प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← षष्ठोच्छ्वासः दशकुमारचरितम्
सप्तमोच्छ्वासः
दण्डिनः
अष्टमोच्छ्वासः →

राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च गतः कदाचित्कलिङ्गोन ।
कलिङ्गनगरस्य नात्यासन्नसंस्थितजनदाहस्थानसंसक्तस्य कस्यचित्कान्तारधरणिजस्यास्तीर्णसरसकिसलयसंस्तरे तले निपद्य निद्रालीढदृष्टिरशयिषि ।
गलति च कालरात्रिशिखण्डजालकालान्धकारे, चलितरक्षिसि क्षरितनीहारे निजनिलयनिलीननिः शेषजने नितान्तशीते निशीथे घनतरसालशाखान्तरालनिर्ह्रादिनि नेत्रनिंसिनीं निद्रां निगृह्णत्, कर्णदेशं गतं "कथं खलेनानेन दग्धसिद्धेन रिंरसाकाले निदेशं दित्सता जन एष रागेणानर्गलेनार्दित इत्थं खलीकृतः ।
क्रियेताम्याणकनरेन्द्रस्य केनचिदनन्तशक्तिना सिद्ध्यन्तरायऽ इति किङ्करस्य किङ्कर्याश्चातिकारतरं रटितं ।
तदाकर्ण्य "क एष सिद्धः, किं चानेन किङ्करेण करिष्यतेऽ इति दिदृक्षाक्रान्तहृदयः किङ्करगतया दिशा किञ्चिदन्तरं गतस्तरलतरनरास्थिशकलरचितालङ्काराक्रान्तकायम्, दहनदग्धकाष्ठनिष्ठाङ्गाररजःकृताङ्गरागम्, तडिल्लताकारजटाधरम्, हिरण्यरेतस्यरण्यचक्रान्धकारराक्षसे क्षणगृहीतनानेन्धनग्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिलसिद्धार्थकादीन्निरन्तरचटचटायितानाकिरन्तं कञ्चिदद्राक्षं ।
तस्याग्रे स कृताञ्जलिः किङ्करः "किं करणीयम्, दीयतां निदेशःऽ इत्यतिष्ठत् ।
आदिष्टश्चायं तेनातिनिकृष्टाशयेन-"गच्छ, कलिङ्गराजस्य कर्दनस्य कन्यां कनकलेखां कन्यागृहादिहानयऽ इति ।
स च तथाकार्षित् ।
ततश्चैनां त्रासेनालधीयसास्रजर्जरेण च कण्ठेन रणरणिकागृहीतेन च हृदयेन "हा तात, हा जननिऽ ति क्रन्दन्तीं कीर्णग्लानशेखरस्रजि शीर्णनहने शिरसिजानां संचये निगृह्यासिना शिलाशितेन शिरश्चिकर्तिषयाचेष्टत ।
झटिति चाच्छिद्य तस्य हस्तात्तां शस्त्रिकां तया निकृत्य तस्य तच्छिरः सजटाजालम्, निकटस्थस्य कस्यचिज्जीर्णसालस्य स्कन्धरन्ध्रेन्यदधां ।
तन्निध्याय हृष्टतरः स राक्षसः क्षीणाधिरकथयत्-"आर्य, कदर्यस्यास्य कदर्थनान्न कदाचिन्निद्रायाति नेत्रे ।
तर्जयति त्रासयति च अकृत्ये चाज्ञां ददाति ।
तदत्र कल्याणराशिना साधीयः कृतं ।
यदेष नरकाकः कारणानां नारकिणां रसज्ञानाय नीतः शीतेतरदीधितिदेहजस्य नगरम्, तदत्र दयानिधेरनन्ततेजसस्तेऽयं जनः काञ्चिदाज्ञां चिकीर्षति ।
आदिश, अलं कालहरणेनऽ इत्यनंसीत् ।
आदिशं च तम्-"सखे, सैषा सज्जनाचरिता सरणिः, यदणीयसिकारणेऽनणीयानादरः संदृश्यते ।
न चेदिदं नेच्छसि सेयं संनताङ्गयष्टिरक्लेशार्हासत्यनेनाकृत्यकारिणात्यर्थं क्लेशिता, तन्नयैनां निजनिलयं ।
नान्यदितः किञ्चिदस्ति चित्ताराधनं नःऽ इति ।
अथ तदाकर्ण्य कर्णशेखरनिलीननीलनीरजायितां धीरतलतारकां दृशं तिर्यक्किञ्चिदञ्चितां संचारयन्ती, सलिलचरकेतनशरासनानतां चिल्लिकालतां ललाटरङ्गस्थलीनर्तकीं लीलालसं लालयन्ती, कण्टकितरक्तगण्डलखा, रागलज्जान्तरालचारिणी, चरणाग्रेण तिरश्चीननखार्चिश्चन्द्रिकेण धरणितलं साचीकृताननसरसिजं लिखन्ती, दन्तच्छदकिसलयलङ्घिना हर्षास्रसलिलधाराशीकरकणजालक्लेदितस्य स्तनतटचन्दनस्यार्द्रतां निरस्यतास्यान्तरालनिः-सृतेन तनीयसानिलेन हृदयलक्ष्यदलनदक्षिणरतिसहचरशरस्यदायितेन तरङ्गितदशनचन्द्रिकाणि कानिचिदेतान्यक्षराणि कलकण्ठीकलान्यसृजत्-"आर्य, केन कारणेनैनं दासजनं कालहस्तादाच्छिद्यानन्तरं रागानिलचालितरणरणिकातरङ्गिण्यनङ्गसागरे किरसि ।
यथा ते चरणसरसिजरजःकणिका तथाहं चिन्तनीया ।
यद्यस्ति दया तेऽत्रजने, अनन्यसाधारणः करणीयः स एव चरणाराधनक्रियायां ।
यदि च कन्यागाराध्यासनेरहस्यक्षरणादनर्थ आशङ्क्येत, नैतदस्ति ।
रक्ततरा हि नस्तत्रसख्यश्चेट्यश्च ।
यता न कश्चिदेतज्ज्ञास्यति तथा यतिष्यन्तेऽ इति ।
स चाहं देहजेनाकर्णाकृष्टसायकासनेन चेतस्यतिनिर्दयं ताडितस्तत्कटाक्षकालायसनिगडगाढसंयतः किङ्करानननिहितदृष्टिरगादिषम्-"यथेयं रथचरणजघना कथयति तथा चेन्नाचरेयम्, नयेत नक्रकतेनः क्षणेनैकेनाकीर्तनीयां दशां ।
जनं चैनं सह नयानया कन्यया कन्यागृहं हरिणनयनयाऽ इति ।
नीतश्चाहं निशाचरेण शारदजलधरजालकान्ति कन्यकानिकेतनम्ष तत्र च काञ्चित्कालकलां चन्द्राननानिदेशाच्चन्द्रशालैकदेशे तद्दर्शनचलितधृतिरतिष्ठं ।
सा च स्वच्छन्दं शयानाः करतलालससंघटनापनीतनिद्राः काश्चिदधिगतार्थाः सखीरकार्षीत् ।
अथागत्य ताश्चरणनिहितशिरसः क्षरदस्रकरालितेक्षणा निजशेखरकेसराग्रसंलग्नपट्चरणगणरणितसंशयितकलगिरः शनैरकथयन्-"आर्य, यदत्यादित्यतेजसस्त एषा तयनलक्ष्यतां गता, ततः कृतान्तेन गृहीता ।
दत्ता चेयं चित्तजेन गरीयसा साक्षीकृत्य रागानलं ।
तदनेनाश्चर्यरत्नेन नलिनाक्षस्य ते रत्नशैलशिलातलस्थिरं रागतरलेनालङ्क्रियातां हृदयं ।
अस्याश्चरितार्थं स्तनतटं गाढालिंङ्गनैः सदृशतरस्य सहचरस्य चऽ इति ।
ततः सखीजनेनातिदक्षिणेन दृढतरीकृतस्नेहनिगलस्तया संनताङ्ग्या संगत्यारंसि ।
अथ कदाचिदायासितजायारहितचेतसि, लालसालिलङ्घनग्लानघनकेसरे, राजदरण्यस्थलीललाटालीलायिततिलके, ललितानङ्गराजाङ्गीकृतनिर्निद्रकर्णिकारकाञ्चनच्छत्रे, दक्षिणदहनसारथिरयाहृतसहकारचञ्चरीककलिके, कालाण्डजकण्ठरागरक्तरक्ताधरारतिरणाग्रसंनाहशीलिनि, शालिनकन्यकान्तःकरणसंक्रान्तरागलङ्घितलज्जे, दर्दुरगिरितटचन्दनाश्लेषशीतलानिलाचार्यदत्तनानालतानृत्यलीले काले, कलिङ्गराजः सहाङ्गनाजनेन सह च तनयया सकलेन च नगरजनेन दश त्रीणि च दिनादि दिनकरकिरणजाललङ्घनीये, रणदलिसङ्घलङ्घितनतलताग्रकिसलयालीढसैकततटे, तरलतरङ्गशीकरासारसङ्गशीतले सागरतीरकानने क्रीजारसजातासक्तिससीत् ।
अथ संततगीतसंगीतसंगताङ्गनासहस्रशृङ्गारहलानिरर्गलानङ्गसंघर्षहर्षितश्च रागतृष्णैकतन्त्रस्तत्र रन्ध्र आन्ध्रनाथन जयसिंहेनसलिलतरणसाधनानीतेनानेनानेकसंख्येनानीकेन द्रागागत्यागृह्यत सकलत्रः सा द्यानीयत त्रासतरलाक्षी दयिता नः सह सखीजनेन कनकलेखा ।
तदाहं दाहेनानङ्गदहनजनितेनान्तरिताहारचिन्तश्चिन्तयन्दयितां गलितगात्रकान्तिरित्यतर्कयम्-"गता सा कलिङ्गराजतनया जनयित्रा जनयित्र्या च सहारिहस्तं ।
निरस्तधैर्यस्तां स राजा नियतं संजिघृक्षेत् ।
तदसहा च सा सती गररसादिना सद्यः संतिष्ठेत ।
तस्यां च तादृशीं दशां गतायां जनस्यास्यानन्यजेन हन्येत शरीरधारणा ।
सा का स्याद्गतिःऽ इति ।
अत्रान्तर आन्ध्रनगरादागच्छन्नग्रजः कश्चिदैक्ष्यत ।
तेन चेयं कथा कथिता-"यथा किल जयसिंहेनानेकनिकारदततसंघर्षणजिघांसितः स कर्दनः कनकलेखादर्शनैधितेन रागेणारक्ष्यत ।
सा च दारिका यक्षेण केनचिदधिष्ठिता न तिष्ठत्यग्रे नरान्तरस्य ।
आयस्यति च नरेन्द्रसार्थसंग्रहणेन तन्निराकरिष्यन्नरेन्द्रो न चास्ति सिद्धिःऽ इति ।
तेन चाहं दर्शताशः शङ्करनृत्यरङ्गदेशजातस्य जरत्सालस्यत्कन्धरन्द्रान्तर्जटाजालं निष्कृष्य तेन जटिलतां गतः कन्थाचीरसंचयान्तरितसकलगात्रः कांश्चिच्छिष्यानग्रहीषं ।
तांश्चनानाश्चर्यक्रियातिसंहिताज्जनादाकृष्टान्नचेलादित्यागान्नित्यहृष्टानकाष्रं ।
अयासिषं च दिनैः कैश्चिदान्ध्रनगरं ।
तस्य नात्यासन्ने सलिलराशिसदृशस्य कलहंसगणदलितनलिनदलसंहतिगलिताकिञ्जल्कशकलशारस्य सारसश्रेणिशेखरसय सरसस्तीरकानने कृतानिकेतनः स्थितः शिष्यजनकथितचित्रचेष्टाकृष्टसकलनागरजनाभिसंधानदक्षः सन्दिशिदिशीत्यकीर्त्ये जनेन-"य एष जरदरण्यस्थलीसरस्तीरे स्थण्डिलशायी यतिस्तस्य किल सकलानि सरहस्यानि सषडङ्गानि च छन्दांसिरसनाग्रे संनिहिताति, अन्यानि च शास्त्राणि, येन यानि न ज्ञायन्ते स तेषां तत्सकाशादर्थनिर्णयं करिष्यति ।
असत्येन नास्यास्यं संसृज्यते ।
सशरीरश्चैष दयाराशिः ।
एतत्संग्रहेणाद्य चिरं चरितार्था दीक्षा ।
तच्चरणरजः कणैः कैश्चनशिरसि कीर्णैरनेकस्यानेक आतङ्कश्चिरं चिकित्सकैरसंहार्यः संहृतः तदङ्घिक्षालनसलिलसेकैर्निष्कलङ्कशिरसां नश्यन्ति क्षणेनैकेनाखिलनरेन्द्रयन्त्रलङ्घिनश्चण्डतारा ग्रहाः ।
न तस्य शक्यं शक्तेरियत्ताज्ञानं ।
न चास्याहङ्कारकणिकाऽ इति ।
सा चेयं कथानेकजनास्यसंचारिणी तस्य कनकलेखाधिष्ठानधनदाज्ञाकरनिराक्रियाक्रियातिसक्तचेतः क्षत्र्रियस्याकर्षणायाशकत्स चाहरहरागत्यादरेणातिगरीयसार्चयन्नर्थैश्च शिष्यान्संगृह्णन्निधिगतक्षणः कदाचित्काङ्क्षितार्थसाधनाय शनरैयाचिष्ट ।
ध्यानधीरः स्थानदर्शितज्ञानसंनिधिश्चैनं निरीक्ष्य निचाय्याकथयम्-"तात्स्थान एष हि यत्नः ।
तस्य हि कन्यारत्नस्य सकलकल्याणलक्षणैकराशेराधिगतिः क्षीरसागररशनालङ्कृताया गङ्गादिनदीसहस्रहारयाष्टिराजिताया धराङ्गनाया एवासादनाय साधनं ।
न च स यक्षस्तदधिष्ठायी केनचिन्नरेन्द्रेण तस्या लीलाञ्चितनीलनीरजदर्शनाया दर्शनं सहते, तदत्र सह्यतां त्रीण्यहानि, यैरहं यतिष्येर्ऽथस्यास्य साधनायऽ इति ।
तथादिष्टे च हृष्टे क्षितीशे गते निशि निशि निर्निशाकरार्चिषि नीरन्ध्रान्धकारकणनिकरनिगीर्णदशदिशि निद्रानिगडितनिखिलजनदृशि निर्गतय जलतलनिलीनगाहनीयं नीरन्ध्रं कृच्छ्राच्छिद्रीकृतान्तरालं तदेकतः सरस्तटं तीर्थासंनिकृष्टं केनचित्खननसाधनेनाकार्षं ।
घनशिलेष्टकाच्छन्नच्छिद्राननं तत्तीरदेशं जनैरशङ्कनीयं निश्चित्य, दिनादिस्ना ननिर्णिक्तगात्रश्च नक्षत्रसंतानहारयष्ट्यग्रग्रथितरत्नं ।
क्षणदान्धकारगन्धहस्तिदारणैककेसारिणम्, कनकशैलशृङ्गरङ्गलास्यलीलानटम्, गगनसागरघनतरङ्गराजिलङ्घनैकनक्रम्, कार्याकार्यसाक्षिणम्, सहस्रार्चिषं सहस्राक्षदिगङ्गनाङ्गरागरागायितकिरणजालम्, रक्तनीरजाञ्जलिनाराध्य निजनिकेतनं न्यशिश्रियं ।
याते च दिनत्रये, अस्तगिरिशिखरगैरिकतटसाधारणच्छये ।
अचलराजकन्यकाकदर्थनयान्तरिक्षाख्येन शङ्करशरीरेण संसृष्टायाः संध्याङ्गनायाः रक्तचन्दनचर्चितैकस्तनकलशदर्शनीये दिनाधिनाथे, जनाधिनाथः स आगत्य जनस्यास्य धरणिन्यस्तचरणनखकिरणच्छादितकिरीटः कृताञ्जलिरतिष्ठत् ।
आदिष्टश्च-"दिष्ट्या दृष्टेष्टसिद्धिः ।
इह जगति हि न निरीहं देहिनं श्रियः संश्रयन्ते ।
श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसांनिध्यानि ।
यतस्ते साधीयसा सच्चरितेनानाकलितकलङ्केनार्चितेनात्यादररचितेनाकृष्टचेतसा जनेनानेन सरस्तथा संस्कृतम्, यथेह तेऽद्य सिद्धिः स्यात् ।
तदेतस्यां निसि गलादर्दायां गाहनीयं ।
गाहनानन्तरं च सलिलतले सततगतीनन्तःसंचारिणः संनिगृह्य यथाशक्ति शय्याकार्या ।
ततश्च तटस्खलितजलस्थगितजलजखण्ढचलितदण्डकण्टकाग्रदलितदेहराजहंसत्रासजर्जररसितसंदत्तकर्णस्य जनस्य क्षणादाकर्णनीयं जनिष्यते जलसंघातस्य किञ्चिदारटितं ।
शान्ते च तत्र सलिलरटिते क्लिन्नगात्रः किञ्चिदारक्तदृष्टिर्येनाकारेण निर्यास्यति निचाय्य तं निखिलजननेत्रानन्दकारिणं न यक्षः शक्ष्यत्यग्रतः स्थितये ।
स्थिरतरनिहितस्नेहशृङ्खलानिगडितं च कन्यकाहृदयं क्षणेनैकेनासहनीयदर्शनान्तरायं स्यात् ।
अस्याश्च धराङ्गनाया नात्यादृतनिराकृतारिचक्रं चक्रं करतलगतं चिन्तनीयं न तत्र संशयः ।
तच्चेदिच्छस्यनेकशास्त्रज्ञानधीरधिषणैरधिकृतैरितरैश्च हितैषिगणैराकलय्य जालिकशतं चानाय्य, अन्तरङ्गनरशतैर्यथेष्टदृष्टान्तरालं सरः क्रियेत, रक्षा च तीरात्र्रिंशद्दण्डान्तराले सैनिकजनेन सादरं रचनीया ।
कस्तत्र तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्तिऽ इति ।
तत्त्वस्य हृदयहारि जातम्, तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्शनासहेरिच्छां च राज्ञा कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ एष न निषिद्धः ।
तथास्थितश्च तदासादनदृढतराशयश्च स आख्यायत-"राजन्, अत्र ते जनान्ते चिरं स्थितम्, न चैकत्र चिरस्थानं नः शस्तं ।
कृतकृत्यश्चेह न द्रष्टासि ।
यस्य ते राष्ट्रे ग्रासाद्यासादितं तस्य ते किञ्चिदनाचर्य कार्यं गतिरार्यगर्ह्याऽ इति ।
तत्रैतच्चिरस्थानस्य कारणं ।
तच्चाद्य सिद्धं ।
गच्छ गृहान् ।
यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः शक्तिसदृशेन दानेनाराधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्रग्रथितवर्तिकाग्निशिखासहस्रग्रस्तनैशान्धकारराशिरागत्यार्थसिद्धये यतेथाःऽ इति ।
स किल कृतज्ञतां दर्शयन्-"असिद्धिरेषा सिद्धिः, यदसंनिधिरिहार्याणां ।
कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति ।
न च निषेधनीया गरीयसां गिरःऽ इति स्नानाय गृहानयासीत् ।
अहं च निर्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः ।
स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जालिकजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगाहत ।
गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नक्रलीलया नीरातिनिलीनतया तं तथा शयानं कन्धरायां कन्यता व्यग्रहीषं ।
खरतरकालदण्डघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेनाजहात्स चेष्टां ।
ततश्चा कृष्य तच्छरीरं छिद्रे निधाय नीरान्निरयासिषं ।
सङ्गतानां च सैनिकानां तदत्यचित्रीयताकारान्तरग्रहणं ।
गजस्कन्धगतः सितच्छत्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डताडनत्रस्तजनदत्तान्तरालया राजवीथ्या यातस्तां निशां रसनयननिरस्तनिद्रारतिरनैषं ।
नीते च जनाक्षिलक्ष्यतां लाक्षारसदिग्धधिग्गजशिरःसदृक्षे शक्रदिगङ्गनारत्नादर्शेर्ऽकचक्रे कृतकरणीयः किरणजालकरालरत्नराजिराजितराजार्हासनाध्यासी यथासदृशाचारदर्शिनः शङ्कायन्त्रिताङ्गान्संनिधिनिषादिनः सहायानगाहिषम्-"दृश्यतां शक्तिरार्षी, यत्तस्य यतेरजेयरयेन्द्रियाणां संस्कारेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि सरसि सरसिजदलसंनिकाशच्छायस्याधिकतरदर्शनयिन्याकारान्तरस्य सिद्धिरासीत् ।
अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः ।
तदिदानीं चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशेशानां स्थानान्यादररचितनृत्यगीताराधनानि क्रियन्तां ।
ह्नियन्तां च गृहादितः क्लेशनिरसनसहान्यर्थिसार्थैर्धनानिऽ इति ।
आश्चर्यरसीतिरेकहृष्टदृष्टयस्ते जय जगदीश, जयेन सातिशयं दश दिशः स्थगयन्निजेन यशसादिराजयशांसिऽ इत्यसकृदाशास्यारचयन्यथादिष्टाः क्रियाः ।
स चाहं दयितायाः सखीं हृदयस्थानीयां शशाङ्कसेनां कन्यकां कदाचित्कार्यान्तरागतां रहस्याचक्षि-"कच्चिदयं जनः कदाचिदासीद्दृष्टःऽ इति ।
अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदीधितिलतां लीलालसं लासयन्ती, ललिताञ्चितकरशाखान्तरितदन्तच्छदकिसलया, हर्षजलक्लेदजर्जरनिरञ्जनेक्षणा, रचिताञ्जलिः "नितरां जाने यदि न स्यादैन्द्रजालिकस्य जालं किञ्चिदेतादृशं ।
कथं चैतत् ।
कथय, इति स्नेहनिर्यन्त्रणं शनैरगादीत् ।
अहं चास्यै कार्त्स्न्येनाख्याय, तदाननसंक्रान्तेन संदेशेन संजनय्यसहचर्या निरतिशयं हृदयाह्लादम्, ततश्चैतया दयितया निरर्गलीकृतातिसत्कृतकलिङ्गनाथन्यायदत्तया संगत्यान्ध्रकलिङ्गराजराज्यशासी तस्यास्यारिणा लिलङ्खयिषितस्याङ्गराजस्य साहाय्यकायालघीयसा साधनेनागत्यात्र ते सखिजनसंगतस्य यादृच्छिकदर्शनानन्दराशिलङ्घितचेता जातःऽ इति ।
तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भिरभिनन्द्य "चित्रमिदं महामुनेर्वृत्तं ।
अत्रैव खलु फलितमतिकष्टं तपः तिष्ठतु तावन्नर्म ।
हर्षप्रकर्षस्पृशोः प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपम्ऽ इत्यभिधाय, पुनः "अवतरतु भवान्ऽ इति बहुश्रुते विश्रुते विकचराजीवसदृशं दृशं चिक्षेप देवो राजवाहनः ।। २,७ ।।

इति श्रीदण्डिनः कृतौ दशकुमारचरिते मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः