ज्ञापकसंग्रहपरिशिष्टम्/पञ्चमोऽध्यायः

← चतुर्थोऽध्यायः ज्ञापकसंग्रहपरिशिष्टम्
पञ्चमोऽध्यायः
[[लेखकः :|]]
षष्ठोऽध्यायः →

पञ्चमोऽध्यायः
    झ्र्ज्ञा.प.ट उपसर्गाच्छन्दसि (सू.5-1-118)।। "स्त्रियाः पुंवत्' (सू.6-3-34) इति निर्देशो ज्ञापयति न वत्यर्थे नञ्स्नञौ भवत इति । झ्र्वि.ट ननु स्त्रीपुंशब्दाभ्यां वतिप्रत्यये स्त्रीवत् पुंवत् इति रूपे इष्येते । ते साधयितुं न शक्येते । स्त्रीपुंसाभ्यां नञ्स्तञौ भवनात्' (सू.4-1-87) इति सूत्रेण प्राग्भवनाद्येऽर्थास्तेषु सर्वेष्वर्थेषु प्रकृतिविशेषाब्यां विधीयमानौ नञ्स्नञौ सर्वस्यपि प्रत्ययस्य बाधकौ । तथा च "तेन तुल्यं क्रिया चेद्वतिः' (सू.5-1-115) इति वतिमपि बाधित्वा नञ्स्नञावेव भवेतामित्याशङ्क्याह--स्त्रियाः पुंवदिति निर्देश इति । "स्त्रीपुंसाभ्यां नञ्स्नञौ' इति सूत्रं न वत्यर्थे प्रवर्तते । यदि प्रवर्तेत तदा "पुंवत्' इति निर्देशोऽसाधुः स्यादिति भावः । झ्र्ज्ञा.प.ट न नञ्पूर्वात्तत्पूरुषात् (सू.5-1-121)।। "नञो गुणप्रतिषेधे संपाद्यार्हहितालमर्थास्तद्धिताः' (सू.6-2-155) इति ज्ञापकात् सर्व एते तद्धिताः सापेक्षाद्भवन्ति । झ्र्वि.ट ठन नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवमवटयुधकतरसलसेभ्यः' इति सूत्रेण एतत्सूत्रानन्तरसूत्रैर्य भावप्रत्यया विधीयन्ते त नञ्तत्पुरुषान्न स्युरिति प्रतिपाद्यते । अपतित्वम् अपटुत्वम् इत्यादिकमुदाहरणम् । तत्र भाष्यकारः सूत्रप्रत्याख्यानं कर्तुं ज्ञापकमहम्निा अपतित्वम् इत्यादौ उत्तरसूत्रविहितानां भावप्रत्ययानामप्रवृत्तिं साधयामास । तदाह--इति ज्ञापकादिति । अयं भावः-- वत्सेभ्यो न हित इत्यादौ प्रतिषेधसापेक्षत्वेन निरपेक्षत्वलक्षणसार्मथ्याभावेन समर्थधिकारीयतद्धितानुत्पत्तौ नञः परस्य संपाद्याद्यर्थकतद्दितान्तस्यान्तोदात्तविदानमनुपपन्नम् । तत्क्रियमाणं सामान्येन सर्वस्तद्धितो नञर्थापेक्षाद्भवतीति ज्ञापयति । न पतिः अपतिः तस्य भाव इत्यत्र तु नञ्तत्पुरुषस्य सापेक्षत्वाभावेन उत्तरेषां तद्धितानामसंभवेन त्वतल्भ्यामिष्टसिद्धेः "न नञ्पूर्वात्तत्पुरुषात्' इति सूत्रं प्रत्याख्यानयोग्यमिति भावः । झ्र्ज्ञा.प.ट समां समां विजायते (सू.5-2-12)।। यलोपवचनं ज्ञापयति नात्र लुग्भवतीति । झ्र्वि.ट ननु "समां समां विजायते' इति सूत्रेम समायां समायामित्यस्मात् समुदायात् प्रसूयत इत्यर्थे खप्रत्ययो विधीयते । समांसमीना गौः इत्युदाहरणम् । या प्रतिवर्षं प्रसूयते सैवमुच्यते । तत्र तद्धितान्तत्वात् प्रातिपदिकसंज्ञायां "सुपोधातुप्रातिपदिकयोः' (सू.2-4-72) इति सूत्रेण तदवयवस्य सुपो लुकि प्राप्ते समामिति यलोपनिपातनात् सुपोऽत्र पूर्वपदे लुङ्न भवतीति ज्ञाप्यते । यदि हि सुपो लुक् स्यात् तदा याटः सुब्भक्तत्वात सुब्लुकैव यलोपे सिद्धे सूत्रे यलोपनिपातनं यकारस्यैव लोपो भवति न सर्वस्य प्रत्ययस्येति नियमार्थम् । न चैवं सत्युत्तरपदेऽपि सुपो लुङ्न स्यादिति वाच्यम् । पुर्वपद एव यलोपनिपातनादाः श्रवणं न तूत्तरपद इत्याश्रयणात् । न च तर्हि सूत्रे उत्तरपदे समामिति यलोपयुक्तः सविभक्तिको निर्देशोऽसंगत इति वाच्यम् । वाक्ये पूर्वोत्तरपदयोर्विकल्पेन यलोपवचनात् सौत्रस्य च निर्देशस्य वाक्यरूपत्वादिति । तदाह यलोपवचनमिति । झ्र्ज्ञा.प.ट यत्तदेतेभ्यः परिमाणे (सू.5-2-39) ।। परिमाणग्रहणं ज्ञापयति अन्यत् प्रमाणम् अन्यत्परिमाणमिति । झ्र्वि.ट ननु "यत्तदेतेभ्यः परिमाणे वतुप्' इति सूत्रे परिमाणग्रहणं व्यर्थम् । "प्रमाणो द्वयसच्' (सू.5-2-37) इति सूत्रात् प्रमाणे इत्यास्यानुवृत्त्यैव परिमाणार्थलाबादित्याश्ङ्क्य परिमाणं प्रमाणादन्यदिति ज्ञापनार्थं तदुपादानामित्याह--परिमाणग्रहणमिति । आरोहपरिणाहाभ्यां स्वगताभ्यां धान्यादि येन मीयते काष्ठादिमयेन तत्परिमाणम्, प्रस्थादिकमुच्यते । दारुवस्त्रदीनां विस्तारो येन मीयते तत्प्रमाणं हस्तादि इति कैयटः । "उर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं
स्यात् संख्या बाह्या तु सर्वतः ।।' इति "अर्हादगोपुच्छसंख्यापरिमाणाट्ठक्' (सू.5-1-19) इति सूत्रस्थं भाष्यमत्रानुसन्धेयम् । झ्र्ज्ञा.प.ट एतदोऽन् (सू.5-3-5) ।। थकारादावादेशविधानात् ज्ञापकात् भवत्यत्र थमुः । झ्र्वि.ट भाष्ये एतेन प्रकारेणेत्यर्थे इत्थमिति रूपं साधयितुं "एतदः' "अन्' इति योगविभागः कृतः । तत्र "एतदः' इति सूत्रस्यायमर्थः--"एतेतौ रथोः' (सू.5-3-4) इति सूत्रमनुवर्तते । एतच्छव्दस्य एत इत् इत्यादेशौ भवतः रेफादौ थकारदौ च प्रत्यते परे इति । "अनद्यतनेर्हिलन्यतरस्याम्' (सू.5-3-21) इति सूत्रविहितः र्हिल्प्रत्ययो रेफादिः । तत्र एतर्हि इत्युदाहरणम् । थकारदिः प्रत्ययः थमुः । तत्र परे एतच्छव्दस्य इदादेशे इत्थमिति भवति । तत्र "इदमस्थमुः' (सू.5-3-23) इति सूत्रेण इदंशब्दादेव प्रकारार्थे थमुर्विहित इति एतच्छब्दात् थमोरविधानेन थकारादौ प्रत्यये परे एतदः इदादेशविधानं न संगच्छत इत्याशढद्धठ्ठड़14;क्य, अत एव ज्ञापकात् एतच्छव्दादपि प्रकारार्थे थकारादिस्तस्मिन्परे इदादेशविधायकतया सार्थक्यसंभवात कथं ज्ञापकत्वमिति वाच्यम् । इदमा थकारोदेर्विशेषणेन इदम्शब्दमुच्चार्थ विहितो यस्थकारादिः प्रत्ययस्तस्मिन् परे एतदः इदादेश इति सूत्रार्थात् । न हि थाल् इदम्शब्दानुवादेन विहित इति थमुरेवात्र ग्राह्यः । न च एतदस्थमोरभावे तस्मिन् परे इदादेशविधानमुपपनीपद्यत इति तत्सार्मथ्यात् एतदस्थमुर्भवतीति लभ्यत इति भावः । इति पञ्चमोऽध्यायः