दशरूपकम्
प्रथमः परिच्छेदः
[[लेखकः :|]]
द्वितीयः परिच्छेदः →

नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते ।
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥ १.१ ॥

दशरूपानुकारेण यस्य माद्यन्ति भावकः ।
नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ १.२ ॥

कस्यचिदेव कदाचिद् दयया विषयं सरस्वती विदुषः ।
घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम् ॥ १.३ ॥

उद्धृत्योद्धृत्य सारं यमखिलनिगमान् नाट्यवेदं विरिञ्चिश्
चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः ।
शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे
नाट्यानां किन्तु किञ्चित् प्रगुणरचनया लक्षणं सङ्क्षिपामि ॥ १.४ ॥

व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः ।
तस्यार्थस्तत्पदैस्तेन सङ्क्षिप्य क्रियतेऽञ्जसा ॥ १.५ ॥

आनन्दनिस्यन्दिषु रूपकेषु
व्युत्पत्तिमात्रं फलमल्पबुद्धिः ।
योऽपीतिहासादिवदाह साधुस्
तस्मै नमः स्वादुपराङ्मुखाय ॥ १.६ ॥

अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते ।
रूपकं तत् समारोपाद् दशधैव रसाश्रयम् ॥ १.७ ॥

नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥ १.८ ॥

अन्यद भावाश्रयं नृत्यं नृत्तं ताललयाश्रयम् ।
आद्यं पदार्थाभिनयो मार्गो देशो तथा परम् ॥ १.९ ॥

मधुरोद्धतभेदेन तद् द्वयं द्विविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ १.१० ॥

वस्तु नेता रसस्तेषां भेदको वस्तु च द्विधा ।
तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ॥ १.११ ॥

अधिकारः फलस्वाम्यमधिकारो च तत्प्रभुः ।
तन्निरवर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥ १.१२ ॥

प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।
सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥ १.१३ ॥

प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।
सानुबन्धं तुल्यसंविधानविशेषणम् ॥ १.१४ ॥

प्रख्यातोत्पाद्यमिश्रत्वभेदात् त्रेधापि तत् त्रिधा ।
प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् ।
मिश्रं च सङ्करात् ताभ्यां दिव्यनर्त्यादिभेदतः ॥ १.१५ ॥

कार्यं त्रिवर्गस्तत् शुद्धमेकानेकानुबन्धि च ।
स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।
अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ १.१६ ॥

बीजबिन्दुपताकाख्यप्रकरोकार्यलक्षणाः ।
अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥ १.१७ ॥

अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ १.१८ ॥

औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ १.१९ ॥

उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः ।
अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता ।
समग्रफलसम्पत्तिः फलयोगो यथोदितः ॥ १.२० ॥

अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
यथासङ्ख्येन जायन्ते मुखाद्याः पञ्च सन्धयः ॥ १.२१ ॥

अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति ।
मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः ॥ १.२२ ॥

मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ।
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥ १.२३ ॥

उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम् ॥ १.२४ ॥

बीजन्यासस् उपक्षेपः तद्बाहुल्यं परिक्रिया ।
तन्न्निष्पत्तिः परिन्यासो गुणाख्यानाद् विलोभनम् ॥ १.२५ ॥

सम्प्रधारणमर्थानां युक्तिः प्राप्तिः सुखागमः ।
बीजागमः समाधानं विधानं सुखदुःखकृत् ॥ १.२६ ॥

परिभावोद्भुतावेश उद्भेदो गूढभेदनम् ।
करणं प्रकृतारम्भो भेदः प्रोत्साहना मता ॥ १.२७ ॥

लक्ष्यालक्ष्य इवोद्भेदस्तस्य प्रतिमुखं भवेत् ।
बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ १.२८ ॥

विलासः परिसर्पश्च विधूतं शमनर्मणो ।
नर्मद्युतिः प्रगयणं निरोधः पर्युपासनम् ॥ १.२९ ॥

वज्रं पुष्पमुपन्याप्तो वर्ण संहार इत्यपि ।
रत्यर्थेहा विलासः स्याद् दृष्टनष्टानुसर्पणम् ।
परिसर्पा विधूतं स्यादरतिस्तच्छमः शमः ॥ १.३० ॥

परिहासवत्तो नर्म धृतिस्तज्जा द्युतिर्मता ।
उत्तरा वाक् प्रगयणं हितरोधो निरोधनम् ॥ १.३१ ॥

पर्युपास्तिरनुनयः पुष्पं वाक्यं विशेषवत् ।
उपन्यासस्तु सोपायं वज्रं प्रत्यक्षनिष्ठुरम् ।
चातुर्वर्णोपगमनं वर्णसंहार इष्यते ॥ १.३२ ॥

गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।
द्वादशाङ्गः पताका स्यान् न वा स्यात् प्राप्तिसम्भवः ॥ १.३३ ॥

अभूताहरणं मार्गा रूपोदाहरणे क्रमः ।
सङ्गहश्चानुमानं च तोटकाधिवले तथा ॥ १.३४ ॥

उद्वेगसम्भ्रमाक्षेपा लक्षणं च प्रणीयते ।
अभूताहरणं छद्म मार्गस्तत्त्वार्थकीर्तनम् ॥ १.३५ ॥

रूपं वितर्कवद् वाक्यं सोत्कर्षं स्यादुदाहृतिः ।
क्रमः सञ्चिन्त्यमानाप्तिर् भावज्ञानमथापरे ॥ १.३६ ॥

सङ्ग्रहः सामदानोक्तिर् अभ्यूहो लिङ्गतोऽनुमा ।
अधिवलमभिसन्धिः संरब्धं तोटकं वचः ॥ १.३७ ॥

उद्वेगोऽरिछ(?)ता भीतिः शङ्कात्रासौ च सम्भ्रमः ।
गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः ॥ १.३८ ॥

क्रोधेनावमृशेद् यत्र व्यसनाद् या विलोभनात् ।
गर्भनिर्भिन्नबीजार्थः सोऽवमर्शोऽङ्गसङ्गहः ॥ १.३९ ॥

तत्रापवादसम्फेटौ विद्रवद्रवशक्तयः ।
द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् ।
प्रयोचना विचलनमादानं च तर्योदश ॥ १.४० ॥

दोषप्रख्यापवादः स्यात् सम्फेटो रोषभाषणम् ।
विद्रवो वधबन्धादिर् द्रवो गुरुतिरस्कृतिः ॥ १.४१ ॥

विरोधशमनं शक्तिस्तर्जनोद्वेजने द्युतिः ।
गुरुकीर्तनं प्रसङ्गश्छलनं चावमाननम् ॥ १.४२ ॥

व्यवसायः खशक्त्युक्तिः संरब्धानां विरोधनम् ।
सिद्धामन्त्रणतो भाविदर्शिका स्यात् प्रयोचना ।
विकत्थना विचलनम् आदानं कार्यसङ्ग्रहः ॥ १.४३ ॥

बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥ १.४४ ॥

सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् ।
प्रसादानन्दसमयाः कृतिभाषोपगूहनाः ।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ १.४५ ॥

सन्धिर्बीजोपगमनं विबोधः कार्यमार्गणम् ।
ग्रथनं तदुपक्षेपो ऽनुभूताख्या तु निर्णयः ॥ १.४६ ॥

परिभाषा मिथो जल्पः प्रसादः पर्युपासनम् ।
आनन्दो वाञ्छितावाप्तिः समयो दुःखनिर्गमः ॥ १.४७ ॥

कृतिर्लब्धार्थशमनं मानाद्याप्तिश्च भाषणम् ।
कार्यदृष्ट्यद्भुतप्राप्तो पूर्वभावोपगूहने ।
वराप्तिः काव्यसंहारः प्रशस्तिः शुभशंसनम् ॥ १.४८ ॥

इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम् ।
रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः ॥ १.४९ ॥

द्वेधा विभागः कर्तव्यः सर्वस्यापोह वस्तुनः ।
सूच्यमेव भवेत् किञ्चिद् दृश्यश्रव्यमथापरम् ॥ १.५० ॥

नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः ।
दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ॥ १.५१ ॥

अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् ।
विष्कम्भचूलिकाङ्गास्याङ्कावतारप्रवेशकैः ॥ १.५२ ॥

वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ।
एकानेककृतः शुद्धः सङ्कीर्णो नीचमध्यमैः ॥ १.५३ ॥

तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः ।
प्रवेशोऽङ्कद्वयस्यान्तः शेषार्थस्योपसूचकः ॥ १.५४ ॥

अन्तर्यवनिकासंस्थैश्चूलिकार्थस्य सूचना ।
अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ॥ १.५५ ॥

अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ।
एभिः संसूचयेत् सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ॥ १.५६ ॥

नाट्यधर्ममपेक्ष्यैतत् पुनर्वस्तु त्रिधेष्यते ।
सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च ॥ १.५७ ॥

सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ।
द्विधान्यन् नाट्यधर्माख्यं जनान्तमपवारितम् ॥ १.५८ ॥

त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ।
अन्योन्यामन्त्रणं यत् स्याज् जनान्ते तज् जनान्तिकम् ।
रहस्यं कथ्यते ऽन्यस्य परावृत्त्यापवारितम् ॥ १.५९ ॥

किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् ।
श्रुत्वेवानक्तमप्येकस्तत् स्यादाकाशमापितम् ॥ १.६० ॥

इत्याद्यशेषमिह वस्तुविभेदजातं
रामायणादि च विभाव्य बृहत्कथां च ।
आसूत्रयेत् तदनु नेतृरसानुगुण्याच्
चित्रां कथामुचितचारुवचःप्रपञ्चैः ॥ १.६१ ॥