञापनस्य फलं तु गर्गा इत्यादौ गर्गस्य गौत्रापत्यानीत्यर्थे "गर्गादिभ्योयञ्' (सू.4-1-105) इति सूत्रविहितस्य यञः "यञञोश्च' (सू.2-4-64) इति लुकि तस्य प्रत्ययलक्षणमाश्रित्य "ञ्नित्यादिर्नित्यं' इत्याद्युदात्तः प्राप्तः । स च अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणं नेति ज्ञापनान्न भवतीति । झ्र्ज्ञा.ट ठनोत्तरपदेऽनुदात्तादावपृथिवी' (सू.6-2-142) इत्यादावपृथिवीत्यादिपर्युदासो ज्ञापकः "स्वरविधौ व्यञ्जनमविद्यमानवत्' इति । "यतोऽनावः' (सू.5-1-213) इत्यत्रानाव इति प्रतिषेधो ज्ञापकः "हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानव' दिति । "गतिरनन्तरः' (सू.6-2-59) अनन्तरग्रहणं ज्ञापयति कृद्ग्रहणे गतिकारकपूर्वस्यापीति । झ्र्वि.ट एतासां तिसृणामपि परिभाषाणां परिभाषेन्दुशेखरे पठितत्वादिह न विव्रियन्ते । झ्र्ज्ञा.ट द्वित्रिभ्यां पात् (सू.6-2-197)।। मूर्धस्विति निर्देशो ज्ञापयति विभाषा समासान्त इति । झ्र्वि.ट ठद्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ (सू.6-2-197) इति सूत्रेण द्वित्रिभ्यां परेषु पाद् दन् मूर्धन् इत्येतेषु बहुव्रीहिसमासे अन्तोदात्तस्वरः विधीयते । तत्र मूर्वन् शब्दस्योदाहरणं द्विमूर्धः त्रिमूर्धः इति । "द्वित्रिभ्यां ष मूर्ध्न' (सू.5-4-115) इति सूत्रेणात्र समासान्तः षप्रत्ययः । तस्य च समासान्तप्रत्ययस्य नित्यत्वात् "पाद्दन्मूर्धेषु' (सू.6-2-197) इति कृतसमासान्ततया निर्देश एव उचितः । पाद् इति कृतसमासान्तेनोपक्रमात् मूर्धशब्दस्यापि तथैव निर्देष्टुमुचितत्वादित्याशङ्क्य, यतः "पाद्दन्मूर्घसु' इति अकृतसमासान्ततया सूत्रे मूर्धशब्दो निर्दिष्टः अत एव समासान्तप्रत्ययो वैकल्पिक इति ज्ञापयति । तथा च समासान्ताभावपक्षमाश्रित्य मूर्धसु इति निर्दिष्टं सूत्रे । अतश्च द्विमूर्धा त्रिमूर्धा इत्यकृतसमासान्तेऽपि बहुव्रीहावनेनान्तोदात्तस्वरः सिध्यतीत्याशयवानाह--मूर्धस्विति निर्देश इति । ज्ञापनफलं तु सुपथी नगरी इत्यादौ "इनः स्त्रियाम्' (सू.5-4-152) इति कप् वैकल्पिकत्वान्न भवतीति । "समासान्तविधिरनित्यः' इति परिभाषयापि गतार्थमेतद्वचनम् । "प्रतेरंश्वादयस्तत्पुरुषे (सू.6-2-193) इत्यन्तोदात्तत्वायांश्वादिषु राजन्शब्दपाठो ऽस्या ज्ञापक इति परिभाषेन्दुशेखरे ।। झ्र्ज्ञा.ट हृदयस्य हृल्लेखयदणूलासेषु (सू 6-3-50)।। लेखग्रहणादुत्तरपदाधिकारे प्रत्यग्रहणे रुपग्रहणं ज्ञाप्यते । "खित्यनव्ययस्य' इत्यत्रानव्ययस्येत्युक्तेः खिदन्तग्रहणम् । झ्र्वि.ट ननु "हृदयस्य हृल्लेख-' इति सूत्रे "यत्' "अण्' इति प्रत्ययग्रहणेन "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहण' मिति परिभाषया यदन्तस्य अणन्तस्य च ग्रहणात् यदन्ते अणन्ते च परत एव हृदयस्य हृदादेशः स्यान्न तु केवले यति अणि च । तथा च हृद्यं हार्दमिति न सिध्येदित्याशङ्क्याहलेखग्रहणादिति । यदि अणन्तस्यात्र ग्रहणं स्यात्तदा लेखशब्दस्य अणन्तत्वादेव तस्मिन् परे हृदयस्य हृदादेशे सिद्धे लेखग्रहणं व्यर्थं स्यात् । यतो लेखग्रहणं करोति तज्ज्ञापयत्याचार्यः अण् इत्यनेन स्वरूपमेव गृह्यते न अणन्तमिति ।तथा च अणन्तस्य लेखशब्दस्य अण्ग्रहणेन ग्रहणासम्भवात् लेखग्रहणं कृतमिति । यद्वा ज्ञापकस्य प्रकरणापेक्षत्वात् उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति ज्ञाप्यते । तेन कुमारी गौरितरा इत्यत्र "घरूपकल्पपू'-(सू.6-3-43) इति घसंज्ञके प्रत्यये परतो विधीयमानः ङ्यो ढद्धठ्ठड़14;नस्वः घान्ते न भवति इति भावः । यद्येवं ज्ञाप्यते तदा "खित्यनव्ययस्य'
(सू.6-3-66) इति विधीयमानः ह्रस्वः खिति परत एव भवेत् न तु खिदन्ते । तथा च शुनिंधय इत्यादौ खिदन्ते धयशब्दे परे ह्रस्वो न भवेत् इत्याशढद्धठ्ठड़14;क्याह--खित्यनव्ययस्येत्यत्रेति । यदि तदन्तग्रहणमत्रापि न स्यात् तदा खित्परकस्याव्ययस्य दुर्लभत्वादेव अव्ययस्य ह्रस्वाप्राप्तेः अनव्ययस्येति प्रतिषेधोऽनर्थकः स्यात् । कृतश्च स प्रतिषेधः अत्र सूत्रे तदन्तग्रहणमस्तीति ज्ञापयति । तथा च "दोषामन्यमहः' इत्यादौ ह्रस्ववारणाय अनव्ययस्येति निषेधः सार्थकः । प्रयोजनं तु शुनिंधय इत्यादौ खिदन्ते परे ह्रस्वसिद्धिरिति भावः ।। झ्र्ज्ञ.ट ठसमः समि' (सू.6-3-93) "नहिवृति' (सू.6-3-116) अञ्चतिनह्यादिषु क्विब्ग्रहणात् धातुग्रहणेन तदादिविधिर्भवतीति । झ्र्ज्ञा.ट ननु "समः समि' इति सूत्रेण क्विबन्ते (अप्रत्ययान्ते) अञ्चतौ परे समः सम्यादेशो विधीयते । सम्यङ् इत्युदाहरणम् । तथा "नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ' (सू.6-3-116) इति सूत्रेण क्विबन्तेषु नह्यादिषु परतः पूर्वपदस्य दीर्घ उच्यते । उपानत् इत्यादिकमुदाहरणम् । तत्र क्विग्रहणम् मास्तु । न च तदभावे समञ्चनं उपनहनमित्यादावपि सूत्रद्वयं प्रवर्तेतेति वाच्यम् । उत्तरपदाधिकारीयत्वात् उक्तसूत्रद्वयस्यापि अञ्चुनह्यादिरूपे उत्तरपदे परे सूत्रद्वयं प्रवर्तते । समञ्चनमित्यत्र अञ्चन इत्यस्य उत्तरपदत्वेऽपि अञ्च् इत्यस्योत्तरपदत्वाभावान्न दोषः । केवलस्य अञ्च् इत्यस्य च क्विप्प्रत्यये सत्येव उत्तरपदत्वं भवति । अन्यथा धातोस्तस्य पदत्वस्यैव दुर्लभत्वात् । तथा च उत्तरपदे इति अधिकारमहिम्नैव क्विबन्त इति लाभसम्भवात् क्विग्रहणमनर्थकमित्याशङ्क्याह-अञ्चतिनह्यादिष्विति । तथा च ज्ञापनार्थं क्विग्रहणं क्रियते । यत्र सप्तम्यन्तं विशेषणतया धातुग्रहणं क्रियते तत्र अल्ग्रहणत्वाभावेऽपि तदादिविधिर्भवतीति ज्ञाप्यते । इत्थं च अञ्चतावित्यस्य नहिवृत्तीत्यादेश्च उत्तरपदे इत्येतद्विशेषणत्वेन तदादिविधौ सति अञ्च् इत्यादिर्धातुरादिर्यस्योत्तरपदस्य तस्मिन् परतः समः सम्यादेशः पूर्वपदस्य दीर्घश्च भवतः इति सूत्रार्थः स्यात् । तथा सति समञ्चनं उपनहनमित्यादावपि भवेत् अञ्चन इत्यस्योत्तरपदस्य अञ्च् इत्याद्यवयवकत्वात् । अतः क्विवग्रहणं कृतम् । तेन क्विबन्तेष्वञ्चादिष्वेव परतः उक्तसूत्रद्वयं प्रवर्तत इति न दोषः इति भावः । ज्ञापनस्य प्रयोजनं तु "अतः कृकमि' (सू.8-3-46) इत्यत्र उत्तरपदाधिकारत् तद्विशेषणेन "कृ' इत्यनेन कृधात्वाद्यवयवकमुत्तरपदं गृह्यत इति अयस्कार इत्यत्रापि सत्वं सिध्यति । अन्यथा क्विबन्ते कृधातौ परत एव अयस्कृत् इत्यादौ सत्वं भवेदिति । झ्र्ज्ञा.ट ठजनसनखनां' (सू.6-4-42) "आतो लोप इटि च' (सू.6-4-64) । ततो घुमास्थागापाजहातिसां लोपो भवति इटि च अजादौ क्ङितीति । वक्ष्यमाणेत्वबाधनार्थमेतत् । ततः-ईत् । ध्वादयोऽनुवर्तन्ते ईच्च बवति ध्वादीनाम् । "एर्लिङि' (सू.6-4-67) "वान्यस्य' (सू.6-4-68) "नल्यपि' (सू.6-4-69) "मयतेरिदन्यतरस्यां' (सू.6-4-80) ततो "यति' यति च ईद्भवति । एवं सिद्धे यद्गुरुसूत्रमारभते तत् ज्ञापयति बवत्याभीयेष्वसिद्धेष्वपि विप्रतिषेध इति । हल्ग्रहणं च गोद इत्यादावीत्वाभावाय । ज्ञापिते कथं चारितार्थयम् । तस्मादेकदेश्युक्तिरेतद् भाष्यम् । झ्र्विदृट ठजनसनखनां सन्झलोः' (सू.6-4-42) इति सूत्रे "सनोतेरनुनासिकलोपादात्वं विप्रतिषेधेन' इति वार्तिकम । तस्य चायमर्थः । "सन्' धातोः क्तप्रत्यये सन्-त इति स्थिते अनेन आत्वे, अनुनासिकलोपे च "अनुदात्तोपदेश---' (सू.6-4-37) इति सूत्रेण प्राप्ते "विप्रतिषेधे परं' (सू.1-4-2) इति परत्वादात्वमेव भवति । "सात' इति च रूपमित्ति । नन्वत्र विप्रतिषेधो न युज्यते, "पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य'
इति न्यायेनात्र आभीयासिद्धविषयेऽपि विप्रतिषेधाप्रवृत्तेरित्याशङ्क्य, इह विप्रतिषेधो भवतीति ज्ञापनान्न दोषः इति वक्ष्यति । तत्र च "घुमास्थागापाजहातिसां हलि' (सू.6-4-66) इति सूत्रे हल्ग्रहणं ज्ञापकमिति वक्तुं वैर्यथ्ये सत्येन ज्ञापकत्वस्य वक्तुं शक्यत्वात् वैर्यथ्यमुपपादयति--आतो लोप इटि च तत इत्यादिना । अयमत्राभिप्रायः--"घुमास्था' इति सूत्रे हल्ग्रहणाभावे गोदः कम्बलद इत्यत्रापि गोदा-अ इत्यवस्थायामीत्वं भवेत् । हल्ग्रहणे सति तु प्रत्ययस्याजादित्वेन हलादित्वाभावान्न दोष इति वक्तव्यम् । असति चेह विप्रतिषेधे "असिद्धवदत्राभात्' (सू.6-4-22) इति सूत्रेण द्वयोः परस्परस्मिन्नसिद्धत्वात् ईत्वे कृतेऽपि तस्यासिद्धत्वात् "आतो लोप इटि च' (सू.6-4-64) इत्याल्लोपेन गोद इतीष्टरूपसद्धिेर्हलग्रहणमनर्थकं स्यात् । कृतं च हल्ग्रहणं असिद्धविषयेऽपि विप्रतिषेधसूत्रं प्रवर्तत इति ज्ञापयति । तथा च परत्वात् ईत्वमेव भवेदिति तद्वारणाय हल्ग्रहणमिति एकः ज्ञापकत्वप्रकारः । द्वितीयः प्रकारस्तु अविशेषेण ईत्वमुक्त्वा तस्याजादावाल्लोपः अपवादत्वेन विधातुं शक्यते । तथा हि "आतो लोप इटि च' ततः "घुमास्थागापाजहातिसां' लोपो भवति अजादौ क्ङिति परे इत्यर्थः । ईत्वबाधनार्थोऽयं लोपो विधीयतेऽजादौ क्ङिति । ततः "ईत्' घुमास्थादीनामीच्च भवति । एवं चैवं सूत्रन्यासे हलादौ क्हिति घुमास्थादीनामीत्वं अजादौ क्ङिति तु लोप इति व्यवस्थायाः सिद्धत्वात् हल्ग्रहणं व्यर्थं सत् भवतीह विप्रतिषेध इति ज्ञापयति । तेन परत्वात् गोद इत्यत्र आलोपं बाधित्वा ईत्वे प्राप्ते तद्वारणार्थं हल्ग्रहणं सार्थकम् ।प्रयोजनं तु अनुनासिकलोपात् परत्वात् सात इत्यादावात्वलसिद्धिरिति प्रघट्टकार्थः । परं तु हल्ग्रहणेऽकृतेऽपि पूर्वोक्तसूत्रन्यासरीत्या गोद इत्यादावीत्वबाघनार्थं योगं विभज्य कृतेन लोपेनैवेष्टसिद्धेः हल्ग्रहणस्य स्वांशे चारितार्थ्याभावात् इदं भाष्यमेकदेश्युक्तिः न तु सिद्धान्त्युक्तिरित्याह--ज्ञापिते कथमिति । उद्योतेऽपि स्पष्टमेतत् ।। झ्र्ज्ञा.ट हुश्नुवोः (सू.6-4-88)।। हुश्नुग्रहणं भाषायामपि यङ्लुको ज्ञापकम् । तेन भाषायामपि बेभिदीति चेच्छिदीतीत्येतत् सिद्धं भवतीति भाष्योक्त्या अन्ययङ्लुगन्तानां भाष्ये असाधुतैव लभ्यते । झ्र्वि.ट ननु "यङोऽचि च' (सू.2-4-74) इति सूत्रे "बहुलं छन्दसि' (सू.2-4-73) इत्यतः छन्दसीत्यस्यानुवृत्तेः यङ्लुकः छन्दोमात्रविषयत्वात् भाषायां यङूलुगन्तप्रयोगो न साधुः स्यादित्याशङ्क्य, ज्ञापकेन भाषयामपि यङूलुकं साधयति- अत्र हुश्नुग्रहणमिति । "हुश्नुवोः सार्वधातुके' इति सूत्रेण हुधातोः शनुप्रत्ययान्तस्य चानेकाचोऽङ्गस्य च असंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके इति प्रतिपाद्यते । जुढद्धठ्ठड़14;वति श्रृण्वति इत्यादिकमुदाहरणम् । तत्र हुश्नुग्रहणं विनापि हुश्नुवोरिति लभ्यते । न हि सार्वधातुके परतः अनेकाच् उवर्णान्तं चाङ्गं हुश्नुभ्यामन्यदस्ति । तथा च हुश्नुवोरिति व्यर्थम् । न च "युवं योयुवतीनां वृषभम्' इत्यादौ छन्दसि योयु इत्यादिकं यङूलुगन्तमनेकाजसंयोगपूर्वमुवर्णान्तमस्ति । तध्द्यावृत्त्यर्थं हुश्नुग्रहणमिति वाच्यम् । "छन्दस्युभयथा' (सू.3-4-117) इति सूत्रेण शतृप्रत्ययस्य आर्घधातुकत्वाश्रयणेन सार्वधातुकत्वाभावादेव तत्र सूत्राप्रवृत्तेः हुश्नुग्रहणवैर्यथ्यात् । तथा च व्यर्थं सत् हुश्नुग्रहणं ज्ञापयति भाषायामपि यङ्लुगन्तं साधु इति । ततश्च भाषायां योयुवती इत्यादियङूलुगन्ते "छन्दस्युभयथा' इति सूत्रस्याप्रवृत्तेः सार्वधातुके शतरि परे यणादेशं वारयितुं हुश्नुग्रहणमिति स्वांशे चारितार्थ्यम् । ज्ञापनप्रयोजनं तु भाषयां बेभिदीति चेच्छिदीति इत्यादयो यङूलुगन्ताः साधवो भवन्ति इति । भाष्ये बेभिदीति चेच्छिदीति इति द्वयोरेव यङ्लुगन्तयोरुदाहरणेन अन्ये
धातवो यङ्लुगन्ताः भाषायां न साधव इत्याह--तेन भाषायामपीति । झ्र्ज्ञा.ट ठअत एक' (सू.6-4-120)।। फलिभजिग्रहणं ज्ञापकं अब्यासादेशसिद्धत्वस्य । शसिदद्योः प्रतिषेधो ज्ञापको रूपाभेद एत्वस्य । श्नसोरत्वे तकारेण "असिद्धवदत्र' (सू.6-4-22) इत्यस्यानित्यत्वज्ञापनात् देभतुरिति सिद्धिः । झ्र्वि.ट ननु बभणतुः इत्यत्र भण्भण् अतुरिति स्थिते हलादिशेषे अभ्यासभकारस्य "अभ्यासे चर्च (सू.8-4-54) इति सूत्रेण जश्त्वे तस्य, एत्वाभ्यालसलोपयोः कर्तव्ययोः "पूर्वत्रासिद्धम्' (सू.6-4-22) इत्यनेनासिद्धत्वात् अनादेशादित्वमङ्गस्यास्तीति "अत एकहल्मध्येऽनादेशादेर्लिटि' (सू.6-4-120) इति सूत्रे फलधातोः भजधातोश्च लिटि द्विबचने फल् फल् अतुः भज् भज् अतुः इति स्थिते हलादिशेषे जशत्वे च प फल् अतुः बभज् अतुः इति स्थिते आदेशादित्वेनाङ्गस्य "अत एकहल्मध्येऽनादेशादेर्लिटि' (सू.6-4-120) इति सूत्र्स्याप्रवृत्तौ एत्वाभ्यासलोपसिद्ध्यर्थं फलिभज्योर्ग्रहणमिति वक्तव्यम् । यदि अभ्यासादेसभूतं जश्त्वमसिद्धं स्यात् तदा तदसिद्धत्वात् अनादेशादित्वादेव "अत एकहल्मध्ये' इति सूत्रेण एत्वाभ्यासलोपयोः सिद्धौ किमर्थ "तॄफल' इति सूत्रे तयोर्ग्रहणं क्रियते । कृतं च तत् एत्वाभ्यासलोपयोः कर्तव्ययोः अब्यासादेशः सिद्ध इति ज्ञापयति । ततश्च जश्त्वस्य सिद्धत्वादादेशादित्वादप्राप्तयोरेत्वाभ्यासलोपयोः सिद्धये फलिभकजिग्रहणमिति स्वांशेचारितार्थ्यम् । प्रयोजनं तु बभणतुरित्यादावभ्यासजश्त्वस्य सिद्धत्वादादेशादित्वेन एत्वाभ्यासलोपौ न भवत इति । नन्वेवं पेचतुः देभतुः इत्यादौ प्रकृतिचरां प्रकृतिचरः प्रकृतिजशां प्रकृतिजश इति आदेशादित्वादेत्वाभ्यासलोपौ न भवेतामित्यत आहशसिदद्योरिति । "न शसददवादिगुणानाम्' (सू.6-4-126) इति सूत्रेण शसिदद्योरेत्वाभ्यासलोपौ प्रतिषिध्येते । अत्रापि प्रकृतिचरां प्रकृतचिर इति आदेशादित्वेनानादेशादित्वाभावादेव "अत एकहल्मध्ये' इत्यनेन एत्वाभ्यासलोपयोंरप्रवृत्तेः किं प्रतिषेधेन । कृतश्च प्रतिषेधः स्थान्यभिन्नरूप आदेश आदिर्यश्याङ्गस्य तस्य एत्वाभ्यासलोपयोः अनादेश इति प्रतिषेधो न भवतीति ज्ञापयति । तथा च अनादेश इति प्रतिषेधाप्रवृत्त्या शसिदद्योरप्येत्वाभ्यासलोपयोः प्राप्तौ तत्प्रतिषेधार्थं "न शसददि' इति सूत्रे शसिददिग्रहणमिति भावः । प्रयोजनं तु पेचतुरित्यादौ अनादेशादेरिति प्रतिषेधाप्रवृत्त्या एत्वाभ्यासलोपयोः सिद्धिरिति । नत्वेवमपि दन्भधातोर्लिटि देबतुरित्यत्र दन्ब् दन्भ् अतुरिति स्थिते हलादिशेषे "अनिदिताम्' (सू.6-4-24) इति नलोपे च कृते "असिद्धवदत्राभात्' (सू.6-4-22) इति नलोपस्यासिद्धत्वात् अकारस्य संयुक्तहल्मध्यस्थत्वादेकारः अब्यासलोपश्च न सिध्यतीत्याशङ्क्याह--श्नसोरच्व इति । "श्नसोरल्लोपः' (सू.6-4-111) इति सूत्रे अत् इति तपरकरणम् आसन् इत्यत्र आटः लोंपनिवृत्त्यर्थं क्रियते । अत्र लोपे कर्तव्ये "असिद्धवदत्राभात् ' इति सूत्रेण आटः असिद्धत्वात् आकारस्य लोपो न बविष्यतीति आकारव्यावृत्त्यर्थं क्रियमाणं तपरकरणं व्यर्थं सत् असिद्धत्वमनित्यमिति ज्ञापयति । तेन आटः असिद्धत्वाभावात् तस्य लोपो मा भूदिति तपरकरणमिति स्वांशे चारितार्थ्यंम् । अन्यत्र प्रयोजनं तु देभतुरित्यादौ नलोपस्यासिद्धत्वाभावात् एत्वाभ्यासलोपौ सिध्यत इति इति भावः । झ्र्ज्ञा.ट ठथलि च सेटि' (सू.6-4-121)।। "तॄफलभज' (सू.6-4-122) इति तॄग्रहणात् ज्ञापकात् लुलविथेत्यादौ नैत्वाभ्यासलोपौ । झ्र्वि.ट ठथलि च सेटि' इति सूत्रेण विधीयमानौ एत्वाब्यासलोपौ लुलविथेत्यत्रापि भवेताम् । अवादेशे कृते अकारस्यासंयुक्तहल्मध्यस्थत्वात् एत्वस्य प्राप्तेः इत्याशङ्क्याह--तॄफलेत्यादिना । तेरिथ इत्यत्रापि
ऋकारस्य गुणे कृते अकारस्य "अत एकहल्मध्ये' (सू.6-4-120) इत्यनेनैव एत्वसिद्धौ तदर्थं तॄग्रहणमनर्थकम् । कृतं च तत् गुणे कृते योऽकारः तस्य एत्वं न भवतीति ज्ञापयति । ततश्च एत्वाप्रवृत्तौ तदर्थं तॄग्रहणं सार्थकम् । लुलविथेत्यादौ च गुणसम्पन्नाकारस्य एत्वं न भवतीति भावः । झ्र्ज्ञा.ट बिल्वकादिब्य(स्च) झ्र्श्छस्यट (सू.6-4-153) अत्र (च) झ्र्छट ग्रहणं ज्ञापयति संनियोगशिष्टानामन्यतरापाये उभयोरप्यपाय इति । "ज्यादादीयसः' (सू.64-160) लोपानुवृच्यैव सिद्धे आत्वविधानं ज्ञापयति अङ्गवृत्ते पुनर्वृत्तावविधिरिति । अकारविधानेन सिद्धे आकारविधानं भाव्यमानेन सवर्णानां ग्रहणं नेत्यस्य ज्ञापकम् । "कार्मस्ताच्छील्ये' (सू.6-4-172) "नस्तद्धिते' (सू.6-4-144) इत्येव सिद्धे इदं निपातनं ज्ञापयति ताच्छीलिकेष्वण्कृतानि भवन्तीति । झ्र्वि.ट एताः परिभाषा इति हेतोरिह न विव्रियन्ते । झ्र्ज्ञा.ट दाण्डिड्डत्ध्;नायन (सू.6-4-174)।। "हनस्तोऽचिण्णलोः' (सू.7-3-32) इत्येव भ्रौणहत्ये तत्वे सिद्धे तच्वनिपातनं तद्धिते तत्वप्रतिषेधस्य ज्ञापकम् । झ्र्वि.ट ननु "दाण्डिड्डत्ध्;नायन'--इत्यादिसूत्रे दाण्डिड्डत्ध्;नायनादयः शब्दाः निपात्यन्ते । तत्र "भ्रोणहत्य' इत्यपि कश्चन शब्दः निर्दिष्टः । तत्र किं निपात्यते इति चोद्यं प्रसजति । न च भ्रूणं हन्तीति भ्रूणहा भ्रूणघ्नो भावः इत्यर्थे ब्राह्मणादित्वात् भ्रूणहन्शब्दात् ष्यञि आदिवृद्धौ भ्रौणहन् य इति स्थिते नकारस्य तकारो निपात्यत इति वाच्यम् । "हनस्तोऽचिण्णलोः' (सू.7-3-32) इति सामान्यसूत्रेणैव चिण्णल्भिन्ने ञिति णिति च परे हन्तेस्तकारादेशविधायकेन ञिति ष्यञि परेऽपि तकारादेशसिद्धेस्तकारनिपातनवैर्यथ्यादित्यत आह--इत्येवेत । तथा च तत्वनिपातनं तद्धिते परे हन्तेः "हनस्तोऽचिण्णलोः' इत्यनेन तकारादेशो न भवतीति ज्ञापयति । अतः ष्यञि तत्वाप्राप्तौ तन्निपात्यते इति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं तु भ्रौणघ्नो वार्त्रघ्न इत्यादावणि तद्धिते परे हन्तेर्नकारस्य तत्वं न भवतीति भावः । ।। इति षष्ठोऽध्यायः ।।