प्रमुखा विकल्पसूचिः उद्घाट्यताम्

1.3 प्रपाठक: 3 सदोमण्डपनिर्माणम्
1.3.1 अनुवाक 1 हविर्धानमण्डपनिर्माणम्
VERSE: 1 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् आ ददे ऽभ्रिर् असि नारिर् असि परिलिखितꣳ रक्षः परिलिखिता अरातय इदम् अहꣳ रक्षसो ग्रीवा अपि कृन्तामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् अस्य ग्रीवा अपि कृन्तामि दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा शुन्धतां लोकः पितृषदनो । यवो ऽसि यवयास्मद् द्वेषः
VERSE: 2 यवयारातीः पितृणाꣳ सदनम् अस्य् उद् दिवꣳ स्तभानान्तरिक्षम् पृण पृथिवीं दृꣳह द्युतानस् त्वा मारुतो मिनोतु मित्रावरुणयोर् ध्रुवेण धर्मणा ब्रह्मवनिं त्वा क्षत्रवनिꣳ सुप्रजावनिꣳ रायस्पोषवनिम् पर्य् ऊहामि ब्रह्म दृꣳह क्षत्रं दृꣳह प्रजां दृꣳह रायस् पोषं दृꣳह घृतेन द्यावापृथिवी आ पृणेथाम् इन्द्रस्य सदो ऽसि विश्वजनस्य छाया परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः । इन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवम् असि ऐन्द्रम् असि इन्द्राय त्वा ॥

1.3.2 अनुवाक 2 उपरवाः
VERSE: 1 रक्षोहणो वलगहनो वैष्णवान् खनामि । इदम् अहं तं वलगम् उद् वपामि यं नः समानो यम् असमानो निचखान । इदम् एनम् अधरं करोमि यो नः समानो यो ऽसमानो ऽरातीयति गायत्रेण छन्दसावबाढो वलगः किम् अत्र भद्रं तन् नौ सह विराड् असि सपत्नहा सम्राड् असि भ्रातृव्यहा स्वराड् अस्य् अभिमातिहा विश्वाराड् असि विश्वासां {W विश्वानां} {ASS विश्वासां} {BI विश्वासां} {GOLS विश्वासां} नाष्ट्राणाꣳ हन्ता ॥
VERSE: 2 रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान् रक्षोहणो वलगहनो ऽव नयामि वैष्णवान् यवो ऽसि यवयास्मद् द्वेषो यवयाराती । रक्षोहणो वलगहनो ऽव स्तृणामि वैष्णवान् रक्षोहणो वलगहनो ऽभि जुहोमि वैष्णवान् रक्षोहणौ वलगहनाव् उप दधामि वैष्णवी रक्षोहणौ वलगहनौ पर्य् ऊहामि वैष्णवी रक्षोहणौ वलगहनौ परि स्तृणामि वैष्णवी रक्षोहणौ वलगहनौ वैष्णवी बृहन्न् असि बृहद्ग्रावा बृहतीम् इन्द्राय वाचं वद ॥

1.3.3 अनुवाक 3 धिष्णियाः*
VERSE: 1 विभूर् असि प्रवाहणो । वह्निर् असि हव्यवाहनः श्वात्रो ऽसि प्रचेतास् तुथो ऽसि विश्ववेदा । उशिग् असि कविः । अङ्घारिर् असि बम्भारिः । अवस्युर् असि दुवस्वान् । शुन्ध्यूर् असि मार्जालीयः सम्राड् असि कृशानुः परिषद्यो ऽसि पवमानः प्रतक्वासि नभस्वान् असम्म्र्̥ष्टो ऽसि हव्यसूदः । ऋतधामासि सुवर्ज्योतिः । ब्रह्मज्योतिर् असि सुवर्धामा । अजो ऽस्य् एकपाद् अहिर् असि बुध्नियो । रुद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः ॥

1.3.4 अनुवाक 4 वैसर्जनहोमः
VERSE: 1 त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य उरु यन्तासि वरूथꣳ स्वाहा जुषाणो अप्तुर् आज्यस्य वेतु स्वाहा । अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयं शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥ उरु विष्णो वि क्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥
सोमो जिगाति गातुवित्
VERSE: 2 देवानाम् एति निष्कृतम् ऋतस्य योनिम् आसदम् अदित्याः सदो ऽसि । अदित्याः सद आ सीद । एष वो देव सवितः सोमस् तꣳ रक्षध्वम् मा वो दभत् । एतत् त्वꣳ सोम देवो देवान् उपागा इदम् अहम् मनुष्यो मनुष्यान्त् सह प्रजया सह रायस् पोषेण नमो देवेभ्यः स्वधा पितृभ्यः । इदम् अहं निर् वरुणस्य पाशात् सुवर् अभि
VERSE: 3 वि ख्येषं वैश्वानरं ज्योतिः । अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि या मम तनूस् त्वय्य् अभूद् इयꣳ सा मयि या तव तनूर् मय्य् अभूद् एषा सा त्वयि यथायथं नौ व्रतपते व्रतिनोर् व्रतानि ॥

1.3.5 अनुवाक 5 यूपच्छेदनम्
VERSE: 1 अत्य् अन्यान् अगां नान्यान् उपागाम् अर्वाक् त्वा परैर् अविदम् परोऽवरैस् तं त्वा जुषे वैष्णवं देवयज्यायै देवस् त्वा सविता मध्वानक्तु । ओषधे त्रायस्वैनम् । स्वधिते मैनꣳ हिꣳसीः । दिवम् अग्रेण मा लेखीर् अन्तरिक्षम् मध्येन मा हिꣳसीः पृथिव्या सम् भव वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयꣳ रुहेम यं त्वायꣳ स्वधितिस् तेतिजानः प्रणिनाय महते सौभगायाछिन्नो रायः सुवीरः ॥

1.3.6 अनुवाक 6 यूपस्थापनम्
VERSE: 1 पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वा शुन्धतां लोकः पितृषदनो यवो ऽसि यवयास्मद् द्वेषो यवयारातीः पितृणाꣳ सदनम् असि स्वावेशो ऽस्य् अग्रेगा नेतृणां वनस्पतिर् अधि त्वा स्थास्यति तस्य वित्तात् । देवस् त्वा सविता मध्वानक्तु सुपिप्पलाभ्यस् त्वौषधीभ्यः । उद् दिवꣳ स्तभानान्तरिक्षम् पृण पृथिवीम् उपरेण दृꣳह ते ते धामान्य् उश्मसी
VERSE: 2 गमध्ये गावो यत्र भूरिशृङ्गा अयासः । अत्राह तद् उरुगायस्य विष्णोः परमम् पदम् अव भाति भूरेः ॥ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥ तद् विष्णोः परमम् पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् ॥ ब्रह्मवनिं त्वा क्षत्रवनिꣳ सुप्रजावनिꣳ रायस्पोषवनिम् पर्य् ऊहामि ब्रह्म दृꣳह क्षत्रं दृꣳह प्रजां दृꣳह रायस् पोषं दृꣳह परिवीर् असि परि त्वा दैवीर् विशो व्ययन्ताम् परीमꣳ रायस्पोषो यजमानम् मनुष्या ।
अन्तरिक्षस्य त्वा सानावव गूहामि ॥
 
1.3.7 अनुवाक 7 पशोरुपाकरणम्
VERSE: 1 इषे त्वा । उपवीर् असि । उपो देवान् दैवीर् विशः प्रागुर् वह्नीर् उशिजो बृहस्पते धारया वसूनि हव्या ते स्वदन्ताम् देव त्वष्टर् वसु रण्व रेवती रमध्वम् अग्नेर् जनित्रम् असि वृषणौ स्थ । उर्वश्य् अस्य् आयुर् असि पुरूरवा । घृतेनाक्ते वृषणं दधाथाम् । गायत्रं छन्दो ऽनु प्र जायस्व त्रैष्टुभं जागतं छन्दो ऽनु प्र जायस्व भवतम्
VERSE: 2 नः समनसौ समोकसाव् अरेपसौ मा यज्ञꣳ हिꣳसिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥ अग्नाव् अग्निश् चरति प्रविष्ट ऋषीणाम् पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानाम् मिथुया कर् भागधेयम् ॥
 
1.3.8 अनुवाक 8 पशोः संज्ञपनम्
VERSE: 1 आ ददे । ऋतस्य त्वा देवहविः पाशेनारभे धर्षा मानुषान् अद्भ्यस् त्वौषधीभ्यः प्रोक्षामि । अपाम् पेरुर् असि स्वात्तं चित् सदेवꣳ हव्यम् आपो देवीः स्वदतैनम् । सं ते प्राणो वायुना गच्छताꣳ सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषा घृतेनाक्तौ पशुं त्रायेथाम् । रेवतीर् यज्ञपतिम् प्रियधाऽऽ विशत । उरो अन्तरिक्ष सजूर् देवेन
VERSE: 2 वातेनास्य हविषस् त्मना यज सम् अस्य तनुवा भव वर्षीयो वर्षीयसि यज्ञे यज्ञपतिं धाः
पृथिव्याः सम्पृचः पाहि नमस् त आतान । अनर्वा प्रेहि घृतस्य कुल्याम् अनु सह प्रजया सह रायस् पोषेण । आपो देवीः शुद्धायुवः शुद्धा यूयं देवाꣳ ऊढ्वꣳ शुद्धा वयम् परिविष्टाः परिवेष्टारो वो भूयास्म ॥

1.3.9 अनुवाक 9 पशोर्वपा
VERSE: 1 वाक् त आ प्यायताम् प्राणस् त आ प्यायतां चक्षुस् त आ प्यायताम् श्रोत्रं त आ प्यायताम् या ते प्राणाञ् छुग् जगाम या चक्षुर् या श्रोत्रं यत् ते क्रूरं यद् आस्थितम् तत् त आ प्यायतां तत् त एतेन शुन्धताम् । नाभिस् त आ प्यायताम् पायुस् त आ प्यायताम् । शुद्धाश् चरित्राः शम् अद्भ्यः ॥
VERSE: 2 शम् ओषधीभ्यः शम् पृथिव्यै शम् अहोभ्याम् ओषधे त्रायस्वैनम् । स्वधिते मैनꣳ हिꣳसी
रक्षसाम् भागो ऽसि । इदम् अहꣳ रक्षो ऽधमम् तमो नयामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् एनम् अधमं तमो नयामि । इषे त्वा घृतेन द्यावापृथिवी प्रोर्ण्वाथाम् अछिन्नो रायः सुवीर उर्व् अन्तरिक्षम् अन्विहि 1वायो वीहि स्तोकानाम् । स्वाहोर्ध्वनभसं मारुतं गच्छतम् ॥

1.3.10 अनुवाक 10 वसाहोमः
VERSE: 1 सं ते मनसा मनः सम् प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत् स्वाहा । ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यद् ऐन्द्रो ऽपानो अङ्गेअङ्गे वि बोभुवत् । देव त्वष्टर् भूरि ते सꣳसम् एतु विषुरूपा यत् सलक्ष्माणो भवथ । देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥ श्रीर् असि । अग्निस् त्वा श्रीणातु । आपः सम् अरिणन् वातस्य (१) त्वा ध्रज्यै पूष्णो रꣳह्या अपाम् ओषधीनाꣳ रोहिष्यै
VERSE: 2 घृतं घृतपावानः पिबत वसां वसापावानः पिबत । अन्तरिक्षस्य हविर् असि स्वाहा त्वान्तरिक्षाय दिशः प्रदिश आदिशो विदिश उद्दिशः स्वाहा दिग्भ्यो
नमो दिग्भ्यः ॥

1.3.11 अनुवाक 11 उपयड्ढोमाः
VERSE: 1 समुद्रं गच्छ स्वाहाऽन्तरिक्षं गच्छ स्वाहा देवꣳ सवितारं गच्छ स्वाहाऽहोरात्रे गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहा सोमं गच्छ स्वाहा यज्ञं गच्छ स्वाहा छन्दाꣳसि गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा नभो दिव्यं गच्छ स्वाहाऽग्निं वैश्वानरं गच्छ स्वाहा । अद्भ्यस् त्वौषधीभ्यो मनो मे हार्दि यच्छ तनूं त्वचम् पुत्रं नप्तारम् अशीय शुग् असि(१) तम् अभि शोच यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो धाम्नोधाम्नो राजन्न् इतो वरुण नो मुञ्च यद् आपो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्च ॥

1.3.12 अनुवाक 12 वसतीवरीग्रहणम्
VERSE: 1 हविष्मतीर् इमा आपो हविष्मान् देवो अध्वरो हविष्माꣳ आ विवासति हविष्माꣳ अस्तु सूर्यः ॥ अग्नेर् वो ऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निमीः सुम्ने मा धत्त । इन्द्राग्नियोर् भागधेयीः स्थ मित्रावरुणयोर् भागधेयीः स्थ विश्वेषां देवानां भागधेयीः स्थ यज्ञे जागृत ॥

1.3.13 अनुवाक 13 सोमावरोहणम्
VERSE: 1 हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा । ऊर्ध्वम् इमम् अध्वरं कृधि दिवि देवेषु होत्रा यच्छ सोम राजन्न् एह्य् अव रोह मा भेर् मा सं विक्थाः । मा त्वा हिꣳसिषम् प्रजास् त्वम् उपावरोह प्रजास् त्वाम् उपावरोहन्तु शृणोत्व् अग्निः समिधा हवम् मे शृण्वन्त्व् आपो धिषणाश् च देवीः । शृणोत ग्रावाणो विदुषो नु (१)
VERSE: 2 यज्ञꣳ शृणोतु देवः सविता हवम् मे ॥ देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं देवेभ्यो देवत्रा धत्त शुक्रꣳ शुक्रपेभ्यो येषाम् भाग स्थ स्वाहा कार्षिर् अस्य् अपापाम् मृध्रम् । समुद्रस्य वोक्षित्या उन् नये यम् अग्ने पृत्सु मर्त्यम् आवो वाजेषु यं जुनाः । स यन्ता शश्वतीर् इषः ॥

1.3.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1 त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वꣳ मारुतम् पृक्ष ईशिषे । त्वं वातैर् अरुणैर् यासि शंगयस् त्वम् पूषा विधतः पासि नु त्मना ॥ आ वो राजानम् अध्वरस्य रुद्रꣳ होतारꣳ सत्ययजꣳ रोदस्योः । अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥ अग्निर् होता नि षसादा यजीयान् उपस्थे मातुः सुरभाव् उ लोके । युवा कविः पुरुनिष्ठः
VERSE: 2 ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥ साध्व्ī́म् अकर् देववीतिं नो दय यज्ञस्य जिह्वाम् अविदाम गुह्याम् । स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥ अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ त्वे वसूनि पुर्वणीक ॥
VERSE: 3 होतर् दोषा वस्तोर् एरिरे यज्ञियासः । क्षामेव विश्वा भुवनानि यस्मिन्त् सꣳ सौभगानि दधिरे पावके ॥ तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥ अश्याम तं कामम् अग्ने तवोत्य् अश्याम रयिꣳ रयिवः सुवीरम् । अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥ श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर
VERSE: 4 वसो पुरुस्पृहꣳ रयिम् ॥ स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन् ॥ आयुष् टे विश्वतो दधद् अयम् अग्निर् वरेण्यः । पुनस् ते प्राण आयति परा यक्ष्मꣳ सुवामि ते ॥ आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिर् एधि । घृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रम् अभि ॥
VERSE: 5 रक्षताद् इमम् ॥ तस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ॥ दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥ शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे । त्वम् घृतेभिराहुतः ॥ दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिः ॥
VERSE: 6 यद् एनं द्यौर् अजनयत् सुरेताः ॥ आ यद् इषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौर् अभीके । अग्निः शर्धम् अनवद्यं युवानꣳ स्वाधियं जनयत् सूदयच् च ॥ स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥ अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् । विश्वा यः
VERSE: 7 चर्षणीर् अभ्य् आसा वाजेषु सासहत् ॥ तम् अग्ने पृतनासहꣳ रयिꣳ सहस्व आ भर । त्वꣳ हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥ उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर् विधेमाग्नये ॥ वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् । स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ॥ अग्न आयूꣳषि
VERSE: 8 पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥ अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधत् पोषꣳ रयिम् मयि ॥ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ॥ स नः पावक दीदिवो ऽग्ने देवाꣳ इहा वह । उप यज्ञꣳ हविश् च नः ॥ अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः ॥ उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतीꣳष्य् अर्चयः ॥  


1.3.1 अनुवाक 1 हविर्धानमण्डपनिर्माणम्
VERSE: 1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् आ ददे ऽभ्रिर् असि नारिर् असि
परिलिखितꣳ रक्षः परिलिखिता अरातय इदम् अहꣳ रक्षसो ग्रीवा अपि कृन्तामि
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् अस्य ग्रीवा अपि कृन्तामि
दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा
शुन्धतां लोकः पितृषदनो ।
यवो ऽसि यवयास्मद् द्वेषः

VERSE: 2
यवयारातीः
पितृणाꣳ सदनम् अस्य्
उद् दिवꣳ स्तभानान्तरिक्षम् पृण पृथिवीं दृꣳह
द्युतानस् त्वा मारुतो मिनोतु मित्रावरुणयोर् ध्रुवेण धर्मणा
ब्रह्मवनिं त्वा क्षत्रवनिꣳ सुप्रजावनिꣳ रायस्पोषवनिम् पर्य् ऊहामि
ब्रह्म दृꣳह क्षत्रं दृꣳह प्रजां दृꣳह रायस् पोषं दृꣳह
घृतेन द्यावापृथिवी आ पृणेथाम्
इन्द्रस्य सदो ऽसि विश्वजनस्य छाया
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ।
इन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवम् असि
ऐन्द्रम् असि
इन्द्राय त्वा ॥

1.3.2
अनुवाक 2
उपरवाः

VERSE: 1
रक्षोहणो वलगहनो वैष्णवान् खनामि ।
इदम् अहं तं वलगम् उद् वपामि यं नः समानो यम् असमानो निचखान ।
इदम् एनम् अधरं करोमि यो नः समानो यो ऽसमानो ऽरातीयति
गायत्रेण छन्दसावबाढो वलगः
किम् अत्र भद्रं तन् नौ सह
विराड् असि सपत्नहा सम्राड् असि भ्रातृव्यहा स्वराड् अस्य् अभिमातिहा विश्वाराड् असि विश्वासां {W विश्वानां} {ASS विश्वासां} {BI विश्वासां} {GOLS विश्वासां} नाष्ट्राणाꣳ हन्ता ॥

VERSE: 2
रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान्
रक्षोहणो वलगहनो ऽव नयामि वैष्णवान्
यवो ऽसि यवयास्मद् द्वेषो यवयाराती ।
रक्षोहणो वलगहनो ऽव स्तृणामि वैष्णवान्
रक्षोहणो वलगहनो ऽभि जुहोमि वैष्णवान्
रक्षोहणौ वलगहनाव् उप दधामि वैष्णवी
रक्षोहणौ वलगहनौ पर्य् ऊहामि वैष्णवी
रक्षोहणौ वलगहनौ परि स्तृणामि वैष्णवी
रक्षोहणौ वलगहनौ वैष्णवी
बृहन्न् असि बृहद्ग्रावा बृहतीम् इन्द्राय वाचं वद ॥

1.3.3 अनुवाक 3 धिष्णियाः*

VERSE: 1
विभूर् असि प्रवाहणो ।
वह्निर् असि हव्यवाहनः
श्वात्रो ऽसि प्रचेतास्
तुथो ऽसि विश्ववेदा ।
उशिग् असि कविः ।
अङ्घारिर् असि बम्भारिः ।
अवस्युर् असि दुवस्वान् ।
शुन्ध्यूर् असि मार्जालीयः
सम्राड् असि कृशानुः
परिषद्यो ऽसि पवमानः
प्रतक्वासि नभस्वान्
असम्म्र्̥ष्टो ऽसि हव्यसूदः ।
ऋतधामासि सुवर्ज्योतिः ।
ब्रह्मज्योतिर् असि सुवर्धामा ।
अजो ऽस्य् एकपाद्
अहिर् असि बुध्नियो ।
रुद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीः ॥

1.3.4 अनुवाक 4 वैसर्जनहोमः

VERSE: 1
त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य उरु यन्तासि वरूथꣳ स्वाहा
जुषाणो अप्तुर् आज्यस्य वेतु स्वाहा ।
अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयं शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥
उरु विष्णो वि क्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥
सोमो जिगाति गातुवित्

VERSE: 2
देवानाम् एति निष्कृतम् ऋतस्य योनिम् आसदम्
अदित्याः सदो ऽसि ।
अदित्याः सद आ सीद ।
एष वो देव सवितः सोमस् तꣳ रक्षध्वम् मा वो दभत् ।
एतत् त्वꣳ सोम देवो देवान् उपागा इदम् अहम् मनुष्यो मनुष्यान्त् सह प्रजया सह रायस् पोषेण
नमो देवेभ्यः स्वधा पितृभ्यः ।
इदम् अहं निर् वरुणस्य पाशात् सुवर् अभि

VERSE: 3
वि ख्येषं वैश्वानरं ज्योतिः ।
अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि
या मम तनूस् त्वय्य् अभूद् इयꣳ सा मयि या तव तनूर् मय्य् अभूद् एषा सा त्वयि
यथायथं नौ व्रतपते व्रतिनोर् व्रतानि ॥

1.3.5 अनुवाक 5 यूपच्छेदनम्

VERSE: 1
अत्य् अन्यान् अगां नान्यान् उपागाम्
अर्वाक् त्वा परैर् अविदम् परोऽवरैस्
तं त्वा जुषे वैष्णवं देवयज्यायै
देवस् त्वा सविता मध्वानक्तु ।
ओषधे त्रायस्वैनम् ।
स्वधिते मैनꣳ हिꣳसीः ।
दिवम् अग्रेण मा लेखीर् अन्तरिक्षम् मध्येन मा हिꣳसीः पृथिव्या सम् भव
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयꣳ रुहेम
यं त्वायꣳ स्वधितिस् तेतिजानः प्रणिनाय महते सौभगायाछिन्नो रायः सुवीरः ॥

1.3.6 अनुवाक 6 यूपस्थापनम्

VERSE: 1
पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वा
शुन्धतां लोकः पितृषदनो
यवो ऽसि यवयास्मद् द्वेषो यवयारातीः
पितृणाꣳ सदनम् असि
स्वावेशो ऽस्य् अग्रेगा नेतृणां वनस्पतिर् अधि त्वा स्थास्यति तस्य वित्तात् ।
देवस् त्वा सविता मध्वानक्तु
सुपिप्पलाभ्यस् त्वौषधीभ्यः ।
उद् दिवꣳ स्तभानान्तरिक्षम् पृण पृथिवीम् उपरेण दृꣳह
ते ते धामान्य् उश्मसी

VERSE: 2
गमध्ये गावो यत्र भूरिशृङ्गा अयासः । अत्राह तद् उरुगायस्य विष्णोः परमम् पदम् अव भाति भूरेः ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥
तद् विष्णोः परमम् पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् ॥
ब्रह्मवनिं त्वा क्षत्रवनिꣳ सुप्रजावनिꣳ रायस्पोषवनिम् पर्य् ऊहामि
ब्रह्म दृꣳह क्षत्रं दृꣳह प्रजां दृꣳह रायस् पोषं दृꣳह
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्ताम् परीमꣳ रायस्पोषो यजमानम् मनुष्या ।
अन्तरिक्षस्य त्वा सानावव गूहामि ॥

1.3.7 अनुवाक 7 पशोरुपाकरणम्

VERSE: 1
इषे त्वा ।
उपवीर् असि ।
उपो देवान् दैवीर् विशः प्रागुर् वह्नीर् उशिजो
बृहस्पते धारया वसूनि
हव्या ते स्वदन्ताम्
देव त्वष्टर् वसु रण्व
रेवती रमध्वम्
अग्नेर् जनित्रम् असि
वृषणौ स्थ ।
उर्वश्य् अस्य् आयुर् असि पुरूरवा ।
घृतेनाक्ते वृषणं दधाथाम् ।
गायत्रं छन्दो ऽनु प्र जायस्व त्रैष्टुभं जागतं छन्दो ऽनु प्र जायस्व
भवतम्

VERSE: 2
नः समनसौ समोकसाव् अरेपसौ
मा यज्ञꣳ हिꣳसिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
अग्नाव् अग्निश् चरति प्रविष्ट ऋषीणाम् पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानाम् मिथुया कर् भागधेयम् ॥

1.3.8 अनुवाक 8 पशोः संज्ञपनम्

VERSE: 1
आ ददे ।
ऋतस्य त्वा देवहविः पाशेनारभे
धर्षा मानुषान्
अद्भ्यस् त्वौषधीभ्यः प्रोक्षामि ।
अपाम् पेरुर् असि
स्वात्तं चित् सदेवꣳ हव्यम् आपो देवीः स्वदतैनम् ।
सं ते प्राणो वायुना गच्छताꣳ सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषा
घृतेनाक्तौ पशुं त्रायेथाम् ।
रेवतीर् यज्ञपतिम् प्रियधाऽऽ विशत ।
उरो अन्तरिक्ष सजूर् देवेन

VERSE: 2
वातेनास्य हविषस् त्मना यज सम् अस्य तनुवा भव वर्षीयो वर्षीयसि यज्ञे यज्ञपतिं धाः
पृथिव्याः सम्पृचः पाहि
नमस् त आतान ।
अनर्वा प्रेहि घृतस्य कुल्याम् अनु सह प्रजया सह रायस् पोषेण ।
आपो देवीः शुद्धायुवः शुद्धा यूयं देवाꣳ ऊढ्वꣳ शुद्धा वयम् परिविष्टाः परिवेष्टारो वो भूयास्म ॥

1.3.9 अनुवाक 9 पशोर्वपा

VERSE: 1
वाक् त आ प्यायताम् प्राणस् त आ प्यायतां चक्षुस् त आ प्यायताम् श्रोत्रं त आ प्यायताम्
या ते प्राणाञ् छुग् जगाम या चक्षुर् या श्रोत्रं यत् ते क्रूरं यद् आस्थितम् तत् त आ प्यायतां तत् त एतेन शुन्धताम् ।
नाभिस् त आ प्यायताम् पायुस् त आ प्यायताम् ।
शुद्धाश् चरित्राः
शम् अद्भ्यः ॥

VERSE: 2
शम् ओषधीभ्यः शम् पृथिव्यै शम् अहोभ्याम्
ओषधे त्रायस्वैनम् ।
स्वधिते मैनꣳ हिꣳसी
रक्षसाम् भागो ऽसि ।
इदम् अहꣳ रक्षो ऽधमम् तमो नयामि
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् एनम् अधमं तमो नयामि ।
इषे त्वा
घृतेन द्यावापृथिवी प्रोर्ण्वाथाम्
अछिन्नो रायः सुवीर
उर्व् अन्तरिक्षम् अन्विहि
1वायो वीहि स्तोकानाम् ।
स्वाहोर्ध्वनभसं मारुतं गच्छतम् ॥

1.3.10 अनुवाक 10 वसाहोमः

VERSE: 1
सं ते मनसा मनः सम् प्राणेन प्राणो
जुष्टं देवेभ्यो हव्यं घृतवत् स्वाहा ।
ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यद् ऐन्द्रो ऽपानो अङ्गेअङ्गे वि बोभुवत् ।
देव त्वष्टर् भूरि ते सꣳसम् एतु विषुरूपा यत् सलक्ष्माणो भवथ । देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥
श्रीर् असि ।
अग्निस् त्वा श्रीणातु ।
आपः सम् अरिणन्
वातस्य (१) त्वा ध्रज्यै पूष्णो रꣳह्या अपाम् ओषधीनाꣳ रोहिष्यै

VERSE: 2
घृतं घृतपावानः पिबत वसां वसापावानः पिबत ।
अन्तरिक्षस्य हविर् असि
स्वाहा त्वान्तरिक्षाय
दिशः प्रदिश आदिशो विदिश उद्दिशः
स्वाहा दिग्भ्यो
नमो दिग्भ्यः ॥

1.3.11 अनुवाक 11 उपयड्ढोमाः

VERSE: 1
समुद्रं गच्छ स्वाहाऽन्तरिक्षं गच्छ स्वाहा देवꣳ सवितारं गच्छ स्वाहाऽहोरात्रे गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहा सोमं गच्छ स्वाहा यज्ञं गच्छ स्वाहा छन्दाꣳसि गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा नभो दिव्यं गच्छ स्वाहाऽग्निं वैश्वानरं गच्छ स्वाहा ।
अद्भ्यस् त्वौषधीभ्यो
मनो मे हार्दि यच्छ
तनूं त्वचम् पुत्रं नप्तारम् अशीय
शुग् असि(१) तम् अभि शोच यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो
धाम्नोधाम्नो राजन्न् इतो वरुण नो मुञ्च यद् आपो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्च ॥

1.3.12 अनुवाक 12 वसतीवरीग्रहणम्

VERSE: 1
हविष्मतीर् इमा आपो हविष्मान् देवो अध्वरो हविष्माꣳ आ विवासति हविष्माꣳ अस्तु सूर्यः ॥
अग्नेर् वो ऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निमीः सुम्ने मा धत्त ।
इन्द्राग्नियोर् भागधेयीः स्थ मित्रावरुणयोर् भागधेयीः स्थ विश्वेषां देवानां भागधेयीः स्थ
यज्ञे जागृत ॥

1.3.13 अनुवाक 13 सोमावरोहणम्

VERSE: 1
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
ऊर्ध्वम् इमम् अध्वरं कृधि दिवि देवेषु होत्रा यच्छ
सोम राजन्न् एह्य् अव रोह
मा भेर् मा सं विक्थाः ।
मा त्वा हिꣳसिषम्
प्रजास् त्वम् उपावरोह प्रजास् त्वाम् उपावरोहन्तु
शृणोत्व् अग्निः समिधा हवम् मे शृण्वन्त्व् आपो धिषणाश् च देवीः । शृणोत ग्रावाणो विदुषो नु (१)

VERSE: 2
यज्ञꣳ शृणोतु देवः सविता हवम् मे ॥
देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं देवेभ्यो देवत्रा धत्त शुक्रꣳ शुक्रपेभ्यो येषाम् भाग स्थ स्वाहा
कार्षिर् अस्य् अपापाम् मृध्रम् ।
समुद्रस्य वोक्षित्या उन् नये
यम् अग्ने पृत्सु मर्त्यम् आवो वाजेषु यं जुनाः । स यन्ता शश्वतीर् इषः ॥

1.3.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वꣳ मारुतम् पृक्ष ईशिषे । त्वं वातैर् अरुणैर् यासि शंगयस् त्वम् पूषा विधतः पासि नु त्मना ॥
आ वो राजानम् अध्वरस्य रुद्रꣳ होतारꣳ सत्ययजꣳ रोदस्योः । अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥
अग्निर् होता नि षसादा यजीयान् उपस्थे मातुः सुरभाव् उ लोके । युवा कविः पुरुनिष्ठः

VERSE: 2
ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥
साध्व्ī́म् अकर् देववीतिं नो दय यज्ञस्य जिह्वाम् अविदाम गुह्याम् । स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
त्वे वसूनि पुर्वणीक ॥

VERSE: 3
होतर् दोषा वस्तोर् एरिरे यज्ञियासः । क्षामेव विश्वा भुवनानि यस्मिन्त् सꣳ सौभगानि दधिरे पावके ॥
तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥
अश्याम तं कामम् अग्ने तवोत्य् अश्याम रयिꣳ रयिवः सुवीरम् । अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥
श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर

VERSE: 4
वसो पुरुस्पृहꣳ रयिम् ॥
स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन् ॥
आयुष् टे विश्वतो दधद् अयम् अग्निर् वरेण्यः । पुनस् ते प्राण आयति परा यक्ष्मꣳ सुवामि ते ॥
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिर् एधि । घृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रम् अभि ॥

VERSE: 5
रक्षताद् इमम् ॥
तस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ॥
दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥
शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे । त्वम् घृतेभिराहुतः ॥
दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिः ॥

VERSE: 6
यद् एनं द्यौर् अजनयत् सुरेताः ॥
आ यद् इषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौर् अभीके । अग्निः शर्धम् अनवद्यं युवानꣳ स्वाधियं जनयत् सूदयच् च ॥
स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥
अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् । विश्वा यः

VERSE: 7
चर्षणीर् अभ्य् आसा वाजेषु सासहत् ॥
तम् अग्ने पृतनासहꣳ रयिꣳ सहस्व आ भर । त्वꣳ हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर् विधेमाग्नये ॥
वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् । स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ॥
अग्न आयूꣳषि

VERSE: 8
पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधत् पोषꣳ रयिम् मयि ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवाꣳ इहा वह । उप यज्ञꣳ हविश् च नः ॥
अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः ॥
उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतीꣳष्य् अर्चयः ॥


सम्पाद्यताम्

  • १.३.३.१ तुलनीय- वाजसनेयि माध्यन्दिन संहिता ५.३१, ब्रह्माण्डपुराणम् १.२.१२.२७, वायुपुराणम् २९.२६