तत्त्वचिन्तामणिः/शब्दाकाङ्क्षावादः

← शब्दप्रामाण्यवादः तत्त्वचिन्तामणिः
[[लेखकः :|]]
योग्यतावादः →

अथ केयमाकङ्क्षा, न तावदविनाभाव:, नीलं सरोजमित्यादावभावात् । विमलं जलं नद्या: कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्ते: । नापि समभिव्याह्मतपदस्मारितपदार्थजिज्ञासा, अजिज्ञासोरपि वाक्यर्थबोधात् विश्र्वजिता यजेत द्वारं इत्यत्रापदार्थयोप्यधिकारिणोऽप्याह्मतस्य पिधानस्य चाकाङ्क्षितत्वाच्च, तत्र शब्दकल्पनपक्षेऽपि घट: कर्मत्वमानयनं कृतिरित्यत्र जिज्ञासितस्यानयनादेराकाङ्क्षितत्वापत्ते: । अथ जिज्ञासायोग्यता, सा जिज्ञासा च विशेषाज्ञाने भवति, योग्यता च श्रोतरि तदुच्चारणजन्यसंसर्गावगमप्रागभाव:, विमलं जलं नद्या: कच्छे महिष इत्यत्र तात्पर्यवशात् कदाचित् नद्या: कच्छे संसर्गावगमात् तत्प्रागभावसत्त्वेऽपि श्रोतरि तदुच्चारणेन तात्पर्यवशात् जलान्वितनद्या: कच्छे संसर्गावगमोनेति न तत्प्रगाभाव:, घट: कर्मत्वमानयनमित्यत्रापि तथेति चेत् । न । निराकाङ्क्षे तदुच्चारणजन्यसंसर्गावगमप्रागभावस्य सिद्ध्यसिद्धिपराहतत्वात् । किञ्च यत्रैकोविमलं जलमित्यश्रुत्वैव तात्पर्यभ्रमेणा वा नद्या: कच्छान्वयपरत्वमवैति, अपर: समस्तेन श्रुत्वा नद्या जलान्वयपरत्वमवधारयति, तत्रोभयरपि तदुच्चारणजन्यसंसर्गावगमात् नद्या इत्युभयसाकाङ्क्षं स्यात् ।

अपि च प्रगाभावाभावस्य कारणान्तराभावव्याप्तत्वात् तत एव कार्याभाव इति किमाकाङ्क्षया । एवञ्च योग्यतासत्ती अपि न हेतू अयोग्ये अनासन्ने च तदुच्चारणजन्यसंसर्गज्ञानाभावेन तत्प्रागभावाभावात् । न चैवं बाधाभावस्यानुमित्यादावपि हेतुत्वं, प्रागभावाभावेनैव कार्याभावात् प्रागभावस्य च कार्यमात्रहेतुत्वात् । शब्दे नासाधारण्यं उत्थितोत्थाप्याकाङ्क्षयोरुत्कर्षापकर्षौ न स्यातां प्रागभावे तदभावात् ।

अथ ज्ञाप्य-तदितरान्वयप्रकारकजिज्ञासानुकूलपदार्थोपस्थितिजनकत्वे सत्यजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षा, घटमानयतीत्यत्र घटमित्युक्ते किमानयति पश्यति वा, आनयतीत्युक्ते किं घटं अन्यद्वेति जिज्ञासा भवति । घट: कर्मत्वमाननयनं कृतिरित्यत्राभेदेन नान्वयोऽयोग्यत्वात्, घटस्यानयनमिति तु नान्वयबोध: घट इतिपदात् सम्बन्धित्वेन घटस्यानुपस्थिते: । राज्ञ इति पुत्रेण जनितान्वयबोधत्वात् न पुरुषमाकाङ्क्षतीति चेत्, तर्हि नाम-विभक्ति-धात्वाख्यातार्थानां घट-कर्मत्वानयन-कृतीनां स्वरूपेणोपस्थितिर्नान्वयन्वयप्रकारकजिज्ञासानुकूलेति तत्र नाकाङ्क्षा स्यात् । घट: कर्मत्वमानयनं कृतिरित्यत्र घटमानयतीत्यत्रेवान्वयबोध: स्यात्, न हि तत्र पदार्थस्वरूपाणां एतद्वैलक्षण्येनोपस्थिति:, त्रयाणां तुल्यवत् स्मरणे प्रथमं यतो राज्ञ इति पुरुषेण नान्वेति किन्तु पुत्रेण ततएवाग्र्रेऽपि व्यर्थमजनितान्वयबोधत्वमिति ।

शब्दाकाङ्क्षावादसिद्धान्त:

सम्पाद्यताम्

उच्यते । अभिधानापर्यवसानमाकाङ्क्षा यस्य येन विना न स्वार्थान्वयानुभावकत्वं तस्य तदपर्यवसानं, नाम-विभकि-धत्वाख्यात-क्रिया-कारकपदानां परस्परं विना न परस्परस्य स्वार्थान्वयानुभवजनकत्वं । परमते नीलघटोऽस्ति नीलं घटमानयेत्यादौ नामार्थानां कारकाणाञ्च न परस्परमन्वयबोध: विशेषणान्वितविभक्त्यर्थानन्वयादिति न विशिष्टवैशिष्ट¬ेनान्वय: किन्त्वार्थ: समाज: । अस्माकन्तु नील-घटयोरभेदानुभवबलादभेद एव संसर्ग: विशेषविभक्ति: साधुत्वार्थं ।

यद्वा समानविभक्तिकयोरभेदानुभवबलात् विशेषणान्वितविभक्तेरभेदार्थकत्वं अतो विशेषण-विशेष्यभावानुभावकत्वं तत्पदयो:, न परस्परं विना । द्वारमित्यत्राध्याहारं विना प्रतियोग्यलाभात् न स्वार्थान्वयानुभावकत्वं, विश्र्वजिता यजेतेत्यत्र ममेदं कार्यमिति प्रवत्र्तकतात्पर्यविषयज्ञानं नाधिकारिणां विनेति तदाकाङ्क्षा ।

यद्वा कत्र्तुरिवाधिकारिणोऽपि आक्षेपादेव लाभ इति तदन्वयो न शाब्द: किन्त्वानुमानिक:, गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापितस्याध्याह्मतस्येवेतरपदं विना नानुभावकत्वं । घट: कर्मत्वं आनयनं कृतिरित्यादौ अभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत्पदेभ्यस्तात्पर्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरं विनैव । घटमानयतीत्यत्रेव भ्रमेण तथान्वयतात्पर्येऽपि क्रिया -कारकभावेन नान्वय: नाम-विभकि-धात्वाख्यात-क्रिया-कारकपदानां अन्वयबोधे तान्येव पदानि समर्थानि न तु तदर्थकानि पदान्तराणि । अग्नि: करणत्वं ओदन: कर्मता पाक: कृति: इष्टसाधनता इत्यादिपदेभ्य: अग्निर्नोदनं पचेतेत्यत्रेव अन्वयाबोधात्, अग्निकरणकौदनकर्मकपाकविषयककृतिरिष्टसाधनं इति तु वाक्यं न पदं, अत एव द्वारमित्यत्र पिधेहिपदाध्याहार:, क्रियापदार्थस्यान्यत उपस्थितौ अपि कारकानन्वयात् असामथ्र्यञ्च स्वभावात् । अनासन्नमपि आसन्नतादशायां आसन्नत्वभ्रमेण वा अन्वयबोधसमर्थमेव । वह्निना सिञ्चतीत्यत्र क्रिया-कारकपदयोरन्वयबोधे सामथ्र्येऽपि अयोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याप्यग्नेर्मणिरिव । अत एव योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोध: । नहि स्वभावतोऽसमर्थं आरोपितसामथ्र्यं वा दहति पचति वेति, प्रकृते तु पदार्थस्वरूपज्ञानं न त्वन्वयभ्रमोऽपि । पुरूषपदं विनापि राज्ञा इत्यस्य पुत्रेण समं स्वार्थान्वयानुभावकत्वं इति न तदाकाङ्क्षा ।

यद्वा त्रयाणां स्मरणोऽजनितान्वयबोधदशायां पुरुषान्वये तात्पर्याभावात् नान्वयबोध इत्यग्रेऽपि तथा । न च पुत्रस्योत्थिताकाङ्क्षत्वात् तेनैवान्वयबोध इति । वाच्यम् । तात्पर्यवशात् पुरुषेणैव प्रथममन्वयबोधात् । अतएवान्वयबोधसमर्थत्वे सति अजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षेति केचित् । प्रकृति-प्रत्ययाभ्यामन्वयबोधे जनितेऽपि वाक्यैकवाक्यतावत् क्रिया-कारकपदयोरजनितान्वयबोधत्वमाकाङ्क्षा ।

नव्यास्तु पदविशेषजन्यपदार्थोपस्थिति: घट: कर्मत्वं आनयनं कृतिरित्येवम्बिधपदाजन्यपदार्थोपस्थितिर्वा आसत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवम्बिधशब्दान्नान्वयबोध: त्वयाप्येवम्बिपदार्थोपस्थिते राकाङ्क्षाहेतुत्वेनावश्यमभ्युपेयत्वात्, जनितान्वयबोधात् नान्वयान्तरबोध: तात्पर्याभावादित्याकाङ्क्षाया: कारणत्वमेव नास्ति, किन्तु स्वजनकोपस्थिते: परिचायकत्वमात्रमिति ।