प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दशकुमारचरितम्/उत्तरपीटिका/पञ्चमोच्छ्वासः

< दशकुमारचरितम्‎ | उत्तरपीटिका
← चतुर्योच्छ्वासः दशकुमारचरितम्
पञ्चमोच्छ्वासः
दण्डिनः
षष्ठोच्छ्वासः →

सोऽपि प्रणम्य विज्ञापयामास-"देव देवस्यान्वेषणायदिक्षु भ्रमन्नभ्रङ्कपस्यापि विन्ध्यपार्श्वरूढस्य वनस्पतेरधः, परिणतपतङ्गबालपल्लवावतंसिते पश्चिमदिगङ्गनामुखे पल्वलाम्भस्युपस्पुपस्पृश्योपासय संध्याम्, तमःसमीकृतेषु निम्नोन्नतेषुगन्तुमक्षमः क्षमातले किसलयैरुपरचय्य शय्यां शिशयिषमाणः, शिरसि कुर्वन्नञ्जलिम्, "यस्मिन्वनस्पतौ वसति देवता सैव म शरणमस्तु शरारुचक्रचारभीषणायां शर्वगलश्यामशार्वरान्धकारपूराध्मातगभीरगह्वरायामस्यां महाटव्यामेककस्य प्रसुप्तस्यऽ इत्युपधाय वामभुजमशयिषि ।
ततः क्षणादेवावनिदुर्लभेन स्पर्शेनासुखायिषत किमपि गात्राणि, आह्लादयिषतेन्द्रियाणि, अभ्यमनायिष्ट चान्तरात्मा, विशेषतश्च हृषितास्तनूरुहाः, पर्यस्फुरन्मे दक्षिणभुजः ।
"कथंन्विदम्ऽ इति मन्दमन्दमुन्मिषन्नुपर्यच्छचन्द्रातपच्छेदकल्पं शुक्लांशुकवितानमैक्षिषि ।
वामतश्चलितदृष्टिः समया सौधभित्तिं चित्रास्तरयणशायिनमतिविश्रब्धप्रसुपतमङ्गनाजनमलक्षयं ।
दक्षिणतो दत्तचक्षुरागलितस्तनांशुकाम्, अमृतफेनपटलपाण्डुरशयनशायिनीम्, आदिवराहदंष्ट्रांशुजाललग्नाम्, अंसस्रस्तदुग्धसागरदुकूलोत्तरीयाम्, भयसाध्वसमूर्च्छितामिव धरणिम्, अरुणाधरकिरणबालकिसलयलास्यहेतुभिराननारविन्दपरिमलोद्वाहिभि र्निःश्वासमातरिश्वभिरीश्वरेक्षणदहनदग्धं स्फुलिङ्गशेषमनङ्गमिव संधुक्षयन्तीम्, अन्तःसुप्तषटूपदमम्बुजमिव जातिनिद्रमामीलितलोचनेन्दीवरमाननं दधानाम्, ऐरावतमदावलेपलूनापविद्धामिव नन्दनवनकल्पवृक्षरत्नवल्लरीं कामपि तरुणीमालोकयं ।
अतर्कयं च--"क गता सा महाटवी, कुत इदमूर्ध्वाण्डसंपुटोल्लेखि शक्तिध्वजशिखरशूलोत्सेधं सौधमागतम्, क्व च तदरण्यस्थलीसमास्तीर्णं पल्लवशयनम्, कुतस्त्यं चेदमिन्दुगभस्तिसंभारभासुरं हंसतूलदुकूलशयनम्, एष च को नु शीतरश्मिकिरणरज्जुदोलापरिभ्रष्टमूर्च्छित इवाप्सरोगणः स्वैरसुप्तः सुन्दरीजनः, का चेयं देवीवारविन्दहस्ता शारदशशाङ्कमण्डलामलदुकलोत्तरच्छदमधिशेते शयनतलं ।
न तावदेषा देवयोषा, यतो मन्दमन्दमिन्दुकिरणैः संवाह्यमाना कमलिनीव संकुचति ।
भग्नवृन्तच्युतरसबिन्दुशबलितं पाकपाण्डु चूतफलमिवोद्भिन्नस्वेदरेखं गण्डस्थलमालक्ष्यते, अभिनवयौवनविदाहनिर्भरोष्मणि कुचतटे वैवर्ण्यमुपैति वणकं ।
वाससी च परीभोगानुरूपं धूसरिमाणमदर्शयतः, तदेषा मानुष्येव ।
दिष्ट्या चानुच्छिष्टयौवना, यतः सौकुमार्यमागताः सन्तोऽपि संहता इवावयवाः, प्रस्निग्धतमापि पाण्डुतानुवद्धेव देहच्छविः, स्मरपीडानभिज्ञतया नातिविशदरागो मुखे, विद्रुमद्युतिरधरमणिछः अनत्यापूर्णमारक्तमूलं चम्पककुङ्मलदलमिव कठोरं कपोलतलम्, अनङ्गबाणपातमुक्ताशङ्कं च विस्रब्धमधुरं सुप्यते, न चैतद्वक्षःस्थलं निर्दयविमर्दविस्तारितमुखस्तनयुगलम्, अस्ति चानतिक्रान्तशिष्टमर्यादचेतसो ममास्यामासक्तिः ।
आसत्त्यनुरूपं पुनराश्लिष्टा यदि, स्पष्टमार्तरवेणैव सह निद्रां मोक्ष्यति ।
अथाहं न शक्ष्यामि चानुपश्लिष्य शयितुं ।
अतो यद्भावि तद्भवतु ।
"भाग्यमत्र परीक्षिष्येऽ इति स्पष्टास्पृष्टमेव किमप्याविद्धरागसाध्वत्तंलक्षसुप्तः स्थितोऽस्मि ।
साप किमष्युत्कम्पिना र्ॐओद्बेदवता वामपार्श्वेन सुखायमानेन मन्दमन्दजृम्भिकारम्भमन्थराङ्गी, त्वङ्गदग्रपक्ष्मणोश्चक्षुषोरलसतान्ततारकेणानतिपक्वनिद्राकषायितापाङ्गपरभागेन युगलेनेषदुन्मिषन्ती, त्रासविस्मयहर्षरागशङ्काविलासविभ्रमव्यवहितानि व्रीडान्तराणि कानि कान्यपि कामेनाद्भुतानुभावेनावस्थान्तराणि कार्यमाणा, परिजनप्रबोधनोद्यतां गिरं कामावेगपरवशं हृदयमङ्गानि च साध्वसायाससंबध्यमानस्वेदपुलकानि कथङ्कथमपि निगृह्य, सस्पृहेण मधुरकूणितत्रिभागेन मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण्य, दूरोत्सर्पितपूर्वकायापि तस्मिन्नेव शयने सचकितमशयिष्ट ।
अजनिष्ट मे रागाविष्टचेतसोऽपि किमपि निद्रा ।
पुनरननुकूलस्पर्शदुःखायत्तगात्रः प्राबुध्ये ।
प्रबुद्धस्य च सवे मे महाटवी, तदेव तरुतलम्, स एव पत्रास्तरः ममाभूत् ।
विभावरी च व्ययासीत् ।
अभूच्च मे मनसि किमयं स्वप्नः किं विप्रलम्भो वा, किमियमासुरी दैवी वा कापि माया ।
यद्भावि तद्भवतु ।
नाहमिदं तत्त्वतो नावबुध्यमोक्ष्यामि भूमिशय्यां ।
यावदायुरत्रत्यायै देवतायै प्रतिशयितो भवामिऽ इति निश्चितमतिरतिष्ठं ।
अथाविर्भूय कापि रविकराभितप्तकुवलयदामतान्ताङ्गयष्टिः, क्लिष्टनिवसनोत्तरीया, निरलक्तकरूक्षपाटलेन निःश्वासोष्मजर्जरितत्विषा दन्तच्छदेन वमन्तीव कपिलधूमधूम्रं विरहानलम्, अनवरतसलिलधाराविसर्जनाद्रुधिरावशेषमिव लोहिततरं द्वितयमक्ष्णोरुद्वहन्ती, कुलचारित्रबन्धनपाशविभ्रमेणैकवेणीभूतेन केशपाशेन, नीलांशुकचीरचूडिकापरिवृता पतिव्रतापताकेव संचरन्ती, क्षामक्षामापि देवतानुभावादनतिक्षीणवर्मऽवकाशा सीमन्तिनी, प्रणिपतन्तं मां प्रहर्षेत्कम्पितेन भुजलताद्वयेनोत्थाप्य पुत्रवत्परिष्वज्य शिरस्युपघ्राय वात्सल्यमिव स्तनयुगलेन स्तन्यच्छलात्प्रक्षरन्ती, शिशिरेणाश्रुणा निरुद्वकण्ठी स्नेहगद्गदं व्याहार्षीत्--"वत्स, यदि वः कथितवती मगधराजमहिषी वसुमती मम हस्ते वालमर्थपालं निधाय कथां च काञ्चिदात्मभर्तृपुत्रसखीजनानुबद्धां राजराजप्रवर्तितां कृत्वान्तर्धानमगादात्मजा मण्भद्रस्येतिऽ साहमस्मि वो जननी ।
पितुर्वो धर्मपालसूनोः सुमन्त्रानुजस्य कामपालस्य पादमूलान्निष्कारणकोपकलुषिताशया प्रोष्यानुशयविधुरा स्वप्ने केनापि रक्षोरुपेणोपेत्य शप्तास्मि--"चण्डिकायां त्वयिवर्षमात्रं वसामि प्रवासदुःखायऽ इति व्रुवतैवाहमाविष्टा प्राबुध्ये ।
गतं च तद्वर्षं वर्षसहस्रदीर्घं ।
अतीतायां तु यामिन्यां देवदेवस्य त्र्यम्बकस्य श्रावस्त्यामुत्सवसमाजमनुभूय बन्धुजनं च स्थानस्थानेभ्यः संनिपातितमभिसमीक्ष्य मुक्तशापापत्युः पार्श्वमभिसरामीति प्रस्थितायामेव मयि, त्वमत्राभ्युपेत्य "प्रतिपन्नोऽस्मिशरणमिहत्यां देवताम्ऽ इति प्रसुप्तोऽसि ।
एवं शापदुःखाविष्टया तु मया तदा न तत्त्वतः परिच्छिन्नो भवानपि तु शरणागतस्त्वविरलप्रमादायामस्यां महाटव्यामयुक्तं परित्यज्य गन्तुमिति मया त्वमपि स्वपन्नेवासि नीतः ।
प्रत्यासन्ने च तस्मिन्देवगृहे पुनरचिन्तयम्--"कथमिह तरुणेनानेन सह समाजं गमिष्यामिऽ इति ।
अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनाम्नो धर्मवर्धनस्य कन्यां नवमालिकां घर्मकालसुभगे कन्यापुरविमानहर्म्यतले विशालक्ॐअलतलं शय्यातलमधिशयानां यदृच्छयोपलभ्य "दिष्ट्येयं सुप्ता, परिजनश्च गाढनिद्रः ।
शेतामयमत्र मुहूर्तमात्रं ब्राह्मणकुमारो यावत्कृतकृत्या निवर्तेयऽ इति त्वां तत्र शाययित्वा तमुद्देशमगमं ।
दृष्ट्वा चोत्सवश्रियम्, निर्विश्य च स्वजनदर्शनसुखमभिवाद्य च त्रिभुवनेश्वरमात्मालीकपरत्याकलनोपारूढसाध्वसं च नमस्कृत्य भक्तिप्रणतहृदयां भगवतीम्बिकाम्, तया गिरिदुहित्रा देव्या सस्मितं अयि भद्रे, मा भैषीः ।
भवेदानीं भर्तृषार्श्वगामिनी ।
गतस्ते शापःऽ इत्यनुगृहीता सद्य एव प्रत्यापन्नमहिमा प्रतिनिवृत्त्य दृष्ट्वैव त्वां यथावदभ्यजानाम्--"कथं मत्सुत एवायं वत्सस्यार्थपालस्य प्राणभूतः सखा प्रमतिरिति पापया मयास्मिन्नज्ञानादौदासीन्यमाचरितं ।
अपि चायमस्यामासक्तभावः ।
कन्या चैनं कामयते ।
युवानं ।
उभौ चेमौ लक्षसुप्तौ त्रपया साध्वसेन वान्योन्यमात्मानं न विवृण्वाते ।
गन्तव्यं च मया ।
कामाघ्रातयाप्यनया कन्यया रहस्यरक्षणाय न समाभाषितः सखीजनः परिजनो वा ।
नयामि तावत्कुमारं ।
पुनरपीममर्थं लब्धलक्षो यथोपपन्नैरुपायैः साधयिष्यतिऽ इति मत्प्रभावप्रस्वापितं भवन्तमेतदेव पत्रशयनं प्रत्यनैषं ।
एवमिदं वृत्तं ।
"एषा चाहं पितुस्ते पादमूलं प्रत्युपसर्पेयम्ऽ इति प्राञ्जलिं मां भूयोभूयः परिष्वज्य शिरस्युपाघ्राय कपोलयोश्चुम्बित्वा स्नेहविह्वलागतासीत् ।
अहं च पञ्चबाणवश्यः श्रावस्तीमभ्यवर्तिषि ।
मार्गे च महति निगमे नैगमानां ताम्रचूडनुद्धकोलाहलो महानासीत् ।
अहं च तत्र संनिहितः किञ्चिदस्मेषि ।
संनिधिनिषण्णस्तु मे वृद्धविटः कोऽपि ब्राह्मणछ शनकैः स्मतहतेमपृच्छत् ।
अव्रवं च-"कथमिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैरसमक्ष्यि बलाकाजातिस्ताम्रचूडो बलप्रमाणाधिकस्यैवं प्रतिविसृष्टःऽ इति ।
सोऽपि तज्ज्ञः"किमज्ञैरेभिर्व्युत्पादितैः ।
तूष्णीमास्स्वऽइत्युपहस्तिकायास्ताम्बूलं कर्पूरसहितमुद्धृत्य मह्यं दत्त्वा चित्राः कथा कथयन्क्षणमतिष्ठत् ।
प्रायुध्यत चातिसंरब्धमनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयं ।
जितश्चासौ प्रतीच्यवाटकुक्कुटः ।
सोऽपि विटः स्ववाटकुक्कुटविजयहृष्टः, मयि वयोविरुद्धं सख्यमुपेत्य तदहरेव स्वगृहे स्नानभोजनादि कारयित्वोत्तरेद्युः क्षावस्तीं प्रति यान्तं मामनुगम्य "स्मर्तव्योऽस्मि सत्यर्थेऽ इति मित्रवद्विसृज्य प्रत्ययासीत् ।
अहं च गत्वा श्रावस्तीमध्वश्रान्तो बाह्मोद्याने लतामण्डपे शयितोऽस्मि ।
हंसरवप्रबोधितश्चोत्थाय कामपि क्वणितनूपुरमुखराभ्यां चरणाभ्यां मदन्तिकमुपसन्तीं युवतीमद्राक्षं ।
सा त्वागत्य स्वहस्तवर्तिनि चित्रपटे लिखितं मत्सदृशं कमपि पुंरूपं मां च पर्यायेण निर्वर्णयन्ती सविस्मयं सवितर्कं सहर्षं च क्षणमवातिष्ठत् ।
मयापि तत्र चित्रपटे मत्सादृश्यं पश्यता तद्दृष्टिचेष्टितमनाकस्मिकं मन्यमानेन "ननु सर्वसाधारणोऽयंरमणीयः पुण्यारामभूमिभागः ।
किमिति चिरस्थितिक्लेशोऽनुभूयते ।
ननूपवेष्टव्यम्ऽ इत्यभिहिता सा सस्मितं "अनुगृहीतास्मिऽ इति न्यपीदत् ।
संकथा च देशवार्तानुविद्धा काचनावयोरभूत् ।
कथासंश्रिता च सा "देशातिथिरसि ।
दृश्यन्ते च तेऽध्वश्रान्तानीव गात्राणि ।
यदि न दोषो मद्गृहेऽद्य विश्रमितुमनुग्रहः क्रियताम्ऽ इत्यसंसत् ।
अहं च "अयि मुग्धे, नैष दोषः, गुण एवऽ इति तदनुमार्गगामी तद्गृहगतो राजार्हेण स्नानभोजनादिनोपचरितः, सुखं निषण्णो रहसि पर्यपृच्छ्ये-महाभाग, दिगन्तराणि भ्रमता कच्चिदस्ति किञ्चिदद्भुतं भवतोपलब्धम्ऽ इति ।
ममाभवन्मनसि "महदिदमाशास्पदं ।
एषा खलु निखिलपरिजनसंबाधसंलक्षितायाः सखी राजदारिकायाः ।
चित्रपटे चास्मिन्नपि तदुपरि विरचितसितवितानं हर्म्यतलम्, तद्गतं च प्रकामविस्तीर्णं शरदभ्रपटलपाण्डुरं शयनम्, तदधिशायिनी च निद्रालीढलोचना ममैवेयं प्रतिकृतिः अतो नूनमनङ्गेन सापि राजकन्या तावतीं भूमिमारोपिता ।
यस्यामसह्यमदनज्वरव्यथितोन्मादिता सती सखीनर्बन्धपृष्टविक्रियानिमित्ता चातुर्येणैतद्रूपनिर्माणेनैव समर्थमुत्तरं दत्तवती ।
रूपसंवादाच्च संशयादनया पृष्टो भिन्द्यामस्याः संशयं यथानुभवकथनेनऽ इति जातनिश्चयोऽब्रवम्-"भद्रे, देहि चित्रपटम्ऽ इति ।
सा त्वर्पितवती मद्धस्ते ।
पुनस्तमादाय तामपि व्याजसुप्तामुल्लसन्मदनरागविह्वलां वल्लभां तत्रैवाभिलिख्य "काचिदेवंभूता युवतिरीदृशस्य पुंसः पार्श्वशायिन्यरण्यानीप्रसुप्तेन मयोपलब्धा ।
किलैष स्वप्नःऽ इत्यालपं च ।
हृष्टया तु तया विस्तरतः पृष्टः सर्वमेव वृत्तान्तमकथयं ।
असौ च सख्या मन्निमित्तान्यवस्थान्तराण्यवर्णयत् ।
तदाकर्ण्य च यदि तत्र सख्या मदनुग्रहोन्मुखं मानसं ।
गमय कानिचिदहानि ।
कमपि कन्यापुरे निराशङ्कनिवासकरणमुपायमारचय्यागमिष्यामिऽ इति कथञ्चिदेनामभ्युपगमय्य गत्वा तदेव खर्वटं वृद्धविटेन समगंसि ।
ससंभ्रमं सोऽपि विश्रमय्य तथैव स्नानभोजनादि कारयित्वा रहस्यपृच्छम्-"आर्य, कस्य हेतोरचिरेणैवप्रत्यागतोऽसिऽ ।
प्रत्यवादिषमेनम्-"स्थान एवाहमार्येणास्मि पृष्टः ।
श्रूयतां ।
अस्ति हि श्रावस्तीनाम नगरी ।
तस्याः पतिरपर इव धर्मपुत्रो धर्मवर्धनो नाम राजा ।
तस्य दुहिता, प्रत्यादेश इव श्रियः, प्राणा इव कुसुमधन्वनः सौकुमार्याविडम्बितनवमालिका, नवमालिका नाम कन्यका ।
सा मया समापत्तिदृष्टा कामनाराचपङ्क्तिमिव कटाक्षमालां मम मर्मणि व्यकिरत् ।
तच्छल्योद्धरणाक्षमश्च धन्वन्तरिसदृशस्त्वदृते नेतरोऽस्ति वैद्य इति प्रत्यागतोऽस्मि ।
तत्प्रसीद कञ्चिदुपायमाचरितुं ।
अयमहं परिवर्तितस्त्रीवेषस्ते कन्या नाम भवेयं ।
अनुगतश्च मया त्वमुपगम्य धर्मासनगतं धर्मवर्धनं वक्ष्यसि--"ममेयमेकैव दुहिता ।
जातमात्रायां त्वस्यां जनन्यस्याः संस्थिता ।
माता च पिता च भूत्वाहमेव व्यवर्धयं ।
एतदर्थमेव विद्यामयं शुल्कमर्जितुं गतोऽबूदवन्तिनगरीमज्जयिनीमस्मद्वैवाह्यकुलजः कोऽपि विप्रदारकः ।
तस्मै चेयमनुमता दातुमितरस्मै न योग्या ।
तरुणीभूता चेयं ।
स च विलम्बितः ।
तेन तमानीय पाणिमस्या ग्राहयित्वा तस्मिन्न्यस्तभारः संन्यसिष्ये ।
दुरभिरक्षतया तु दुहित्éणां मुक्तशैशवानाम्, विशेषतश्चामातृकाणाम्, इह देवं मातृपितृस्थानीयं प्रजानामापन्नशरणमागतोऽस्मि ।
यदि वृद्धं ब्राह्मणमधीतिनमगतिमतिथिं च मामनुग्राह्यपक्षे गणयत्यादिराजचरितधुयो देवः, सैषा भवद्भुजतरुच्छायामखण्डितचारित्रा तावदध्यास्तां यावदस्याः पाणिग्राहकमानयेयम्ऽ इति ।
स एवमुक्तो नियतमभिमनायमानः स्वदुहितृसंनिधौ मां वासयिष्यति ।
गतस्तु भवानागामिनि मासि फाल्गुने फल्गुनीषूत्तरासु राजान्तःपुरजनस्य तीर्थयात्रोत्सवो भविष्यति ।
तीर्थस्थानात्प्राच्यां दिशिगोरुतान्तरमतिक्रम्य, वानीरवलयमध्यवर्तिनि कार्त्तिकेयगृहे करतलगतेन शुक्लाम्बरयुगलेन स्थास्यसि ।
स खल्वहमनभिशङ्क एवैतावन्तं कालं सहाभिविहृत्य राजकन्यया भूयस्तस्मिन्नुत्सवे गङ्गाम्भसि विहरन्विहारव्याकुले कन्यकासमाजेमग्नोपसृतस्त्वदभ्याश एवोन्मङ्क्ष्यामि ।
पिनस्त्वदुपहृते वाससी परिधायापनीतदारिकावेषो जामाता नाम भूत्वा त्वामेवानुगच्छेयं ।
नृपात्मजा तु मामितस्ततोऽन्विष्यानासादयन्ती "तया विना न भोक्ष्येऽ इति रुदन्त्येवावरोधने स्थास्यति ।
तन्मूले च महति कोलाहले, क्रन्दत्सु परिजनेषु, रुदत्सु सखीजनेषु, शोचत्सु पौरजनेषु, किङ्कर्तव्यतामूढे सामात्ये पार्थिवे, त्वमास्थानीमेत्य मां स्थापयित्वा वक्ष्यसि-"देव, स एष मे जामाता तवार्हति श्रीभुजाराधनं ।
अधीति चतुर्ष्वाम्नायेषु, गृहीती षट्स्वङ्गेषु, आन्वीक्षिकीविचक्षणः, चतुःषष्टिकलागमप्रयोगचतुरः, विशेषेण गजरथतुरङ्गतन्त्रवित्, इष्वसनास्त्रकर्मणि गदायुद्धे च निरूपमः, पुराणेतिहासकुशलः, कर्ता काव्यनाटकाख्यायिकानाम्, वेत्ता सोपनिषदोर्ऽथशास्त्रस्य, निर्मत्सरो गुणेषु, विश्रम्भी सुहृत्सु, शक्लः, संविभागशीलः, श्रुतधरः, गतस्मयश्च ।
नास्य दोषमणीयांसमप्युपलभे ।
न च गुणेष्वविद्यमानं ।
तन्मादृशस्य ब्राह्मणमात्रस्य न लभ्य एव सम्बन्धी ।
दुहितरमस्मै समर्प्य बार्धकोचितमन्त्यमाश्रमं संक्रमेयम्, यदि देवः साधु मन्यतेऽ इति ।
स इदमाकर्ण्य वैवर्ण्याक्रान्तवक्रः परमुपेतो वैलक्ष्यमारप्स्यतेऽनुनेतुमनित्यतादिसंकीर्तनेनैत्रभवन्तं मन्त्रिभिः सह ।
त्वं तु तेषामदत्तश्रोत्रो मुक्तकण्ठं रुदित्वा चिरस्य बाप्पाकुण्ठकण्ठः काष्ठान्याहृत्याग्निं संधुक्ष्य राजमन्दिरद्वारे चिताधिरोहणायोपक्रमिष्यसे ।
स तावदेव त्वत्पादयोर्निपत्य सामात्यो नरपतिरनूनैर्थैस्त्वामुपच्छन्द्य दुहितरं मह्यं दत्त्वा मद्योग्यतासमाराधितः समस्तमेव राज्यभारं मयि समर्पयिष्यति ।
सोऽयमभ्युपायोऽनुष्ठेयो यदि तुभ्यं रोचतेऽ इति ।
सोऽपि पटुर्विटानामग्रणीरसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं च निपुणमुपक्रान्तवान् ।
आसीच्च मम समीहितानामहीनकालसिद्धिः ।
अन्वभवं च मधुकर इव नवमालिकामार्द्रसुमनसं ।
अस्य राज्ञः सिंहवर्मणः साहाय्यदानं सुहृत्संकेतभूमिगमनमित्युभयमपेक्ष्य सर्वबलसंदोहेन चम्पामिमामुपगतो दैवाद्देवदर्शनसुखमनुभवामिऽ इति ।
श्रुत्वैततप्रमतिचरितं स्मितमुकुलितमुखनलिनः विलासप्रायमूर्जितम्, मृदुप्रायं चेष्टितम्, इष्ट एष मार्गः प्रज्ञावतां ।
"अथेदानीमत्रभवान्प्रविशतुऽ इति मित्रगुप्तमैक्षत क्षितीशपुत्रः ।। २,५ ।।

इति श्रीदण्डिनः कृतौ दशकुमारचरितं नाम पञ्चम उच्छ्वासः