ज्ञापकसंग्रहपरिशिष्टम्/षष्ठोऽध्यायः

← पञ्चमोऽध्यायः ज्ञापकसंग्रहपरिशिष्टम्
षष्ठोऽध्यायः
[[लेखकः :|]]
सप्तमोऽध्यायः →

अथ षष्ठोऽध्यायः
    झ्र्ज्ञा.प.ट अजादेर्द्वितीयस्य (सू.6-1-2) ।।"न न्द्राः संयोगादयः' (सू.6-1-3) इति प्रतिषेधो ज्ञापयति पूर्वनिवृत्तौ व्यञ्जनस्यानिवृत्तिरिति । झ्र्वि.ट ननु "अजादेर्द्वितीयस्य' सूत्रेण आदिभूतादचः परस्य द्वितीयस्यैकाचो द्वित्वमुच्यमानम् "एकाचो द्वे प्रथमस्य' (सू.6-1-1) इति सूत्रप्राप्तं प्रथमस्यैकाचो द्विर्वचनं बाधत इति वक्तव्यम् । तत्र च सव्यञ्जनस्य प्रथमस्यैकाचो द्विर्वचनं प्राप्तमिति तथाभूतमेव द्विर्वचनं द्वितीयद्विर्वचनेन बाध्येत। तथा च प्रथमैकाजन्तर्गतव्यञ्जनस्य द्विर्वचनं न प्राप्नोति । ततश्च अटिटिषतीत्यत्र अट् इत्ययं प्रथमैकाच् । द्वितीयैकाच् इत्यनेन च टकारविशिष्टमिकारं गृहीत्वा टिशब्दस्य द्वित्वमिष्यते, तन्न सिध्येत् इत्यशङ्क्याह--न न्द्रहः संयोगादय इति । "न न्द्राः संयोगादयः' इत्यनेन हि अचः परेषां संयोगादीनां नकारदकाररेफाणां द्वित्वं प्रतिषिध्यते । यथा "ऊर्णुनाव' इत्यत्र द्वितीयैकाच्पदेन रेफविशिष्टस्य "र्णु' शब्दस्य द्वित्वे प्राप्ते रेफं परित्यज्य नुशब्दस्यैव द्वित्वं भवति । तत्र रेफस्य प्रथमैकाचि "ऊर्' इत्यस्मिन्नन्तर्गतस्य प्रथमैकाचूद्विर्वचनबाधेनैव द्वित्वाभावे सिद्धे तस्य द्वित्वनिषेधो व्यर्थः सन् पूर्वनिवृत्तौ व्यञ्जनस्यानिवृत्तिरिति ज्ञापयति । द्वितीयैकाच्द्विर्वचनेन प्रथमैकाच्द्विर्वचने बाध्यमाने तदन्तर्गतव्यञ्जनस्य द्वित्वं न बाध्यत इति तदर्थः । तथा च रेफस्यापि द्वित्वप्राप्तौ तत्प्रतिषेधार्थं "न न्द्राः' इति सूत्रम् । इत्थं च अटिटिष्तीत्यादौ टिशब्दस्य द्वित्वसिद्धिर्निराबाधेति भावः । झ्र्ज्ञा.प.ट ग्रहिज्यायि (सू.6-1-16)।। "लिटि वयो यः (सू.6-1-38) इति वयेर्यकारस्य संप्रसारणप्रतिषेदात् ज्ञापकात् न वेञ्ग्रहणाद्वयेः संप्रसारणप्रतिषेधो भवतीति । झ्र्वि.ट ठग्रहिज्यावयि' इति सूत्रे वयिग्रहणं प्रत्याख्यातुमिच्छन् भाष्यकारः यजादिषु वेञः पाठात् वेञो वयिः' (सू.2-4-41) इति सूत्रेंण लिटि वयिरादेशः क्रियते इति वयेः स्थानिवद्भावेन वेञ्त्वात् "वचिस्वपियजादीनां किति'(सू.6-1-15)इत्यनेनैव संप्रसारणे सिद्धेसंप्रसारणार्थः "ग्रहिज्वावयी' ति सूत्रे वयिपाठो व्यर्थः । न च ङित्यपि संप्रसारणसिद्ध्यर्थं तत्पाठ इति वाच्यम् । वयेः लिण्मात्रवलिषयकत्वेन ङिति प्रयोगाभावात् । लिटश्च कित्त्वात् यजादित्वादेव संप्रसारणं सिध्यति इत्युक्तवान् । तदुपरि वेञः लिटि "वेञः' (सू.6-1-40) इति सूत्रेण संप्रसारणप्रतिषेदात् स वयेरपि प्राप्नुयादिति तस्य प्रतिषेधस्य बाधनार्थं वयेः पाठोऽस्तु इत्याशढद्धठ्ठड़14;क्य, "न वा यकारप्रतिषेधो ज्ञापकोऽप्रतिषेधस्य' इत्यवोचत् । तस्यायमाशयः--"लिटि वयो यः' (सू.6-1-38) इति सूत्रेण वयो यकारस्य लिटि संप्रसारणं प्रतिषिध्यते । तत्र संप्रसारणनिषेधपरे "वेञः' इति सूत्रे यदि वेञ्ग्रहणेन वयेर्ग्रहणमभविष्यत् तदा तेनैव प्रतिषेधसिद्धेः "लिटि वयो यः' इति सूत्रं नाकरिष्यत् । कृतं तत् सूत्रं प्रतिषेधसूत्रे वयेर्वेञ्ग्रहणेन ग्रहणं नेति ज्ञापयति । एवं च ज्ञापकात् प्रतिषेधसूत्रे वेञ्ग्रहणेन वयेर्ग्रहणे निषिद्धेऽपि "वचिस्वपियजादीनां किति' इति विधिसूत्रे वेञ्ग्रहणेन वयिग्रहणे बाधकाभावात् तेनैव संप्रसारणसिद्धेः "ग्रहिज्यावयि' इति सूत्रे वयिग्रहणं प्रत्याख्येयमिति । तदेतत्सर्वमभिप्रेत्याह--इति वयेर्यकारस्येति । झ्र्ज्ञा.प.ट आदेच उपदेशे (सू.6-1-45)।। "मीनातिमिनोति' (सू.6-1-50) इत्यत्र एज्ग्रहणानुवर्तनं ज्ञापयति न परनिमित्तकस्यात्वं भवतीति । अशितीति प्रतिषेधो ज्ञापकः नायादय आत्वं बाधन्त इति । झ्र्वि.ट ठआदेच उपदेशेऽशिति' इति सूत्रे उपदेशग्रहणवैर्यथ्यं विवक्षुर्भाष्यकारः यद्युपदेशग्रहणं न क्रियते तदा चेता स्तोता इत्यादावपि गुणे कृते एजन्तत्वसद्भावादात्वं प्राप्नोतीत्याशङ्क्य "मीनातिमिनोतिदीङां ल्यपि च' इति सूत्रे
चकारमहिम्ना एजन्तानां मीनात्यादीनामात्वं विधीयमानम् "आदेच उपदेशे' इति सूत्रेण एजन्तत्वादेव "आदेच उपदेश' इत्यनेन आत्वे माता इत्यादिरूपसिद्धेः मीनातीति सूत्रं व्यर्थं सत् परनित्तिमकैजन्तस्य आत्वं न भवतीति ज्ञापयति तथा च परनिमित्तकगुणेन संपन्नो य एच् तदन्तस्य आत्वं न प्राप्नुयादिति तत्प्राप्तिफलकं मीनातीति सूत्रं सार्थकम्। ततश्च चेता इत्यादावपि एकारस्य आर्धधातुकनिमित्तकगुणेन संपन्नत्वात् तदन्तस्य "आदेचः' इति सूत्रेण आत्वं न भवतीति न्यरूपयत् । तदाह--इत्यत्र एज्ग्रहणानुवर्तनमिति । अत्र "एजन्तानां मीनात्यदीनामात्वमित्यर्थेऽनेनैवात्वसिद्धेस्तत्सूत्रं व्यर्थं सदेतदर्थज्ञापकमिति भाव' इत्युद्योतग्रन्थोऽनुसन्धेयः । तत्रैव भाष्ये उपदेशशब्दस्य करणसाधनत्वे उपदेशशपब्देन शास्त्रमुच्यते । शास्त्रस्य च नैज् विशेषणमिति तदन्तविध्यभावात् उपदेशे य एच् तस्य आत्वमित्यर्थो लभ्यते । तदा तूपदेशशब्दः कर्मसाधनस्तदा उपदेशशब्द उपदिश्यमानवाची । उपदिश्यमान्स्य धात्वादेरेच् विशेषणंभवितुमर्हतीति तदन्तविधौ एजन्तस्योपदिश्यमानस्य आत्वमित्यर्थः पर्थवस्यति । तत्र एच् य उपदेश इति पक्षे पक्षान्तरे च ग्लैधातोरनीयर्प्रत्यते ग्लै अनीय इत्यत्र आत्वं बाधित्वा परत्वादाय् प्राप्नोति । तथा च ग्लानीयमिति रूपं न सिध्यति । तथा निशानीयमित्यत्र आव् प्राप्नोति इत्याशङ्क्य, अत्रापि शित्प्रतिषेधो ज्ञापकः नायादय आत्वं बाधन्त इति' इत्युक्तम् । शिति आत्वप्रतिषेधस्य फलं हि ग्लायतीत्यादौ शपि परे आत्वाभावः । तत्रापि ग्लै अ ति इत्यवस्थायां आत्वं बाधित्वा परत्वादायादेशेनेष्टरूपसिद्धेः किं शित्प्रतिषेधेन । कृतश्च स प्रतिषेधः आयादय आत्वं न बाधन्त इति ज्ञापयति इति तदर्थः । ततश्च आत्वे प्राप्ते तत्प्रतिषेदार्थमशितीत्युक्तमिति ग्लायतीत्यादावात्वाभावः ग्लानीयमित्यादावात्वं च सिध्यति । तदेतन्मनसिकृत्याह--अशितीति प्रतिषेध इति । झ्र्ज्ञा.ट हल्ङ्याव्भ्यो (सू.6-1-68)।। "न ङिसंबुद्ध्योः' (सू.8-2-8) इति संबुद्धौ प्रतिषेधो ज्ञापयति सिद्धः संयोगान्तलोपो नलोप इति । झ्र्वि.ट ठहल्ङ्याब्भ्यो दीर्घात्' इति सूत्रे राजन् स् इत्यत्र "संयोगान्तस्य लोपः' (सू.8-2-23) इत्यनेनैव सुलोपे सिद्धे तत्फलकं प्रथमहल्ग्रहणं मास्त्वित्याशङ्क्य, नलोपे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वात् नलोपो न सिध्येदिति वार्तिककारेणोक्तं समाधानंनिराचिकीर्षुः भाष्यकारः नलोपे कर्तव्ये संयोगान्तलोपः सिद्धो भवति यदयं "न ङिसंबुद्ध्योः' (8-2-8) इति संबुद्धौ नलोपप्रतिषेधं शास्ति इत्यवोचत् । राजन्शब्दात् संबुद्धेर्यदि संयोगान्तलोपस्य नलोपे कर्तव्ये असिद्धत्वं स्यात्तदा नकारस्य पदान्तत्वाभावादेव लोपाप्रसक्तेः तन्निषेधो व्यर्थः स्यात् । अतः स निषेधो ज्ञापयति नलोपे कर्तव्ये संयोगान्तलोपो नासिद्ध इति । ततश्च राजा इत्यत्र सोः संयोगान्तलोपेनैवेष्टसिद्धेः प्रथमहल्ग्रहणस्य राजेत्यत्र सुलोपाख्यं लार्तिकोक्तं प्रयोजनं न युक्तमिति भाष्याशयः । तदाह--न ङिसंबुद्ध्योरिति संबुद्धौ प्रतिषेध इति । झ्र्ज्ञा.प.ट प्रथमयोः (सू.6-1-102)।। "नादिचि' (सू.6-1-104) इति इज्ग्रहणं ज्ञापयति न जश्शसोः पररूपं भवतीति । झ्र्वि.ट ननु वृक्षाः इत्यादौ वृक्षअअस् इति स्थिते "पूर्वसवर्ण' इति पूर्वसवर्णदीर्घ इष्यते स न स्यात् , सर्वापवादस्य पररूपस्य प्रसक्तेः । तदुक्तं भाष्ये--"आद्गुणयणादेशावुत्सर्गो, तयोरपवादा वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः । तेषां सर्वेषां पररूपमपवादः'इति, इत्याशङ्क्य ज्ञापकेन पररूपाभावं साधयति-- इज्ग्रहणमिति । "नादिचि' (सू.6-1-104) इति पूर्वसवर्णनिषेधके सूत्रे इज्ग्रहणस्य वृक्षाः इत्यादौ पूर्वसवर्णनिषेधाभावः प्रयोजनम् । यदि तत्र पूर्वसवर्णदीर्घं बाधित्वा पररूपं भवेत् तर्हि पूर्वसवर्णदीर्घस्याप्रसक्त्या
प्रतिषेधोऽपि न भवतीति किं प्रतिषेधवारणफलकेन इज्ग्रहणेन । कृतं च तत् जश्शसोः परतः पररूपं न भवतीति ज्ञापयति इति भावः । न च "दीर्धाज्जसि च' (सू.6-1-105) इत्युत्तरसूत्रे अनुवृत्त्यर्थम् इज्ग्रणमिति वाच्यम् । तर्हि दीर्घादिज्जसोः' इति तत्रेव इज्ग्रहणं कुर्यात् । इह क्रियमाणमिहार्थमेव वक्तव्यम् । तदपि न संभवतीत्युक्तत्वात् व्यर्थं सदिज्ग्रहणं ज्ञापकमेवेति । विस्तरस्तु भाष्ये । झ्र्ज्ञा.प.ट प्लुतप्रगृह्या अचि (सू.6-1-125)।। प्लुतः प्रकृत्या इति प्रकृतिभावविधानात् ज्ञापकात् एकादेशात् प्लुतो भवति विप्रतिषेधेनेति । झ्र्वि.ट ननु "प्लुतत्पगृह्या' इति सूत्रेण किमर्थं प्लुतस्य प्रकृतिभाव उच्येते । न च स्वरसन्धिबाधनार्थमुच्यत इति वाच्यम् । "पूर्वत्रासिद्धम्' (सू.8-2-1) इति प्लुतस्यासिद्धत्वात् एकादेशादिरूपः स्वरसन्धिरेव प्राप्नोतीति प्रकृतिभावविधानस्यानर्थकत्वादित्याङ्क्याह--प्लुतः प्रकृत्या इतीति । यद्यसिद्धत्वात्प्लुतस्य स्वरसन्धिर्भवेत् तदा प्रकृतिभावविधानमनर्थकं स्यात् । अत एव विधानात् प्लुतः सिद्धः इति ज्ञापनद्वारा एकादेशात्प्लुतो भवतीति ज्ञाप्यते । तथा च सन्ध्यभावफलकं प्लुतस्य प्रकृतिभावविधानं सार्थकमिति भावः ।झ्र्ज्ञा.प.ट अनुदात्तं पदम् (सू.6-1-158)।। यदयं "तवैचान्तश्च युगपत्' (सू.6-2-51) इति सिद्धे योगपद्ये यौगपद्यं शास्ति तज्ज्ञापयति न युगपत्स्वरो भवतीति । झ्र्वि.ट ठअनुदात्तं पदमेकवर्जम्' इति सूत्रे भाष्ये--- "आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च । पृथक्स्वरनिवृत्त्यर्थमेकवर्जं पदस्वरः ।।" इति श्लोकेन एकस्मिन् पदेप्रकृतिप्रत्ययादीनां युगपत्स्वरः प्राप्नोति इष्यते चैक एव स्वरः स्यादिति तदर्थमिदं सूत्रमुच्यत इति सूत्रप्रयोजनमुक्त्वा नैतदस्ति प्रयोजनं, यदयं "तवै चान्तश्च युगपत्' (सू.6-1-51) इति सिद्धे यौगपद्ये यौगपद्यं शास्ति तज्ज्ञापयत्याचार्यः "न युगपत्स्वरो भवतीति' तत्प्रयोजनं खण्डड्डत्ध्;यामासः अथं तस्याशयः--"तवै चान्तश्च' इति सूत्रेण तवैप्रत्ययान्तस्यान्तोदात्तः गतिसंज्ञकस्य पूर्वपदस्य प्रकृतिस्वरश्च उभयं युगपत् भवतीति विधीयते "अन्वेतवै' इत्युदाहरणम् । तत्र युगपद्ग्रहणमन्तरेणापि एकस्मिन् पदे एककाले विरोधाभावादनेकस्वरसिद्धौ युगपद्ग्रहणं व्यर्थं सत् युगपदनेकस्वरो न भवतीति ज्ञापयति । तथा च अन्वेतवै इत्यादौ प्रत्ययस्वरगतिस्वरयोर्थुगपत्प्रवृत्त्यर्थं युगपद्ग्रहणं कृतमिति स्वांशे चारितार्थ्यम् । तेनान्यत्र पदे युगपत्स्वरो न भवतीति सिद्धम् । तथा च सूत्रप्रयोचजनस्य ज्ञापकेनैव सिद्धिरिति । तदेतदाह--यदयमिति । झ्र्ज्ञा.प.ट ठरिक्ते विभाषा' (सू.6-2-208) इति सिद्धे पर्याये पर्यायविधानं ज्ञापकम् अन्यत्र न पर्यायो भवतीति । झ्र्वि.ट नन्वनेन ज्ञापकेन युगपदनेकस्वराभावसिद्धावपि पर्याण विकल्पेनानेकस्वारः प्राप्नोति । इष्यते त्वेक एव स्वरः । तस्य कथं सिद्धिरित्याशङ्क्याह रिक्ते विभाषेति । "रिक्ते विभाषा' इति सूत्रेण रिक्तशब्दे विकल्पेन आद्युदात्तः विधीयते । पक्षे प्रत्ययस्वरेणान्तोदात्तत्वं भवति । यदि च पर्यायेण तत्तत्स्वरः स्यात् तदा कदाचित् धातुस्वरेण आद्युदात्तत्वं कदाचित् प्रत्ययस्वरेणान्तोदात्तत्वमित्येवं पर्यायेण स्वरद्वेये सति विकल्पविधानफलसिद्धेः किं "रिक्ते विभाषा' इति सूत्रेण । कृतं च तत् पर्यायेणानेके स्वरा न भवन्तीति ज्ञापयति । तदेवं पर्याययौगपद्ययोर्निरासे "परनित्यान्तरङ्गाववादानामुत्तरोत्तरं बलीयः' इति परिभाषाया परत्वनित्यत्वादियुक्तः स्वरो भविष्यतीति नार्थः सूत्रेणेति सिद्धम् । परं त्वेताभ्यां ज्ञापकाभ्यामेकस्मिन् पदेऽनेकोदात्तसमावेशाभावे लब्धेऽपि उदात्तस्वरतिसमावेशाभावो न लभ्यत इत्याशङ्का अवशिष्यते । तत्र भाष्यकार आह--"स्वरितेऽप्यनुदात्तोऽस्ति' इति । उदात्ते पर्याययौगपद्यनिरासे ज्ञापकात् कृते स्वरितेऽप्युदात्तसद्भावात् उदात्तस्वरितयोरपि
पर्याययौगपद्यनिरासे सिद्ध इति भाष्याशयः । परं त्वस्मिन् शास्त्रे उदात्तग्रहणेन स्वरितावयवोदात्तस्य ग्रहणं न भवति । अत एव "उदात्तस्वरितयोः' (सू.8-2-4) इत्यादौ भेदेन निर्देशः संगच्छते । एवं च स्वरितेन समावेशनिरासार्थम् "अनुदात्तं पदमेकवर्जम्' इति सूत्रमावश्यकमेव । अत एवैतन्मनसि कुर्वता भाष्यकारेण "आरभ्यामाणेऽप्येतस्मिन्योगे' इत्यनन्तरं प्रोक्तम् । तत्र चोद्योतः--- "अनेन स्वरितविषयकत्वं ज्ञापकस्यासंगतम् इत्युक्तम् । एतन्मूलकमेव भाष्यकार आह--आरभ्यमाणेऽपीति' इति स्पष्टं सूत्रावश्यकतां प्रकाशयतीत्यवधेयम् । झ्र्ज्ञा.प.ट तासेः परस्य लसार्वधातुकस्यानुदात्तविधानात् ज्ञापकात् सतिशिष्टोऽपि विकरणस्वरो लसार्वधात्कस्वरं न बाधत इति । झ्र्वि.ट ननु "सति शिष्टस्वरबलीयस्त्वं च' इति वार्तिकेन एकस्मिन् पदे पूर्वमेव कस्यचित् स्वरे सति अनन्तरं कस्यचित्स्वरः अनुशिष्टः विहितः बलीयानिति प्रोक्तम् । तथा चेत् सुनुतः धिनुतः इत्यादौ विकरणस्वरः सार्वधात्कस्वरं बाधेत । सार्वधातुके परतः विकारणस्य विधानेन विकरणस्वरस्य पूर्वमेव प्रवृते सार्वधातुकस्वेरे सति शिष्टत्वात् इत्याशङ्क्याह--तासेः परस्योति । "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तम्' (सू.6-1-186) इति सूत्रेण तासेः परस्य लसार्वधातुकस्यानुदात्तत्वं विधीयते । कर्तारौ कर्तार इत्युदाहरणम्। यदि सतिशिष्टिन विकरणस्वरेण सार्वधातुकस्वरो बाध्येत्, तदा विकरणस्य तासः उदात्तत्वे "अनुदात्तं पद' मिति शेषस्यानुदात्तत्वेन लसार्वधातुकस्यानुदात्तत्वे सिद्धे किं तासेः पस्य लसार्वधातुकस्यानुदात्तत्वविधानेन । विहितं च तत् सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधत इति ज्ञ पयति । तथा च तदनुसारेण कर्तारौ इत्यादौ सार्वधातुकस्योदात्तत्वे प्राप्ते तद्बाधनेन अनुदात्तत्वविधायकतया सूत्रं सार्थकम् । ततश्च धिनुतः इत्यादौ लसार्वधातुकस्वरेणान्तोदात्तत्वसिद्धिर्ज्ञापनफलमिति भावः । झ्र्ज्ञा.प.ट चतुरः शसि (सू.6-1-167)।। "षट्त्रिचतुर्भ्यौ हलादिः' (सू.6-1-179) इति हलादिग्रहणं ज्ञापयति न निपातनस्वरो विभक्तिस्वरं बाधत इति । झ्र्वि.ट ठचतुरः शसि' इति सूत्रे "चतुरः शसि स्त्रियामप्रतिषेधः आद्युदात्तनिपातनात्' इति वार्तिकम् । तस्यायमर्थः--चतुरः शसीति सूत्रेण शसि परतश्चतुर्शब्दस्यान्तोदात्तो विधीयते । तथा च स्त्रीलिङ्गे चतस्त्रः पश्येत्यत्रापि चतसृशब्दस्य स्थानिवद्भावेन चतुर्शब्दत्वमाश्रित्य अन्तोदात्तत्वं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः । न वक्तव्यः । चतसृशब्दस्य आद्युदात्तनिपातनं करिष्यते । तत्र चतुर्शब्दस्य चतेरूरन्प्रत्ययान्त्तत्वेन आद्युदात्ततया तत्स्थानिकस्य चतसृशब्दस्यापि स्थानिवद्भावेन आद्युदात्तत्वे सिद्धे पुनराद्युदात्तनिपातनम् "चतुरः शसि' इति सूत्रविहितान्तोदात्तस्य बाधकमिति । एतदुपरि यथेदमाद्युदात्तनिपातनं "चतुरः शसि' इति सूत्रविहितान्तोदात्तस्य बाधकमिति । एतदुपरि यथेमाद्युदात्तनिपातनं "चतुरः शसि' इति सूत्रविहितं प्रकृत्यन्तोदात्तत्वं बाधते एवं "षट्त्रिचतुर्भ्यो हलादिः' (सू.6-1-179) इति सूत्रविहितं विभक्तिस्वरमपि बाधेत । तथा च चतसृभिरित्यादौ विभक्त्युदात्तत्वं न स्यादित्याशङ्कायामाह--इति हलादिग्रहणमिति । हलादिग्रहणं हि चतस्त्रः पश्येत्यत्र शसः उदात्तत्वं मा भूदिति क्रियते । यदा तु आद्युदात्तनिपातनं विभक्तस्विरं बाधेत तदा चतस्त्र इत्यत्र चतसृ इत्यस्याद्युदात्तेन बलीयस्त्वं ज्ञापयतीति भावः । न च षट्संज्ञेभ्यः या अजादिर्विभक्तिः तध्द्यावृत्तिः हलादिग्रहणस्य प्रयोजनमिति वाच्यम् । षट्संज्ञानां हि द्विवचनैकवचने न स्तः । जश्शसी च "षड्ड्डत्ध्;भ्यो लुक्' (सू.7-1-22) इति लुप्येते इति व्यार्वत्यालाभात् । एवं
त्रिशब्दस्यापि बहुवचनविषयत्वात् द्विवचनैकवचने न स्तः । जसस्तु असर्वनामस्थानमिति विशेषणादेव व्यावृत्तिः । शसि तु त्रि अस् इत्यत्र पूर्वसवर्णदीर्घे "एकादेश उदात्तेनोदात्तः' इति उदात्तत्वमिष्यत एवेति तदपि न व्यार्वत्यम् । तिसृशब्देऽप्येवम् । शसि परं तिस्त्रः पश्येत्यत्र "उदात्तयणो हल्पूर्वात्' (सू.6-1-174) इति अन्तोदात्तत्वमिष्यत एवेति तदपि न व्यार्वत्यम् । चतस्त्रः पश्येत्येकमेव व्यार्वत्यम् । तत्र च पूर्वोक्तरीत्यैव निर्वाहे हलादिग्रहणं व्यर्थं सदुक्तवचने ज्ञापकमिति भाष्ये स्पष्टम् । झ्र्ज्ञा.प.ट तास्यनुदात्तेत् (सू.6-1-186)।। अनुदात्तङिद्ग्रहणं ज्ञापकं न लुप्तविकरणेभ्योऽनुदात्तत्वं भवतीति । झ्र्वि.ट नन्वनेकान्ता अनुबन्धा इति पक्षे शपोऽप्यदुपदेशत्वात् ततः परस्य लसार्वधातुकस्य अत्तः जुहुतः इत्यादौ "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तम्' इत्यनुदात्तत्वं प्राप्नोतीत्याशढद्धठ्ठड़14;क्याह--अनुदात्तङिद्ग्रहणमिति । आस्ते शेते इत्यादौ लसार्वधातुकस्यानुदात्तत्वसिद्ध्यर्थं "तास्यनुदात्तेन्ङिददुपदेशात्' इति सूतेरे अनुदात्तेद्ग्रहणं च क्रियते । तदुभयं व्यर्थम् । अदुपदेशाच्छपः परत्वमादायैव अनुदात्तत्वसिद्धेः । अतस्तत् ज्ञापयति लुप्तेभ्यो विकरणेभ्य परस्य लसार्वधातुकस्यानुदात्तत्वं न भवतीति । अतः न दोष इति भावः । झ्र्ज्ञा.प.ट समासस्य (सू.6-1-223)।। "नोत्तरपदेऽनुदात्तादौ' (सू.6-2-142) इत्युक्त्वा "अपृथिवीरुद्रपूषमन्थिषु' इति प्रतिषेधात् ज्ञापकात् तत्र सिद्धं तद्भवति व्यञ्जनादेर्व्यञ्जनान्ताच्चेति । झ्र्वि.ट ननु अनुदात्ता देरन्तोदात्ताच्च यदुच्यते तध्द्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोति उदात्तत्वानुदात्तत्वादीनामज्धर्मत्वात् । ततश्च दाधित्थम् इत्यत्र "अनुदात्तादेश्च' (सू.4-3-140) इत्यञ्, "अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे' (सू.6-1-169) इति परमवाचेत्यादौ अन्तोदात्तादुत्तरपदात् परस्यास्तृतीयादिविभक्तेर्विधीयमानमुदात्तत्वं च न सिध्येदित्याशङ्क्याह--समासस्येत्यादि । "नोतरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु' (सू.6-2-142) इति सूत्रेण देवताद्वन्द्वे अनुदात्तादावुत्तरपदे पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरः "देवताद्वन्द्वे च' (6-2-141) इति सूत्रप्राप्तः प्रतिषिध्यते । तत्र च "अपृथिवीरुद्रे' त्यादिना पृथिव्यादिषूत्तरपदेषु प्रतिषेधस्य प्रतिषेधः कथ्यते । पृथिव्यादीनां शब्दानां व्यञ्जनादीनामनुदात्तादित्वाभावेनैव प्रतिषेधाप्रवृत्तेः "अपृथिवी' त्यादि पर्युदासो व्यर्थः सन् अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तध्द्यञ्जनादेर्व्यञ्चनान्ताच्च भवतीति ज्ञापयति । तेन अपृथिवीत्यादिपर्युदाससार्थक्यं दाधित्यमित्यादाविष्टसिद्धिश्च भवतीति भावः । झ्र्ज्ञा.प.ट अनिगन्तेऽञ्चतौ (सू.6-2-52)।। "अहरणे' (सू.6-1-65) इति प्रतिषेधात् ज्ञापकात् न कृत्स्वरो हारिस्वरं बाधत इति । झ्र्वि.ट ननु बाडड्डत्ध्;बहार्य इत्यत्र "सप्तमीहारिणौ र्धम्येऽहरणे' (सू.6-2-65) इति सूत्रेम सप्तम्यन्तं हारिवाचि च आद्युदात्तं र्धम्ये परे इत्यर्थकेन बाडड्डत्ध्;वशब्दस्याद्युदात्तत्वं प्राप्तम् । तथा "गतिकारकोपपदात् कृत्' (सू.6-2-139) इति कृत्स्वरेण (ण्यत्स्वरेण) अन्तस्वरितत्वं च प्राप्तम् । तत्र परत्वात् हारिस्वरं बाधित्वा कृत्स्वरः प्राप्नोति । इष्यते तु हारिस्वरेण पूर्वपदाद्युदात्तत्वम् । तत्सिद्धिः कथमित्यत आह-अहरण इति प्रतिषेधादिति । अयमाशयः--बडड्डत्ध्;वाया अयं बाडड्डत्ध्;वः बीजाश्वः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तत् हरणमिति हार्यमिति चोच्यते । बाडड्डत्ध्;वाय हरणमिति विग्रहे बाडड्डत्ध्;वहरणमिति भवति । देयं यः स्वीकरोति स हारीत्युच्यते । तथा च
बाडड्डत्ध्;वशब्दस्य हारिवाचित्वात् तस्य र्धम्यवाचिनि हरणशब्दे परे अनेन आद्युदात्तत्वं प्राप्तम् । तथा "अनो भावकर्मवचनः' (सू.6-2-150) इति सूत्रेण उत्तरपदान्तोदात्तत्वं च प्राप्तम् । तत्र परत्वात् उत्तरपदान्तोदात्तत्वेन हारिस्वरबाधात् हारिस्वराप्रवृत्तेः तन्निषेधकम् अहरण इत्येतध्द्यर्थं सत् कृत्स्वरो हारिस्वरं न बाधते अपि तु हारिस्वर एव कृत्स्वरं बाधत इति ज्ञापयति । न च "गतिकारकोपपदात् कृत्' इति परत्वात् कृत्स्वरे प्राप्ते हरणोत्तरपदेऽपवादतया "अनो भावकर्मणोः' इति प्रान्नोति । तत्प्राप्त्यनन्तरं "सप्तमीहारिणौ र्धम्येऽहरणे' इत्युच्यते । एवं च "अहरणे' इत्यनेन हारिस्वरं "अनो भाव' इति स्वरो न बाघत इति ज्ञापनसंभवेऽपि कृत्स्वरो हारिस्वरं न बाधत इति कथं ज्ञापयितुं शक्यत् इति वाच्यम् । कृत्स्वरबाधकस्य "अनो भावकर्मणोः' इति स्वरस्य "सप्तमीहारिणौ' इति स्वरो बाधक इति ज्ञापिते तद्बाधकबाधकस्य सुतरां तद्बाधकत्वस्य कैमुतिकन्यायेन सिद्धेः । ततश्च सामान्यतः कृद्विषये येन केनापि परेण सूत्रेम प्राप्तस्य स्वरस्य सर्वस्य पूर्वविप्रतिषेधेन हारिस्वरो बाधक इति ज्ञाप्यते । इत्थं च हरणशब्दे परेऽपि हारिस्वरस्य प्राप्तौ तन्निवृत्त्यर्थम् अहरण इत्युक्तमिति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं तु बाडड्डत्ध्;वहार्यमित्यत्र हरणशब्दभिन्ने हार्यशब्दे परे कृत्स्वरं बाधित्वा"सप्तमीहारिणौ' इति प्रकृतसूत्रेण पूर्वपदाद्युदात्तत्वं भवतीति । झ्र्ज्ञा.प.ट अन्तः (सू.6-2-143)।। कपि पूर्ववचनं ज्ञापकम् उत्तरपदस्यान्तोदात्तत्वं व भवतीति । झ्र्वि.ट अन्तः इत्यधिकारसूत्रम् । तच्योत्तरसूत्रैकवाक्यतापन्नं सत् अन्त उदात्तो भवतीत्यर्थं बोधयति । तत्र कस्यान्त उदात्त इत्याकांक्षायां "समासस्य' (6-1-223) इत्यपि प्रकृतम्, "उत्तरपदस्य वा अन्त उदात्त इत्यर्थः पर्यवस्यति । तत्र उत्तरपदस्यान्तोदात्तत्वमिति पक्षे अनृचः बह्वृचः इत्यत्र "ऋक्पूरब्धूः पथामानक्षे' (सू.5-4-74) इति सूत्रेम समासान्ते अप्रत्यये तस्य उदात्तत्वमिष्यते । तन्न सिध्येत् । अकारो हि समासस्यावयवो नोत्तरपदस्येति तस्योदात्तत्वं न प्राप्नोतीत्याशङ्क्याह--कपि पूर्ववचनमिति । कस्यान्त इत्याकाङ्क्षायां समासस्येत्येव संबध्नाति नोत्तरपदस्येति । तथा च समासस्यान्त उदात्त इत्येव सूत्रार्थः । अत्र ज्ञापकं तु "कपि पूर्वम्' (सू.6-1-173) इति । तस्य हि नञ्सूभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य कपि परे पूर्वमुदात्तमित्यर्थः । यथा सुकुमारीक इत्यत्रईकारः उदात्तः । यदि हि उत्तरपदस्यान्त उदात्त इति स्यात् तदा कपः समासावयवस्योत्तरपदावयवत्वाभावात् कुमारीत्युत्तरपदस्यान्त ईकार एवोदात्तो भविष्यति "नञ्सुभ्याम्' (सू.6-2-172) इतिं सूत्रेणेति किं "कपि पूर्वम्' इति सूत्रेण । कृतं च तत् समासस्यान्त एवोदात्तो नोत्तरपदस्येति ज्ञापयति ।अतः कपि पूर्वमिति सूत्रसार्थक्यम् अनृच इत्यादौ समासान्तोदात्तत्वं च सिध्यत इति भावः । परं त्वत्र पक्षे इदंप्रथमका इत्यत्र "बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने' (सू. 6-2-162) इति सूत्रेण विधीयमानः अन्तोदात्तः समासान्तत्वात् कपः प्राप्नोति । इष्यते तु मशब्दाकारस्य । तन्न सिध्येत् । अतस्तस्मिन् सूत्रे परं उत्तरपदस्येत्येतदेव संबध्नाति न तु समासस्येति वक्तव्यम् । स्पष्टं चेदं भाष्यकैयटयोः । झ्र्ज्ञा.प.ट कारनाम्नि च (सू.6-3-10)।। एतदेवालुग्वचनं ज्ञापयति भवत्यत्र समास इति । झ्र्वि.ट ठकारनाम्नि च प्राचां हलादौ' इति सूत्रेम प्राचां देशे यत् कारनाम तत्र हलादावुत्तरपदे हलदन्तात् सप्तम्या अलुग्विधीयते । तत्र वार्तिककारैः किमियं प्राप्तविभाषा उत अप्राप्तविभाषा इति विचार्य "अप्राप्ते समासविधानम्' इत्युक्तम् । मुकुटेकार्षापणमित्यादौ "हलदन्तात् सप्तम्याः संज्ञायाम्' (सू.6-3-9) इति सूत्रेणालुक्यप्राप्ते विभाषा इत्युक्ते असंज्ञात्वं
फलति । तत्र च समासो दुर्लभ इति समासोऽपि विधेयः । प्राप्तविभाषेति पक्षे तु संज्ञायामेव विषये विभाषेति "संज्ञायाम्' (सू.2-1-44) इति सूत्रेणैव समाससिद्धेः अलुङ्मात्रं विधेयमिति वार्तिकाशयः । भाष्यकारस्तु--- "नैष दोषः । एतदेव ज्ञापयति भवत्यत्र समास इति यदयं कारनाम्नि सप्तम्या अलुकं शास्ति' इत्याह । अप्राप्तविभाषेति पक्षेऽपि असंज्ञात्वेऽपि अलुग्विधानसार्मथ्यादेव समासो भवतीति ज्ञायते । अन्यथा लुक एवाप्रसक्तेरलुग्विधानवैर्यथ्यादिति भाष्यतात्पर्यम् । तदेतदाह--एतदेवालुग्वचनमिति । झ्र्ज्ञा.प.ट चौ (सू.6-3-138)।। एतदेव ज्ञापयति न चौ प्रत्यङ्गं भवतीति । झ्र्वि.ट ननु प्राचा दधीचा इत्यादौ नलोपानन्तरमन्तरङ्गत्वादेकादेशे यणादेशे च कृते अजन्तत्वाभावात् "चौ' इति दीर्घो न प्राप्नोतीत्यत आह--एतदेव ज्ञापयतीति । दीर्घविदानसार्मथ्यात् "चौ' इति सूत्रं प्रति यदन्तरङ्गं तन्न बवतीत्यर्थः । वस्तुतस्तु "चौ' इति निर्देशेन अकारलोपानन्तरमेतत् सूत्रं प्रवर्तत इत्यवगमात् एकादेशयणादीनामकारलोपानन्तरं प्रवृत्तियोग्यत्वविरहाच्चिन्त्यमिदम् । प्रत्यढद्धठ्ठड़14;गशब्दोऽतरङ्गवाची ।। झ्र्ज्ञा.प.ट आर्धधातुके (सू.6-4-46)।। नानेन शपोऽकारस्य लोपो भवतीत्यत्र अदिप्रभृतिभ्यः शपो लुग्विधानं ज्ञापकम् । आकारान्तेभ्यो लुग्विधानं वा ज्ञापकम् । झ्र्वि.ट कानि पुनरार्धधातुकाधिकारस्य प्रयोजनानीत्यशङ्क्य भाष्ये "अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् । आल्लोप ईत्वमेत्वं च चिण्वद्भावश्च सीयुटि ।। ' इति प्रयोजनपरिगणनं कृत्वा अतो लोपे आर्धधातुकाधिकाराभावे चिकीर्षतीत्यत्रापि सनोऽकारस्य लोपः स्यादित्यभिधाय, अस्त्वत्र सनोऽकारलोपः शपोऽकारस्य श्रवणं भविष्यतीत्याक्षिप्य, शप एवाकारस्य लोपो मा भूदित्येवमर्थमार्धधातुकाधिकार इति समाधाय, नैतदस्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति नानेन शपोऽकारस्य लोपो भवतीति, यदयमदिप्रभृतिभ्यः शपो लुकं शास्ति इत्यभिहितम् । तदेतदाह--नानेनेति । आर्धधातुकाधिकारीयेण "अतोलोपः' इति सूत्रेणेत्यर्थः । ननु वित्तः मृष्ट इत्यादौ शपोऽकारस्य यद्यतो लोपः स्यात् तदा प्रत्ययलक्षणेन गुणवृद्ध्यादिकार्यं भवेत् । तन्निवृत्तये शपो लुग्विधानमिति प्रयोजनान्तरसद्भावात् कथमिदं ज्ञापकमित्याशङ्क्याह--आकारान्तेभ्य इति । यदि शपोऽतो लोपः स्यात् तदा "या वा'प्रभृतय आकारान्ता धातवो भूवादिष्वेव पठ्येरन्, न त्वदादिषु, लुग्लोपयोस्तत्र विशेषाभावादिति भावः । इति षष्ठोऽध्यायः ।