ज्ञापकसंग्रहपरिशिष्टम्/चतुर्थोऽध्यायः

← तृतीयोऽध्यायः ज्ञापकसंग्रहपरिशिष्टम्
चतुर्थोऽध्यायः
[[लेखकः :|]]
पञ्चमोऽध्यायः →

अथ चचुर्थोऽध्यायः
    झ्र्ज्ञा.प.ट ठपुंयोगात् आख्यायाम् ' (सू.4-1-48) इति ङीष्विधानात् ज्ञापकात् नातः (प्रष्ठशब्दात्) तद्धितोत्पत्तिरिति । झ्र्वि.ट पुंयोगादाख्यायाम् ' सूत्रस्य प्रष्ठी प्रचरी इत्यूदाहरणं प्रदर्शितं भाष्ये । प्रष्ठस्य स्त्री इत्यर्थे प्रष्ठशब्दात् ङीष् । ननु प्रष्ठस्य स्त्री इत्यर्थे "तस्येदम्' इत्यर्थसद्भावात् अण्रूपस्तद्धितः प्राप्नोतीत्याशङ्क्याह--इति ङीष्विदानादिति । यदि हि प्रष्ठशब्दात् नियमेन तद्धितोत्पत्तिर्भवेत् तर्हि अण्णन्तत्वात् "टिढ्ढणञ्' (सू.4-1-15) इति सूत्रेम ङीपैव प्राष्ठी इति रूपसिद्धौ "पुंयोगादाश्यायाम्' इति ङीष्विधानमनर्थकमापद्येत । न च अणन्तान्ङीपि ङीषि वा रूपे विशेषः । नापि स्वरे, ङीष उदात्तत्ववत् ङीपोऽपि "अनुदात्तस्य च यत्रोदात्तलोपः' इति सूत्रेण उदात्तत्वात् । ततश्च ङीष्विदानं व्यर्थं सत् न प्रष्ठशब्दात्तद्धितोत्पत्तिर्भवतीति ज्ञापयति इति भावः । न च बानोरियमित्यर्थे भानुशब्दात् "वृद्धाच्छः' (सू.4-2-114) इति सूत्रेम छप्रत्यये टापि भानविया इति भवत । तत्र टापं बाधित्वा ङीष्विधानार्थं पुंयोगादिति सूत्रमस्तु। तथा च कथं तज्ज्ञापकमिति वाच्यम् । तर्हि आख्याग्रहणवैर्यथ्यात् । तत् व्यर्थं सत् ज्ञापयति तद्धितोत्पत्तिमन्तरेणैव यः पुंवाचकः शब्दः स्त्रियां वर्तते ततः ङीष् इति । भानवीया इत्यत्र यः पुंवाचकः भानुशब्दः स न स्त्रियां वर्तते, यश्च स्त्रियां वर्तते छप्रत्ययान्तः स न पुमाख्या इति तत्र न ङीष् । प्रष्ठशब्दस्तु तद्धितं विनैव सत्रीवाचकत्वात् ततः ङीष् भवति । तेन प्रष्ठशब्दान्न तद्धित इति पर्थवसितमिति हृदयम् । झ्र्ज्ञा.पा.ट स्वाङ्गाच्चोपसर्जनात् (सू.4-2-54) ।। "सहनञ्विद्यमानपूर्वाच्च' (सू.4-2-57) इति प्रतिषेदात् ज्ञापकात् आनन्तोदात्तादपि भवतीति । झ्र्वि.ट ननु "स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति सूत्रे उपसर्जनादिति व्यर्थम् । "बहुव्रीहेश्चान्तोदात्तात्' (4-1-52) इति सूत्रात् बहुव्रीहेरित्यनुवृत्त्यैव उपसर्जनादित्यस्य लाभात् । न च संनियोगशिष्टन्यायेन अन्तोदात्तादित्यस्याप्यनुवृत्तिर्भवेदिति तद्वारणार्थम् "उपसर्जनात्' इत्युपादीयते । उपात्ते च तस्मिंस्तद्बलात् उपसर्जनमात्रात् स्वाङ्गदन्तोदात्तादनन्तोदात्तादपि ङीष् भविष्यतीति वाच्यम् । ज्ञापकमहिम्नैव अन्तोदात्तादित्यस्य "स्वाङ्गाच्च' इति सूत्रेऽनुवृत्तिर्नास्तीत्यवगमात् । ज्ञापकमाह--सहनञ्विद्यमानेति । सहेत्यादित्रिकपूर्वात्स्वाङ्गात् ङीष् निषिध्यते । सकेशा अकेशा विद्यमाननासिका इत्युदाहरणानि । तत्र सहादिपूर्वस्य बहुव्रीहेः पूर्वपदप्रकृतिस्वरे शेषनिघातेन स्वाङ्गस्य नास्त्यन्तोदात्तत्वमिति "स्वाङ्गाच्चोपसर्जनात् ' इत्यनेन ङीषः प्राप्त्यभावात् प्रतषिेधोऽनर्थकः सन् अन्तोदात्तादित्यस्यानुवृत्त्यभावं ज्ञापयति । तथा चानन्तोदात्तादपि सहादिपूर्वात् ङीष्प्राप्तौ तत्प्रतिषेधकतया सहनञ्सूत्रं सार्थकम् । तथा च बहुव्रीहेरित्येतावन्मात्रस्यानुवृत्त्यैव उपसर्जनादित्यस्य लाभसंभवात् उपसर्जनग्रहणं मास्तु इत्याशयः । झ्र्ज्ञा.प.ट ढकि लोपः (सू.4-1-133)।। एतदेव ज्ञापयति भवति पितृष्वसुर्ढक् इति । झ्र्वि.ट ननु पितृष्वसृशब्दात "ढकि लोपः' इति सूत्रेणान्त्यस्य ऋकारस्य लोपे पैतृष्वसेय इति रूपमिष्यते । तन्न सिध्यति । पितृष्वसृशब्दात् ढग्विधायकानुशासनाभावादित्यत आह-- एतदेवेति । पितृष्वसृशब्दात् ढकोऽभावे ढकि परे तस्य लोपविधानमसंगतं स्यादिति ढकि लोपविधानमेव पितृष्वसृशम्ब्दात् ढक् भवतीत्यत्र भवतीत्यत्र ज्ञापकमिति भावः । अनेन ज्ञापकेन शुभ्रादिषु पितृष्वसृश्ब्दपाठः कल्पनीयः । यद्वा "स्त्रीभ्यो ढत्' (सू.4-1-120) इत्यत्र स्त्रीभ्य इत्यर्थग्रहणमिति ज्ञापनीयम् । अतः पितृष्वसुर्ढक्सिद्धिरिति उद्योतकारः प्रत्यपादयत् । झ्र्ज्ञा.प.ट
ब्राह्मणमाणव-(सू.4-2-42)।। यञि प्रकृते यन्विधानं ज्ञापयति अन्येभ्योऽप्ययमिति । झ्र्वि.ट ननु "ब्राह्मणमाणववाडड्डत्ध्;वाद्यन्' इति सूत्रेण ब्राह्मणादिभ्यः समूहार्थे यन् विधीयते । ब्राह्मणानां समूहो ब्राह्मण्यमित्यादिकमुदाहरणम् । तत्र सूत्रे यन् इति मास्तु । "केदाराद्यञ्च' (सू.4-2-40) इति सूत्रात् यञ् इत्यस्यानुवृत्या इष्टरूपसिद्धेः । न हियञो वा यनो वा रूपे स्वरे वा विशेषोऽस्ति । न च यञि सति स्त्रियां ""यञश्च' (सू.4-1-16) इति ङीप् स्यात्, यनि तु नेति विशेष इति वाच्यम् । कौमुद्यां अपत्याधिकारीययञन्तादेव ङीप् इत्युक्तत्वात् । ब्राह्मणादीनां स्वत एव वृद्धत्वेन यञि सत्यादिवृद्धिर्न तु यनि सतीत्यस्यापि विशेषस्यासंभवादित्याशङ्क्याह--यञि प्रकृत इति । तथा च व्यर्थं सत् यन्ग्रहमं ब्राह्मणादिब्योऽन्येभ्योऽपि यन् भवतीति ज्ञापयति । तेन प्टष्ठानां समूहः पृष्ठ्यमिति सिध्यति । तत्र च यञि सत्यादिवृद्धिर्भवेदिति यन्ग्रहणं कृतमिति चारितार्थ्यम् । एवं च "पृष्ठादुपसंख्यानम्' इति वार्तिकं न कर्तव्यम्, ज्ञापकेनैव सिद्धेरिति भावः । झ्र्ज्ञा.प.ट खण्डिड्डत्ध्;कादिभ्यश्च (सू.4-2-45)।। खण्डिड्डत्ध्;कादिषु क्षुद्रकमालवशब्दपाठो ज्ञापयति भवतीह तदन्तविधिरिति पूर्वश्च वुञू परमञं बाधत इति च । अन्यथानुपपत्त्या एकस्येवोभयस्यापि ज्ञापनं न विरुध्यते । झ्र्वि.ट ननु "खण्डिड्डत्ध्;कादिभ्यश्च' इति सूत्रेण समूहार्थे अञ् विधीयते । खण्डिड्डत्ध्;कादिगणे च क्षुद्रकमालवशब्गदः पठ्यते । तस्य पाठः किमर्थः । "अनुदात्तादेरञ्' (सू.4-2-44) इत्यनेवैव ततोऽञ्सिद्धेः । क्षुद्रकमालवशब्दस्यानुदात्तादित्वं चेत्थम् । क्षुद्रकस्यापत्यानीत्यर्थे "जनपदशब्दात्' (सू.4-1-168) इति विहितस्य तद्राजस्य लुक् । मालवात्तु वृद्धलक्षणस्य ञ्यङः । ततो द्वन्द्वः । ततः समासान्तोदात्तत्वेनानुदात्तादित्वमिति कैयटः । ततः समूहर्थे अञ् । न च "गोत्रोक्षोष्ट्र' (सू.4-2-39) इति सूत्रप्राप्तवुञ्बाधनार्थं तत्पाठइति वाच्यम् । "अनुदात्तादेरञ्' इत्यस्य परत्वेन तद्विषये पूर्वस्य वुञोऽसंभवात्, गोत्राद्विहितस्य वुञः गोत्रान्तात् क्षुदकमालवशब्दात् प्राप्त्यभावाच्च इत्याशङ्क्य, अत एव पाठो ज्ञापयति "पूर्वोऽपि वुञ् परमञं बाघते' "भवतीह तदन्तविधिः' इति च वचनद्वयम् । तथाच वुञं बाधित्वा समूहार्थे अञः क्षुद्वकमालवशब्दपाठ इति भाष्ये सिद्धान्तितम् । तदाह--खण्डिड्डत्ध्;कादिष्वित्यादिना । ननु कथमेकेन वचनद्वयं ज्ञाप्येतेत्यशङ्क्याह--अन्यथानुपपच्येति । अन्यथानुपपत्त्या हि ज्ञापकत्वं भवति । उभयेन च विना क्षुद्रकमालवादञ्विधानं नोपपद्यतइत्युभयमपि ज्ञापयितुं शक्यमिति भावः । न केवलं ज्ञापनार्थं पाठः । अपि तु सेनारूपसमूहविवपक्षायां क्षोद्रकमालवी सेना इत्यञ् अन्यस्य समूहस्य विवक्षायां तु क्षौद्रकमालवकमिति वुञ् इति विभागार्थममि पाठ इति वार्तिककाराः प्राहुः । झ्र्ज्ञा.प.ट शेषे (सू.4-2-92)।। "फेश्छ च' (सू.4-1-149) इति फिञन्तात् छविधानं ज्ञापकं नाण्विषये घादयो भवन्तीति । झ्र्वि.ट ठशेषे' इत्यधिकारसूत्रम् अपत्यादिभ्योऽन्यस्मिन्नर्थे वक्ष्यमाणा घादयो बवन्तीत्यर्थबोधकम् । एतदधिकाराभावे अपत्यादिष्वर्थेष्वपि अणादय इव घादयोऽपि प्राप्नुयुः । अपवादत्वाच्च घादीनाम् । अतः शेषाधिकारः कृतः । भाष्यकारस्तु असत्यपि शेषधिकारे ज्ञापकेनापत्यादिष्वर्थेषु घादीन् व्यार्वत्य शेषाधिकारं प्रत्याचख्यौ । तदाह--फेश्छ चेति । "फेश्छ च' इति सूत्रेण फिञन्तात्सौवीरगोत्रादपत्येऽर्थे छप्रत्ययः चकारात् ठक् च विधीयते । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्वात् फिञ्, तस्यापत्यं यामुन्दायनीयः यामुन्दायनिकः इत्युदाहरणम् । तत्र च फेर्वा इत्येव सूत्रमस्तु । "वृद्धाट्ठक्' (सू.4-1-148) इति पूर्वसूत्रात् ठक् इत्यनुवर्तते . तत्र ठका मुक्ते "वृद्धाच्छः' (सू.4-2-114) इति छो भविष्यतीति नार्थश्छविधानेन । तत्तु ज्ञापकार्थं भवति
अण्विषयेऽपत्यादिषु घादयो न भवन्तीति । तथा च छप्रत्ययाप्राप्तौ तत्प्राप्त्यर्थं छविदानमिति स्वांशे चारितार्थ्यम् । एवं चानेनैव सिद्धेः शेषाधिकारः प्रत्याख्येय इति भावः । यद्यपि अपत्यार्थमात्रविषयकमुक्तज्ञापकमिति शङ्का भवति, तताप्यर्थान्तरेष्वपि "गोत्रग्रहणं सामूहिकेषु ज्ञापकम्, दैवयातवग्रहणं वैषयिकेषु, भस्त्रायणग्रहमणं नैवासिकेषु' इति भाष्योक्तानि ज्ञापकान्यत्रानुसन्धेयानि । झ्र्ज्ञा.प.ट कलापिवैशम्पायना--(सू.4-3-104)।। कलापिखाण्डड्डत्ध्;ायनग्रहणात् ज्ञापकात् नान्तेवास्यन्तेवासिभ्यो भवति । झ्र्वि.ट ननु "कलापिवैशम्पायनान्तेवासिभ्यश्च' इति सूत्रेण कलाप्यन्तेवासिभ्यः वैशम्पायनान्तेवासिभ्यश्च तृतीयान्तेभ्यः तेन प्रोक्तमधीयत इत्यर्थे णिनिप्रत्ययो विधीयते । हरिद्रुर्नाम कलापिनः शिष्यः । ततो हरिद्रुणा प्रोक्तमधीयत इत्यर्थे णिनिप्रत्यये हारिद्रवणि इति भवति । वैशम्पायनस्य शिष्यः आलम्बिः ततः णिनिप्रत्यये आलम्बिन इति भवति । तत्र कलापी वैशम्पायनशिष्येषु नवस्वन्यतमः । लोके शिष्यशिष्येऽपि शिष्य इति व्यवहारदर्शनात् वैशम्यायनशिष्यकलापिशिष्यस्य हरिद्रोरपि वैशम्पायनान्तेवासिग्रहणेनैव ग्रहणसिद्धेः कलापिग्रहणं सूत्रे मास्तु । एवं "शौनकादिभ्यश्छन्दसि' (सू.4-3-106) इति सूत्रमपि उक्तार्थे णिनिविधायकम् । शौनकादिगणे च खाण्डड्डत्ध्;ायनशब्दोऽपि पठितः । खाण्डड्डत्ध्;ायनश्च वैशम्पायनशिष्यस्य कठस्य शिष्यः । तथा च पूर्वोक्तन्यायेन वैशम्पायनान्तेवासिग्रहणेनैव खाण्डड्डत्ध्;ायनस्यापि ग्रहणसद्धिेः शौनकादिगणे तत्पाठो व्यर्थ इत्याशङ्क्य ज्ञापकविधया सार्थक्यमाह--कलापिखाण्डड्डत्ध्;यनग्रहणादिति । तथा च सूत्रे अन्तेवासिशब्देन साक्षादन्तेवासिन एव ग्रहणम् । न त्वन्तेवास्यन्तेवासिन इति वैशम्पायनान्तेवास्यन्तेवासिनोः कलापिखाण्डड्डत्ध्;ायनयोर्णिनिप्रत्ययसिद्ध्यर्थं तथोः पृथगुपादानमिति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं तु वैशम्पायनान्तेवास्यन्तेवासिभ्यः कलाप्यन्तेवास्यन्तेसिभ्यो वा णिनिर्न भवतीति । ते च पुराणादिष्वन्वेषणीयाः । हरीद्रुः छगली तुम्बुरूः उलपः इति चत्वारः कलापिशिष्याः । आलम्बिः कलिङ्गः कमलः ऋचाभः आरुणिः ताण्डड्डत्ध्;्यः श्यामायनः कठः कलापी इति नव वैशम्पायनशिष्या इति बालमनोरमा । इति चतुर्थोऽध्यायः


।-----