प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सप्तमोच्छ्वासः दशकुमारचरितम्
अष्टमोच्छ्वासः
दण्डिनः

अथ सोऽप्याचचक्षे-"देव, मयापि परिभ्रमता विन्ध्याटव्यां कोऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशार्हः क्वचित्कूपाभ्याशेऽष्टवर्षदेशीयो दृष्टः ।
स च त्रासगद्गदमगदत्-"महाभाग, क्लिष्टस्य मे क्रियतामार्य, साहाय्यकं ।
अस्य मे प्राणापहारिणीं पिपासां प्रतिकर्तुमुदकमुदञ्चन्निह कूपे कोऽपि निष्कलो ममैकशरणभूतः पतितः ।
तमलमस्मि नाहमुद्धर्तुम्, ।
इति अथाहमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य, तं च बालं वंशनालीमुकोद्धृताभिरद्भिः फलैश्च पञ्चपैः शरक्षेपोच्छ्रितस्य लकुचवृक्षस्य शिखरात्पाषाणपातितैः प्रात्यानीतप्राणवृत्तिमापाद्य, तरुतलनिषण्णस्तं जरन्तमब्रवम्-"तात, क एष बालः, को वा भवानन्, कथं चेयमापदापन्नाऽ इति ।
सोऽश्रुगद्गदमगदत्-"श्रूयतां महाभाग विदर्भो नाम जनपदः तस्मिन्भोजवंशभूषणम्, अंशावतार इव धर्मस्य, अतिसत्त्वः, सत्यवादी, वदान्यः, विनीतः, निनेता प्रजानाम्, रञ्जितभृत्यः, कीर्तिमान्, उदग्रः, बुद्धिमूर्तिभ्यामुत्थानशीलः, शास्त्रप्रमाणकः, शक्यभव्यकल्पारम्भी, संभावयिता बुदान्प्रभावयिता सेवकान्, उद्भावयिता बन्धून्, न्यग्भावयिता शत्रून्, असंबद्धप्रलापेष्वदत्तकर्णः, कदाचिदप्यवितृष्णो गुणेषु, अतिनदीष्णः कलासु, नेदिष्टो धर्मार्थसंहितासु, स्वल्पेऽपि सुकृते सुतरां प्रत्युपकर्ता, प्रत्यवेक्षिता कोशवाहनयोः, यत्नेन परीक्षिता सर्वाध्यक्षाणाम्, षाड्गुण्योपयोगनिपुणः मनुमार्गेण प्रणेता चातुर्वर्ण्यस्य, पुण्यश्लोकः, पुण्यवर्मा नामासीत् ।
स पुण्यैः कर्मभिः प्राण्य पुरुषायुषम्, पुनरपुण्येन प्राजानामगण्यतामरेषु ।
तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्यतिष्ठत् ।
स सर्वगुणैः समृद्धोऽपि दैवाद्दण्ढनीत्यां नात्यादृतोऽभूत् ।
तमेकदा रहसि वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत-"तात, सर्वैवात्मसंपदभिजनात्प्रभृत्यन्यूनैवात्रभवति लक्ष्यते ।
बुद्धिश्च निसर्गपट्वी, कलासु नृत्यगीतादिषु चित्रेषु च काव्यविस्तरेषु प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते ।
तथाप्यसावप्रतिपद्यात्मसंस्कारमर्थशास्त्रेषु, अनग्निसंशोधितेन हेमजातिर्नातिभाति बुद्धिः ।
बुद्धिहीनो हि भूभृदत्युच्छ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते ।
न च शक्तः साध्यं साधनं वा विभ्ज्य वर्तितुं ।
अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते ।
न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय ।
अतिक्रान्तशासनाश्च प्रजा यत्किञ्चनवादिन्यो यताकथञ्चिद्वर्तिन्यः सर्वाः स्थितीः संकिरेयुः निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनमात्मानं च भ्रंशयेत ।
आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा ।
दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामाप्रतिहतवृत्ति ।
तेन हीनः सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुरर्थदर्शनेष्वसामर्थ्यात्ऽ अतो विहाय बाह्मविद्यास्वभिषङ्गमागमय दण्डनीतिं कुलविद्यां ।
तदर्थानुष्ठानन चावर्जितशक्तिसिद्धिरस्खलितशासनः शाधि चिरमुदधिमेखलामुर्वीं इति ।
एतदाकर्ण्य स्थान एव गुरुभिरनुशिष्ठं ।
तथा क्रियतेऽ इत्यन्तःपुरमविशत् ।
तां च वार्तां पार्थिवेन प्रमदासंनिधौ प्रसङ्गेनोदीरितामुपनिशम्य समीपोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो गीतनृत्यवाद्यादिष्वबाह्मो बाह्मनारीपरायणः पटुरयन्त्रितमुखो बहुभङ्गिविशारदः परमर्मान्वेषणपरः परिहासयिता परिवादरुचिः पैशुन्यपण्ढितः सचिवमण्डलादप्युत्कोचहारी सकलदुर्नयोपाध्यायः कामतन्त्रकर्णधारः कुमारसेवको विहारभद्रो नाम स्मितपूर्वं व्यज्ञपयत्-"देव, दैवानुग्रहेण यदि कश्चिद्भाजनं भवति विभूतेः, तमकस्मादुच्चावचैरुपप्रलोभनैः कदर्थयन्तः स्वार्थं साधयन्ति शिरः, बद्ध्वा द--भिः, अजिनेनाच्छाद्य, नवनीतेनोपलिप्य, अनशनं च शाययित्वा, सर्वस्वं स्वीकरिष्यन्ति ।
तेभ्योऽपि घोरतराः पाषण्ढिनः पुत्रदारशरीरजीवितान्यपि मोचयन्ति ।
यदि कश्चित्पटुजातीयो नास्यै मृगतृष्णिकायै हस्तगतं त्यक्तुमिच्छेत् ।
तमन्ये परिवार्याहुः--"एकामपि काकिणीं कार्षापणलक्षमापादयेम, शस्त्रादृते सर्वशत्रुन्घातयेम्, एकशरीरिणमपि मर्त्यं चक्रवर्तिनं विदधीमहि, यद्यस्मदुद्दिष्टेन मार्गेणाचर्यतेऽ इति ।
स पुनरिमान्प्रत्याह-"कोऽसौ मार्गःऽ इति ।
पुनरिमे ब्रुवते-"ननु चतस्रो राजविद्यास्त्रयी वार्तान्वीक्षिकी दण्डनीतिरिति ।
तासु तिस्रस्त्रयीवार्तान्वीक्षिक्यो महत्यो मन्दफलाश्च, तास्तावदासतां ।
अधीष्व तावदृण्डनीतिं ।
इयमिदानीमाचार्यविष्णुगुप्तेन मौर्यार्थे षडूभिः श्लोकसहस्रैः संक्षिप्ता ।
सैवेयमधीत्य सम्यगनुष्ठीयमाना यथोक्तकर्मक्षमाऽ इति ।
स "तथाऽ इत्यधीते ।
शृणोति च ।
तत्रैव जरां गच्छति ।
तत्तु किल शास्त्रं शास्त्रान्तरानुबन्धि ।
सर्वमेव वाङ्मयमविदित्वा न तत्त्वतोऽधिगंस्यते ।
भवतु कालेन बहुनाल्पेन वा तदर्थाधिगतिः ।
अधिगतशास्त्रेण चादावेव पुत्रदारमपि न विश्वास्यं ।
आत्मकृक्षेरपि कृते तण्डुलैरियद्भिरियानोदनः संपद्यते ।
इयत ओदनस्य पाकायेतावदिन्धनं पर्याप्तमिति मानोन्मानपूर्वकं देयं ।
उत्थितेन च राज्ञा क्षालिताक्षालिते मुखे मुष्टिमर्धमुष्टिं वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमह्नः प्रथमेऽष्टमे वा भागे श्रोतव्यं ।
शृण्वत एवास्य द्विगुणमपहरन्ति तेऽध्यक्षधूर्ताश्चत्वारिंशतं चाक्योपदिष्टानाहरणोपायान्सहस्रधात्मबुद्ध्यैव ते विकल्पयितारः ।
द्वितीयेऽन्योन्यं विवदमानानां जनानामाक्रोशाद्दह्यमानकर्णः कष्टं जीवतिः तत्रारि प्राड्विवाकादयः स्वेच्छया जयपरौजया विदधानाः पापेनाकीर्त्या च भर्तारमात्मनश्चार्थैर्योजयन्ति ।
तृतीये स्नातुं च लभते ।
भुक्तस्य यावदन्धःपरिणऽमस्तावदस्य विषभयं न शाम्यत्येव ।
चतुर्थे हिरण्यप्रतिहाय हस्तं प्रसारयन्नेवोत्तिष्ठति ।
पञ्चमे मन्त्रचिन्तया महान्तमायासमनुभवति ।
तत्रापि मन्त्रिणो मध्यस्था इवान्योन्यं मिथः संभूय दोषगुणौ दूतचारहवाक्यानि शक्याशक्यतां देशकालकार्यावस्थाश्च स्वेच्छया विपरिवर्तयन्तः, स्वपरिमित्रमण्डलान्युपजीवन्ति ।
बाह्माभ्यन्तरांश्च कोपान्गूढमुत्पाद्य प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति ।
षष्ठे स्वैरविहारो मन्त्रो वा सेव्यः ।।
सोऽस्यैतावान्स्वैरविहारकालो यस्य तिस्रस्त्रिपादोत्तरा नाडीकाः ।
सप्तमे चतुरङ्गबलप्रत्यवेक्षणप्रयासः ।
अष्टमेऽस्य सेनापतिसखस्य विक्रमचिन्ताक्लेशः ।
पुनरुपास्यैव संध्याम्, प्रथमे रात्रिभागे गूढपुरुषा द्रष्टव्याः ।
तन्मुखेन चातिनृशंसाः शस्त्राग्निरसप्रणिधयोऽनुष्ठेयाः ।
द्वितीये भोजनानन्तरं श्रोत्रिय इव स्वाध्यायमारभेत ।
तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत किल ।
कथमिवास्याजस्रचिन्तायासविह्वलमनसो वराकस्य निद्रासुखमुपनमेत् ।
पुनः षष्ठे शास्त्रचिन्ताकार्यचिन्तारम्भः ।
सप्तमे तु मन्त्रग्रहो दूताभिप्रेषणानि च ।
दूताश्च नामोभयत्र प्रियाख्यानलब्धानर्थान्वीतशुल्कबाधवर्त्मनि वाणिज्यया वर्धयन्तः, कार्यमविद्यामानमपि लेशेनोत्पाद्यानवरतं भ्रमन्ति ।
अष्टमे पुरोहितादयोऽभ्येतद्यैनमाहुः-"अद्य दृष्टो दुःस्वप्नः ।
दुःस्था ग्रहाः शकुनानि चाशुभानि ।
शान्तयः क्रियन्तां ।
सर्वमस्तु सौवर्णमेव ह्ॐअसाधनं ।
एवं सति कर्म गुणवद्भवति ।
ब्रह्मकल्पा इमे ब्राह्माणाः ।
कृतमेभिः स्वस्त्ययनं कल्याणतरं भवति ।
ते चामी कष्टद्र्या बह्वपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्राप्तप्रतिग्रहाः ।
दत्तं चैभ्यः स्वर्ग्यमायुष्यमरिष्टनाशनं च भवतिऽ इति बहु बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति ।
तदेवमहर्निशमविहितसुखलेशमायासबहुलमविरलकदर्थनं च नयतोऽनयज्ञस्यास्तां चक्रवार्तिता स्वमण्डलमात्रमपि दुरारक्ष्यं भवेत् ।
शास्त्रज्ञसमाज्ञातो हि यद्ददाति, यन्मानयति, यत्प्रियं ब्रवीति, तत्सर्वमतिसंधातुमित्यविश्वासः ।
अविश्वासता हि जन्मभूमिरलक्ष्म्याः ।
यावता च नयेन विना न लोकयात्रा स लोक एव सिद्धः नात्र शास्त्रेणार्थः स्तनन्धयोऽपि हि तैस्तैरुपायैः स्तनपानं जनन्या लिप्सते तदपास्यातियन्त्रणामनुभूयन्तां यथेष्टमिन्द्रियसुखानि ।
यऽप्युपदिशन्ति "एवमिन्द्रियाणि जेतव्यानि, एवमरिषड्वर्गस्त्याज्यः, सामादिरुपायवर्गः स्वेषु परेषु चाजस्रं प्रयोज्यः, संधिविग्रहचिन्तयैव नेयः कालः, स्वल्पोऽपि सुखस्यावकाशो न देयःऽ इति, तैरप्येभिर्मन्त्रिबकैर्युष्मत्त्श्चौर्यार्जितं धनं दासीगृहेष्वेव भुज्यते ।
के चैते वराकाः ।
येऽपि मन्त्रकर्कशास्तन्त्रकर्तारः शुक्राङ्गिरसविशालाक्षबाहुदन्तिपुत्रपराशरप्रभृतयस्तैः-किमरिषड्वर्गो जितः, कृतं वा तैः शास्त्रानुष्ठानं ।
तैरपि हि प्रारब्धेषु कार्येषु दृष्टे सिद्ध्यसिद्धी ।
पठन्तश्चापठद्भिरतिसंधीयमाना बहवः ।
नन्विदमुपपन्नं देवस्य, यदुत सर्वलोकस्य वन्द्या जातिः, अयातयामं वयः, दर्शनीयं वपुः, अपरिमाणा विभूतिः ।
तत्सर्वं सर्वाविश्वासहेतुना सुखोपभोगप्रतिबन्धिना बहुमार्गविकल्पनात्सर्वकार्येष्वमुक्तसंशयेन तन्त्रावापेन मा कृथा वृक्षा ।
सन्ति हि ते दन्तिनां दशसहस्राणि, हयानां लक्षत्रयम्, अनन्तं च पादातं ।
अपि च पूर्णान्येव हैमरत्नैः कोशगृहाणि ।
सर्वश्चैष जीवलोकः समग्रमपि युगसहस्रं भुञ्जानो न ते कोष्ठागाराणि रेचयिष्यति ।
किमिदमपर्याप्तं यदन्यायार्जितायासः क्रियते ।
जीवितं हि नाम जन्मवतां चतुःपञ्चान्यहानि ।
तत्रापि भोगयोग्यमल्पाल्पं वयः-खण्डं ।
अपण्डिताः पुनरर्जयन्त एव ध्वंसन्ते ।
नार्जितस्य वस्तुनो लवमप्यास्वादयितुमीहन्ते ।
किं बहुना राज्यभारं भारक्षमेष्वन्तरङ्गेषु भक्तिमत्सु समर्प्य, अप्सरःप्रतिरूपाभिरन्तःपुरिकाभी रममाणो गीतसंगीतपानगोष्ठीश्च यथर्तु बध्नन्यथार्हं कुरु शरीरलाभम्ऽ इति पञ्चाङ्गीस्पृष्टभूमिरञ्जलिचुम्बितचूडश्चिरमशेत ।
प्राहसीच्च प्रीतिफुल्ललोचनोऽन्तःपुरप्रमदाजनः ।
जननाथश्च सस्मितं "उत्तिष्ठ, ननु हितोपदेशाद्गुरवो भवन्तः ।
किमिति गुरुत्वविपरीतमनुष्ठितम्ऽ इति तमुत्थाप्य क्रीडीनिर्भरमतिष्ठत् ।
अथैषु दिनेषु भूयोभूयः प्रस्तुतेर्ऽथे प्रेर्यमाणो मन्त्रिवृद्धेन, वचसाभ्युपेप्य मनसैवाचित्तज्ञ इत्यवज्ञातवान् ।
अथैवं मन्त्रिणो मनस्यभूत्--"अहो मे मोहाद्बालिश्यं ।
अरुचितेर्ऽथे चोदयन्नर्थीवाक्षिगतोऽहमस्य हास्यो जातः ।
स्पष्टमस्य चेष्टानामायथापूर्व्यं ।
तथा हि ।
न मां स्निग्धं पश्यति, न स्मितपूर्वं भाषते, न रहस्यानि विवृणोति, न हस्ते स्पृशति, न व्यसनेष्वनुकम्पते, नोत्सवेष्वनुगृह्णाति, न विलोभनवस्तु प्रेषयति, न मत्सुकृतानि प्रगणयति, न मे ग-हवार्तां पृच्छति, न मत्पक्षान्प्रत्यवेक्षते, न मामासन्नकार्येष्वभ्यन्तरीकरोति, न मामन्तःपुरं प्रवेशयति ।
अपि च मामनर्हेषु कर्मसु नियुङ्क्ते, मदासनमन्यैरवष्टभ्यमानमनुजानाति, मद्वैरिषु विश्रम्भं दर्शयति, मदुक्तस्योत्तरं न ददाति, मत्समानदोषान्विगर्हति, मर्मणि मामुपहसति, स्वमतमपि मया वर्ण्यमानं प्रतिक्षिपति, महार्हाणि वस्तूनि मत्प्रहितानि नाभिनन्दति, नयज्ञानां स्खलितानि मत्समक्षं मूर्खैरुद्धोषयति, सत्यमाहचाणक्यः-"चित्तज्ञानानुवर्तिनोऽनर्था अप प्रियाः स्युः ।
दक्षिणा अप तद्भावबहिष्कृता द्वेष्या भवेयुःऽ इति ।
तथापि का गतिः ।
अविनीतोऽपि न परित्याज्यः पितृपितामहानुयातैरस्मादृशैरयमधिपतिः ।
अपरित्यजन्तोऽपि कमुपकारमश्रूयमाणवाचः कुर्मः ।
सर्वथा नयज्ञस्य वसन्तभानोरश्मकेन्द्रस्य हस्ते राज्यमिदं पतितं ।
अपि नामापदो भाविन्यः प्रकृतिस्थमेनमापादयेयुः ।
अनर्थेषु सुलभव्यलीकेषु क्वचिदुत्पन्नोऽपि द्वेषः सद्वृत्तमस्मैरोचयेत् ।
भवतु भविता तावदनर्थः ।
स्तम्भितपिशुनजिह्वो यथाकथञ्चिदभ्रष्टपदस्तिष्ठेयम्ऽ इति ।
एवं गते मन्त्रिणि, राजनि च कामवृत्ते, चन्द्रपालितो नामाश्वकेन्द्रामात्यस्येन्द्रपालितस्य सूनुः, असद्वृत्तः पितृनिर्वासितो नाम भूत्वा, बहुभिश्चारणगणैर्बह्वीभिरनल्पकौशलाभिः शिल्पकारिणीभिरनेकच्छन्नकिङ्करैश्च परिवृतोऽब्येत्य विविधाभिः क्रीडाभिर्विहारभद्रमात्मसादकरोत् ।
अमुना चैव संक्रमेण राजन्यास्पदमलभत ।
लब्धरन्ध्रश्च स यद्यद्वय्यसनमारभते तत्तथेत्यवर्णयत्--"देव, यथा मृगया ह्यौपकारिकी न तथान्यत् ।
अत्र हि व्यायामोत्कर्षादापत्सूपकर्ता दीर्घाध्वलङ्घनक्षमो जङ्घाजवः, कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः, मेदोपकर्षादङ्गानां स्थैर्यकार्कश्यातिलाघवादीनि, शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्, सत्त्वानामवस्थान्तरेषु चित्तचेष्टितज्ञानम्, हरिणगवलगवयादिवधेन सस्यलोपप्रतिक्रिया, वृकव्याघ्नादिघातेन स्थलपथशल्यशोधनम्, शैलाटवीप्रदेशानां विविधकर्मक्षमाणामालोचनम्, आटविकवर्गविश्रम्भणम्, उत्साहशक्तिसंधुक्षणेन प्रत्यनीकवित्रासनमिति बहुतमा गुणाः ।
द्यूतेऽपि द्रव्यराशेस्तृणवत्त्यागादनुपमानमाशयौदार्यम्, जयपराजयानवस्थानाद्धर्षविवादयोरविवेयत्वम्, पौरुषैकनिमित्तस्यामर्षस्य वृद्धिः, अक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्मणामुपलक्षणादनन्तबुद्धिनैपुण्यम्, एकविषयोपसंहाराच्चित्तस्यातिचित्रमैकाग्र्यम्, अध्यवसायसहचरेषु साहसेष्वतिरतिः, अतिकर्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता, मानावधारणम्, अकृपणं च शरीरयापनमिति ।
उत्तमाङ्गनोपभोगेऽप्यरह्थधर्मयोः सफलीकरणम्, फुष्कलः पुरुषाभिमानः भावज्ञानकौशलम्, अलोभक्लिष्टमाचेष्टितम्, अखिलासु कलासु वैचक्षण्यम्, अलब्धोपलब्धिलब्धानुरक्षणरक्षितोपभोगभुक्तानुसंधानरुष्टानुनयादि ष्वजस्रमभ्युपायरचनया बुद्धिवाचोः पाटवम्, उत्कृष्टशरीरसंस्कारात्सुभगवेषतया लोकसंभावनीयता, परं सुहृत्प्रियत्वम्, गरीयसी परिजनव्यपेक्षा, स्मितपूर्वाभिभाषित्वम्, उद्रिक्तसत्त्वता, दाक्षिण्यानुवर्तनं ।
अपत्योत्पादनेनोभयलोकश्रेयस्करत्वमिति ।
पानेऽपि नानाविधरागभङ्गपटीयसामासवानामासेवनात्स्पृहणीयवयोव्यवस्थापनम्, अहङ्कारप्रकर्षादशेषदुः-खतिरस्करणम्, अङ्गजरागदीपनादङ्गनोपभोगशक्तिसंधुक्षणम्, अपराधप्रमार्जनान्मनःशल्योन्मार्जनम्, अङ्गजरागदीपनादङ्गनोपभोगशक्तिसंधुक्षणम्, अपराधप्रमार्जनान्मनःशल्योन्मार्जनम्, अश्राव्यशंसिभिरनर्गलप्रलापैर्विश्वासोपबृंहणम्, मत्सराननुबन्धादानन्दैकतानता, शब्दादीनामिन्द्रियार्थानां सातत्येनानुभवः, संविभागशीलतया सुहृद्वर्गसंवर्गणम्, अनुपमानमङ्गलावण्यम्, अनुत्तराणि विलसितानिं, भयार्तिहरणाच्च साङ्ग्रमिकत्वमिति ।
वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थानामेव यथावकाशमौपकारिकाणि ।
नहि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुलमलम्, अबलम्बितुं च लोकतन्त्रम्ऽ इति ।
असावपि गुरुपदेशमिवात्यादरेण तस्य मतमन्ववर्तत ।
तच्छीलानुसारिण्यश्च प्रकृतयो विशृङ्खलमसेवन्त व्यसनानि ।
सर्वश्च समानदोषतया न कस्यचिच्छिद्रान्वेषणायायतिष्ट ।
समानभर्तृप्रकृतयस्तन्त्राध्यक्षाः स्वानि कर्मफलान्यभक्षयन् ।
ततः क्रमादायद्वाराणि व्यशीर्यन्त ।
व्ययमुखानि विटविधेयतया विभोरहरहर्व्यवर्धन्त ।
सामन्तपौरजानपदमुख्याश्च समानशीलतयोपारूढविश्रम्भेण राज्ञा सजानयः पानगोष्ठीष्वभ्यन्तरीकृताः स्वंस्वमाचारमत्याचारिषुः ।
तदङ्गानासु चानेकापदेशपूर्वमपाचरन्नरेन्द्रः ।
तदन्तःपुरेषु चामी भिन्नवृत्तेषु मन्द्रत्रासा बहुसुखैरवर्तन्त ।
सर्वश्च कुलाङ्गनाजनः सुलभभङ्गिभाषणरतो भग्नचारित्रयन्त्रणस्तृणायापि न गणयित्वा भर्त्éन्धातृणमन्त्रणान्यशृणोत् ।
तन्मूलाश्च कलहाः सामर्षाणामुदभवन् ।
अहन्यन्त दुर्बला बलिभिः ।
अपहृतानि धनवतां धनानि तस्करादिभिः ।
अपहृतपरिभूतयः प्रहताश्च पातकपथाः ।
हतबान्धवा हृतवित्ता बधबन्धातुराश्च मुक्तकण्ठमाक्रोशन्नश्रुकण्ठ्यः प्रजाः ।
दण्डश्चायथाप्रणीतो भयक्रोधावजनयत् ।
कृशकुटुम्बेषु लोभः पदमधत्तः विमानिताश्च तेजस्विनोऽमानेनादह्यन्त ।
तेषु तेषु चाकृत्येषु प्रासरन्परोषजापाः ।
तदा च मृगयुवेषमृगबाहुल्यवर्णनेनाद्रिद्रोणीरनपसारमार्गाः सुष्कतृणवंशगुल्माः प्रवेश्य द्वारतोऽग्निविसर्गैः, व्याघ्रादिवधे प्रोत्साह्य तन्मुखपातनैः, इष्टकूपतृष्णोत्पादनेनातिदूरहारितानां प्राणहारिभिः क्षुत्पिपासाभिवर्धनैः, तृणगुल्मगूढतटप्रदरपातहेतुभिर्विषममार्गप्रधावनैः, विषमुखीभिः क्षुरिकाभिश्चरणकण्टकोद्धरणैः विष्वग्विसरविच्छिन्नानुयातृतयैकाकीकृतानां यथेष्टघातनैः, मृगदेहापराद्धैर्नामेषुमोक्षणैः, सपणबन्धमधिरुह्याद्रिशृङ्गाणि दुरधिरोहाण्यनन्यलक्ष्यैः प्रभ्रंशनैः, आटविकच्छद्मना विपिनेषु विरलसैनिकानां प्रतिरोधनैः, अक्षद्यूतपक्षियुद्धयात्रोत्सवादिसंकुलेषु बलबदनुप्रवेशनैः, इतरेषां हिंसोत्पादनैः, गूढोत्पादितव्यलीकेभ्योऽप्रियाणि प्रकाशं लब्ध्वा साक्षिषु तद्विख्याप्याकीर्तिगुप्तिहेतुभिः पराक्रमैः, परकलत्रेषु सुहृत्तेवनाभियोज्य जारान्भर्त्éनुमयं वा प्रहृत्य तत्साहसोपन्यासैः, योग्यनारीहारितानां संकेतेषु प्रागुपनिलीय पश्चादभिदुत्याकीर्तनीयैः प्रमापणैः, उपप्रलोभ्य बिलप्रवेशेषु निधानखननेषु मन्त्रसाधनेषु च विघ्नव्याजसाध्यैर्व्यापादनैः, मत्तगजाधिरोहणाय प्रेय प्रत्यपायनिवर्तनैः, व्यालहस्तिनं कोषयित्वा लक्ष्यीकृतमुक्यमण्डलेष्वपक्रमणैः, योग्याङ्गनाभिरहर्निशमभिरमय्य राजयक्ष्मोत्पादनैः, वस्त्राभरणमाल्याङ्गरागादिषु रसविधानकौशलैः, चिकित्सामुखेनामयोपबर्हणैरन्यैश्चाभ्युपायेरश्मकेन्द्रप्रयुक्तास्तीक्ष्णरसदादयः
प्रक्षपितप्रवीरमनन्तवर्मकटकं जर्जरमकुर्वन् ।
अथ वसन्तभानुर्भानुवर्माणं नाम वानवास्यं प्रोत्साह्यानन्तवर्मणा व्यग्राहयत् ।
तत्परामृष्टराष्ट्रपर्यन्तश्चानन्तवर्मा तमभियोक्तुं बलसमुत्थानमकरोत् ।
सर्वसामन्तेभ्यश्चाश्मकेन्द्रः प्रागुपेत्यास्य प्रियतरोऽभूत् ।
अपरेऽपि सामान्ताः ससगंसत ।
गत्वा चाभ्यर्णे नर्मदारोधसि न्यविशन ।
तस्मिंश्चावसरे महासामन्तस्य कुन्तलपतेरवन्तिदेवस्यात्मनाटकीयां क्ष्मातलोर्वशीं नाम चन्द्रपालितादिभिरतिप्रशस्तनृत्यकौशलामाहूयान्तवर्मा नृत्यमद्राक्षीत् ।
आतिरक्तश्च भुक्तवानिमां मधुमत्तां ।
अश्मकेन्द्रस्तु कुन्तलपतिमेकान्ते समभ्यधत्त-"प्रमत्त एष राजा कलत्राणि नः परामृशति ।
कियत्यवज्ञा सोढव्या ।
मम शतमस्ति हस्तिनाम्, पञ्चशतानि च ते ।
तदावां संबूय मुरलेशं वीरसेनमृचीकेशमेकवीरं कोङ्कणपतिं कुमारगुप्तं सासिक्यनाथं च नागपालमुपजपाव ।
ते चावश्यमस्याविनयमसहमाना अस्मन्मतेनैवोपावर्तेरन् ।
अयं च वानवास्यः प्रियं मे मित्रं ।
अमुनैनं दुर्विनीतमग्रतो व्यतिपक्तं पृष्टतः प्राहरेम ।
कोशवाहनं च विभज्य गृह्णीमःऽ इति ।
हृष्टेन चामुनाभ्युपेते, विंशतिं वशरांशुकानाम्, पञ्चविंशतिं काञ्जनकुङ्कुमपलानाम्, प्राभृतीकृत्याप्तमुखेन तैः सामन्तैः संमन्त्र्य तानपि स्वमतावस्थापयत् ।
उत्तरेद्युस्तेषां सामन्तानां वानवास्यस्य च अनन्तवर्मा नयद्वेषादामिपत्वमगमत् ।
वसन्तभानुश्च तत्कोशवाहनमवशीर्णमात्माधिष्टितमेव कृत्वा यथाप्रयासं यथाबलं च विभज्य गृह्णीत ।
युष्मदनुज्ञया येनकेनचिदंशेनाहं तुष्यामिऽ इति शाठ्यात्सर्वानुवर्त्ती, तेनैवामिषेण निमित्तीकृतेनोत्पादितकलहः सर्वसामन्तानध्वंसयत् ।
तदीयं च सर्वस्वं स्वयमेवाग्रसत् ।
वानवाम्यं केनचिदंशेनानुगृह्य प्रत्यावृत्य सर्वमनन्तवर्मराज्यमात्मसादकरोत् ।
अस्मिंश्चान्तेर मन्त्रिवृद्धो वसुरक्षितः कैश्चिन्मौलैः संभूय बालमेनं भास्करवर्माणम्, अस्यैव ज्यायसीं बगिनीं त्रयोदशवर्षां मञ्जुवादिनीम्, अनयोश्च मातरं महादेवीं वसुंधरामादायापसर्पन्नापदोऽस्या भावितया दाहज्वरेण देहमजहात् ।
अस्मादृशैर्मित्रैस्तु नीत्वा माहिष्मतीं भर्तृद्वैमातुराय भ्रात्रे मित्रवर्मणे सापत्या देवी दर्शिताभूत् ।
तां चार्यामनार्योऽसावन्यथाभ्यमन्यत ।
निर्भर्त्सितश्च तया "सुतमियमखण्डचारित्रा राज्यर्हिं चिकीर्षतिऽ इति नैर्घृण्यात्तमेनं बालमजिघांसीत् ।
इदं तु ज्ञात्वा देव्याहमाज्ञप्तः-"तात, नालीजङ्गः, जीवतानेनार्भकेण यत्र क्वचिदवधाय जीव ।
जीवेयं चेदहमप्येनमनुसरिष्यामि ।
ज्ञापय मां क्षेमप्रवृत्तः व्यगाहिषि ।
पादचारिणं चैनमाश्वासयितुं घोषे क्वचिदहानि कानिचिद्विश्रमय्य, तत्रापि राजपुरुषसंपातभीतो दुरध्वमपासरं ।
तत्रास्य दारुणपिपासापीडितस्य वारि दातुकामः कूपेऽस्मिन्नपभ्रश्य पतितस्त्वयैवमनुगृहीतः ।
स्वमेवास्यातः शरणमेधि विशरणस्य राजसूनोःऽ इत्यञ्जलिमबध्नात् ।
"किमीया जात्यास्य माताऽ इत्यनुयुक्ते मयामुनोक्तम्-"इत्यञ्जलिमबध्नात् ।
"किमीया जात्यास्य माताऽ इत्यनुयुक्ते मयामुनोक्तम्-"पाटलिपुत्रस्य वणिजो वैश्रवणस्य दुहितरि सागरदत्तायां कोसलेन्द्रात्कुसुमधन्वनोऽस्य माता जाताऽ इति ।
"यद्येवमेतन्मातुर्मत्पितुश्चैको मातामहःऽ इति सस्नेहं तमहं सस्वजे ।
वृद्धेनोक्तम्-"सिन्धुदत्तपुत्राणां कतमस्ते पिताऽ इति ।
"सुश्रुतःऽ इत्युक्ते सोऽत्यहृष्यत् ।
अहं तु "तपनयावलिप्तमश्मकनयेनैवोन्मूल्य बालमेनं पित्र्ये पदे प्रतिष्ठापयेयम्ऽ इति प्रतिज्ञाय कथमस्यैनां क्षुधं क्षपयेयम्ऽ इत्यचिन्तयं ।
तावदापतितौ च कस्यापि व्याधस्य त्रीनिपूनतीत्य द्वौ मृगौ स च व्याधः ।
तस्य हस्तादवशिष्टमिषुद्वयं कोदण्डं चाक्षिष्यावधिषं ।
एकश्च सपत्राकृतोऽन्यश्च निष्पत्राकृतोऽपतत् ।
तं चैकं मृगं दत्त्वा मृगयवे, अन्यस्यापल्ॐअत्वचः क्ल्ॐआपाह्ये, निष्कुलाकृत्य विकृत्योर्वङ्घ्रिग्रीवादीनि शूलाकृत्य दावाङ्गारषुष तप्तेनामिषेण तयोरात्मनश्च क्षुधमतार्षं ।
एतस्मिन्कर्मणि मत्सौष्ठवेनातिहृष्टं किरातमस्मि पृष्टवान्-"अपि जानासि माहिष्मतीवृत्तान्तम्ऽ इति ।
असावाचष्ट-" तत्र व्याघ्रत्वचो दृतश्चि विक्रीयादैवागतः किं न जानामि ।
प्रचण्डवर्मा नाम चण्डवर्मानुजो मित्रवर्मदुहितरं मञ्जुवादिनीं विलिप्सुरभ्येतीति तेनोत्सवोत्तरा पुरीऽ इति ।
अथ कर्णे जीर्णमब्रवम्-"धूर्तो मित्रवर्मा दुहितरि सम्यक्प्रतिपत्त्या मातरं विश्वास्य तन्मुखेन प्रत्याकृष्य बालकं जिघांसति ।
तत्प्रतिगत्यं कुशलमस्य मद्वार्ता च देव्यै रहो निवेद्य पुनः कुमारः शार्दूलभक्षित इति प्रकाशमाक्रोशनं कार्यं ।
स दुर्मतिरन्तःप्रीतो बहिर्दुःखं दर्शयन्देवीमनुनेष्यति ।
पुनस्तया त्वन्मुखेन स वाच्यः-"यदपेक्षया त्वन्मतमत्यक्रमिषं सोऽपि बालः पापेन मे परलोकमगात् ।
अद्य तु त्वदादेशकारिण्येवाहम्ऽ इति ।
स तयोक्तः प्रीतिं प्रतिपद्याभिपत्स्यति ।
पुनरनेन वत्सनाभनाम्ना महाविषेण संनीय तोयं तत्र मालां मज्जयित्वा तया स वक्षसि मुखे च हन्तव्यः ।
"स एवायमसिप्रहारः पापीयसस्तव भवतु यद्यस्मि पतिव्रताऽ ।
पुनरनेनागदेन संगमितेऽम्भसि तां मालां मज्जयित्वा स्वदुहित्रे देया ।
मृते तु तस्मिंस्तस्यां च निर्विकारायां सत्याम्, सतीत्येवैनां प्रकृतयोऽनुवर्तिष्यन्ते ।
पुनः प्रचण्डवर्मणे संदेश्यम्-"अनायकमिदं राज्यं ।
अनेनैव सह वालिकेयं स्वीकर्तव्याऽ इति ।
तावदावां कापालिकवेपच्छन्नौ देव्यैव दीयमानभिक्षौ पुरो वहिरुपश्मशानं वत्स्यावः ।
पुनरार्यप्रायान्पौरवृद्धानाप्तांश्च मन्त्रिवृद्धानेकान्ते ब्रवीतु देवी-"स्वप्नेऽद्य मे देव्या विन्ध्यवासिन्या कृतः प्रसादः ।
अद्य चतुर्थेऽहनि प्रचण्डवर्मा मरिष्यति ।
पञ्चमेऽहनि रेवातटवर्तिनि मद्भवने परीक्ष्य वैजन्यम्, जनेषु निर्गतेषु कपाटमुद्धाट्य त्वत्सुतेन सह कोऽपि द्विजकुमारो निर्यास्यति ।
स राज्यमिदमनुपाल्य बालं ते प्रतिष्ठापयिष्यति ।
स खलु बालो मया व्याघ्रीरूपया तिरस्कृत्य स्थापितः ।
सा चेयं वत्सा मञ्जुवादिनी तस्य द्विजातिदारकस्य दारत्वेनैव कल्पिताऽ इति ।
तदेतदतिरहस्यं युष्मास्वेव गुप्तं तिष्ठतु यावदेतदुपपत्स्यतेऽ इति ।
स सांप्रतमतिप्रीतः प्रयातोर्ऽथश्चयायं यथाचिन्तितमनुष्ठितोऽभूत् ।
प्रतिदिशं च लोकवादः प्रासर्पत्-"अहो माहात्म्यं पतिव्रतानां ।
असिप्रहार एव हि स मालाप्रहारस्तस्मै जातः ।
न शक्यमुपधियुक्तमेतत्कर्मेति वक्तुं ।
यतस्तदेव दत्तं दाम दुहित्रे स्तनमण्डनमेव तस्यै जातं न मृत्युः ।
योऽस्याः पतिव्रतायाः शासनमतिवर्तते स भस्मैव भवेत्ऽ इति ।
अथ महाव्रतिवेषेण मां च पुत्रं च भिक्षायै प्रविष्टौ दृष्ट्वा प्रस्नुतस्तनी प्रत्युत्थाय हर्षाकुलमब्रवीत्-"भगवन्, अयमञ्जलिः अनाथोऽयं जनोऽनुगृह्यतां ।
असति ममैकः स्वप्नः स किं सत्यो न वाऽ ति ।
मयोक्तम्-"फलमस्याद्यैव द्रक्ष्यसिऽ इति ।
"यद्येवं बहु भागधेयमस्या वो दास्याः ।
स खल्वस्याः सानाथ्यशंसी स्वप्नःऽ इति मद्दर्शनरागबद्धसाध्वसां मञ्जुवादिनीं प्रणमय्य, भूयोऽपि सा हर्षगर्भमब्रूत-"तच्चेन्मिथ्या सोऽयं युष्मदीयो बालकपाली श्वो मया निरोद्धव्यःऽ इति ।
मयापि सस्मितं मञ्जुवादिनीरागलीनदृष्टिलीढधैर्येण "एवमस्तुऽ इति लब्धभैक्षः, नालीजङ्घमाकार्य निर्गम्य ततश्च तं चानुयान्तं शनैरपृच्छम्-"क्वासावल्यायुः प्रथितः प्रचण्डवर्माऽ इति ।
सोऽब्रूत-"राज्यमिदं ममेत्यपास्तशङ्को राजास्थानमण्डप एव तिष्ठत्युपास्यमानः कुशीलवैःऽ इति ।
"यद्येवमुद्याने तिष्ठऽ इति तं जरन्तमादिश्य तत्प्रकारैकपार्श्वैक्वचिच्छून्यमठिकायां मात्राः समवतार्य, तद्रक्षणनियुक्तराजपुत्रः, कृतकुशीलववेषलीलः प्रचण्डवर्माणमेत्यान्वरञ्जयं ।
अनुरञ्जितातपे तु समये, जनसमाजज्ञानोपयोगीनि संहृत्य नृत्यगीतनानारुदितादिहस्तचङ्क्रमणमूर्ध्वपादालातपादपीठवृश्चिकमकरलङ्घनादीनि मस्त्योद्वर्तनादीनि च करणानि, पुनरादायादायासन्नवर्तिनां क्षुरिकाः ताभिरुपाहितवर्ष्मा चित्रदुष्कराणि करणानि श्येनपातोत्क्रोशपातादीनि दर्शयन्, विंशतिचापान्तरालावस्थितस्य प्रचण्डवर्मणश्छुरिकयैकया प्रत्युरसं प्रहृत्य, "जीव्याद्वर्षसहस्रं वसन्तभानुःऽ इत्यभिगर्जन्, मद्गात्रमरुकर्तुमुद्यतासेः कस्यापि चारभटस्य पीवरांसबाहुशिखरमाक्रम्य, तावतैव तं विचेताकुर्वन्, साकुलं च लोकमुच्चक्षूकुर्वन्, द्विपुरुषोच्छ्रितं प्राकारमत्यलङ्घयं ।
अवप्लुत्य चोपवने "मदनुपातिनामेष पन्था दृश्यतेऽ इति ब्रुवाण एव नालीजङ्घसमीकृतसैकतस्पृष्टपादन्यासया तमालवीथ्या चानुप्राकारं प्रचा प्रतिप्रधावितः; पुनरवाचोच्चितेष्टकचितत्वादलक्ष्यपातेन प्रद्रुत्य, लङ्घितप्राकारवप्रखातवलयः, तस्यां शन्यमठिकायां तूर्णमेव प्रविश्य, प्रतिमुक्तपूर्ववेषः सह कुमारेण मत्कर्मतुमुलराजद्वारदुःखलब्धवर्तमा श्मशानोद्देशमभ्यगां ।
प्रागेव तस्मिन्दुर्गागृहे प्रातिमाधिष्ठान एव मया कृतं भग्रपार्श्वस्थैर्यस्थूलप्रस्तरस्थगितबाह्मद्वारं बिलं ।
अथ गलति मध्यरात्रे वर्षवरोपनीतमहार्हरत्नभूषणपट्टनिवसनौ तद्बिलमावां प्रविश्य तूष्णीमतिष्ठाव ।
देवी तु पूर्वेद्युरेव यथार्हमग्निसंस्कारं मालवाय दत्त्वा प्रचण्डवर्मणे चण्डवर्मणे च तामवस्थामश्मकेन्द्रोपधिकृतामेव संदिश्य, उत्तरेद्युः प्रत्युषस्येव पूर्वसंकेतितपौरामात्यसामन्तवृद्धैः सहाभ्यत्य भगवतीमर्चयित्वा समर्चनप्रत्यक्षं परीक्षितकुक्षिवैजन्यं तद्भवनं पिधाय दत्तदृष्टिः सह जनेन स्थित्वा, पटीयांसं पटहशब्दमकारयत् ।
अणुतररन्ध्रप्रविष्टेन तेन नादेनाहं दत्तसंज्ञः शिरसैवोत्क्षिप्य सप्रतिमं लोहपादपीठमंसलपुरुषप्रयत्नदुश्चलमुभयकरविधृतमेकपाश्व्रमेकतो निवेश्य निरगमं ।
निरगमयं च कुमारं ।
अथ यथापूर्वमर्चयित्वा दुर्गामुद्धाटितकपाटः प्रत्यक्षीभूय प्रत्ययहृष्टदृष्टि ।
स्पष्टर्ॐआञ्चमुद्यताञ्जलिरूढविस्मयं च प्रणिपतन्तीः प्रकृतीरभ्यधाम्-"इत्थं देवी विन्ध्यवासिनी मन्मुखेन युष्मानाज्ञापयति-मया सकृषया शार्दूलरूपैण तिरस्कृत्याद्य वो दत्तमेनमद्यप्रभृति मत्पुत्रतया मन्दमातृपक्ष इति परिगृह्णन्तु भवन्तः ।
अपि च दुर्घटकूटकोटिघटनापाटवप्रकटशाठ्यनिष्ठुराश्मकघटघट्टनात्मानं मां मन्यध्वमस्य रक्षितारं ।
रक्षानिर्वेशश्चास्य स्वसेयं सुभ्रूरभ्यनुज्ञाता मह्यमार्ययाऽ इति ।
श्रुत्वैतत्"अहो भाग्यवान्भोजवंशः, यस्य त्वमार्यादत्तो नाथःऽ इत्यप्रीयन्त प्रकृतयः ।
सा तु वाचामगोचरां हर्षावस्थामस्पृशन्मे श्वश्रूः ।
तदहरेव च यथावदग्राहयन्मञ्जुवादिनीपाणिपल्लवं ।
प्रपन्नायां च यामिन्यां सम्यगेव बिलप्रत्यपूरयं ।
अलब्धरन्ध्रश्च लोको नष्टमुष्टिचिन्तादिकथनैरभ्युपायान्तरप्रयुक्तैर्द्विव्यांशतामेव मम समर्थयमानः, मदाज्ञां नात्यवर्तत ।
राजपुत्रस्यार्यापुत्र इति प्रभावहेतुः प्रसिद्धिरासीत् ।
तं च गुणवत्यहनि भद्राकृतमुपनाय्य पुरोहितेन पाठयन्नीतिं राजकार्याण्यन्वतिष्ठं ।
अचिन्तयं च-"राज्यं नाम शक्तित्रयायत्तम, शक्तयश्च मन्त्रप्रभावोत्साहाः परस्परानुगृहीताः कृत्येषु क्रमन्ते ।
मन्त्रेण हि विनिश्चयोर्ऽथानाम्, प्रभावेण प्रारम्भः, उत्साहेन निर्वहणं ।
अतः पञ्चाङ्गमन्त्रमूलः, द्विरूपप्रभावस्कन्धः, चतुर्गणोत्साहविटपः, द्विसप्ततिप्रकृतिपत्रः, षड्गुणकिसलयः, शक्तिसिद्धिपुष्पफलश्च, नयवनस्पतिर्नेतुरुपकरोति ।
स चायमनेकाधिकरणत्वादसहायेन दुरुपजीव्यः ।
यस्त्वयमार्यकेतुर्नाम मित्रवर्ममन्त्री स कोसलाभिजनत्वात्कुमारमातृपक्षो मन्त्रिगुणैश्च युक्तः तन्मतिमवमत्यैव ध्वस्तो मित्रवर्मा, स चेल्लब्धः पेशलम्ऽ इति ।
अथ नालीजङ्घं रहस्यशिक्षयम्-"तात, आर्यमार्यकेतुमेकान्ते ब्रूहि-"को मायापुरुषो य इमां राज्यलक्ष्मीमनुभवति, स चायमस्मद्बालो भुजङ्गेनामुना परिगृहीतः ।
किमुद्गीर्येत ग्रस्येत वाऽ इति ।
स यद्वदिष्यति "तदस्मि बोध्यःऽ इति ।
सोऽन्यदैवं मामावेदयत्-"मुहुरुपास्य प्राभृतैः प्रवर्त्य चित्राः कथाः, संवाह्य पाणिपादम्, अति विस्रम्भदत्तक्षणं तमप्राक्षं त्वदुपदिष्टेन नयेन ।
साप्येवमकथयत्-"भद्र, मैवं वादीः ।
अबिजनस्य शुद्धिदर्शनम्, असाधारणं बुद्धिनैपुणम्, अतिमानुषं प्राणबलम्, अपरिमाणमौदार्यम्, अत्याश्चर्यमस्त्रकौशलम्, अनल्पं शिल्पज्ञानम्, अनुग्रहार्द्रं चेतः, तेजश्चाप्यविषह्यमभ्यमित्रीणं ।
इत्यस्मिन्नेव संनिपातिनो गुणाः येऽन्यत्रैकैकशोऽपि दुर्लभाः ।
द्विषतामेष चिरबिल्वद्रुमः, प्रह्वाणां तु चन्दनतरुः, तमुद्धृत्य नीतिज्ञंमन्यमश्मकमिमं च राजपुत्रं पित्र्ये पदे प्रतिष्ठितमेव विद्धि ।
नात्र संशयः कार्यःऽ इति ।
तच्चापि श्रुत्वा भूयोभूयश्चोपदाभिर्विशोध्य तं मे मतिसहायमकरवं ।
तत्सखश्च सत्यशौचयुक्तानमात्यान्विविधव्यञ्जनांश्च गूढपुरुषानुदपादयं ।
तेभ्यश्चोपलभ्य लुब्धसमृद्धमत्युत्सिक्तमविधेयप्रायं च प्रकृतिमण्डलमलुब्धतामभिख्यापयन्, धार्मिकत्वमुद्भावयन, नास्तिकान्कदर्थयन्, कण्टकान्विशोधयन्, अमित्रोपधीनपघ्नन्, चातुर्वर्ण्यं च स्वधर्मकर्मसु स्थापयन्, अभिसमाहरेयमर्थानर्थमूला हि दण्डविशिष्टकर्मारम्भा न चान्यदस्ति पापिष्ठं तत्र दौर्बल्यात्, इत्याकलय्य योगानन्वतिष्ठं ।
व्यचिन्तयं च--सर्वोऽप्यतिशूरः सेवकवर्गो मयि तथानुरक्तो यथाज्ञया जीवितमपि तृणाय मन्यते ।
राज्यद्वितयसैन्यसामग्र्या च नाहमश्मकेशाद्वसन्तभानोर्न्यूनो नीत्याविष्टश्च ।
अतो वसन्तभानु पराजित्य विदर्भाधिपतेरनन्तवर्मणस्तनयं भास्करवर्माणं पित्र्ये पदे स्थापयितुमलमस्मि ।
अयं च राजसूनुर्भवान्या पुत्रत्वेन परिकस्पितः ।
अहं चास्य साहाय्ये नियुक्त इति सर्वत्र किंवदन्ती संजातास्ति ।
अद्यापि चैतन्मत्कपटकृत्यं न केनापि विदितम्, ।
अत्रस्थाश्चास्मिन्भास्करवर्मणि राजतनये "अयमस्मत्स्वामिनोऽनन्तवर्मणः पुत्रो भवान्याः प्रसादादेतद्राज्यमवाप्स्यतिऽ इति बद्धाशा वर्तन्ते ।
अश्मकेशसैन्यं च राजसूनोर्भवानीसाहाय्यं विदित्वा "दव्याः शक्तेः पुरो न बलवती मानवी शक्तिःऽ इत्यस्माभिर्विग्रहे चलचित्तमिवोपलक्ष्यते ।
अत्रत्याश्च मौलाः प्रकृतयः प्रथममेव राजसुताभ्युदयाभिलाषिण्य इदानीं च पुनर्मया दानमानाद्यावजर्नन विश्वासिता विशेषेण राजपुत्रमेवाभिकाङ्क्षन्ति ।
अश्मकेन्द्रान्तरङ्गाश्च भृत्या मदीयैर्विश्वास्यतमैः पुरुषैः प्रभूतां प्रीतिमुत्पाद्य मदाज्ञया रहसीत्युपजप्ताः--"यूयमस्मन्मित्राणि, अतोऽस्माकं शुभोदर्कं वचो वाच्यमव ।
अत्र भवान्या राजसूनोःसाहाय्यकाय विश्रुतं विश्रुतं मां नियुज्य तद्धस्तेनाश्मकेन्द्रस्य वसन्तभानोस्तत्पक्षेस्थित्वा ये चानेन सह योस्त्यन्ति तेषामप्यन्तकातिथिभवनं विहितं ।
यावदश्मकेन्द्रेण स जन्यवृत्तिर्न जातस्तावदेनमनन्तवर्मतनयं भास्करवर्माणमनुसरिष्यथ ।
स वीतभयो भूयसीं प्रवृत्तमासाद्य सपरिजनः सुखन निवत्स्यति न चेद्भवानीत्रिशूलवश्यो भविष्यति ।
भवान्या च ममेत्याज्ञप्तमस्ति यदेकवरं सर्वेषां कथय ।
अतो मया युष्माभिः संहमैत्रीमवबुध्य सर्वेभ्यो गदितम्ऽ इत्याकर्ण्य तेऽश्मकेन्द्रान्तरङ्गभृत्या राजसूनोर्भवानीवरं विदित्वा पूर्वमेव भिन्नमनस आसन् ।
विशेषतश्च मदीयमिति वचनं श्रुत्वा ते सर्वेऽपि मद्वशे समभवन् ।
एन सर्वमपि वृत्तान्तभवबुध्याश्मकेशेन व्यचिन्ति--"यद्राजसूनोर्मौलाः प्रजास्ताः सर्वा अप्येनमेव प्रभुमभिलषन्ति ।
मदीयश्च बाह्म आभ्यन्तरो भृत्यवर्गो भिन्मना इब लक्ष्यते ।
एवं यद्यहं क्षमामवलम्ब्य गृह एव स्थास्यामि तत उत्पन्नोपजापं स्वराज्यमपि परित्रातु न शक्ष्यामि ।
अतो यावता भिन्नचित्तेन मदवबोधकं प्रकटयन्ता मद्बलेन सह मिथोवचनं न संजातं तावतैव तेन साकं विग्रहं रचयामि इत्येवं विहिते सोऽवश्यं मदग्रे न क्षणमवस्थास्यतेऽ इति निश्चित्यान्यायेन परराज्यक्रमणपापप्रेरितः ससैन्यो मृत्युमुखमिवास्मत्सैन्यमभ्ययात् ।
तमभ्यायान्तं विदित्वा राजपुत्रः पुरोऽभवत् ।
अतोऽश्मकेन्द्रमेव तुरगाधिरूढो यान्तमभ्यसरं ।
तावत्सर्वा एव तत्सेना "यदयमेतावतोऽपरिमितस्यास्मत्सैन्यस्योपर्येक एवाभ्यागच्छति तत्र भवानीवर एवासाधारणं कारणं नान्यत्ऽ इति निश्चित्यालेख्यालिखिता इवावस्थिताः ।
ततो मयाभिगम्य संगराय समाहूतो वसन्तभानुः समेत्य मामसिप्रहारेण दृढमभ्यहन् ।
अहं च शिक्षाविशेषविफलिततदसिप्रहारः प्रतिप्रहारेण तं प्रहृत्यावकृत्तमश्मकेन्द्रशिरोऽवनौ विनिपात्य तत्सैनिकानवदम्--"अतः परमपि ये युयुत्सवो भवन्ति ते समेत्य मया युध्यन्तां ।
न चेद्राजतनयचरणप्रणामं विधाय तदीयाः सन्तः स्वस्ववृत्त्युपभोगपूर्वकं निजान्निजानधिकारान्निःशङ्कं परिपालयन्तः सुखेनावतिष्ठन्तुऽ इति ।
मद्वचनश्रवणानन्तरं सर्वेऽप्यश्मकेन्द्रसेवकाः खखवाहनात्सहसावतीर्य राजसूनुमानस्य तद्वशवर्तिनः समभवन् ।
ततोऽहं तदश्मकेन्द्रराज्यं राजसूनुसाद्विधाय तद्रक्षणार्थं मौलान्त्वानधिकारिणो नियुज्यात्मीभूतेनाश्मकेन्द्रसैन्येन च साकं विदर्भानभ्येत्य राजधान्यां तं राजतनयं भास्करवर्माणमभिषिच्य पित्र्ये पदे न्यवेशयं ।
एकदा च मात्रा वसुन्धरया सहावस्थितं तं राजानं वप्यजिज्ञपम्--"मयैकस्य कार्यस्यारम्भश्चिकीर्षितोऽस्ति ।
स यावन्न सिद्ध्यति तानवन्मया न कुत्राप्येकत्रावस्थातुं शक्यं ।
अत इयं मद्भार्या त्वद्भगिनी मञ्जुवादिनी कियन्त्यहानि युष्मदन्तिकमेव तिष्ठतु ।
अहं च यावदिष्टजनोपलम्भं कियन्तमप्यनेहसं भुवं विभ्रम्यं तमासाद्य पुनरत्र समेष्यामिऽ इत्याकर्ण्य मात्रानुमतेन राज्ञाहमगादि-"यदेतदस्माकमेतदराज्योपलम्भलक्षणस्यैतावतोभ्युदयस्यासाधारणो हेतुर्भवानेव ।
भवन्तं विना क्षणमप्यस्माभिरियं राज्यधूर्न निर्वाह्या ।
अतः किमेवं वक्ति भवान्ऽ इत्याकर्ण्य मया प्रत्यवादि-"युष्माभिरयं चिन्तालवोऽपि न चित्ते चिन्तनीयः ।
युष्मद्गृहे यः सचिवरत्नमार्यकेतुरस्ति सरिदृग्विधानामनेकेषां राज्यानां धुरमुद्वोढुं शक्तः ।
ततस्तं तत्र नियुज्याहं गमिष्यामिऽ इत्यादिवचनसंदोहैः प्रलोभितोऽपि सजननीको नृपोऽनेकैराग्रहैर्मां कियन्तमपि कालं प्रयाणोपक्रमात्न्यवर्तयत् ।
उत्कलाधिपतेः प्रचण्डवर्मणो राज्यं मह्यं प्रादान् ।
अहं च तद्राज्यमात्मसात्कृत्वा राजानमामन्त्र्य यावत्त्वदन्वेषणाय प्रयाणोपक्रमं कर्ॐइ तावदेवाङ्गनाथेन सिंहवर्मणा स्वसाहाय्यायाकारितोऽत्र समागतः पूर्वपुण्यपरिपाकात्स्वामिना समगंसिऽ इति ।।
इति श्रदण्डिनः कृतौ दशकुमारचरिते विश्रुतचरितं नामाष्टम उच्छ्वासः ।। ८. ।। अथ कथोपसंहारः ।
ततस्ते तत्र संगता अपहारवर्मोपहारवर्मार्थपालप्रमतिमित्रगुप्तमन्त्रगुप्तविश्रुताः कुमाराः पाटलिपुरे यौवराज्यमुपभुञ्जानं समाकारणे पूर्वकृतसंकेतं वामलोचनया भार्यया सह कुमारं स्ॐअदत्तं सेवकैरानाय्य सराजवाहनाः संभूयावस्थिता मिथः सप्रमोदसंवलिताः कथा यावद्विदधति तावत्पुष्पपुराद्राज्ञो राजहंसस्याज्ञापत्रमादाय समागता राजपुरुषाः प्रणम्य राजवाहनं व्यजिज्ञपन्-"स्वामिन्, एतज्जनकस्य राजहंसस्याज्ञापत्र गृह्यताम्ऽ इत्याकर्ण्य समुत्थाय भूयोभूयः सादरं प्रणम्य सदसि तदाज्ञापत्रमग्रहीत् ।
शिरसि चाधाय तत उत्तार्योत्कील्य राजा राजवाहनः सर्वेषां शृण्वतामेवावाचयत्-"स्वस्ति श्रीः पुष्पपुरराजधान्याः श्रीराजहंसभूपतिश्चम्पानगरीमधिवसतो राजवाहनप्रमुखान्कुमारानाशास्याज्ञापत्रं प्रेषयति ।
यथा यूयमितो मामामन्त्र्य प्रणम्य प्रस्थिताः पथि कस्मिंश्चिद्वनोद्देश उपशिवालयं स्कन्धावारमवस्थाप्य स्थिताः ।
तत्र राजवाहनं शिवपूजार्थंनिशि शिवालये स्थितं प्रातरनुपलभ्यावशिष्टाः सर्वेऽपि कुमाराः "सहैव राजवाहनेन राजहंसं प्रणंस्यामो न चेत्प्राणांस्त्यक्ष्यामःऽ इति प्रतिज्ञाय सैन्यं परावर्त्य राजवाहनमन्वेष्टं पृथक्प्रस्थिताः ।
एतं भवद्वृत्तान्तं ततप्रत्यावृत्तानां सैनिकानां मुखादाकर्ण्यासह्यदुःखोदन्वति मग्नमनसावुभावहं युष्मज्जननी च "वामदेवाश्रमं गत्वैतद्वृत्तान्तं तद्विदितं विधाय प्राणपरित्यायं कुर्वःऽ इति निश्चित्य तदाश्रममुपगतौ तं मुनिं प्रणम्य यावत्स्थितौ तावदेव तेन त्रिकालवेदिना मुनिना विदितमेवास्मन्मनीषितं ।
निश्चयमवबुध्य प्रावाचि-"राजन्, प्रथममेवैतत्सर्वं युष्मन्मनीषितं विज्ञानबलादज्ञायि ।
यदत त्वत्कुमारा राजवाहननिमित्ते कियन्तमनेहसमापदमासाद्य भाग्योदयादसाधारणेन विक्रमेण विहितदिग्विजयाः प्रभूतानि राज्यान्युपलभ्य षोढशाब्दान्ते विजयिनं राजवाहनं पुरस्कृत्य प्रत्येत्य तव वसुमत्याश्च पादानभिवाद्य भवदाज्ञाविधायिनो भविष्यन्ति ।
अतस्तन्निमित्तं किमपि साहसं न विधेयम्ऽ इति ।
तदाकर्ण्य तत्प्रत्ययाद्धैर्यमवलम्ब्याद्यप्रभृत्यहं देवी च प्राणमधारयाव ।
इदानीमासन्नवर्तिन्यवधौ वामदेवाश्रमे गत्वा विज्ञप्तिः कृता-"स्वामिन्, त्वदुक्तावधिः पूर्णप्रायो भवति तत्प्रवृत्तिस्त्वयाद्यापि विज्ञायतेऽ इति ।
श्रुत्वा मुनिरवदत्-"राजन्, राजवाहनप्रमुखाः सर्वेऽपि कुमारा अनेकान्दुर्जयाञ्शत्रून्विजित्य दिग्विजयं विधाय भूवलयं वशीकृत्य चम्पायामेकत्र स्थिताः ।
तवाज्ञापत्रमादाय तदानयनाय प्रेष्यन्तां शीघ्रमेव सेवकाःऽ इति मुनिवचनमाकर्ण्य भवदाकारणायाज्ञापत्रं प्रेषितमस्ति ।
अतःपरं चेत्क्षणमपि यूयं विलम्बं विधास्यथ ततो मां वसुमतीं च मातरं कथावशेषावेव श्रोष्यथेति ज्ञात्वा पानीयमपि पथि भूत्वा पेयम्ऽ इति ।
एवं पितुराज्ञापत्रं मूर्ध्नि विधृत्य गच्छेमेति निश्चयं चक्रुः ।
अथ वशीकृतराज्यरक्षापर्याप्रानि सैन्यानि समर्थतरान्पुरुषानाप्तान्स्थाने स्थाने नियुज्य कियता सैन्यैन मार्गरक्षां विधाय पूर्ववरिणं मालवेशं मानसार पराजत्य तदपि राज्यं वशीकृत्य पुष्पपुरे राज्ञो राजहंसस्य देव्या वसुमत्याश्च पादान्नमस्यामः ।
एवं निश्चित्य स्वस्वभार्यासंयुताः परिमितेन सैन्यन मालवेशं प्रति प्रस्थिताः ।
प्राप्य चोज्जयिनीं तदैव सहायभूतैस्तैः कुमारैः परिमितेन राजवाहनेनातिबलवानपि मालवेशो मानसारः क्षणेन पराजिग्ये निहतश्च ।
ततस्तद्दहितरमवन्तिसुन्दरीं समादाय चण्जवर्मणा तन्मन्त्रिणा पूर्वं कारागृहे रक्षितं पुष्पोद्भवं कुमारं सकुटुम्बं तत उन्मोचितं सह नीत्वा मालवेन्द्रराज्यं वशीकृत्य तद्रक्षणाय कांश्चित्सैन्यसाहितान्मान्त्रिणो नित्युज्यावशिष्टपरिमितसैन्यसहितास्ते कुमाराः पुष्पपुरं समेत्य राजवाहनं पुरस्कृत्य तस्य राजहंसस्य मातुर्वसुमत्याश्च चरणानभिवन्दितवन्तः ।
तौ च पुत्रसमागमं प्राप्य परमानन्दमधिगतौ ।
ततो राज्ञो वसुमत्याश्च देव्याः ।
समक्षं वामदेवो राजवाहनप्रमुखानां दशानामपि कुमाराणामभिलाषं विज्ञाय तानाज्ञापयत्--भवन्तः सर्वेऽप्येकवारं गत्वा स्वानि स्वानि राज्यानि न्यायेन परिपालयन्तु ।
पुनर्यदेच्छा भवति तदा पित्रोश्चरणाभिवन्दनायागन्तव्यम्ऽ इति ।
ततस्ते सर्वेऽपि कुमारास्तन्मुनिवचनं शिरम्याधाया तं प्रणम्य पितरौ च, गत्वा दिग्विजयं विधाय प्रत्यागमनान्तं स्वस्ववृत्तं पृथक्पृथड्मुनिसमक्षं न्यवेदयन् ।
पितरौ च कुमाराणां निजपराक्रमावबोधकान्यतिदुर्घटानि चरितान्याकर्ण्य परमानन्दमाप्नुतां ।
ततो राजा मुनिं सविनयं व्यजिज्ञपत्--"भगवत्, तव प्रसादादग्माभिर्मनुजमनोरथाधिकमवाङ्मनरसगोचरं सुखमधिगतं ।
अतःपरं मम स्वाभिचरणसंनिधौ वानप्रस्थाश्रममौ त्यात्मसाधनमेव विधातुमुचितं ।
अतः पुष्पपुरराझ्ये मानसारराज्ये चराजबाहनमभिषिच्यावशिष्टानिराज्यानि नवभ्यः कुमारेभ्यो यथोचितं सम्प्रदाय ते कुमारा राजवाहनाज्ञाबिधायिनस्तदेकमत्या वर्तमानाश्चतुरुदधिमेखलां वसुंधरां समुद्धृत्य कण्टकानुपभुञ्जन्ति तथा विधेयं स्वामिना इति ।
तेषां तत्पितुर्वानग्रस्थाश्रमप्रहणोपक्रमनिषेधे भूयांसमाग्रहं विलोक्य मुनिस्तानबदत्-"भोः कुमारकाः, अयं युष्मज्जनक एतद्वयःसमुचिते पथि वर्मानः कायक्लेशं विनव मदाश्रमस्थो वानप्रश्थाश्रमाश्रयणं सर्वथा भवद्धर्नि निवारणीयः ।
अत्र स्थितस्त्वयं भङ्गवद्भक्तिमुपलप्स्यते ।
भवन्तश्च पितृसंनिधौ न सुखमवाप्स्थन्तिऽ इति महर्षेराज्ञामधिगम्य ते पितुर्वानप्रस्थाश्रमाधिगमप्रतिषेधाग्रहमत्यजन् ।
राजवाहनं पुष्पपुरेऽवस्थाप्य तदनुज्ञया सर्वेऽपि परिजनाः स्वानि स्वानि राज्यानि प्रतिपाल्य स्वेच्छया पित्रो समीप गतागतमकुर्वन् ।
एवमवस्थितास्ते राजवाहनप्रमुखाः सर्वेऽपि कुमारा राजवाहनाज्ञया सर्वमपि वसुधावलयं न्यायेन परिपालयन्तः परस्परमैकमत्येन वर्तमानाः पुरन्दरप्रभृतिभिरप्यतिदुर्लभानि राज्यसुखान्यन्वभूवन् ।। २,८ ।।

इति श्रीदण्डिनः कृतौ दशकुमारचरिते कथोपसंहारः


इति श्रीमहामहोपाध्यायकविकुलसार्वभ्ॐअनिखिलविद्याकुमुदिनीशर्वरीश्वरसरस्वतीनिःश्वसितकषिदण्डिपण्डितविरचितं दशकुमारचरितं संपूर्णम्