तत्त्वचिन्तामणिः/योग्यतावादः
← शब्दाकाङ्क्षावादः | तत्त्वचिन्तामणिः [[लेखकः :|]] |
आसत्तिवादः → |
ननु का योग्यता, न तावत् सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्याव्यावत्र्तकत्वात् । पदार्थतावच्छेदकेन साजात्यस्याद्यजात: पय: पिबतीत्यदावभावात् वाक्यार्थस्यापूर्वत्वाच्च । नापि समभिव्याह्मतपदार्थसंसर्गव्याप्यधर्मवत्त्वं, वाक्यार्थस्यानुमेयत्वापत्ते: । न च वस्तुगत्या संसर्गव्याप्यो यो धर्मस्तद्वस्तं तच्च न ज्ञातुमुपयुज्यते इति नानुमेय: संसर्ग इति वाच्यम् । योग्यताभ्रमाच्छाब्दभ्रमानुपपत्ते: । अत एवान्वयनिश्र्चयविरह एव योग्यता स्वरूपसत्ती हेतु: तत्र तद्धर्माभावनिश्र्चये तत्प्रकारकशाब्दज्ञानानुदयात् इति परास्तम् । नापि समभिव्याह्मतपदार्थसंसर्गाभावव्याप्यधर्मश्रून्यत्वम्, प्रमेयमभिधेयमित्यादौ संसर्गाभावस्याप्रसिद्ध्या तदनिरूपणात् गेहनिष्ठघटाभावे प्रमिते घटोऽस्तीतिवाक्यात्तन्निश्र्चयेऽप्यन्वयज्ञानानुदयाच्च । नापि बाधकप्रमाणाभाव:, अन्यच्च यद्बाधकं तदभावस्यायोग्येऽपि सत्त्वात् । नापि प्रकृतसंसर्गबाधकस्याभाव:, प्रतियोगिसिद्ध्यसिद्धिव्याघातात् । न च प्रकृतसंसर्गे अन्यत्र सिद्धस्य बाधकप्रमाणस्याभाव:, प्रकृतसंसर्गस्य प्रथमप्रतीते: अयोग्येऽपि तत्सत्वाच्च । तत्र बाधकमप्यस्तीति चेत्, तर्हि प्रकृतसंसर्गबाधकस्याभाव: तच्चाप्रसिद्धम् । अत एव तत्र बाधकस्याप्यनिरूपणम् । नापीतरपदार्थसंसर्गाभावप्रमाविषयत्वाभावोऽपदपदार्थे, केवलान्वयिन्यप्रसिद्धे: । एतेन यत्रासम्बन्धग्राहकं प्रमाणं नास्ति तद्योग्यमिति निरस्तम् । नापि बोधनीयसंसर्गाभावप्रमाविरह:, प्रतियोग्यप्रसिद्धे:, बोधनीयसंसर्गस्य प्रागप्रतीते: योग्यता च न स्वरूपसत्युपयुज्यते इत्युक्तम्, अयोग्ये तत् सत्त्वस्यानिरूपणाच्च । अपि च स्वीयबाधकप्रमाविरहस्यायोग्येऽपि सत्त्वात् बाधकप्रमामात्रविरहस्य योग्येऽपि ज्ञातुमशक्यत्वात् परप्रमाया अयोग्यत्वात् । न च स्वरूपसन्नेवायं हेतु:, स्वीयबाधकप्रमाविरहदाशायां योग्यताभ्रमेण शाब्दभ्रमानुपपत्ते:, अन्वयप्रयोजकरूपवत्त्वेन बाधकप्रमामात्रविरहोऽनुमेय इति चेत् । न । सेकानान्विततोये द्रवद्रव्यत्वे सत्यपि बाधकसत्त्वेन व्यभिचारात् उपजीव्यत्वेन तस्यैव योग्यतात्वापत्तेश्र्च । न चैवमेवेति वाच्यम्। आकाङ्क्षासत्त्यन्वयप्रयोजकरूपवत्त्वे सत्यप्यनाप्तवाक्ये बाधकप्रमायामन्वाबोधात्, बाधकप्रमाविरहो हेतुरिति चेत्तह्र्रावश्यकत्वात् सैव योग्यता ।
योग्यतावादसिद्धान्त:
सम्पाद्यताम्उच्यते बाधकप्रमाविरहो योग्यता, सा चेतरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभाव: । प्रमेयं वाच्यमित्यत्र प्रमेयनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वं गोत्वे प्रसिद्धं वाच्यत्वसंसर्गे तदभाव: ।
वस्तुतस्त्वितरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वं योग्यता लाघवात् शक्यज्ञानत्वाञ्च ।
न च नरशिर:शौचानुमानबाधात् तदशौचबोधकशब्दात् अन्वयाबोध इति वाच्यम् । उपजीव्यजातीयत्वेन शब्दस्य बलवत्त्वात् तेनैव तदनुमानबाधात् । नन्वाकाङ्क्षासत्तिमत्त्वेन शब्दस्य प्रमाणता न तु योग्यतापि तन्निवेशिनो बाधाभावस्य प्रमामात्रहेतुत्वादिति चेत् । न । बाधे हि प्रमाणदोषोऽवश्यं वक्तव्य:, अन्यथा प्रमाणविषये बाधासम्भवात् यथानुमाने बाधादुपाधिकल्पनद्वारा व्याप्तिविघात:, निरूपाधौ बाधानवकाशात् ।
सेयं न स्वरूपसतो प्रयोजिका शाब्दभासोच्छेदप्रसङ्गात् । तन्निश्र्चयश्र्च न भवत्युपायाभावात् इति चेत् । न । संशय-विपर्य-प्रमासाधारणस्य योग्यताज्ञानमात्रस्य कारणत्वात् । अयोग्यताज्ञानस्य प्रतिबन्धकस्य सर्वत्राभावात् क्वचित्तन्निश्र्चयोऽपि योग्यतानुपलब्धा यथेह घटो नास्तीति ।