प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दशरूपकम्/तृतीयः परिच्छेदः

< दशरूपकम्
← द्वितीयः परिच्छेदः दशरूपकम्
प्रथमः परिच्छेदः
[[लेखकः :|]]
चतुर्थः परिच्छेदः →

प्रकृतित्वादथान्येषां भूयोरसपरिग्रहात् ।
सम्पूर्णलक्षणत्वाच् च पूर्वं नाटकमुच्यते ॥ ३.१ ॥

पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते ।
प्रविश्य तद्वदपरः काव्यमास्थापयेन् नटः ॥ ३.२ ॥

दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः ।
सूचयेद् वस्तु बीजं वा मुखं पात्रमथापि वा ॥ ३.३ ॥

रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।
ऋतुं कञ्चिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥ ३.४ ॥

भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ।
भेदैः प्ररोचनायुक्तैर्वीर्थीप्रहसनामुखैः ॥ ३.५ ॥

उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना ।
वीथी प्रहसनं चापि स्वप्रसङ्गेऽभिधास्यते ।
वीथ्यङ्गाव्यामुखाङ्गत्वादुच्यन्तेऽत्रैव तत् पुनः ॥ ३.६ ॥

सूत्रधारो नटीं ब्रूते मार्षं वाथ विदूषकम् ।
स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत् तदामुखम् ॥ ३.७ ॥

प्रस्तावना वा तत्र स्युः कथाद्घातः प्रवृत्तकम् ।
प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश ॥ ३.८ ॥

स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः ।
गृहीत्वा प्रविशेत् पात्रं कथोद्घातो द्विधैव सः ॥ ३.९ ॥

कालसाम्यसमाक्षिप्तप्रवेशः स्यात् प्रवृत्तकम् ।
एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः ।
पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः ॥ ३.१० ॥

उद्घात्यकावलगिते प्रपञ्चत्रिगते छलम् ।
वाक्केल्यधिवले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृदवानि त्रयोदश ॥ ३.११ ॥

गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा ।
यत्रान्योन्यं समालापो द्वेधोद्घात्यं तदुच्यते ॥ ३.१२ ॥

यत्रैकत्र समावेशात् कार्यमन्यत् प्रसाध्यते ।
प्रस्तुतेऽन्यत्र वान्यत् स्यात् त(?) चावलगितं द्विधा ॥ ३.१३ ॥

असद्भूतमिथःस्तोत्रं प्रपञ्चो हास्यकृन् मतः ।
श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं त्विह ।
नटादित्रितयालापः पूर्वरङ्गे तदिष्यते ॥ ३.१४ ॥

प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलना छलम् ।
विनिवृत्त्यास्य वाक्केली द्विस्त्रिः प्रत्युक्तितोऽपि वा ॥ ३.१५ ॥

अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं भवेत् ।
गण्डः प्रस्तुतसम्बन्धिभिन्नार्थं सहसोदितम् ॥ ३.१६ ॥

रसोक्तस्यान्यथा व्याख्या यत्रावस्यन्दित हि तत् ।
सोपहासा निगूढार्था नालिकैव प्रहेलिका ॥ ३.१७ ॥

असम्बद्धकथाप्रायोऽसत्प्रलापो यथोत्तरः ।
अन्यार्थमेव व्याहारो हास्यलास्यकरं वचः ।
दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ॥ ३.१८ ॥

एषामन्यतमेनार्थं पात्रं चाक्षिप्य सूत्रभृत् ।
प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रपञ्चयेत् ॥ ३.१९ ॥

अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान् ।
कीर्तिकामो महोत्साहस्त्रय्यास्त्राता महीपतिः ॥ ३.२० ॥

प्रख्यातवंशो राजर्षिर्दिव्यो वा यत्र नायकः ।
तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम् ॥ ३.२१ ॥

यत् तत्रानुचितं किञ्चिन् नायकस्य रसस्य वा ।
विरुद्धं तत् परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ ३.२२ ॥

आद्यन्तमेवं निश्चित्य पञ्चधा तद् विभज्य च ।
खण्डशः सन्धिसञ्ज्ञांश्च विभागानपि खण्डयेत् ॥ ३.२३ ॥

चतुःषष्टिस्तु तानि स्युरङ्गानीत्यपरं तथा ।
पताकावृत्तमप्यूनमेकाद्यैरनुसन्धिभिः ।
अङ्गान्यत्र यथालाभमसन्धिं प्रकरीं न्यसेत् ॥ ३.२४ ॥

आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः ।
अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ।
यदा सन्दर्शयेत् शेषं कुर्याद् विष्कम्भकं तदा ॥ ३.२५ ॥

यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।
आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ॥ ३.२६ ॥

प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः ।
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ ३.२७ ॥

अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः ।
गृहीतमुक्तैः कर्तव्यमङ्गिनः परिपोषणं ॥ ३.२८ ॥

न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ।
रसं वा न तिरोदध्याद् वस्त्वलङ्कारलक्षणैः ॥ ३.२९ ॥

एको रसोऽङ्गीकर्तव्यो वीरः शृङ्गार एव वा ।
अङ्गमन्ये रसाः सर्वे कुर्यान् निर्वहणेऽद्भुतम् ॥ ३.३० ॥

दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ।
संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ॥ ३.३१ ॥

अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ।
नाधिकारिवधं क्वापि त्याज्यमावश्यकं न च ॥ ३.३२ ॥

एकाहाचरितैकार्थमित्थमासन्ननायकम् ।
पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः ॥ ३.३३ ॥

पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत् ।
एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः ।
पञ्चाङ्कमेतदवरं दशाङ्कं नाटकं परम् ॥ ३.३४ ॥

अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् ।
अमात्यविप्रवणिजामेकं कुर्याच् च नायकम् ॥ ३.३५ ॥

धीरप्रशान्तं सापायं धर्मकामार्थतत्परम् ।
शेपं नाटकवत् सन्धिप्रवेशकरसादिकम् ॥ ३.३६ ॥

नायिका तु द्विधा नेतुः कुलस्त्री गणिका तथा ।
क्वचिदेकैव कुलजा क्वापि द्वयं क्वचित् ॥ ३.३७ ॥

कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः ।
आभिः प्रकरणं त्रेधा सङ्कीर्णं धूर्तसङ्कुलम् ॥ ३.३८ ॥

लक्ष्यते नाटिकाप्यत्र सङ्कीर्णान्यनिवृत्तये ।
तत्र वस्तु प्रकरणान् नाटकान् नायको नृपः ।
प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः ॥ ३.३९ ॥

स्त्रीप्रायचतुरङ्कादिभेदकं यदि चेष्यते ।
एकद्वित्र्यङ्कपात्रादिभेदेनानन्तरूपता ॥ ३.४० ॥

देवी तत्र भवेज् ज्येष्ठा प्रगल्भा नृपवंशजा ।
गम्भीरा मानिनी कृच्छात् तद्वशान् नेतृसङ्गमः ॥ ३.४१ ॥

नायिका तादृशी मुग्धा दिव्या चातिमनोहरा ।
अन्तःपुरादिसम्बन्धादासन्ना श्रुतिदर्शनैः ॥ ३.४२ ॥

अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् ।
नेता तत्र प्रवर्तेत देवीत्रासेन शङ्कितः ।
कैशिक्यङ्गैश्चतुर्भिश्च यक्ताङ्कैरिव नाटिका ॥ ३.४३ ॥

भाणस्तु धूर्तचरितं स्वानुभूतं परेण वा ।
यत्रोपवर्णयेदेको निपुणः पण्डितो विटः ॥ ३.४४ ॥

सम्बोधनोक्तिप्रत्युक्ती कुर्यादाकाशभापितैः ।
सूचयेद् वीरशृङ्गारौ शौर्यसौभाग्यसंस्तवैः ॥ ३.४५ ॥

भूयसा भारती वृत्तिरेकाङ्कं वस्तु कल्पितम् ।
मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च ॥ ३.४६ ॥

गेयं पदं स्थितं पाद्यमासीनं पुष्पगण्डिका ।
प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् ॥ ३.४७ ॥

उत्तमोत्तमकं चैव उक्तप्रत्युक्तमेव च ।
लास्ये दशविधं ह्येतदङ्गनिर्देशकल्पनम् ॥ ३.४८ ॥

तद्वत् प्रहसनं त्रेधा शुद्धवैकृतसङ्करैः ।
पाखण्डिविप्रप्रभृतिचेटचेटीविटाकुलम् ।
चेष्टितं वेपभाषाभिः शुद्धं हास्यवचोन्वितम् ॥ ३.४९ ॥

कामुकादिवचिवेषैः षण्ढकञ्चुकितापसैः ।
विकृतं सङ्कराद् वीथ्या सङ्कीर्णं धूर्तसङ्कुलम् ।
रसस्तु भूयसा कार्यः षड्विधो हास्य एव तु ॥ ३.५० ॥

डिमे वस्तु प्रसिद्धं स्याद् वृत्तयः कैशिकीं विना ।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ।
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ॥ ३.५१ ॥

रसैरहास्यशृङ्गारैः षड्भिर्दीप्तैः समन्वितः ।
मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ॥ ३.५२ ॥

चन्द्रसूर्योपरागैश्च न्याय्ये रौद्ररसेऽङ्गिनि ।
चतुरङ्कश्चतुःसन्धिर्निर्विमर्शो डिमः स्मृतः ॥ ३.५३ ॥

ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः ।
हीनो गर्भविमर्शाभ्यां दीप्ताः स्युर्डिमवद् रसाः ॥ ३.५४ ॥

अस्त्रीनिमित्तसङ्ग्रामो जामदग्न्यजये यथा ।
एकाहाचरितैकाङ्को व्यायोगो बहुभिर्नरैः ॥ ३.५५ ॥

कार्यं समवकारेऽपि आमुखं नाटकादिवत् ।
ख्यातं देवासुरं वस्तु निर्विमर्शास्तु सन्धयः ॥ ३.५६ ॥

वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाः ।
द्वादशोदात्तविख्याताः फलं तेषां पृथक् पृथक् ॥ ३.५७ ॥

बहुवीररसाः सर्वे यद्वदम्भोधिमन्थने ।
अङ्कैःस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवः ॥ ३.५८ ॥

द्विसन्धिरङ्कः प्रथमः कार्यो द्वादशनालिकः ।
चतुर्द्विनालिकावन्त्यौ नालिका घटिकाद्वयम् ॥ ३.५९ ॥

वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ।
नगरोपरोधयुद्धे वाताग्न्यादिकविद्रवाः ॥ ३.६० ॥

धर्मार्थकामैः शृङ्गारो नात्र विन्दुप्रवेशकौ ।
वीथ्यङ्गानि यथालाभं कुर्यात् प्रहसने यथा ॥ ३.६१ ॥

वीथी तु कैशिकीवृत्तौ सन्ध्यङ्गाङ्कैस्तु भाणवत् ।
रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् ॥ ३.६२ ॥

युक्ता प्रस्तावनाख्यातैरङ्गैरुद्घात्यकादिभिः ।
एवं वीथी विधातव्या द्व्येकपात्रप्रयोजिता ॥ ३.६३ ॥

उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपञ्चयेत् ।
रसस्तु करुणः स्थायी नेतारः प्राकृता नराः ॥ ३.६४ ॥

भाणवत् सन्धिवृत्त्यङ्गैर्युक्तः स्त्रीपरिदेवितैः ।
वाचा युद्धं विधातव्यं तथा जयपराजयौ ॥ ३.६५ ॥

मिश्रमोहामृगे वृत्तं चतुरङ्कं त्रिसन्धिमत् ।
नरदिव्यावनियमान् नायकप्रतिनायकौ ॥ ३.६६ ॥

ख्यातौ धीरोद्धतावन्त्यो विपर्यासादयुक्तकृत् ।
दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः ॥ ३.६७ ॥

शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् ।
संरम्भं परमानीय युद्धं व्याजान् निवारयेत् ।
वधप्राप्तस्य कुर्वीत वधं नैव महात्मनः ॥ ३.६८ ॥

इत्थं विचिन्त्य दशरूपकलक्ष्ममार्गम्
आलोक्य वस्तु परिभाव्य कविप्रबन्धान् ।
कुर्यादयत्नवदलङ्कृतिभिः प्रबन्धं
वाक्यैरुदारमधुरैः स्फुटमन्दवृत्तैः ॥ ३.६९ ॥