प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दशकुमारचरितम्/उत्तरपीटिका/षष्ठोच्छ्वासः

< दशकुमारचरितम्‎ | उत्तरपीटिका
← पञ्चमोच्छ्वासः दशकुमारचरितम्
षष्ठोच्छ्वासः
दण्डिनः
सप्तमोच्छ्वासः →

सोऽप्याचचक्षे-देव, सोऽहमपि सुहृत्साधारणभ्रमणकारणः सुह्मेषु दामलिप्ताह्वयस्य नगरस्य बाह्मोद्याने महान्तमुत्सवसमाजमालोकयं ।
तत्र क्वचिदतिमुक्तकलतामण्डपे कमपि वीणावादेनात्मानं विनोदयन्तमुत्कण्ठितं युवानमद्राक्षं ।
अप्राक्षं च-"भद्र, को नामायमुत्सवः, किमर्थं वा समारब्धः, "केन वा निमित्तेनोत्सवमनादृत्यैकान्ते भवानुत्कण्ठित इव परिवादिनीद्वितीयस्तिष्ठतिऽ इति ।
सोऽभ्यधत्त-"स्ॐय, सुह्यपतिस्तुङ्गधन्वनामानपत्यः पार्थितवानमुष्मिन्नायतने विस्मृतविन्ध्यवासरागं वसन्त्या विन्ध्यवासिन्याः पादमूलादपत्यद्वयम्ऽ ।
अनया च किलास्मै प्रतिशयिताय स्वप्ने समादिष्टम्-"समुत्पत्स्यते तवैकः पुत्रः, जनिष्यते चैका दुहिता ।
स तु तस्याः पाणिग्राहकमनुजीविष्यति ।
सा तु सप्तमाद्वर्षादरभ्यापरिणयनात्प्रतिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु ।
यं चाभिलषेत्सामुष्मै देया ।
स चोत्सवः कन्दुकोत्सवनामास्तुऽ इति ।
ततोऽल्पीयसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रमसूत ।
समुत्पन्ना चैका दुहिता ।
साद्य नाम कन्या कन्दुकावती स्ॐआपीडां देवीं कन्दुकविहारेणाराधयिष्यति ।
तस्यास्तु सखी चन्द्रसेना नाम धात्रेयिका मम प्रियासीत् ।
सा चैषु दिवसेषु राजपुत्रेण भीमधन्वना बलवदनुरुद्धा ।
तदहमुत्कण्ठितो मन्मथशरशल्यदुः खोद्विग्नचेताः कलेन वीणारवेमात्मानं किञ्चिदाश्वासयन्विविक्तमध्यासेऽ इति ।
अस्मिन्नेव च क्षणे किमपि नूपुरक्वणितमुपातिष्ठत् ।
आगता च काचिदङ्गना दृष्टैव स एनामुत्फुल्लदृष्टिरुत्थायोपगूढकण्ठश्च तया तत्रैवोपाविशत् ।
अशंसच्च-"सैषा मे प्राणसमा, यद्विरहो दहन इव दहति मां ।
इदं च मे जीवितमपहरता राजपुत्रेण मृत्युनेव निरुष्मतां नीतः ।
न च शक्ष्यामि राजसूनुरित्यमुष्मिन्पापमाचरितुं ।
अतोऽनयात्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि निष्प्रतिक्रियान्प्राणान्ऽ इति ।
सा तु पर्यश्रुमुखी समभ्यधात्-"मा स्म नाथ, मत्कृतेऽध्यवस्यः साहसं ।
यस्त्वमुत्तमात्सार्थवाहादर्थदासादुत्पद्य कोशदास इति गुरुभिरभिहितनामधेयः पुनर्मदत्यासङ्गाद्वेशदास इति द्विषद्भिः प्रख्यापितोऽसु, तस्मिंस्त्वय्युपरते यद्यहं जीवेयं नृशंसो वेश इति समर्थयेयं लोकवादं ।
अतोऽद्यैव नय मामीप्सितं देशम्ऽ इति ।
स तु मामभ्यधत्त-"भद्र, भवद्दृष्टेषु राष्ट्रेषु कतमत्समृद्धं संपन्नसस्यं सत्पुरुषभूयिष्टं चऽ इति ।
तमहमीषद्विहस्याब्रवम्-"भद्र, विस्तीर्णेयमर्णवाम्बरा ।
न पर्यन्तोऽस्ति स्थानस्थानेषु रम्याणां जनपदानां ।
अपितु न चेहिदे युवयोः सुखनिवासकारणं कमष्युपायमुत्पादयितुं शक्नुयां ।
ततोऽहमेव भवेयमध्वदर्शी ।
तावतोदैरत रणितानि मणिनूपुराणां ।
अथासौ जातसंभ्रमा "प्राप्तैवेयं भर्तृदारिका कन्दुकावती कन्दुकक्रीडितेन देवीं विन्ध्यवासिनीमाराधयितुं ।
अनिषिद्धदर्शना चेयमस्मिन्कन्दुकोत्सवे ।
सफलमस्तु युष्मच्चक्षुः ।
आगच्छतं द्रष्टुं ।
अहमस्याः सकाशवर्तिनी भवेयम्ऽ इत्ययासीत् ।
तामन्वयाव चावां ।
महति रत्नरङ्गपीठे स्थितां प्रथमं ताम्रोष्ठीमपश्यं ।
अतिष्ठच्च सा सद्य एव मम हृदये ।
न मयान्येन वान्तराले दृष्टा ।
चित्रीयाविष्ठचित्तश्चाचिन्तयम्-"किमियं लक्ष्मीः ।
नहि नहि ।
तस्याः किल हस्ते विन्यस्तं कमलम्, अस्यास्तु हस्त एव कमलं ।
अभुक्तपूर्वा चासौ पुरातनेन पुंसा पूर्वराजैश्च, अस्याः पुनरनवद्यमयातयामं च यौवनम्ऽ इति चिन्तयत्येव मयि, सानघसर्वगात्री व्यत्यस्तहस्तपल्लवाग्रस्पृष्टभूमिरालोलनीलकुटिलालका सविभ्रमं भगवतीमभिवन्द्य कन्दुकममन्दरागरूषिताक्षमनङ्गमिवालम्बत ।
लीलाशिथिलं च भूमौ मुक्तवती ।
मन्दोत्थितं च किञ्चित्कुञ्चिताङ्गुष्ठेन प्रसृतक्ॐअलाङ्गुलिना पाणिपल्लवेन समाहतय हस्तपृष्टेन चोन्नीय, चटुलदृष्टिलाञ्छतं स्तबकमिव भ्रमरमालानुविद्धमवपतन्तमाकाश एवाग्रहीत् ।
अमुञ्चच्च ।
मध्यविलम्बितद्रुतलये मृदुमुदु च प्रहरन्ती तत्क्षणं चूर्णपदमदर्शयत् ।
प्रशान्तं च तं निर्दयप्रहारैरुदपातयत् ।
विपर्ययेण च प्राशमयत् ।
पक्षमृज्वागतं च वामदक्षिणाभ्यां कराभ्यां पर्यायेणाभिघ्नती शकुन्तमिवोदस्थापयत् ।
दूरोत्थितं च प्रपतन्तमाहृत्य गीतमार्गमारचयत् ।
प्रतिदिशं च गमयित्वा प्रत्यागमयत् ।
एवमनेककरणमधुरं विहरन्ती रङ्गगतस्य रक्तचेतसो जनस्य प्रतिक्षणमुच्चावचाः प्रशंसावाचः प्रतिगृह्णती, प्रतिक्षणारूढविभ्रमं कोशदासमंसेऽवलम्ब्य कण्टकितगण्डमुत्फुल्लेक्षणं च मय्यभिमुखीभूय तिष्ठति तत्प्रथमावतीर्णकन्दर्पकारितकटाक्षदृष्टिस्तदनुमार्गविलसितलीलाञ्चितभ्रूलता, श्वासानिलवेगान्दोलितैर्दन्तच्छदरश्मिजालैर्लीलापल्लवैरिव मुखकमलपरिमलग्रहणलोलानलिनस्ताडयन्ती, मण्डलभ्रमणेषु कन्दुकस्यातिशीघ्रप्रचारतया विशन्तीव मद्दर्शनलज्जया पुष्पमय पञ्जरम्, पञ्चबिन्दुप्रसृतेषु पञ्चापि पञ्चबाणबाणऽन्युगपदिवाभिपततस्त्रासेनावघट्टयन्ती, ग्ॐऊत्रिकाप्रचारषु घनदर्शितरागविभ्रमा विद्युल्लतामिव विडम्बयन्ती, भूषणमणिरणितदत्तलसंवादिपादचारम्, अपदेशस्मितप्रभानिषिक्तबिम्बाधरम्, अंसस्रंसितप्रतिसमाहितशिखण्ढभारम्, समाघट्टितक्वणितरत्नमेखलागुणम्, अञ्चितोत्थितपृथुनितम्बविलम्बितविचलदंशुकोज्ज्वलम्, आकुञ्चितप्रसृतवेल्लितभुजलताभिहतललितकन्दुकम्, आवर्जितबाहुपाशम्, उपरिपरिवर्तितत्रिकविलग्नलोलकुन्तलम्, अवगलितकर्णपूरकनकपत्रप्रतिसमाधानशीघ्रतानतिक्रमितप्रकृतक्रीडनम्, असकृदुत्क्षिष्यमाणहस्तपादबाह्माभ्यन्तरभ्रान्तकन्दुकम्, अवनमनोन्नमननैरन्तर्यनष्टदृष्टमध्ययष्टिकम्, अवपतनोत्पतननिर्व्यवस्थमुक्ताहारम्, अङ्कुरितघर्मसलिलदूषितकपोलपत्रभङ्गशोषणाधिकृतश्रवणपल्लवानिलम्, आगलितस्तनतटांशुकनियमनव्यापृतैकपाणिपल्लवं च निषद्योत्थाय निमील्योन्मील्य स्थित्वा गत्वा चैवातिचित्रं पर्यक्रीडत राजकन्या ।
अभिहत्य भूतलाकाशयोरपि क्रीजान्तराणि दर्शनीयान्येकेनैव वानेकेनैव कन्दुकेनादर्शयत् ।
चन्द्रसेनादिभिश्च प्रियसखीभिः सह विहृत्य विहृतान्ते चाभिवन्द्य देवीं मनसा मे सानुरागेणेव परिजनेनानुगम्यमाना, कुवलयशरमिव कुसुमशरस्य मय्यपाङ्गं समर्पयन्ती, सापदेशमसकृदार्त्यमानवदनचन्द्रमण्डलतया स्वहृदयमिव मत्समीपे प्रेरितं प्रतिनिवृत्तं न वेत्यालोकयन्ती, सह सखीभिः कुमारीपुरमगमत् ।
अहं चानङ्गविह्वलः स्ववेश्म गत्वा कोशदासेन यत्नवदत्युदारं स्नानभोजनादिकमनुभावितोऽस्मि ।
सायं चोपसृत्य चन्द्रसेना रहसि मां प्रणिपत्य पत्युरंसमंसेन प्रणयपेशलमाघट्टयन्त्युपाविशत् ।
आचष्ट च हृष्टः कोशदासः-"भूयासमेवं यावदायुरायताक्षि, त्वत्प्रसादस्य पात्रम्ऽ इति ।
मया तु सस्मितमभिहितम्--"सखे, किमेतदाशास्यं ।
अस्ति किञ्चिदञ्जनं ।
अनया तदक्तनेत्रया राजसूनुरुपस्थितो वानरीमिवैनां द्रक्ष्यति, विरुक्तश्चैनां पुनस्त्यक्ष्यतिऽ इति ।
तया तु स्मेरयास्मि कथितः-"सोऽयमार्येणाज्ञाकरो जनोऽत्यर्थमनुगृहीतः, यदस्मिन्मन्नेव जन्मनि मानुषं वपुरपनीय वानरीकरिष्यते ।
तदास्तामिदं ।
अन्यथापि सिद्धं नः समीहितं ।
अद्य खलु कन्दुकोत्सवे भवन्तमपहसितमनोभवाकारमभिलषन्ती रोषादिव शम्बरद्विषातिमात्रमायास्यते राजपुत्री ।
सोऽयमर्थो विदितभावया मया स्वमात्रे तया च तन्मात्रे, महिष्या च मनुजेन्द्राय, निवेदयिष्यते ।
विदितार्थस्तु पार्थिवस्त्वया दुहितुः पाणिं ग्राहयिष्यति ।
ततश्च त्वदनुजीविना राजपुत्रेण भवितव्यं ।
एष हि देवतासमादिष्टो विधिः ।
त्वदायत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा ।
तत्सहतामयं त्रिचतुराणि दिनानिऽ इति मामामन्त्र्य प्रियं चोपगूह्य प्रत्ययासीत् ।
मम च कोशदासस्य च तदुक्तानुसारेण बहुविकल्पयतोः कथञ्चिदक्षीयत क्षपा ।
क्षपान्ते च कृतयथोचितनियमस्तमेव प्रियादर्शनसुभगमुद्यानोद्देशमुपागतोऽस्मि ।
तत्रैव चोपसृत्य राजपुत्रो निरभिमानमनुकूलाभिः कथाभिर्मामनुवर्तमानो मुहूर्तमास्त ।
नीत्वा चोपकार्यामात्मसमेन स्नानबोजनशयनादिव्यतिकरेणोपाचरं ।
तल्पगतं च स्वप्नेनानुभूयमानप्रियादर्शनालिङ्गनसुखमायसेन निगडेनातिबलवद्बहुपुरुषैः पीवरभुजदण्डोपरुद्धमबन्धयन्मां ।
प्रतिबुद्धं च सहसा समभ्यधात्--"अयि दुर्मते, श्रुतमालपितं हतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं तच्चेष्टावबोधप्रयुक्तयानया कुब्जया त्वं किलाभिलषितो वराक्या कन्दुकावत्या तव किलानुजीविना मया स्थधेयम्, त्वद्वचः किलानतिक्रमता मया चन्द्रसेना कोशदासाय दास्यतेऽ इत्युक्त्वा पार्श्वचरं पुरुषमेकमालोक्याकथयत्--"प्रक्षिपैनं सागरेऽ इति ।
स तु लब्धराज्य इवातिहृष्टः "देव, यदाज्ञापयसिऽ इति यथादिष्टमकरोत् ।
अहं तु निरालम्बनो भुजाभ्यामितस्ततः स्पन्दमानः किमपि काष्टं दैवदत्तमुरसोपश्लिष्य तावदप्लोषि, यावदपासरद्वासरः शर्वरी च सर्वा ।
प्रत्युषस्यदृस्यत किमपि वहित्रं ।
अमुत्रासन्यवनाः ते मामुद्धृत्य रामेषुनाम्रे नाविकानायकाय कथितवन्तः-"कोऽष्ययमायसनिगलबद्ध एव जले लब्धः पुरुषः ।
सोऽयमपि सिञ्चेत्सहसरं द्राक्षाणां क्षणेनैकेनऽ इति ।
अस्मिन्नेव क्षणे नैकनौकापरिवृतः कोऽपि मद्गुरभ्यधावत् ।
अभिभयुर्यवनाः ।
तावदतिजवानौकाः श्वान इव वराहमस्मत्पोतं पर्यरुत्सत ।
प्रावर्तत संप्रहारः ।
पराजयिषत यवनाः ।
तानहमगतीनवसीदतः समाश्वास्यालपिषम्-"अपनयत मे निगलबन्धनं ।
अयमहमवसादयामि वः सपत्नान्ऽ इति ।
अमी तथाकुर्वन्सर्वांश्च तान्प्रतिभटान्भल्लवर्षिणा भीमटङ्कृतेन शार्ङ्गेण लवलवीकृताङ्गानकार्षं ।
अवप्लुत्य हतविध्वस्तयोधमस्मत्पोतसंसक्तपोतममुत्र नाविकनायकमनभिसरमभिपत्य जीवग्राहमग्रहीषं ।
असौ चासीत्स एव भीमधन्वा ।
तं चाहमवबुध्य जातव्रीडमब्रवम्-"तात, किं दृष्टानि कृतान्तविलसितानिऽ इति ।
ते तु सांयात्रिका मदीयेनैव शृङ्खलेन तमतिगाढं बद्ध्वा हर्षिकलकिलारवमकुर्वन्मां चापूजयन् ।
दुर्वारा तु सा नौरननुकूलवातनुन्ना दूरमभिपत्य कमपि द्वीपं निबिढमाश्लिष्टवती ।
तत्र च स्वादु पानीयमेधांसि कन्दमूलफलानि संजिघृक्षवो गाढपातितशिलावलयमबातराम ।
तत्र चसीन्महाशैलः ।
सोऽहं "अहो रमणीयोऽयं पर्वतनितम्बभागः, कान्ततरेयं गन्धपाषाणवत्युपत्यका, शिशिरमिदमिन्दीवरारविन्दमकरन्दबिन्दुचन्द्रकोत्तरं गोत्रवारि, रम्योऽयमनेकवर्णकुसुममञ्जरीभरस्तरुवनाभोगःऽ इत्यतृप्ततरया दृशा बहुबहु पश्यन्नलक्षिताध्यारूढक्षोणीधरशिखरः शोणीभूतमुत्प्रभाभिः पद्मरागसोपानशिलाभिः किमपि नालीकपरागधूसरं सरः समध्यगां ।
स्नातश्च कांश्चिदमृतस्वादून्बिसभङ्गानास्वाद्य, अंसलग्नकह्लारस्तीरवर्तिना केनापि भीमरूपेण ब्रह्माराक्षसेनाभिपत्य "कोऽसि, कुतस्त्योऽसिऽ इति निर्भर्त्सयताभ्यधीये ।
निर्भयेन च मया सोऽब्यधीयत-"स्ॐय, सोऽहमस्मि द्विजन्मा ।
शुत्रहस्तादर्णवम्, अर्णवाद्यवननावम्, यवननावश्चित्रग्रावाणमेनं पर्वतप्रवरं गतः, यदृच्छयास्मिन्सरसि विश्रान्तः, भद्रं तवऽ इति ।
सोऽब्रूत-"न चेद्ब्रवीषि प्रश्नान्, अश्नामित्वाम्ऽ इति ।
मयोक्तम्-"पृच्छ तावत् ।
भवतुऽ इति ।
अथावयोरेकयार्ययासीत्संलापः- "किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियहिताय दारगुणाः ।
कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ।।
तत्र धूमिनीग्ॐइनीनिम्बवतीनितम्बवत्यः प्रामाणम्ऽ इत्युपदिष्टो मया सोऽब्रूत-"कथय, कीदृश्यस्ताःऽ इति ।
अत्रोदाहरणम्-"अस्ति त्रिगर्तो नाम जनपदः ।
तत्रासन्गृहिणस्त्रयःऽ स्फीतसारधनाः सोदर्या धनकधान्यकधन्यकाख्याः ।
तेषु जीवत्सु न ववर्ष वर्षाणि द्वादश दशशताक्षः, क्षीणसारं सस्यम्, ओषध्यो बन्ध्याः, न फलवन्तो वनस्पतयः, क्लीवा मेधाः क्षीणस्रोतसः स्रवन्त्यः, पङ्कशेषाणि पल्वलानि, निर्निस्यन्दान्युत्समण्डलानि, विरलीभूतं कन्दमूलफलम्, अवहीनाः कथाः, गलिताः कल्याणोत्सवक्रियाः, बहुलीभूतानि तस्करकुलानि, अन्योन्यमभक्षयन्प्रजाः, पर्यलुठन्नितस्ततो बलाकापाण्डुराणि नरशिरःकपालानि, पर्यहिण्डन्त शुष्काः काकमण्डल्यः, शून्यीभूतानि नगरग्रामखर्वटपुटभेदनादीनि ।
त एते गृहपतयः सर्वधान्यनिचयमुपयुज्याजाविकटं गवलगणं गवां वृथं दासीदासजनमपत्यानि ज्येष्ठमध्यमभार्ये च क्रमेण भयित्वा "कनिष्ठभार्या धूमिना श्वो भक्षणीयाऽ इति समकल्पयन् ।
अथ कनिष्ठो धन्यकः प्रियां स्वामत्तुमक्षमस्तया सह तस्यामेव निश्यपासरत् ।
मार्गक्लान्तां चोद्वहन्वनं जगाहे ।
स्वमांसासृगपनीतक्षुत्पिपासां तां नयन्नन्तरे कमपि निकृत्तपाणिपादकर्णनासिकमवनिपृष्टे विचेष्टमानं पुरुषमद्राक्षीत् ।
तमप्यार्द्राशयः स्कन्धेनोद्वहन्कन्दमूलमृगबहुले गहनोद्देशे यत्नरचितपर्णशालश्चिरमवसत् ।
अमुं च रोपितव्रणमिगुदीतैलादिभिरामिषेण शाकेनात्मनिर्विशेषं पुपोष ।
पुष्टं च तमुद्रिक्तधातुमेकदामृगान्वेषणाय च प्रयाते धन्यके सा धूमिनी रिरंसयोपातिष्ठत ।
भर्त्सितापि तेन बलात्कारमरीरमत् ।
निवृत्तं च पतिमुदकाभ्यर्थिनं "उद्धृत्य कूपात्पिब, रुजाति मे शिरः शिरोरोगःऽ इत्युदञ्चनं सरज्जुं पुरश्चिक्षेप ।
उदञ्चयन्तं च तं कूपादपः, क्षणात्पृष्ठतो गत्वा प्रणुनोद ।
तं च विकलं स्कन्धेनोदुह्य देशाद्देशान्तरं परिभ्रमन्ती पतिव्रताप्रतीतिं लेभे, बहुविधाश्च पूजाः ।
पुनरवन्तिराजानुग्रहादतिमहत्या भूत्या न्यवसत् ।
अथ पानीयार्थिसार्थजनसमापत्तिदृष्टोद्धृतमवन्तिषु भ्रमन्तमाहारार्थिनं भर्तारमुपलभ्य सा धूमिनी येन मे पतिर्विकलीकृतः स दुरात्मायम्ऽ इति तस्य साधोश्चित्रवधमज्ञेन राज्ञा समादेशयाञ्चकार ।
धन्यकस्तु दत्तपश्चाद्बन्दो बध्यभूमिं नीयमानः सशेषत्वादायुषः "यो मया विकलीकृतोऽभिमतो भिक्षुः, स चेन्मे पापमाचक्षीत, युक्तो मे दण्डऽ इत्यदीनमधिकृतं जगाद ।
"को दोषःऽ इत्युपनीय दर्शितेऽमुष्मिन्स विकलः पर्यश्रुः पादपतितस्ततस्य सादोस्तत्सुकृतमसत्याश्च तस्यास्तथाभूतं दुश्चरितमार्यबुद्धिराचचक्षे ।
कुपितेन राज्ञा विरूपितमुखी सा दुष्कृतकारिमी कृता श्वभ्यः पाचिका ।
कृतश्च धन्यकः प्रसादभूमिः तद्ब्रवीमि-"स्त्रीहृदयं क्रूरम्ऽ इति ।
पिनरनुयुक्तो ग्ॐइनीवृत्तान्तमाख्यातवान्-"अस्ति द्रविडेषु काञ्चो नामनगरी ।
तस्यामनेककोटिसारः श्रेष्ठिपुत्रः शक्तिकुमारो नामासीत् ।
सोऽष्टादशवर्षदेशीयश्चिन्तामापेदे-"नास्त्यदाराणामनुगुणदाराणां वा सुखं नाम ।
तत्कथं नु गुणवद्विन्देयं कलत्रम्ऽ ति ।
अथ वरप्रत्ययाहृतेषु दारेषु यादृच्छिकीं संपत्तिमनभिसमीक्ष्य कार्तान्तिको नाम भूत्वा वस्त्रान्तपिनद्धशालिप्रस्थो भुवं बभ्राम ।
"लक्षणज्ञोऽयम्ऽ इत्यमुष्मै कन्याः कन्यावन्तः प्रदर्शयांबभूवुः ।
यां काचिल्लक्षणवतीं सवर्णां कन्यां दृष्ट्वा स किल स्म ब्रवीति-"भद्रे, शक्नोपि किमनेन शालिप्रस्थेन गुणवदन्नमस्मानभ्यवहारयितुम्ऽ इति ।
स हसितावधूतो गृहाद्गृहं प्रविश्याभ्रमत् ।
एकदा तु शिबिषु पट्टने सह पितृब्यामवसितमहर्धिमवशीर्णभवनसारां धात्र्या प्रदर्श्यमानां काचन विरलभूषणां कुमारीं ददर्श ।
अस्यां संसक्तचक्षुश्चातर्कयत्-"अस्याः खलु कन्यकायाः सर्व एवावयवा नातिस्थूला नातिकृशा नातिह्रस्वा नातिदीर्घा न विकटा मृजावन्तश्च ।
रक्ततलाङ्गुलीयवमत्स्यकमलकलशाद्यनेकपुण्यलेखालाञ्छितौ करौ, समगुल्फसंधी मांसलावशिरालौ चाङ्घ्री, जङ्घे चानुपूर्ववृत्ते, पीवरोरुग्रस्ते इव दुरुपलक्ष्ये जानुनी, सकृद्विभक्तश्चतुरस्रः ककुन्दरविभागशोभी रथाङ्गाकारसंस्थितश्च नितम्बभागः तनुतरमीषन्निम्नं गम्बीरं नाभिमण्डलम्, वलित्रयेण चालङ्कृतमुदरम्, उरोभागव्यापिनावुन्मग्नचूचुकौ विशालारम्भशोभिनौ पयोधरौ, धनधान्यपुत्रभूयस्त्वचिह्नलेखालाञ्छिततले स्निग्धोदग्रक्ॐअलनखमणी ऋज्वनुपूर्ववृत्तताम्राङ्गुली संन्नतांसदेशेसौकुमार्यवत्यौ निमग्नपर्वसंधी च बाहुलते, तन्वी कम्बुवृत्तबन्धुरा च कन्धरा, वृत्तमध्यविभक्तरागाधरम्, असंक्षिप्तचारुचिबुकम्, आपूर्णकठिनगण्डमण्डलम्, संगतानुवक्रनीलस्निग्धभ्रूलतम्, अनतिप्रौढतिलकुसुमसदृशनासिकम्, अत्यसितधवलरक्तत्रिभागभासुरमधुराधीरसंचारमन्थरायतेक्षणम्, इन्दुशकलसुन्दरललाटम्, इन्द्रनीलशिलाकाररम्यालकपङ्क्ति द्विगुणकुण्डलितम्लाननालीकनालललितलम्बश्रवणपाशयुगलमाननकमलम्, अनतिभङ्गुरो बहुलः पर्यन्तेऽप्यकपिलरुचिरायामवानेकैकनिसर्गसमस्निग्धनीलो गन्धग्राही च मूर्धजकलापः ।
सेयमाकृतिर्न व्यबिचरति शीलं ।
आसज्जति च मे हृदयमस्यामेव ।
तत्परीक्ष्यैनामुद्वहेयं ।
अविमृश्यकारिणां हि नियतमनेकाः पतन्त्यनुशयपरम्पराःऽ इति स्निग्धदृष्टिराचष्ट-"भद्रे, कच्चिदस्ति कौशलं शालिप्रस्थेनानेन संपन्नमाहारमस्मानभ्यबहारयितुम्ऽ इति ।
ततस्तया वृद्धदासी साकूतमालोकिता ।
तस्य हस्तात्प्रस्थमात्रं धान्यमादाय क्वचिदलिन्दोद्देशे सुसिक्तसंमृष्टे दत्तपादशौचमुपावेशयत् ।
साकन्या तान्गन्धशालीन्संक्षुद्य मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाया भूमौ नालीपृष्टेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार ।
जगाद च धात्रीम्-"मातः, एभिस्तुषैरर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः ।
जगाद च धात्रीम्-"मातः, एभिस्तुषैरर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः ।
तेभ्य इमान्दत्त्वा लब्धाभिः काकिणीभिः स्थिरतराण्यनत्यार्द्राणि नातिशुष्काणि काष्ठानि मितंपचां स्थालीमुभे शरावे चाहरऽ इति ।
तथाकृते तया तांस्तण्डुलाननतिनिम्नोत्तानविस्तीर्णकुक्षौ ककुभोलूखले लोहपत्रवेष्टितमुखेन समशरीरेण विभाव्यमानमध्यतानवेन व्यायतेन गुरुणा खादिरेण मुसलेन चतुरललितक्षेपपणोत्क्षेपणायासितभुजमसकृदङ्गुलीभिरुद्धृत्योद्धृत्यावहत्य शूर्पशोधितकणकिंशारुकांस्तण्डुलानसकृदद्भिः प्रक्षाल्य क्वथितपञ्चगुणे जले दत्तचुल्लीपूजा प्राक्षिपत् ।
प्रश्लथावयवेषु प्रस्फुरत्सु तण्डुलेषु मुकुलावस्थामतिवरतमानेषु संक्षिप्यानलमुपहितमुखपिधानया स्थाल्यान्नमण्डमगालयत् ।
दर्व्या चावघट्य मात्रया परिवर्त्य समपक्वेषु सिक्थेषु तां स्थालीमध्ॐउखीमवातिष्ठिपत् ।
इन्धनान्यन्तःसाराण्यम्भसा समभ्युक्ष्य प्रशमिताग्नीनि कृष्णाङ्गारीकृत्य तदर्थिभ्यः प्राहिणोत् ।
"एभिर्लब्धाः काकिणीर्दत्त्वा शाकं धृतं दधि तैलमामकलं चिञ्चाफलं च यथालाभमानयऽ इति ।
तथानुष्ठिते च तया द्वित्रानुपदंशानुपपाद्य तदन्नमण्डमार्द्र वालुकोपहितनवशरावगतमिति मृदुना तालवृन्तानिलेन शीतलीकृत्य सलवणसंभारं दत्ताङ्गारधूपवासं च संपाद्य, तदप्यामलकं श्लक्ष्णपिष्टमुत्पलगन्धि कृत्वा धात्रीमुखेन स्नानाय तमचोदयत् ।
तया च स्नानशुद्धया दत्ततैलामलकः क्रमेण सस्नौ ।
स्नातः सिक्तमृष्टे कुट्टिमे फलकमारुह्य पाण्डुहरतस्य त्रिभागशेषलूनस्याङ्गणकदलीपलाशस्योपरि दत्तशरावद्वयमार्द्रमभिमृशन्नतिष्ठत् ।
सा तु तां पेयामेवाग्रे समुपाहरत् ।
पीत्वा चापनीताध्वक्लमः प्रहृष्टः प्रक्लिन्नसकलगात्रः स्थितोऽभूत् ।
ततस्तस्य शाल्योदनस्य दर्वीद्वयं दत्त्वा सर्पिर्मात्रां सूपमुपदंशं चोपजहार ।
इमं च दध्ना च त्रिजातकावचूर्णितेन सुरभिशीतलाभ्यां च कालशेयकाञ्जिकाभ्यां शेषमन्नमभोजयत् ।
सशेष एवान्धस्यसावतृष्यत् ।
अयाचत च पानीयं ।
अथ नवभृङ्गारसंभृतमगुरुधूपधूपितमभिनवपाटलाकुसुमवसितमुत्फुल्लोत्पलग्रथितसौरभं वारि नालीधारात्मना पातयांबभूव ।
सोऽपि मुखोपहितशरावेण हिमशिशिरकणकरालितारुणायमानाक्षिपक्ष्मा धारारवाभिनन्दितश्रवणः स्पर्शसुखोद्भिन्नर्ॐआञ्चकर्कशकपोलः प्रवालोत्पीडपरिमलफुल्लघ्राणारन्ध्रो माधुर्यप्रकर्षावर्जितरसनेन्द्रियस्तदच्छं पानीयमाकण्ठं पपौ ।
शिरःकम्पसंज्ञावारिता च पुनरपरकरकेणाचमनमदत्त कन्या ।
वृद्धया तु तदुच्छिष्टमपोह्य हरितग्ॐअयोपलिप्ते कुट्टिमे स्वमेवोत्तरीयकर्पटं व्यवधाय क्षणमशेत ।
परितुष्टश्च विधिवदुपयम्य कन्यां निन्ये ।
नीत्वैतदनपेक्षः कामपि गणिकामवरोधमकरोत् ।
तामपयसौ प्रियसखीमिवोपाचरत् ।
पतिं च दैवतमिव मुक्ततनद्रा पर्यचरत् ।
गृहकार्याणि चाहीनमन्वतिष्ठत् ।
परिजनं च दाक्षिण्यनिधिरात्माधीनमकरोत् ।
तद्गुणवशीकृतश्च भर्ता सर्वमेव कुटुम्बं तदायत्तमेव कृत्वा तदेकाधीनजीवितशरीरस्त्रिवर्गं निर्ववेश ।
तद्ब्रवीमि-"गृहिणः प्रियहिताय दारगुणाःऽ इति ।
ततस्तेनानुयुक्तो निम्बवतवृत्तमाख्यातवान्-"अस्ति सौराष्ट्रेषु वलभी नाम नगरी ।
तस्यां गुहगुप्तनाम्नो गुह्यकेन्द्रतुल्यविभवस्य नाविकपतेर्दुहिता रतनवती नाम ।
तां किल मधुमत्याः समुपागम्य बलभद्रो नाम सार्थवाहपुत्रः पर्यणैषीत् ।
तयापि नववध्वा रहसि रभसविघ्नितसुरतसुखो झटिति द्वेषमल्पेतरं बबन्ध ।
न तां पुनर्द्रष्टुमिष्टवान् ।
तद्गृहागमनमपि सुहृद्वाक्यशतातिवर्ती लज्जया परिजहार ।
तां च दुर्भगां तदाप्रभृत्येव "नेयं रत्नवती, निम्बवती चेयम्ऽ इति स्वजनः परिजनश्च परिबभूव ।
गते च कस्मिंश्चित्कालान्तरे सा त्वनुतप्यमाना "का मे गतिःऽ इति विमृशन्ती कामपि वृद्धप्रव्राजिकां मातृस्थानीयां देवशेषकुसुमैरुपस्थितामपश्यत् ।
तस्याः पुरो रहसि सकरुणं रुरोद ।
तयाप्यश्रुमुख्या बहुप्रकारमनुनीय रुदितकारणं पृष्टा त्रपमाणापि कार्यगौरवात्कथंविव्रवीत्-"अम्ब, किं ब्रवीमि दौर्भाग्यं नाम जीवन्मरणमेवाङ्गनानाम्, विशेषतश्च कुलवधूनां ।
तस्याहमस्म्युदाहरणभूता ।
मातृप्रमुखोऽपि ज्ञातिवर्गो मामवज्ञयैव पश्यति ।
तेन सुदृष्टां मां कुरु ।
न चेत्त्यजेयमद्यैव निष्प्रयोजनान्प्राणान् ।
आविरामाच्च मे रहस्यं नाश्राव्यम्ऽ इति पादयोः पपात ।
सैनामुत्थाप्योद्वाष्पोवाच-"वत्से, माध्यवस्य साहसं ।
इयमस्मि त्वन्निदेशवर्तिनी ।
यावति मयोपयोगस्तावति भवाम्यनन्याधीना ।
यद्येवासि निर्विण्णा तपश्चर त्वं मदधिष्ठिता पाललौकिकाय कल्याणाय ।
नन्वयमुदर्कः प्राक्तनस्य दुष्कृतस्य, यदनेनाकारेणेदृशेन शीलेन जात्या चैवंभूतया समनुगता सती अस्मादेव भर्तृद्वेष्यतां गतासि ।
यदि कश्चिदस्त्युपायः पतद्रोहप्रतिक्रियायै दर्शयामुम्, मतिर्हि ते पटीयसीऽ इति ।
अथासौ कथञ्चित्क्षणमध्ॐउखी ध्यात्वा दीर्घोष्णश्वासपूर्वमवोचत्-"भगवति, पतिरेकदैवतं वनितानाम्, विशेषतः कुलजानां ।
अतस्तच्छुश्रूषणाभ्युपायहेतुभूतं किञ्चिदाचरणीयं ।
अस्त्यस्मत्प्रातिवेश्यो वणिगभिजनेन विभवेन राजान्तरङ्गभावेन च सर्वपौरानतीत्य वर्तते ।
तस्य कन्या कनकवती नाम मत्समानरूपावयवया ममातिस्निग्धा सखी ।
तया सह तद्विमानहर्म्यतले ततोऽपि द्विगुणमण्डिता विहरिष्यामि ।
त्वया तु तन्मातृप्रार्थनं सकरुणमभिधाय मत्पतिरेतद्गृहं कथञ्चनावेयः ।
समीपगतेषु च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रंशयेयं ।
अथ तमादाय तस्य हस्ते दत्त्वा वक्ष्यसि-"पुत्र, तवेयं भार्यासखी निधिपतिदत्तस्य सर्वश्रेष्ठिमुख्यस्य कन्या कनकवती नाम ।
त्वामियमनवस्थो निष्करुणश्चेति रत्नवतीनिमित्तमत्यर्थं निन्दति ।
तदेष कन्दुको विपक्षधनं प्रत्यर्पणीयम्ऽ इति ।
स तथोक्तो नियतमुन्मुखीभूय तामेव प्रियसखीं मन्यमानो मां बद्धाञ्जलि याचमानायै मह्यं भूयस्त्वत्प्रार्थितः साभिलाषमर्पयिष्यति ।
"तेन रन्ध्रेणोपश्लिष्य रागमुज्ज्वलीकृत्य यथासा कृतसङ्केतो देशान्तरमादाय मां गमिष्यति तथोपपादनीयम्ऽ इति ।
हर्षाभ्युतेपया चानया तथैव संपादितं ।
अथैतां कनकवतीति वृद्धतापसीविप्रलब्धो बलभद्रः सरत्नसाराभरणामादाय निशि नीरन्ध्रे तमसि प्रावसत् ।
सा तु तापसी वार्तामापादयत्-"मन्देन मया निर्निमित्तमुपेक्षिता रत्नवती, श्वशुरौ च परिभूतौ, सुहृदश्चातिवर्तिताः ।
तदत्रैव संसृष्टो जिवितुं जिह्नेमीति बलभद्रः पूर्वेद्युर्मामकथयत् ।
नूनमसौ तेन नीता व्यक्तिश्चाचिराद्भविष्यतिऽ इति ।
तच्छ्रुत्वा तद्बान्धवास्तदन्वेषणां प्रति शिथिलयत्नास्तस्थुः ।
रत्नवती तु मार्गे काञ्चित्पण्यदासीं संगृह्य तयोह्यमानपाथेयाद्युपस्करा खटकपुरमगमत् ।
अमुत्र च व्यवहारकुशलो बलभद्रः स्वल्पेनैव मूलेन महद्वनमुपार्जयत् ।
पौराग्रगण्यश्चासीत् ।
परिजनश्च भूयानर्थवशात्समाजगाम ।
ततस्तां प्रथमदासीं "न कर्म करोषि, दृष्टं मुष्णासि, अप्रियं ब्रवीषिऽ इति परुषमुक्त्वा बह्वताडयत् ।
चेटी तु प्रसादकालोपाख्यातरहस्यस्य वृत्तान्तैकदेशमात्तरोषा निर्बिभेद ।
तच्छुत्वा लुब्धेन तु दण्डवाहिना पौरवृद्धसंनिधौ निधिपतिदत्तस्य कन्यां कनकवतीं मोषेणापहृत्यास्मत्पुरे निवसत्येष दुर्मतिर्बलभद्रः ।
तस्य सर्वस्वहरणं न भवद्भिः प्रतिबन्धनीयम्ऽ इति नितरामभर्त्स्यत ।
भीतं च बलभद्रमभिजगाद रत्नवती-"न भेतव्यं ।
ब्रूहि, नेयं निधिपतिदत्तकन्या कनकवती ।
बलभ्यामेव गृहगुपतदुहिता रत्नवती नामेयं दत्ता पितृभ्यां मया च न्यायोढा ।
न चेत्प्रतीथ प्रणिधिं प्रहिणुतास्या बन्धुपार्शवम्ऽ इति ।
बलभद्रस्तु तथोक्त्वा श्रेणीप्रातिभाव्येन तावदवातिष्ठत यावत्तत्पुरवृद्धलेख्यलब्धवृत्तान्तो गृहगुप्तः खेटकपुरमागत्य सह जामात्रा दुहितरमतिप्रीतः प्रत्यनैषीत् ।
तथा दृष्ट्वा रत्नवतीं कनकवतीति भावयतस्तस्यैव बलभद्रस्यातिवल्लभा जाता ।
तद्व्रवीमि-"कामो नाम संकल्पःऽ इति ।
तदनन्तरमसौ नितम्बवतवृत्तान्तमप्राक्षीत् ।
सोऽहमब्रवम्-"अस्ति शूरसेनेषु मथुरा नाम नगरी ।
तत्र कश्चित्कुलपुत्रः कलासु गणिकासु चातिरक्तः मित्रार्थं स्वभुजमात्रनिर्व्यूढानेककलहः, कलहकण्टक इति कर्कशैरभिख्यापिताख्यः प्रत्यवात्सीत् ।
स चैकदा कस्यचिदागन्तोश्चित्रकरस्य हस्ते चित्रपटं ददर्श ।
तत्र काचिदलेख्यगता युवतिरालोकमात्रेणैव कलहकण्ठकस्य कामातुरं चेतश्चकार ।
स च तमब्रवीत्-"भद्र, विरुद्धमिवैतत्प्रतिभाति यतः कुलजादुर्लभं वपुः, आभिजात्यशंसिनी च नम्रता, पाणाडुरा च मुखच्छविः, अनतिपरिभुक्तसुभगा च तनुः, प्रौढतानुविद्धा च दृष्टिः ।
न चैषा प्रोषितभर्तृका, प्रवासचिह्नस्य वेण्यादेरदर्शनात् ।
लक्ष्म चैतद्दक्षिणपार्श्ववर्ति ।
तदियं वृद्धस्य कस्यचिद्वणिजो नातिपुंस्त्वस्य यथार्हसंभोगालाभपीडिता गृहिणी त्वयातिकौशलाद्यथादृष्टमालिखिता भवितुमर्हतिऽ इति ।
स तमभिप्रशस्याशंसत्-"सत्यमिदं ।
अवन्तिपुर्यामुज्जयिन्यामनन्तकीर्तिनाम्नः सार्थवाहस्य भार्या यथार्थनामा नितम्बवती नामैषा सौन्दर्यविस्मितेन मयैवमालिखिताऽ इति ।
स तदैवोन्मनायमानसतदर्शनाय परिवव्राजोज्जयिनीं ।
भार्गवो नाम भूत्वा भिक्षानिभेन तद्गृहं प्रविश्य तां ददर्श ।
दृष्ट्वा चात्यारूढमन्मथो निर्गत्य पौरमुख्येभ्येः श्मशानरक्षामयाचत ।
अलभत च ।
तत्र लब्धैश्च शवावगुण्ठनपटादिभिः कामप्यर्हन्तिकां नाम श्रमणिकामुपासांचक्रे ।
तन्मुखेन च नितम्बवतीमुपांशु मन्त्रयामास ।
सा चैनां निर्भर्त्सयन्ती प्रत्याचचक्षे ।
श्रमणिकामुखाच्च दुष्करशीलभ्रंशां कुलस्त्रियमुपलभ्य रहसि दूतिकामशिक्षयत्-"भूयोऽप्युपतिष्ठ सार्वाहभार्यां ।
ब्रूहि चोपह्वरे संसारदोषदर्शनात्समाधिमास्थाय मुमुक्षमाणो मादृशो जनः कुलवधूनां शीलपातने घटत इति क्व घटते ।
एतदपि त्वामष्युदारया समृद्ध्या रूपेणातिमानुषेण प्रथमेन वयसोपपन्नां किमितरनारीसुलभं चापल स्पृष्टं न वेति परीक्षा कृता ।
तुष्टास्मि तथैवमदुष्टभावतया ।
त्वामिदानीमुत्पन्नापत्यां द्रष्टुमिच्छामि ।
भर्ता तु भवत्याः केनचिद्ग्रहेणाधिष्ठितः पाण्डुरोगदुर्बलो भोगे चासमर्थः स्थितोऽभूत् ।
न च शक्यं तस्य विघ्नमप्रतिकृत्यापत्यमस्माल्लब्धुं ।
अतः प्रसीद ।
वृक्षवाटिकामेकाकिनी प्रविश्य मदुपनीतस्य कस्याचिन्मन्त्रवादिनश्छन्नमेव हस्ते चरणमर्पयित्वा तदभिमन्त्रितेन प्रणयुकुपिता नाम भूत्वा भर्तारमुरसि प्रहर्तुमर्हसि ।
उपर्यसावुत्तमधातुपुष्टिमूर्जितापत्योत्पादनक्षमामासादयिष्यति ।
अनुवर्तिष्यते देवीमिवात्र भवतीं ।
नात्र शङ्का कार्याऽ इति ।
सा तथोक्ता व्यक्तमभ्युपैष्यति नक्तं मां वृक्षवाटिकां प्रवेश्य तामपि प्रवेशयिष्यसि तावतैव त्वयाहमनुगृहीतो भवेयम्ऽ इति ।
सा तथैवोपग्राहितवती ।
सोऽतिप्रीतस्तस्यामेव क्षपायां वृक्षवाटिकायां गतो नितम्बवतीं निर्ग्रन्थिकाप्रयत्नेनोपनीतां पाद परामृशन्निव हेमनूपुरमेकमाक्षिप्य छुरिकयोरुमूले किञ्चिदालिख्य द्रुततरमपासरत् ।
सा तु सान्द्रत्रासा स्वमेव दुर्णयं गर्हमाणा जिधांसन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां प्रक्षाल्य दत्त्वा पटबन्धनमामयापदेशादपरं चापनीय नूपुरं शयनपरा त्रिचतुराणि दिनान्येकान्ते निन्ये ।
स धूर्तः "निक्रेष्येऽ इति तेन नूपुरेण तमनन्तकीर्तिमुपाससद ।
स दृष्ट्वा " मम गृहिण्या एवैष नूपुरः, कथमयमुपलब्धस्त्वयाऽ इति तमब्रुवाणं निर्बन्धेन पप्रच्छ ।
स तु "वणिग्ग्रमस्याग्रे वक्ष्यामिऽ इति स्थितोऽभूत् ।
पुनरसौ गृहिण्यै "स्वनूपुरयुगलं प्रेषयऽ इति संदिदेश ।
स च सलज्जं ससाध्वसं चाद्य रात्रौ विश्रामप्रविष्टायां वृक्षवाटिकायां प्रभ्रष्टो ममैकः प्रशिथिलबन्धो नूपुरः ।
सोऽद्याप्यन्विष्टो न दृष्टः स पुनरयं द्वितीय इत्यपरं प्राहिणोत् ।
अनया च वार्तयामुं पुरस्कृत्य स वणिक्वणिग्जनसमाजमाजगाम ।
स चानुयुक्तो धूर्तः सविनयमावेदयत्--"विदितमेव खलु वः, यथाहं युष्मदाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि ।
लुब्धाश्च कदाचिन्मद्दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपिश्मशानमधिशये ।
अपरेद्युर्दग्धादग्धं मृतकं चितायाः प्रसभमाकर्षन्ती श्यामाकारां नारीमपश्यं ।
अर्थलोभात्तु निगृह्य साध्वसं सा गृहीता शस्त्रिकयोरुमूले यदृच्छया किञ्चिदुल्लिखितं ।
एव च नूपुरश्चरणादाक्षिप्तः ।
तावत्येव द्रुतगतिः सा पलायिष्ट ।
सोऽयमस्यागमः ।
परं भवन्तः प्रमाणम्ऽ इति ।
विमर्शेन च तस्याः शाकिनीत्वमैकमत्येन पौराणामभिमतमासीत् ।
भर्त्रा च परित्यक्ता तस्मिन्नेव श्मशाने बहु विलप्य पाशेनोद्बध्य कर्तुकामा तेन धूर्तेन नक्तमगृह्यत ।
अनुनीता च सुन्दरि, त्वदाकारोन्मादितेन मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेनोपन्यस्य तेष्वसिद्धेषु पुनरयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः ।
तत्प्रसीदानन्यशरणायास्मै दासजनायऽ इति मुहुर्मुहुश्चरणयोर्निपत्य, प्रयुज्य सान्त्वशतानि, तामगत्यन्तरामात्मवश्यामकरोत् ।
तदिदमुक्तम्-"दुष्करसाधनं प्रज्ञाऽ इति ।
इदमाकर्ण्य ब्रह्मराक्षसो मामपूपुजत् ।
अस्मन्नेव क्षणे नातिप्रौढपुंनागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बरतलादपतन् ।
अहं तु "किं न्विदम्ऽ इत्युच्चक्षुरालोकयन्कमपि राक्षसं काञ्चिदङ्गनां विचेष्टमानगात्रीमाकर्षन्तमपश्यं ।
कथमपहरत्यकामामपि स्त्रियमनाचारो नैरृतः इति गगनगमनमन्दशक्तिरशस्त्रश्चातप्ये ।
स तु मत्संबन्धी ब्रह्माराक्षसः "तिष्ठ तिष्ठ पाप, क्वापहरसिऽ इति भर्त्सयन्नुत्थाय राक्षसेन समसृज्यत ।
तां तु रोषादनपेक्षापविद्धाममरवृक्षमञ्जरीमिवान्तरिक्षादापतन्तीमुन्मुखप्रसारितोभयकरः कराभ्यामग्रहषिं ।
उपगृह्य च वेषमानां संमीलिताक्षीं मदङ्गस्पर्शसुखोनोद्भिन्नर्ॐआञ्चां तादृशीमेव तामनवतरयन्नतिष्ठं ।
तावत्तावुभावपि शैलशृङ्गभङ्गैः पादपैश्च रभसोन्मूलितैर्मुष्टिपादप्रहारैश्च परस्परमक्षपयेतां ।
पुनरहमतिमृदुनि पुलिनवति कुसुमलवलाञ्छिते सरस्तीरेऽवरोप्य सस्पृहं निर्वर्णयंस्तां मत्प्राणैकवल्लभां राजकन्यां कन्दुकावतीमलक्षयं ।
सा हि मया समाश्वास्यमाना तिर्यङ्मामभिनिरूप्य जातप्रत्यभिज्ञा सकरुमरोदीत् ।
अवादीच्च-"नाथ, त्वद्दर्शनादुषोढरागा तस्मिन्कन्दुकोत्सवे पुनःसख्या चन्द्रसेनाय त्वत्कथाभिरेव समाश्वासितास्मि ।
त्वं किल समुद्रमध्ये मज्जितः पापेन मद्भात्रा भीमधन्वनाऽ इति श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा जीवितं जिहासुरेकाकिनी क्रीडावनमुपागमं ।
तत्र च मामचकमत कामरूप एष राक्षसाधम ।
सोऽयं मया भीतयावधूतप्रार्थनः स्फुरन्तीं मां निगृह्याभ्यधावत् ।
अत्रैवमवसितोऽभूत् ।
"अहं च दैवात्तवैव जीवितेशस्य हस्ते पतिता ।
भद्रं तवऽ इति ।
श्रुत्वा च तया सहावरुह्य, नावमध्यारोहं ।
मुक्ता च नौः प्रतिवातप्रेरिता तामेव दामलिप्तां प्रत्युपातिष्ठत् ।
अवरूढाश्च वयमश्रमेण "तनयस्य च तनयायाश्च नाशादनन्यापत्यस्तुङ्गधन्वा सुह्यपतिर्निष्कलः स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्यनशनेनोपरन्तु प्रतिष्ठते ।
सह तेन मर्तुमिच्छत्यनन्यनाथोऽनुरक्तः पौरवृद्धलोकःऽ इत्यश्रुमुखीनां प्रजानामाक्रन्दमशृणुं ।
अथाहमस्मै राज्ञे यथावृत्तमाख्याय तदपत्यद्वयं प्रत्यर्पितवान् ।
प्रीतेन तेन जामाता कृतोऽस्मि दामालिप्तेश्वरेण ।
तत्पुत्रो मदनुजीवा जातः ।
मदाज्ञप्तेन चामुना प्राणवदुज्झिता चन्द्रसेना कोशदासमभजत् ।
ततश्च सिंहवर्मसाहाय्यार्थमत्रागत्यं भर्तुरतव दर्शनोत्सवसुखमनुभवामिऽ इति ।
श्रुत्वा "चित्रेयं दैवगतिः ।
अवसरेषु पुष्कलः पुरुषकार-ऽ इत्यभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः स किल करकमलेन किञ्चित्संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलधरमणिर्निरोष्ठ्यवर्णमात्मचरितमाचचक्षे ।। २,६ ।।

इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं नाम षष्ठ उच्छ्वासः