दशरूपकम्/द्वितीयः परिच्छेदः

← प्रथमः परिच्छेदः दशरूपकम्
द्वितीयः परिच्छेदः
[[लेखकः :|]]
तृतीयः परिच्छेदः →

नेता विनीतो मधुरस्त्यागी दक्षः प्रियग्वदः ।
रक्तलोकः शुचिर्वाङ्मी रूढवंशः स्थिरो युवा ॥ २.१ ॥

बुद्ध्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः ।
शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ।
भेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् ॥ २.२ ॥

निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः ।
सामान्यगु.अयुक्तस्तु धीरशान्तो द्विजादिकः ॥ २.३ ॥

महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः ।
स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः ॥ २.४ ॥

दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः ।
धीरोद्धतस्त्वहङ्कारो चलश्चण्डो विकत्त्थनः ॥ २.५ ॥

स दक्षिणः शठो धृष्टः पूर्वां प्रत्यन्यया हृतः ।
दक्षिणोऽस्यां सहृदयः गूढविप्रियकृत् शठः ।
व्यक्ताङ्गवैकृतो धृष्टोऽनुकूलस्त्वेकनायिकः ॥ २.६ ॥

पताकानायकस्त्वन्यः पीठमर्दो विचक्षणः ।
तस्यैवानुचरो भक्तः किञ्चिदूनश्च तद्गुणैः ॥ २.७ ॥

एकविद्यो विटश्चान्यो हास्यकृच् च विदूषकः ।
लुब्धो धीरोद्धतस्तब्धः(?) पापकृद् व्यसनी रिपुः ॥ २.८ ॥

शोभा विलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी ।
ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ २.९ ॥

नीचे धृणाधिके स्पर्धा शोभायां शौर्यदक्षते ।
गतिः सधैर्या दृष्टिश्च विलासे सम्मितं वचः ॥ २.१० ॥

श्लक्ष्णो विकारो माधुर्यं सङ्क्षोभे सुमहत्यपि ।
गाम्भीर्यं यत्प्रभावेन विकारो नोपलक्ष्यते ॥ २.११ ॥

व्यवसायादचलनं स्थैर्यं विघ्नकुलादपि ।
अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि ॥ २.१२ ॥

शृङ्गाराकारचेष्टात्वं सहजं ललितं मृदु ।
प्रियोक्त्याजीविताद् दानमौदार्यं सदुपग्रहः ॥ २.१३ ॥

स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा ।
मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक् ॥ २.१४ ॥
मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि ।
मध्योद्यद्यावनानङ्गा मोहान्तसुरतक्षमा ॥ २.१५ ॥

धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागमम् ।
खेदयेद् दयितं कोपादधीरा परुषाक्षरम् ॥ २.१६ ॥

यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके ।
विलीयमानेवानन्दाद् रतारम्भेऽप्यचेतना ॥ २.१७ ॥

सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा ।
सन्तर्ज्य ताडयेन् मध्या मध्याधीरेव तं वदेत् ।
द्वेधा ज्येष्ठा कनिष्टा चेत्यमुग्धा द्वादशोदिताः ॥ २.१८ ॥

अन्यस्त्री कन्यकोढा च नान्योढाङ्गिरसे क्वचित् ।
कन्यानुरागमिच्छातः कुर्यादङ्गाङ्गिसंश्रयम् ॥ २.१९ ॥

साधारणस्त्री गणिका कलाप्रागल्भ्यधौर्त्ययुक् ।
छन्नकामसुखार्थाज्ञस्वतन्त्राहंयुपण्डकान् ॥ २.२० ॥

रक्तेव रञ्जयेदाढ्यान् निःस्वान् मात्रा विवासयेत् ।
रक्तैव त्वप्रहसने नैषा दिव्यनृपाश्रये ॥ २.२१ ॥

आसामष्टाववस्थाः स्युः स्वाधीनपतिकादिकाः ।
आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका ॥ २.२२ ॥

मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये ।
चिरयत्यव्यलीके तु विरहोत्कण्ठितोन्मनाः ॥ २.२३ ॥

ज्ञातेऽन्यासङ्गविवृते खण्ड्तेर्ष्याकषायिता ।
कलहान्तरितामर्षाद् विधूतेऽनुशयार्तियुक् ॥ २.२४ ॥

विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता ।
दूरदेशाब्तरस्थे तु कार्यतः प्रोषितप्रिया ।
कामार्ताभिसरेत् कान्तं सारयेद् वाभिसारिका ॥ २.२५ ॥

चिन्तानिःश्वासखेदाश्रुवैवर्ण्यग्लान्यभूषणैः ।
युक्ताः षडन्त्या द्वे चाद्ये क्रोडौज्ज्वल्यप्रहर्षितैः ॥ २.२६ ॥

दूत्यो दासी सखी कारूर्धात्रेयी प्रतिवेशिका ।
लिङ्गिनी शिल्पिनी स्वं च नेतृमित्रगुणान्विताः ॥ २.२७ ॥

यौवने सत्त्वजाः स्त्रीणामलङ्कारास्तु विंशतिः ।
भावो हावश्च हेला च त्रयस्तत्र शरीरजाः ॥ २.२८ ॥

शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्यं धैर्यमित्येते सप्त भावा अयत्नजाः ॥ २.२९ ॥

लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
विहृतं चेति विज्ञेया दश भावाः स्वभावजाः ॥ २.३० ॥

निर्विकारात्मकात् सत्त्वाद् भावस्तत्राद्यविक्रिया ।
हेवाकसस्तु शृङ्गारो हावोऽक्षिभ्रूविकारकृत् ॥ २.३१ ॥

स एव हेला सुव्यक्तशृङ्गाररससूचिका ।
रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ॥ २.३२ ॥

मन्मथावापितच्छाया सैव कान्तिरिति स्मृता ।
अनुलबणत्वं माधुर्यं दीप्तिः कान्तेस्तु विस्तरः ॥ २.३३ ॥

निःसाध्वसत्वं प्रागल्भ्यं औदार्यं प्रश्रयः सदा ।
चापलाविहता धैर्यं चिद्वृत्तिरविकत्थना ॥ २.३४ ॥

प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः ।
तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ॥ २.३५ ॥

आकल्परचनाल्पापि विच्छित्तिः कान्तिपोप(?)कृत् ।
विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ॥ २.३६ ॥

क्रोधाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चितम् ।
मोट्टायितं तु तद्भावभावनेष्टकथादिषु ॥ २.३७ ॥

सानन्दान्तः कुट्टमितं कुप्येत् केशाधरग्रहे ।
गर्वाभिमानादिष्टेऽपि बिब्बोकोऽनादरक्रिया ॥ २.३८ ॥

सुकुमाराङ्गविन्यासो मसृणो ललितं भवेत् ।
प्राप्तकालं न यद् ब्रूयाद् व्रीडया विहृतं हि तत् ॥ २.३९ ॥

मन्त्री स्वं वोभयं वापि सखा तस्यार्थचिन्तने ।
मन्त्रिणा ललितः शेषाः मन्त्रिस्वायत्तसिद्धयः ॥ २.४० ॥

ऋत्विक्पुरोहितौ धर्मे तपस्विब्रह्मवादिनः ।
सुहृत्कुमाराटविका दण्डे सामन्तसैनिकाः ॥ २.४१ ॥

अन्तःपुरे वर्षवराः किराता मूकवामनाः ।
म्लेच्छाभीरशकाराद्याः स्वस्वकार्योपयोगिनः ॥ २.४२ ॥

ज्येष्ठमध्याधमत्वेन सर्वेषां च त्रिरूपता ।
तारतम्याद् यथोक्तानां गुणानां चोत्तमादिता ।
एवं नाट्ये विधातव्यो नायकः सपरिच्छदः ॥ २.४३ ॥

तद्व्यापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी ।
गतिनृत्यविलासाद्यैर्मृदुः शृङ्गारचेष्टितैः ।
नर्मतैस्फिञ्जतत्स्फोटतद्गैभैश्चतुरङ्गिका ॥ २.४४ ॥

वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् ।
हास्येनैव सशृङ्गारभयेन विहितं त्रिधा ॥ २.४५ ॥

आत्मोपक्षेपसम्भोगमानैः शृङ्गार्यपि त्रिधा ।
शुद्धमङ्गं भयं द्वेधा वाग्वेषचेष्टितैः ।
सर्वं सहास्यमित्येवं नर्मास्टादशधोदितम् ॥ २.४६ ॥

नर्मस्फिञ्जः सुखारम्भो भयान्तो नवसङ्गमे ।
नर्मस्फोटस्तु भावानां सूचितोऽल्परसो लवैः ॥ २.४७ ॥

छन्ननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतवे ।
अङ्गैः सहास्यनिर्हास्यैरेभिरेषात्र कैशिकी ॥ २.४८ ॥

विशोका सात्त्वती सत्त्वशौर्यत्यागदयाजवैः ।
संलापोत्थापकावस्यां साङ्घात्यः परिवर्तकः ॥ २.४९ ॥

संलापको गभीरोक्तिर्नानाभावरसा मिथः ।
उत्थापकस्तु यत्रादौ युद्धायोत्थापयेत् परम् ॥ २.५० ॥

मन्त्रार्थदैवशक्त्यादेः साङ्घात्यः सङ्घभेदनम् ।
प्रारब्धोत्थानकार्यान्यकरणात् परिवर्तकः ॥ २.५१ ॥

एभिरङ्गैश्चतुर्धेयं सात्त्वत्यारभटी पुनः ।
मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।
सङ्क्षिप्तिका स्यात् सम्फेटो वस्तूत्थानावपातने ॥ २.५२ ॥

सङ्क्षिप्तवस्तुरचना सङ्क्षिप्तिः शिल्पयोगतः ।
पूर्वनेतृनिवृत्त्यान्ये नेत्रन्तरपरिग्रहः ॥ २.५३ ॥

सम्फेटस्तु समाघातः क्रुद्धसंरब्धयोर्द्वयोः ।
मायाद्युत्थापितं वस्तु वस्तूत्थापनमिष्यते ।
अवपातस्तु निष्क्रामप्रवेशत्रासविद्रवैः ॥ २.५४ ॥

एभिरङ्गैश्चतुर्धेयं नार्थवृत्तिरतः परा ।
चतुर्थी भारती सापि वाच्या नाटकलक्षणे ॥ २.५५ ॥

कैशिकीं सात्त्वतीं चार्थवृत्तिमारभटीमिति ।
पठन्तः पञ्चमीं वृत्तिमौद्भटाः प्रतिजानते ॥ २.५६ ॥

शृङ्गारे कौशिकी वीरे सात्त्वत्यारभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ २.५७ ॥

देशभाषाक्रियावेषलक्षणाः स्युः प्रवृत्तयः ।
लोकादेवावगम्यैता यथौचित्यं प्रयोजयेत् ॥ २.५८ ॥

पाद्यं तु संस्कृतं नॄणामनीचानां कृतात्मनाम् ।
लिङ्गिनीनां महादेव्या मन्त्रिजावेश्ययोः क्वचित् ॥ २.५९ ॥

स्त्रीणां तु प्राकृतं प्रायः शूरसेन्यधमेषु च ।
पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ॥ २.६० ॥

यद्देशं नीचपात्रं यत् तद्देशं तस्य भाषितम् ।
कार्यतश्चोत्तमादीनां कार्यो भाषाव्यतिक्रमः ॥ २.६१ ॥

भगवन्तो वरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः ।
विप्रामात्याग्रजाश्चार्या नटीसूत्रमृतौ मिथः ॥ २.६२ ॥

रथी सूतेन चायुष्मान् पूज्यैः शिष्यात्मजानुजाः ।
वत्सेति तातः पूज्योऽपि सुगृहीताभिधस्तु तैः ॥ २.६३ ॥

भावोऽनुगेन सूत्री च मार्षेत्येतेन सोऽपि च ।
देवः स्वामीति नृपतिर्भृत्यैर्भट्टेति चाधमैः ॥ २.६४ ॥

आमन्त्रणीयाः पतिवज् ज्येष्ठमध्याधमैः स्त्रियः ।
समा हलेति प्रष्या च हञ्जे वेश्याज्जुका तथा ॥ २.६५ ॥

कुट्टिन्यम्वेत्यनुगतैः पूज्या वा जरती जनैः ।
विदूषकेण भवती राज्ञी चेटीति शब्द्यते ॥ २.६६ ॥

चेष्टागुणोदाहृतिसत्त्वभावान्
अशेषतो नेतृदशाविभिन्नान् ।
को वक्तुमीशो भरतो न यो वा
यो वा न देवः शशिखण्डमौलिः ॥ २.६७ ॥