दिव्यावदानम्
अवदानम् १-५०
[[लेखकः :|]]
अवदानम् ५१-१०० →


 अवदान १

००१.०००. दिव्१ कोटिकर्णावदानम्।

००१.००१. बुद्धो भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम्
००१.००१. अस्मात्परान्तके वासवग्रामे बलसेनो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी।
००१.००३. तेन सदृशात्कुलात्कलत्रमानीतम्।
००१.००३. स तया सार्धं क्रीडति रमते परिचारयति।
००१.००४. सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनायाचते आरामेदवतां वनदेवतां शृङ्गाटकदेवतां बलिप्रतिग्राहिकां देवताम्।
००१.००५. सहजां सहधर्मिकां नित्यानुबद्धामपि देवतामायाचत्
००१.००६. अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्त्
००१.००७. दुहितरश्चेति।
००१.००७. तच्च नैवम्।
००१.००७. यद्येवमभविष्यत्, एकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः।
००१.००८. अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्राअ जायन्ते दुहितरश्च्
००१.००९. कतमेषां त्रयाणाम्? मातापितरौ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धरव्ः प्रत्युपस्थितो भवति।
००१.०१०. एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च्
००१.०११. स चैवमायाचनपरस्तिष्ठति॥
००१.०१२. अन्यतमश्च सत्त्वश्चरमभविकश्च हितैषी गृहीतमोक्षमार्गान्तोन्मुखो न निर्वाणे बहिर्मुखः संसारादनर्थिकः सर्वभवगतिव्युपपत्तिपरान्मुखोऽन्तिमदेहधारी अन्यतमात्सत्त्वनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रान्तः।
००१.०१४. पञ्चावेणिका धर्मा एकत्ये पिण्डतजातीये मातृग्राम्
००१.०१४. कतमे पञ्च? रक्तं पुरुषं जानाति, विरक्तं जानाति।
००१.०१५. कालं जानाति, ऋतुं जानाति।
००१.०१५. गर्भमवक्रान्तं जानाति।
००१.०१६. यस्य सकाशाद्गर्भमवक्रामति तं जानाति।
००१.०१६. दारकं जानाति दारिकां जानाति।
००१.०१७. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति।
००१.०१७. सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति।
००१.०१८. सा आत्तमनात्तमनाः स्वामिन आरोचयति--दिष्ट्या आर्यपुत्र वर्धस्व्
००१.०१८. आपन्नसत्त्वास्मि संवृत्ता।
००१.०१९. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति।
००१.०१९. सोऽपि आत्तमनात्तमना उदानमुदानयति--अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्।
००१.०२०. जातो मे स्यान्नावजातः।
००१.०२१. कृत्यानि मे कुर्वीत् ।
००१.०२१. भृतः प्रतिबिभृयात् ।
००१.०२१. दायाद्यं प्रतिपद्येत्
००१.०२१. कुलवंशो मे चिरस्थितिको भविष्यति।
००१.०२२. अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा दक्षिणामादेशयिष्यति--इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति।
००१.०२४. आपन्नसत्त्वां च तां विदित्वा उपरिप्रसादतलगतामयन्त्रितां धारयति शीते शीतोपकरणैरुष्ण उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुकषायविवर्जितैराहारैः, हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठम्{न}वतरन्तीमुप{मध?}रिमां भूमिम्।
००१.०२७. न <२>चास्य अमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय्

००२.००१. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता।
००२.००२. दारको जातः।
००२.००२. अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णविशालललाटः संगतभ्रूरुत्तुङ्गनासो रत्नप्रत्युप्तिकया कर्णिकया आमुक्तयालंकृतः।
००२.००४. बलसेनेन गृहपतिना रत्नपरीक्षका आहूयोक्ताः।
००२.००४. भवन्तः, रत्नानां मूल्यं कुरुत इति।
००२.००५. न शक्यते रत्नानां मूल्यं कर्तुमिति।
००२.००५. धर्मता यस्य न शक्यते मूल्यं कर्तुं तस्य कोटिमूल्यं क्रियत्
००२.००६. ते कथयन्ति--गृहपते, अस्य रत्नस्य कोटिर्मूल्यमिति।
००२.००७. तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकानि एकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नामेति।
००२.००९. अयं दारकः कोटिमूल्यया रत्नप्रत्युप्तिकया आमुक्तया जातः, श्रवणेषु च नक्षत्रेषु।
००२.००९. भवतु दारकस्य श्रोणः कोटिकर्ण इति नाम्
००२.०१०. यस्मिन्नेव दिवसे श्रोणः कोटिकर्णो जातः, तस्मिन्नेव दिवसे बलसेनस्य गृहपतेर्द्वौ प्रेष्यदारकौ जातौ।
००२.०११. तेनैकस्य दारक इति नामधेयं व्यवस्थापितम्, अपरस्य पालक इति।
००२.०१२. श्रोणः कोटिकर्णोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्याम्।
००२.०१३. सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः।
००२.०१५. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥
००२.०१६. स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः, संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां रत्नपरीक्षायाम्।
००२.०१७. सोऽष्टासु परीक्षासूद्घटको वाचकः पिण्डतः पटुप्रचारः संवृत्तः।
००२.०१८. तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्।
००२.०१८. त्रीणि उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्।
००२.०१९. त्रीणि अन्तःपुराणि प्रत्युपस्थापितानि ज्येष्ठकं मध्यमं कनीयसम्।
००२.०२०. स उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति।
००२.०२१. बलसेनो गृहपतिर्नित्यमेव कृषिकर्मान्ते उद्युक्तः।
००२.०२१. स कोटिकर्णस्तं पितरं पश्यति नित्यं कृषिकर्मान्ते--उद्युक्तम्।
००२.०२२. स कथयति--तात, कस्यार्थे त्वं नित्यमेव कृषिकर्मान्ते उद्युक्तह्? स कथयति--पुत्र, यथा त्वमुपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडसि रमसि परिचारयसि, यद्यहमपि एवमेव क्रीडेयं रमेयं परिचारयेयम्, नचिरादेवास्माकं भोगास्तनुत्वं परिक्षयं पर्यादायं गच्छेयुः।
००२.०२५. स संलक्षयति--ममैवार्थं चोदना क्रियत्
००२.०२६. स कथयति--तात यद्येवम्, गच्छामि, महासमुद्रमवतरामि।
००२.०२६. पिता कथयति--पुत्र तावन्तं मे रत्नजातमस्ति।
००२.०२७. यदि त्वं तिलतण्डुलकोलकुलत्थन्यायेन रत्नानि परिमोक्ष्यसे, तथापि मे रत्नानां परिक्षयो न स्यात् ।
००२.०२८. स कथयति--तात अनुजानीहि माम, पण्यमादाय महासमुद्रमवतरामीति।
००२.०२९. बलसेनेन तस्यावश्यं निर्बन्धं ज्ञात्वानुज्ञातः।
००२.०२९. बलसेनेन गृहपतिना वासवग्रामके घण्टावघोषणं कृतम्--यो युष्माकमुत्सहते श्रोणेन कोटिकर्णेन सार्थवाहेन सार्धमशुल्केनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयतु।
००२.०३१. पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्।
००२.०३२. बलसेनो नाम गृहपतिः संलक्षयति--<३>कीदृशेन यानेन श्रोणः कोटिकर्णो यास्यति? स संलक्षयति--सचेधस्तिभिः, हस्तिनः सुकुमारा दुर्भराश्च, अश्वा अपि सुकुमारा दुभराश्च, गर्दभाः स्मृतिमन्तः सुकुमाराश्च्

००३.००३. गर्दभयानेन गच्छत्विति।
००३.००३. स पित्रा आहूयोक्तह्--पुत्र न त्वया सार्थस्य पुरस्ताद्गन्तव्यम्, नापि पृष्ठतः।
००३.००४. यदि बलवांश्चौरो भवति, सार्थस्य पुरस्तान्निपतति।
००३.००४. दुर्बलो भवति, पृष्ठतो निपतति।
००३.००५. त्वया सार्थस्य मध्ये गन्तव्यम्।
००३.००५. न च ते सार्थवाहे हते सार्थो वक्तव्यः।
००३.००६. दासकपालकावपि उक्तौ--पुत्रौ, युवाभ्यां न केनचित्प्रकारेण श्रोणः कोटिकर्णो मोक्तव्य इति॥
००३.००८. अथापरेण समयेन श्रोणः कोटिकर्णः कृतकौतुकमङ्गलस्वस्त्ययनो मातुः सकाशमुपसंक्रम्य पादयोर्निपत्य कथयति--अम्ब गच्छामि, अवलोकिता भव, महासमुद्रमवतरामि।
००३.०१०. सा रुदितुमारब्धा।
००३.०१०. स कथयति--अम्ब कस्माद्रोदसि।
००३.०१०. माता साश्रुदुर्दिनवदना कथयति--पुत्र, कदाचिदहं पुत्रकं पुनरपि जीवन्तं द्रक्ष्यामीति।
००३.०११. स संलक्षयति--अहं मङ्गलैः संप्रस्थितः।
००३.०१२. इयमीदृशममङ्गलमभिधत्त्
००३.०१२. स रुषितः कथयति--अम्ब, अहं कृतकौतूहलमङ्गलस्वस्त्ययनो महासमुद्रं संप्रस्थितः।
००३.०१३. त्वं चेदृशान्यमङ्गलानि करोषि।
००३.०१३. अपायान् किं न पश्यसीति।
००३.०१४. सा कथयति--पुत्र, खरं ते वाक्कर्म निश्चारितम्।
००३.०१३. अत्ययमत्ययतो देशय्
००३.०१५. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् ।
००३.०१५. सा तेनात्ययमत्ययतो क्षमापिता।
००३.०१५. अथ श्रोणः कोटिकर्णः कृतकौतूहलमङ्गलस्वस्त्ययनः शकटैर्भारैर्मोटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं समुद्रगमनीयं पण्यमारोप्य महासमुद्रं संप्रस्थितः।
००३.०१७. सोऽनुपूर्वेण ग्रामनगरनिगमपल्लिपत्तनेषु चञ्चूर्यमाणो महासमुद्रतटमनुप्राप्तः।
००३.०१८. निपुणतः सामुद्रं यानपात्रं प्रतिपाद्य महासमुद्रमवतीर्णो धनहारकः।
००३.०१९. सोऽनुगुणेन वायुना रत्नद्वीपमनुप्राप्तः।
००३.०१९. तेन तत्रोपपरीक्ष्योपपरीक्ष्य रत्नानां तद्वहनं पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्।
००३.०२०. सोऽनुगुणेन श्रोणः संसिद्धयानपात्रो जम्बुद्वीपमनुप्राप्तः।
००३.०२१. स सार्थस्तस्मिन्नेव समुद्रतीरे आवासितः।
००३.०२१. सौ श्रोणः कोटिकर्णोऽपि सार्थवाहो दासकपालकावादाय सार्थमध्यादेकान्तेऽपक्रम्य आयं व्ययं च तुलयितुमारब्धः।
००३.०२३. पश्चात्तेनासौ दासकोऽभिहितह्--दासक, पश्य साथः किं करोतीति।
००३.०२३. स गतः।
००३.०२३. यावत्पश्यति स्थोरां लर्दयन्तं सार्थम्।
००३.०२४. सोऽपि स्थोरां लर्दयितुमारब्धः।
००३.०२४. दासकः संलक्षयति--पालकः सार्थवाहं शब्दापयिष्यति।
००३.०२५. पालकोऽपि संलक्षयति--दासकः सार्थवाहः शब्दापयिष्यतीति।
००३.०२६. स सार्थः सरात्रिमेव स्थोरां लर्दयित्वा संप्रस्थितः।
००३.०२६. सोऽपि गाढनिद्रावष्टब्धः शयितः।
००३.०२७. स सार्थस्तावद्गतो यावत्प्रभातम्।
००३.०२७. ते कथयन्ति--भवन्तः, क्व सार्थवाहह्? पुरस्ताद्गच्छति।
००३.०२८. पुरस्ताद्गत्वा पृच्छन्ति--क्व सार्थवाहह्? पृष्ठत आगच्छति।
००३.०२८. पृष्ठतो गत्वा पृच्छन्ति--क्व सार्थवाहह्? मध्ये गच्छति।
००३.०२९. मध्ये गत्वा पृच्छन्ति।
००३.०२९. यावत्तत्रापि नास्ति।
००३.०२९. दासकः कथयति--मम बुद्धिरुत्पन्ना--पालकः सार्थवाहं शब्दापयिष्यति।
००३.०३०. पालकोऽपि कथयति--मम बुद्धिरुत्पन्ना--दासकः सार्थवाहं शब्दापयिष्यति।
००३.०३१. भवन्तः, न शोभनं कृतं यदस्माभिः सार्थवाहश्छोरितः।
००३.०३२. आगच्छत, निवार्तामः।
००३.०३२. ते कथयन्ति--भवन्तः, यदि वयं निवर्तिष्यामः।

००४.००१. <४>सर्व एवानयेन व्यसनमापत्स्यामः।
००४.००१. आगच्छत, क्रियाकारं तावत्कर्मह्--तावन्न केनचिच्छ्रोणस्य कोटिकर्णस्य मातापितृभ्यामारोचयितव्यं यावद्भाण्डं प्रतिशामितं भवति।
००४.००२. ते क्रियाकारं कृत्वा गताः।
००४.००३. श्रोणस्य कोटिकर्णस्य मातापितृभ्यां श्रुतम्--श्रोणः कोटिकर्णोऽभ्यागत इति।
००४.००४. ते कथयन्ति--पृष्ठत आगच्छति।
००४.००५. पृष्ठतो गत्वा पृच्छतह्--क्व सार्थवाहह्? पुरस्ताद्गच्छतीति।
००४.००६. तैस्तावदाकुलीकृतौ यावद्भाण्डं प्रतिशामितम्।
००४.००६. पश्चात्ते कथयन्ति--अम्ब विस्मृतोऽस्माभिः सार्थवाह इति।
००४.००७. ताभ्यामेक आगत्य कथयति--अयं श्रोणः कोटिकर्णोऽभ्यागत इति।
००४.००८. तस्य तावभिसारं दत्त्वा प्रत्युद्गतौ न पश्यतः।
००४.००८. अपर आगत्य कथयति--अम्ब, दिष्ट्या वर्धस्व, अयं श्रोणः कोटिकर्णोऽभ्यागत इति।
००४.००९. तस्य तावभिसारं दत्त्वा प्रत्युद्गतौ न पश्यतः।
००४.०१०. तौ न कस्यचित्पुनरपि श्रद्दधातुमारब्धौ।
००४.०१०. ताभ्यामुद्यानेषु स्वकसभादेवकुलेषु च्छत्राणि व्यजनानि कलशानि उपानहानि चाक्षराणि अभिलिखितानि दत्तानि स्थापितानि--यदि तावच्छ्रोणः कोटिकर्णो जीवति, लघु आगमय, क्षिप्रमागमय्
००४.०१२. अथ च्युतः कालगतः, तस्यैव गत्युपपत्तिस्थानात्स्थानान्तरविशेषतायै।
००४.०१३. तौ शोकेन रुदन्तावन्धीभूतौ॥
००४.०१४. श्रोणः कोटिकर्णः सार्थवाहोऽपि सूर्यांशुभिः स्पृष्ट आतापितः प्रतिविबुद्धो यावत्सार्थं न पश्यति नान्यत्र गर्दभयानमेव्
००४.०१५. स तं गर्दभयानमभिरुह्य संप्रस्थितः।
००४.०१६. रात्रौ च वातेन प्रवायता वालुकया मार्गो व्यपोढः पिथितः।
००४.०१६. ते च गर्दभाः स्मृतिमन्तो गन्धमाघ्रायाघ्राय शनैर्मन्दमन्दं संप्रस्थिताः।
००४.०१७. सार्थवाहः संलक्षयति--कस्मादेते शनैर्मन्दमन्दं गच्छन्तीति कृत्वा प्रतोदयष्ट्या ताडिताः।
००४.०१८. ते संभ्रान्ता आकुलीभूताः स्मृतिभ्रष्टा उन्मार्गेण संप्रस्थिताः, यावदन्यतमाशाटवीं प्रविष्टाः।
००४.०१९. ते तृषार्ता विह्वलवदना जिह्वां निर्नामय्य गच्छन्ति।
००४.०२०. तान् दृष्ट्वा तस्य कारुण्यमुत्पन्नम्।
००४.०२०. स संलक्षयति--यदि एतान्नोत्स्रक्ष्यामि, अनयेन व्यसनमापत्स्य्
००४.०२१. कोऽसौ निर्घृणहृदयस्त्यक्तपरलोकश्च य एषां प्रतोदयष्टिं काये निपातयिष्यति? तेन त उत्सृष्टाह्--अद्याग्रेण अच्छिन्नाग्राणि तृणानि भक्षयत अनवमर्दितानि, पानीयानि पिबत अनाविलानि, चतुर्दिशं च शीतला वायवो वान्त्विति।
००४.०२४. स तानुत्सृज्य पद्भ्यां संप्रस्थितः।
००४.०२४. यावत्पश्यति आयसं नगरमुच्चं च प्रगृहीतं च्
००४.०२५. तत्र द्वारे पुरुषस्तिष्ठति कालो रौद्राश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः।
००४.०२६. स तस्य सकाशमुपसंक्रान्तः।
००४.०२६. उपसंक्रम्य तं पुरुषं पृच्छति--अस्ति अत्र भोः पुरुष पानीयमिति।
००४.०२७. स तूष्णीं व्यवस्थितः।
००४.०२७. भूतस्तेन पृष्टह्--अस्त्यत्र नगरे पानीयमिति।
००४.०२८. भूयोऽपि स तूष्णीं व्यवस्थितः।
००४.०२८. तेन सार्थवाहेन तत्र प्रविश्य पानीयं पानीयमिति शब्दो निश्चारितः।
००४.०२९. यावत्पञ्चमात्रैः प्रेतसहस्रैर्दग्धस्थूणासदृशैरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः श्रोणः कोटिकर्णः।
००४.०३१. ते कथयन्ति--सार्थवाह कारुणिकस्त्वम्।
००४.०३१. अस्माकं तृषार्तानां पानीयमनुप्रयच्छ्
००४.०३१. स कथयति--भवन्तः, अहमपि पानीयमेव मृगयामि।
००४.०३२. कुतोऽहं युष्माकं पानीयमनुप्रयच्छामीति? <५>ते कथयन्ति--सार्थवाह, प्रेतनगरमिदम्, कुतोऽत्र पानीयम्? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात्पानीयं पानीयमिति शब्दः श्रुतः।

००५.००२. स कथयति--के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाह्? श्रोण दुष्कुहका जाम्बूद्वीपका मनुष्याः।
००५.००३. नाभिश्रद्दधास्यसि।
००५.००३. अहं भवन्तः प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते गाथां भाषन्ते--
००५.००५. आक्रोशका रोषका वयं मत्सरिणः कुटुकुञ्चका वयम्।
००५.००६. दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः॥१॥
००५.००७. श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्।
००५.००७. अस्ति कश्चित्त्वया दृष्टः प्रेतनगरं प्रविष्टः स्वस्तिक्षेमाभ्यां निर्गच्छन्? स संप्रस्थितो यावत्तेनासौ पुरुषो दृष्टः।
००५.००८. तेनोक्तह्--भद्रमुख, अहो बत त्वया ममारोचितं स्यात्यथेदं प्रेतनगरमिति, नाहमत्र प्रविष्टः स्याम्।
००५.००९. स तेनोक्तह्--श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्, येन त्वं प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां निर्गतः।
००५.०११. स संप्रस्थितः।
००५.०११. यावदपरं पश्यति आयसं नगरमुच्चं च प्रगृहीतं च्
००५.०११. तत्रापि द्वारे पुरुषस्तिष्ठति कालश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः।
००५.०१२. स तस्य सकाशमुपसंक्रान्तः।
००५.०१३. उपसंक्रम्यैवमाह--भोः पुरुष, अस्ति अत्र नगरे पानीयम्? स तूष्णीं व्यवस्थितः।
००५.०१४. भूयस्तेन पृष्टह्--भोः पुरुष, अस्ति अत्र नगरे पानीयम्? स तूष्णीं व्यवस्थितः।
००५.०१५. तेन तत्र प्रविश्य पानीयं पानीयमिति शब्दः कृतः।
००५.०१५. अनेकैः प्रेतसहस्रैर्दग्धस्थूणाकृतिभिरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः।
००५.०१७. श्रोण कारुणिकस्त्वम्।
००५.०१७. अस्माकं तृषार्तानां पानीयमनुप्रयच्छ्
००५.०१७. स कथयति--अहमपि भवन्तः पानीयमेव मृगयामि।
००५.०१८. कुतोऽहं युष्माकं पानीयं ददामीति? ते कथयन्ति--श्रोण, प्रेतनगरमिदम्।
००५.०१९. कुतोऽत्र पानीयम्? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात्पानीयं पानीयमिति शब्दः श्रुतः।
००५.०२०. स चाह--के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाह्? त ऊचुह्--श्रोण, दुष्कुहका जाम्बुद्वीपका मनुष्याः।
००५.०२१. नाभिश्रद्दधास्यसि।
००५.०२१. स चाह--अहं भवन्तः प्रत्यक्षदर्शी।
००५.०२२. कस्मान्नाभिश्रद्दधास्ये? ते गाथां भाषन्ते--
००५.०२३. आरोग्यमदेन मत्तका ये धनमोगमदेन मत्तकाः।
००५.०२४. दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः॥२॥
००५.०२५. श्रोण गच्छ, पुण्यकर्मा त्वम्।
००५.०२५. अस्ति कश्चित्त्वया दृष्टः श्रुतः स प्रेतनगरं प्रविश्य क्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन्? स संप्रस्थितः।
००५.०२६. यावत्तेनासौ पुरुषो दृष्टः।
००५.०२६. स तेनोक्तह्--भद्रमुख, अहो बत यदि त्वया ममारोचितं स्याद्यथेदं प्रेतनगरमिति, नैवाहमत्र प्रविष्टः स्याम्।
००५.०२८. स कथयति--श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्।
००५.०२८. अस्ति कश्चित्त्वया दृष्टः श्रुतो वा प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन्? स संप्रस्थितः।
००५.०२९. यावत्पश्यति सूर्यस्यास्तगमनकाले विमान, चतस्रोऽप्सरसहभिरूपाः प्रासादिका दर्शनीयाः।
००५.०३०. एकः पुरुषोऽभिरूपो दर्शनीयः प्रासादिकहङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्ताभिः सार्धं क्रीडति रमते परिचारयति।
००५.०३२. स तैर्दूरत एव दृष्टः।
००५.०३२. ते तं प्रत्यवभाषितुमारब्धाः।
००५.०३२. स्वागतम् <६>श्रोण, मासि तृषितो बुभुक्षितो वा? स संलक्षयति--नूनं देवोऽयं वा नागो वा यक्षो वा भविष्यति।

००६.००२. आह च--आर्य तृषितोऽस्मि, बुभुक्षितोऽस्मि।
००६.००२. स तैः स्नापितो भोजितः।
००६.००२. स तस्मिन् विमाने तावत्स्थितो यावत्सूर्यस्याभ्युद्गमनकालसमयः।
००६.००३. स तेनोक्तह्--श्रोण अवतरस्व, आदीनवोऽत्र भविष्यति।
००६.००४. सोऽवतीर्य एकान्ते व्यवस्थितः।
००६.००४. ततः पश्चात्सूर्यस्याभ्युद्गमनकालसमये तद्विमानमन्तर्हितम्।
००६.००५. ता अपि अप्सरसोऽन्तर्हिताश्च्
००६.००५. चत्वारः श्यामशबलाः कुर्कुराः प्रादुर्भूताः।
००६.००६. तैस्तं पुरुषमवमूर्धकं पातयित्वा तावत्पृष्टवंशानुत्पाट्योत्पाट्य भिक्षितो यावत्सूर्यस्यास्तगमनकालसमयः।
००६.००७. ततः पश्चात्पुनरपि तद्विमानं प्रादुर्भूतम्, ता अप्सरसः प्रादुर्भूताः।
००६.००८. स च पुरुषस्ताभिः सार्धं क्रीडति रमते परिचारयति।
००६.००८. स तेषां सकाशमुपसंक्रम्य कथयति--के यूयम्, केन च कर्मणा इहोपपन्नाह्? ते प्रोचुह्--श्रोण दुष्कुहका जाम्बुद्वीपका मनुष्याः।
००६.०१०. नाभिश्रद्दधास्यसि।
००६.०१०. स चाह--अहं प्रत्यक्षदर्शी, कथं नाभिश्रद्दधास्ये? श्रोण, अहं वासवग्रामके औरभ्रक आसीत् ।
००६.०११. उरभ्रान् प्रघात्य प्रघात्य मांसं विक्रीय जीविकां कल्पयामि।
००६.०१२. आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति--भद्रमुख, अनिष्टोऽस्य कर्मणः फलविपाकः।
००६.०१३. विरम त्वमस्मात्पापकादसद्धर्मात् ।
००६.०१३. नाहं तस्य वचनेन विरमामि।
००६.०१४. भूयो भूयः स मां विच्छन्दयति--भद्रमुख, अनिष्टोऽस्य कर्मणो फलविपाकः।
००६.०१५. विरम त्वमस्मात्पापकादसद्धर्मात् ।
००६.०१५. तथापि अहं न प्रतिविरमामि।
००६.०१५. स मां पृच्छति--भद्रमुख, किं त्वमेतानुरभ्रान् दिवा प्रघातयसि आहोस्विदू रात्रौ? मयोक्तह्--आर्य दिवा, प्रघातयामीति।
००६.०१७. स कथयति--भद्रमुख, रात्रौ शीलसमादानं किं न गृह्णासि।
००६.०१७. मया तस्यान्तिकाद्रात्रौ शीलसमादानं गृहीतम्।
००६.०१८. यत्तद्रात्रौ शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दिव्यं सुखं प्रत्यनुभवामि।
००६.०१९. यन्मया दिवा उरभ्राः प्रघातिताः, तस्य कर्मणो विपाकेन दिवा एवंविधं दुःखं प्रत्यनुभवामि।
००६.०२०. गाथां च भाषते--
००६.०२१. दिवसं परप्राणपीडको रात्रौ शीलगुणैः समन्वितः।
००६.०२२. तस्यैतत्कर्मणः फलं ह्यनुभवामि कल्याणपापकम्॥३॥
००६.०२३. श्रोण, गमिष्यसि त्वं वासवग्रामकम्? गमिष्यामि।
००६.०२३. तत्र मम पुत्रः प्रतिवसति।
००६.०२३. स उरभ्रान् प्रघात्य प्रघात्य जीविकां कल्पयति।
००६.०२४. स त्वया वक्तव्यह्--दृष्टस्ते मया पिता
००६.०२५. कथयति--अनिष्टोऽस्य कर्मणः फलविपाकः।
००६.०२५. विरमास्मात्पापकादसद्धर्मात् ।
००६.०२५. भोः पुरुष, त्वमेवं कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्या इति।
००६.०२६. नाभिश्रद्दधास्यति।
००६.०२६. श्रोण, यदि न श्रद्दधास्यति, वक्तव्यस्तव पिता कथयति--अस्ति सूनाधस्तात्सुवर्णस्य कलशः पूरयित्वा स्थापितः।
००६.०२८. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय्
००६.०२८. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय्
००६.०२९. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् ।
००६.०३०. स संप्रस्थितः।
००६.०३०. यावत्सूर्यस्याभ्युद्गमनकालसमये पश्यति अपरं विमानम्।
००६.०३१. तत्र एका अप्सरा अभिरूपा दर्शनीया प्रासादिका, एकश्च पुरुष अभिरूपो दर्शनीयः प्रासादिकहङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्तया सार्धं क्रीडति रमते <७>परिचारयति।

००७.००१. स तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धः।
००७.००१. स्वागतं श्रोण, मा तृषितोऽसि, मा बुभुक्षितोऽसि वा? स संलक्षयति--नूनमयं देवो वा नागो वा यक्षो वा भविष्यति।
००७.००३. स कथयति--तृषितोऽस्मि बुभुक्षितश्च्
००७.००३. स तेन स्नापितो भोजितः।
००७.००३. स तस्मिन् विमाने तावत्स्थितो यावत्सूर्यस्यास्तंगमनकालसमयः।
००७.००४. स तेनोक्तह्--अवतरस्व, आदीनवोऽत्र भविष्यति।
००७.००५. स दृष्टादीनवोऽवतीर्य एकान्तेऽवस्थितः।
००७.००५. ततः पश्चात्सूर्यस्यास्तगमनकालसमये तद्विमानमन्तर्हितम्।
००७.००६. सापि अप्सरा अन्तर्हिता।
००७.००६. महती शतपदी प्रादुर्भूता।
००७.००६. तया तस्य पुरुषस्य कायेन कायं सप्तकृत्वो वेष्टयित्वा तावदुपरिमस्तिष्कं भक्षयन्ती स्थिता, यावत्स एव सूर्यस्याभ्युद्गमनकालसमयः।
००७.००८. ततः पश्चात्पुनरपि तद्विमानं प्रादुर्भूतम्।
००७.००९. सापि अप्सराः प्रादुर्भूता।
००७.००९. स च पुरुषोऽभिरूपो दर्शनीयः प्रासादिकस्तया सार्धं क्रीडति रमते परिचारयति।
००७.०१०. स तमुपसंक्रम्य पृच्छति--को भवान्, केन कर्मणा इहोपपन्नह्? स एवमाह--श्रोण, दुष्कुहका जाम्बूद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि।
००७.०११. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? स कथयति--यदि एवम्, अहं वासवग्रामके ब्राह्मण आसीत्पारदारिकः।
००७.०१३. आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति--भद्रमुख, अनिष्टोऽस्य कर्मणः फलविपाकः।
००७.०१४. विरम त्वमस्मात्पापकादसद्धर्मात् ।
००७.०१४. तस्य वचनादहं न प्रतिविरमामि।
००७.०१५. भूयो भूयः स माम विच्छन्दयति।
००७.०१५. तथैवाहं तस्मात्पापकादसद्धर्मान्न प्रतिविरमामि।
००७.०१६. स मां पृच्छति--भद्रमुख, परदारान् किं त्वं दिवा गच्छसि, आहोस्विद्रात्रौ? स मयाभिहितह्--आर्य रात्रौ।
००७.०१७. स कथयति--भद्रमुख, दिवा किं न शीलसमादानं गृह्णासि? मया तस्यान्तिके दिवा शीलसमादानं गृहीतम्।
००७.०१८. यत्तन्मया आर्यस्य कात्यायनस्यान्तिकाद्दिवा शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन दिवा एवंविधं दिव्यसुखं प्रत्यनुभवामि।
००७.०२०. यत्तद्रात्रौ परदाराभिगमनं कृतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दुःखं प्रत्यनुभवामि।
००७.०२१. गाथां च भाषते--
००७.०२२. रात्रौ परदारमूर्च्छितो, दिवसं शीलगुणैः समन्वितः।
००७.०२३. तस्यैतत्कर्मणः फलं ह्यनुभवामि कल्याणपापकम्॥४॥
००७.०२४. श्रोण, गमिष्यसि त्वं वासवग्रामकम्।
००७.०२४. तत्र मम पुत्रो ब्राह्मणः पारदारिकः।
००७.०२४. स वक्तव्यह्--दृष्टस्ते मया पिता।
००७.०२५. स कथयति--अनिष्टोऽस्य कर्मणः फलविपाकः।
००७.०२५. विरमास्मात्पापकादसद्धर्मात् ।
००७.०२६. भोः पुरुष, त्वमेवं कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्या इति।
००७.०२६. एतन्मे कः श्रद्दधास्यति? श्रोण यन्न श्रद्दधास्यति, वक्तव्यह्--तव पित्रा अग्निष्टोमस्याधस्तात्सुवर्णकलशः पूरयित्वा स्थापितः।
००७.०२८. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय्
००७.०२८. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय्
००७.०२९. अस्माकं च नांना दक्षिणां देशय्
००७.०२९. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् ।
००७.०३०. स संप्रस्थितः।
००७.०३०. यावत्पश्यति विमानम्।
००७.०३०. तत्रैका स्त्री अभिरूपा दर्शनीया प्रासादिका अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपना।
००७.०३१. तस्याश्चतुर्षु पर्यङ्कपादकेषु चत्वारः प्रेता बद्धास्तिष्ठन्ति।
००७.०३२. सा तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धा--<८>श्रोण, स्वागतम्।

००८.००१. मा तृषितोऽसि मा बुभुक्षितोऽसि वा? स संलक्षयति--नूनं देवीयं वा नागी वा यक्षी वा भविष्यति।
००८.००२. स कथयति--आर्ये, तृषितोऽस्मि बुभुक्षितोऽस्मि।
००८.००२. तयासावुद्वर्तितः स्नापित आहारो दत्तः।
००८.००३. उक्तं च--श्रोण, यदि एते किंचिन्मृगयन्ति, मा दास्यसीति उक्त्वा तेषां सत्त्वानां कर्मस्वकटां प्रत्यक्षीकर्तुकामा विमानं प्रविश्यावस्थिता।
००८.००४. ते मृगयितुमारब्धाह्--श्रोण कारुणिकस्त्वम्।
००८.००५. बुभुक्षिता वयम्।
००८.००५. अस्माकमनुप्रयच्छ्
००८.००५. तेनैकस्य क्षिप्तम्--बुसप्लावी प्रादुर्भूता।
००८.००६. अपरस्य क्षिप्तम्--अयोगुडं भक्षयितुमारब्धः।
००८.००६. अपरस्य क्षिप्तम्--स्वमांसं भक्षयितुमारब्धह्--अपरस्य क्षिप्तम्--पूयशोणितं प्रादुर्भूतम्।
००८.००७. सा विस्रगन्धेन निर्गता।
००८.००८. श्रोण निवारितस्त्वं मया।
००८.००८. कस्मात्त्वयैषां दत्तम्? किं कथयति--अयं मे स्वामी, अयं मे पुत्रः, इयं मे स्नुषा, इयं मे दासी।
००८.०१०. स आह--के यूयम्, केन वा कर्मणा इहोपपन्नाह्? तयोक्तम्--श्रोण, दुष्कुहका जाम्बुद्वीपका मनुष्या इति नाभिश्रद्दधास्यसि।
००८.०११. अहं प्रत्यक्षदर्शी कस्मान्नाभिश्रद्दधास्ये? सा कथयति--अहं वासवग्रामके ब्राह्मणी आसीत् ।
००८.०१२. मया नक्षत्ररात्र्यां प्रत्युपस्थितायां प्रणीतमाहारं सज्जीकृतम्।
००८.०१३. आर्यमहाकात्यायनो ममानुकम्पया वासवग्रामके पिण्डाय प्राविक्षत् ।
००८.०१४. स मया दृष्टः कायप्रासादिकश्चित्तप्रासादिकः।
००८.०१४. चित्तमभिप्रसन्नं दृष्ट्वा स मया प्रसादजातया पिण्डकेन प्रतिपादितः।
००८.०१५. तस्या मम बुद्धिरुत्पन्ना--स्वामिनमनुमोदयामि, प्रामोद्यमुत्पादयिष्यतीति।
००८.०१६. स स्नात्वा आगतः।
००८.०१६. मयोक्तम्--आर्यपुत्र, अनुमोदस्व, मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः।
००८.०१७. स रुषितो यावद्ब्राह्मणानां न दीयते, ज्ञातीनां वा ज्ञातिपूजा न क्रियते, तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डकं दत्तम्? सोऽमर्षजातः कथयति--कस्मात्स मुण्डकः श्रमणको बुसप्लावीं न भक्षयतीति? तस्य कर्मणो विपाकेनायं बुसप्लावीं भक्षयति।
००८.०२०. मम बुद्धिरुत्पन्ना--पुत्रमपि अनुमोदयामि, प्रामोद्यमुत्पादयिष्यतीति।
००८.०२१. सोऽपि मयोक्तह्--पुत्र, अनुमोदस्व, मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः।
००८.०२१. सोऽपि रुषितो यावद्ब्राह्मणानां न दीयते, ज्ञातीनां वा ज्ञातिपूजा न क्रियते, तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डं दत्तम्? सोऽपि अमर्षजातः कथयति--कस्मात्स मुण्डकः श्रमणकोऽयोगुडं न भक्षयतीति? तस्य कर्मणो विपाकेनायमयोगुडं भक्षयति।
००८.०२४. नक्षत्ररात्र्यां प्रत्युपस्थितायां मम ज्ञातयः प्रहेणकानि प्रेषयन्ति।
००८.०२५. तानि अहं स्नुषायाः समर्पयामि।
००८.०२५. सा प्रणीतानि प्रहेणकानि भक्षयित्वा मम लूहानि उपनामयति।
००८.०२६. अहं तेषां ज्ञातीनां संदिशामि--किं नु यूयं दुर्भिक्षे यथा लूहानि प्रहेणकानि प्रेषयत? ते मम संदिशन्ति--न वयं लूहानि प्रेषयामः, अपि तु प्रणीतान्येव प्रहेणकानि प्रेषयामः।
००८.०२९. मया स्नुषाभिहिता--वधूके, मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वास्मकं लूहानि उपनामयसि? सा कथयति--किं स्वमांसं न भक्षयति या त्वदीयानि प्रहेणकानि भक्षयतीति? इयं तस्य कर्मणो विपाकेन स्वमांसानि भक्षयति।
००८.०३२. नक्षत्ररात्र्यां प्रतुपस्थितायां प्रणीतानि प्रहेणकानि दत्त्वा ज्ञातीनां प्रेषयामि।
००८.०३३. सा दारिका तानि प्रणीतानि प्रहेणकानि मार्गेऽन्तर्भक्षयित्वा तेषां लूहानि उपनामयति।

००९.००१. <९>ते मम संदिशन्ति--किं नु त्वं दुर्भिक्षे यथा लूहानि अस्माकं प्रहेणकानि प्रेषयसि? अहं तेषां संदिशामि--नाहं लूहानि पेर्षयामि, अपि तु प्रणीतान्येवाहं प्रेषयामीति।
००९.००२. मया दारिकाभिहिता--दारिके, मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वा तेषां लूहानि उपनामयसि।
००९.००४. सा कथयति--किं नु पूयशोणितं न भक्षयति, या त्वदीयानि प्रहेणकानि भक्षयतीति? तस्य कर्मणो विपाकेनेयं पूयशोणितं भक्षयति।
००९.००५. मम बुद्धिरुत्पन्ना--तत्र प्रतिसंधिं गृह्णीयां यत्रैतान् सर्वान् स्वकं स्वकं कर्मफलं परिभुञ्जानान् पश्येयमिति।
००९.००६. यया मयार्यमहाकात्यायनं पिण्डकेन प्रतिपाद्य प्रणीते त्रायस्त्रिंशे देवनिकाये उपपत्तव्यम्, साहं मिथ्याप्रणिधानवशात्प्रेतमहर्द्धिका संवृत्ता।
००९.००८. श्रोण, गमिष्यसि त्वं वासवग्रामकम्? तत्र मम दुहिता वेश्यं वाहयति।
००९.००९. सा त्वया वक्तव्या--दृष्टास्ते मया पिता माता भ्राता भ्रातुर्जाया दासी।
००९.०१०. ते कथयन्ति--अनिष्टोऽस्य कर्मणः फलविपाकः।
००९.०१०. विरमास्मादसद्धर्मात् ।
००९.०१०. भगिनि, त्वमेव कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यन्ति।
००९.०११. श्रोण, यदि न श्रद्दधास्यति, वक्तव्या--तव पौराणे पैतृके वासगृहे चत्वारो लोहसंघाटाः सुवर्णस्य पूर्णास्तिष्ठन्ति, मध्ये च सौवर्णदण्डकमण्डलुः।
००९.०१३. ते कथयन्ति--तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय्
००९.०१५. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् ।
००९.०१५. तेन तस्याः प्रतिज्ञातम्।
००९.०१६. एवं तस्य परिभ्रमतो द्वादश वर्षा अतिक्रान्ताः॥
००९.०१७. तयोक्तह्--श्रोण, गमिष्यसि त्वं वासवग्रामकम्? भगिनि, गमिष्यामि।
००९.०१७. स तस्मिन्नेव विमाने उषितः।
००९.०१८. तया तेषामेव प्रेतानामाज्ञा दत्ता--भवन्तो गच्छत, श्रोणं कोटिकर्णं सुप्तमेव वासवग्रामके पैतृके उद्याने स्थापयित्वा आगच्छत्
००९.०१९. स तैर्वासवग्रामके पैतृके उद्याने स्थापितः।
००९.०२०. स प्रतिविबुद्धो यावत्पश्यति घण्टाछत्राणि व्यजनानि, अक्षराणि लिखितानि--यदि तावच्छ्रोणः कोटिकर्णो जीवति, लघ्वागमनाय, क्षिप्रमागमनाय, च्युतः कालगतो गत्युपपत्तिस्थानात्स्थानान्तरविशेषतायै।
००९.०२२. स संलक्षयति--यदि अहं मातापितृभ्यां मृत एव गृहीतः, कस्माद्भूयोऽहं गृहं प्रविशामि? गच्छामि, आर्य महाकात्यायनस्यान्तिकात्प्रव्रजामीति।
००९.०२४. अथ श्रोणः कोटिकर्णो येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्तः।
००९.०२५. अद्राक्षीदायुष्मान्महाकत्यायनः श्रोणं कोटिकर्णं दूरादेव्
००९.०२५. दृष्ट्वा च पुनः श्रोणं कोटिकर्णमिदमवोचत्--एहि श्रोण, श्वागतं त्
००९.०२६. दृष्टस्ते श्रोण अयं लोकः परश्च लोकह्? स कथयति--दृष्टो भदन्त महकात्यायन्
००९.०२७. लभेयाहं भदन्त महाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
००९.०२८. चरेयमहं भवतोऽन्तिके ब्रह्मचर्यम्।
००९.०२८. स आर्येणोक्तह्--श्रोण, तां तावत्पूर्विकां प्रतिज्ञां परिपूरय्
००९.०२९. यथागृहीतान् संदेशान् समर्पयेति।
००९.०२९. स तस्यैरभ्रिकस्य सकाशमुपसंक्रान्तः।
००९.०३०. विरमास्मादसद्धर्मात् ।
००९.०३१. भोः पुरुष, अद्य मम पितुर्द्वादशवर्षाणि कालगतस्य्
००९.०३२. अस्ति कश्चिद्दृष्टः परलोकात्पुनरागच्छन्? भद्रमुख, एषोऽहमागतः।
००९.०३२. नासौ श्रद्दधाति।
००९.०३३. भद्रमुख, यदि न श्रद्दधासि, स तव पिता कथयति--अस्ति सूनाधस्तात्सुवर्णस्य कलशः।

०१०.००१. <१०>पूर्णस्तिष्ठति।
०१०.००१. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय्
०१०.००१. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय्
०१०.००२. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादाय गच्छेत् ।
०१०.००३. स संलक्षयति--न कदाचिदेवं मया श्रुतपूर्वम्।
०१०.००३. पश्यामि, सचेद्भूतं भविष्यति, सर्वमेतत्सत्यम्।
०१०.००४. तेन गत्वा खनितम्।
०१०.००४. यावत्तत्सर्वं तत्तथैव्
०१०.००४. तेनाभिश्रद्दधातम्।
०१०.००५. ततः पश्चात्स पारदारिकास्य सकाशमुपसंक्रान्तः।
०१०.००५. उपसंक्रम्य कथयति--भद्रमुख, दृष्टस्ते मया पिता।
०१०.००६. स कथयति--अनिष्टोऽस्य कर्मणः फलविपाकः।
०१०.००६. विरमास्मात्पापकादसद्धर्मात् ।
०१०.००७. स कथयति--भोः पुरुष, अद्य मम पितुर्द्वादश वर्षाणि कालं गतस्य्
०१०.००७. अस्ति कश्चित्त्वया दृष्टः परलोकं गत्वा पुनरागच्छन्? भद्रमुख, एषोऽहमागतः।
०१०.००८. नासौ श्रद्दधाति।
०१०.००९. स चाअह--भद्रमुख, सचेन्नाभिश्रद्दधासि, तव पित्रा अग्निष्टोमस्याधस्तात्सुवर्णस्य कलशः पूरयित्वा स्थापितः।
०१०.०१०. स कथयति--तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय्
०१०.०११. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् ।
०१०.०१२. स संलक्षयति--न कदाचिदेतन्मया श्रुतपूर्वम्।
०१०.०१३. पश्यामि, सचेद्भूतं भविष्यति, सर्वमेतत्सत्यम्।
०१०.०१३. तेन गत्वा खनितम्।
०१०.०१३. यावत्तत्सर्वं तत्तथैव्
०१०.०१४. तेनाभिश्रद्दधातम्।
०१०.०१४. स तस्या वेश्यायाः सकाशमुपसंक्रान्तः।
०१०.०१४. उपसंक्रम्य कथयति--भगिनि, दृष्टास्ते मया माता पिता भ्राता भ्रातुर्जाया दासी।
०१०.०१५. ते कथयन्ति--अनिष्टोऽस्य कर्मणः फलविपाकः।
०१०.०१६. विरमास्मात्पापकादसद्धर्मात् ।
०१०.०१६. सा कथयति--भोः पुरुष, मम मातापित्रोर्द्वादश वर्षाणि कालगतयोः।
०१०.०१७. अस्ति कश्चित्त्वया दृष्टः परलोकं गत्वा पुनरागच्छन्? स कथयति--एषोऽहमागतः।
०१०.०१८. सा न श्रद्दधाति।
०१०.०१८. स कथयति--भगिनि, सचेन्नाभिश्रद्दधासि, तव पौराणे पैतृके वासगृहे चतस्रो लोहसंघाटाः सुवर्णपूर्णास्तिष्ठन्ति, मध्ये च सौवर्णदण्डकमण्डलुः।
०१०.०२०. ते कथयन्ति--तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय्
०१०.०२२. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् ।
०१०.०२२. सा संलक्षयति--न कदाचिन्मया श्रुतपूर्वम्।
०१०.०२३. पश्यामि, सचेद्भूतं भविष्यति, सर्वमेतत्सत्यम्।
०१०.०२३. तया गत्वा खनितम्।
०१०.०२३. यावत्तत्सर्वं तत्तथैव्
०१०.०२४. तयाभिश्रद्दधातम्।
०१०.०२४. श्रोणः कोटिकर्णः संलक्षयति--सर्वोऽयं लोकः सुवर्णस्य श्रद्दधाति, न तु कश्चिन्मम श्रद्धया गच्छतीति।
०१०.०२५. तेन वैपुष्पितम्।
०१०.०२५. शिशुत्वे सुवर्णेन दशना बद्धाः।
०१०.०२६. तयासौ प्रत्यभिज्ञातः।
०१०.०२६. स्यादार्यः श्रोणः कोटिकर्ण एव ते भगिनीजनः संजानते(?)।
०१०.०२७. तया गत्वा तस्य मातापितृभ्यामारोचितम्।
०१०.०२७. अम्ब तात कोटिकर्णोऽभ्यागत इति।
०१०.०२८. अनेकैस्तेषामारोचितम्।
०१०.०२८. ते न कस्यचित्श्रद्धया गच्छन्ति।
०१०.०२८. ते कथयन्ति--पुत्रि त्वमप्यस्माकमुत्प्रासयसि।
०१०.०२९. यावदसौ स्वयमेव गतः।
०१०.०२९. तेन द्वारकोष्ठके स्थित्वोत्काशनशब्दः कृतः।
०१०.०३०. हिरण्यस्वरोऽसौ महात्मा।
०१०.०३०. तस्य शब्देन सर्वं गृहमापूरितम्।
०१०.०३०. स तैः स्वरेण प्रत्यभिज्ञातः।
०१०.०३१. ते कण्ठे परिष्वज्य रुदितुमारब्धौ।
०१०.०३१. तेषां बाष्पेण पटलानि स्फुटितानि।
०१०.०३२. द्रष्टुमारब्धौ।
०१०.०३२. स कथयति--अम्ब तात अनुजानीध्वम्।
०१०.०३२. प्रव्रजिष्यामि सम्यगेव श्रद्धया <११>अगारादनगारिकाम्।

०११.००१. तौ कथयतह्--पुत्र आवां त्वदीयेन शोकेन रुदन्तावन्धीभूतौ।
०११.००१. इदानीं त्वामेवागम्य चक्षुः प्रतिलब्धम्।
०११.००२. यावदावां जीवामः, तावन्न प्रव्रजितव्यम्।
०११.००२. यदा कालं करिष्यामः, तदा प्रव्रजिष्यसि।
०११.००३. तेनायुष्मतो महाकात्यायनस्यान्तिकाद्धर्मं श्रुत्वा स्रोतापत्तिफलं साक्षात्कृतम्, मातापितरौ च शरणगमनशिक्षापदेषु प्रतिष्ठापितौ।
०११.००४. आगमचतुष्टयमधीतम्, सकृदागामिफलं साक्षात्कृतम्।
०११.००५. मातापितरौ सत्येषु प्रतिष्ठापितौ॥
०११.००६. अपरेण समयेन तस्य मातापितरौ कालगतौ।
०११.००६. स तं धनजातं दीनानाथकृपणेभ्यो दत्त्वा दरिद्रानदरिद्रान् कृत्वा येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्तः।
०११.००७. उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वा एकान्तेऽस्थात् ।
०११.००८. एकान्ते स्थितः श्रोणः कोटिकर्ण आयुष्मन्तं महाकात्यायनमिदमवोचत्--लभेयाहमार्यमहाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्याम्, यावच्चरेयाहं भगवतोऽन्तिके ब्रह्मचर्यम्।
०११.०१०. स आयुष्मता महाकात्यायनेन प्रव्रजितः।
०११.०११. तेन प्रव्रज्य मातृकाधीता, अनागामिफलं साक्षात्कृतम्।
०११.०११. अस्मात्परान्तकेषु जनपदेष्वल्पभिक्षुकम्।
०११.०१२. कृच्छ्रेण देशवर्गो गणः परिपूर्यत्
०११.०१२. स त्रैमासीं श्रामणेरो धारितः।
०११.०१२. धर्मता खलु यथा बुद्धानां भगवतां श्रावकाणां द्वौ संनिपातौ भवतः।
०११.०१३. यच्चाषाढ्यां वर्षोपनायिकायां यच्च कार्तिक्यां पूर्णमास्याम्।
०११.०१४. तत्र ये आषाढ्यां वर्षोपनायिकायां संनिपतन्ति, ते तांस्तानुद्देशयोगमनसिकारानुद्गृह्य पर्यवाप्य तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगच्छन्ति।
०११.०१५. ये कार्तिक्यां पौर्णमास्यां संनिपतन्ति, ते यथाधिगतमारोचयन्ति, उत्तरे च परिपृच्छन्ति सूत्रस्य विनयस्य मातृकायाः।
०११.०१७. एवमेव महाश्रावकाणामपि।
०११.०१७. अथ ये आयुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका भिक्षवस्तांस्तानुद्देशयोगमनसिकारविशेषान् गृह्य पर्यवाप्य तासु तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगताः, ते त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरं येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्ताः।
०११.०२१. उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णाः।
०११.०२१. एकान्ते निषद्य यथाधिगतमारोचयन्ति, उत्तरे च परिपृच्छन्ति।
०११.०२२. देशवर्गो गणः परिपूर्णः।
०११.०२२. स तेनोपसम्पादितः।
०११.०२३. तेन तृतीयपिटकमधीतम्।
०११.०२३. सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
०११.०२३. अर्हन् संवृत्तस्त्रैधातुकवीतरागो यावदभिवाद्यश्च संवृत्तः॥
०११.०२५. अथायुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका आयुष्मन्तं महाकात्यायनं यावत्तावत्पर्युपास्यायुष्मन्तं महाकात्यायनमिदमवोचन्--दृष्टोऽस्माभिरुपाध्यायः पर्युपासितश्च्
०११.०२७. गच्छामो वयम्, भगवन्तं पर्युपासिष्यामह्
०११.०२७. स चाह--वत्सा एवं कुरुध्वम्।
०११.०२७. द्रष्टव्या एव पर्युपासितव्या एव हि तथागता अर्हन्तः सम्यक्सम्बुद्धाः।
०११.०२७. तेन खलु पुनः समयेन श्रोणः कोटिकर्णस्तस्यामेव पर्षदि संनिषण्णोऽभूत्संनिपतितः।
०११.०२९. अथायुष्माञ्श्रोणः कोटिकर्ण उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनायुष्मान्महाकात्यायनस्तेनाञ्जलिं कृत्वा प्रणम्यायुष्मन्तं महाकात्यायनमिदमवोचत्--दृष्टो मयोपाध्यायानुभावेन स भगवान् धर्मकायेन, नो तु रूपकायेन्
०११.०३२. गच्छामि उपाध्याय, रूपकायेनापि तं भगवन्तं द्रक्ष्यामि।
०११.०३२. स <१२>आह--एवं वत्स कुरुष्व्

०१२.००१. दुर्लभदर्शना हि वत्स तथागता अर्हन्तः सम्यक्सम्बुद्धास्तद्यथा औदुम्बरपुष्पम्।
०१२.००२. अस्माकं च वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधतां च यावत्सुखस्पर्शविहारतां च्
०१२.००३. पञ्च प्रश्नांश्च पृच्छ--अस्मात्परान्तकेषु भदन्त जनपदेषु अल्पभिक्षुकम्।
०१२.००४. कृच्छ्रेण दशवर्गगणः परिपूर्यत्
०१२.००४. तत्रास्माभिः कथं प्रतिपत्तव्यम्? खरा भूमी गोकण्टका धानाः।
०१२.००५. अस्माकमपरान्तकेषु जनपदेषु इदमेवम्रूपमास्तरणं प्रत्यास्तरणं तद्यथा अविचर्म गोचर्म च्छागचर्म्
०१२.००६. तदन्येषु जनपदेषु इदमेवम्रूपमास्तरणं प्रत्यास्तरणं तद्यथा एरको मेरको जन्दुरको मन्दुरकः।
०१२.००७. एवमेवास्मात्परान्तकेषु जनपदेष्विदमेवम्रूपमास्तरणं प्रत्यास्तरणं तद्यथा अविचर्म पूर्ववत् ।
०१२.००८. उदकस्तब्धिका मनुष्याः स्नातोपविचाराः।
०१२.००८. भिक्षुर्भिक्षोश्चीवरकानि प्रेषयति इतश्च्युतानि तत्रासम्प्राप्तानि कस्यैतानि नैःसर्गिकानि।
०१२.००९. अधिवासयति आयुष्माञ्छ्रोणः कोटिकर्ण आयुष्मतो महाकात्यायनस्य तूष्णीभावेन्
०१२.०१०. अथायुष्माञ्छ्रोणः कोटिकर्णस्तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय वासवग्रामकं पिण्डाय प्राविक्षत् ।
०१२.०१२. यावदनुपूर्वेण श्रावस्तीमनुप्राप्तः।
०१२.०१२. अथायुष्माञ्छ्रोणः कोटिकर्णः पात्रचीवरं प्रतिसामय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्तः।
०१२.०१३. उपसंक्रम्यैकान्ते निषण्णः।
०१२.०१४. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--गच्छ आनन्द तथागतस्य श्रोणस्य च कोटिकर्णस्यैकविहारे मञ्चं प्रज्ञापय्
०१२.०१५. एवं भदन्तेति आयुष्मानानन्दस्तथागतस्य श्रोणस्य च कोटिकर्णस्य यावत्प्रज्ञाप्य येन भगवांस्तेनोपसंक्रान्तः।
०१२.०१६. उपसंक्रम्य भगवन्तमिदमवोचत्--प्रज्ञप्तो भदन्त तथागतस्य श्रोणस्य कोटिकर्णस्य विहारस्तेनोपसंक्रान्तः, यावद्विहारं प्रविश्य निषण्णः।
०१२.०१९. यावत्पश्यति स्मृतिं प्रतिमुखमुपस्थाप्य्
०१२.०१९. अथायुष्मानपि श्रोणः कोटिकर्णो बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य निषण्णः पर्यङ्कमाभुज्य यावत्प्रतिमुखं स्मृतिमुपस्थाप्य्
०१२.०२१. तां खलु रात्रिं भगवानायुष्मांश्च श्रोणः कोटिकर्ण आर्येण तूष्णीभावेनाधिवासितवान्।
०१२.०२२. अथ भगवान् रात्र्याः प्रत्यूषसमये आयुष्मन्तं श्रोणं कोटिकर्णमामन्त्रयते स्म--प्रतिभातु ते श्रोण धर्मो यो मया स्वयमभिज्ञायाभिसम्बुध्याख्यातः।
०१२.०२३. अथायुष्माञ्श्रोणो भगवता कृतावकाशहस्मात्परान्तिकया गुप्तिकया उदानात्पारायणात्सत्यदृष्टः शैलगाथा मुनिगाथा अर्थवर्गीयाणि च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं करोति।
०१२.०२५. अथ भगवाञ्छ्रोणस्य कोटिकर्णस्य कथापर्यवसानं विदित्वा आयुष्मन्तं श्रोणं कोटिकर्णमिदमवोचत्--साधु साधु श्रोण, मधुरस्ते धर्मो भाषितः प्रणीतश्च, यो मया स्वयमभिज्ञायाभिसम्बुध्याख्यातः।
०१२.०२८. अथायुष्मतः श्रोणस्य कोटिकर्णस्यैतदभवत्--अयं मे कालो भगवत उपाध्यायस्य वचसारोचयितुमिति विदित्वोत्थायासनाद्यावद्भगवन्तं प्रणम्येदमवोचत्--अस्मात्परान्तकेषु जनपदेषु वासवग्रामके भदन्तमहाकात्यायनः प्रतिवसति, यो मे उपाध्यायः।
०१२.०३१. स भगवतः पादौ शिरसा वन्दते अल्पाबाधतां च पृच्छति यावत्स्पर्शविहारतां च्
०१२.०३२. पञ्च च प्रश्नान् पृच्छति विस्तरेणोच्चारयितव्यानि।
०१२.०३२. अथ भगवाञ्च्छ्रोणं कोटिकर्णमिदमवोचत्<१३>--अकालं ते श्रोण प्रश्नव्याकरणाय्

०१३.००१. संघमेलकस्तत्र कालो भविष्यति प्रश्नस्य व्याकरणाय्
०१३.००२. अथ भगवान् काल्यमेवोत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
०१३.००३. अथायुष्माञ्च्छ्रोणः कोटिकर्णो येन भगवांस्तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् ।
०१३.००४. एकान्तस्थितो भगवन्तमिदमवोचत्--अस्मात्परान्तकेषु जनपदेषु वासवग्रामके भदन्तमहाकायायनः प्रतिवसति, यो मे उपाध्यायः।
०१३.००५. स भगवतः पादौ शिरसा वन्दते अल्पाबाधतां च पृच्छति यावत्स्पर्शविहारतां च्
०१३.००६. पञ्च च प्रश्नाति विस्तरेणोच्चारयितव्यानि यथापूर्वमुक्तानि यावत्कस्य नैःसर्गिकानि।
०१३.००७. भगवानाह--तस्मादनुजानामि।
०१३.००८. प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेनोपसम्पदा, सदा स्नातः, एकपलाशिके उपानहे धारयितव्ये न द्विपुटां न त्रिपुटाम्।
०१३.००९. सा चेत्क्षयधर्मिणी भवति, तां त्यक्त्वा पुनर्नवा ग्रहीतव्या।
०१३.०१०. भिक्षुर्भिक्षोश्चीवरकानि प्रेषयति इतश्च्युतानि तत्रासम्प्राप्तानि न कस्यचिन्नैःसर्गिकाणि।
०१३.०११. आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति--यदुक्तं भदन्त भगवता प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेनोपसम्पदम्, तत्र कतमोऽन्तः कतमः प्रत्यन्तह्? पूर्वेणोपालि पुण्डवर्धनं नाम नगरम्, तस्य पूर्वेण पुण्डकक्षो नाम पर्वतः, ततः परेण प्रत्यन्तः।
०१३.०१३. दक्षिणेन शरावती नाम नगरी, तस्याः परेण सरावती नाम नदी, सोऽन्तः, ततः परेण प्रत्यन्तः।
०१३.०१५. पश्चिमेन स्थूणोपस्थूणकौ ब्रामणग्रामकौ, सोऽन्तः, ततः परेण प्रत्यन्तः।
०१३.०१५. उत्तरेण उशीरगिरिः सोऽन्तः, ततः परेण प्रत्यन्तः॥
०१३.०१७. किं भदन्त आयुष्मता श्रोणेन कोटिकर्णेन कर्म कृतमिति विस्तरः।
०१३.०१७. भगवानाह--भूतपूर्वं यावत्काश्यपो नाम तथागतोऽर्हन् सम्यक्सम्बुद्धो भगवाञ्शास्ता लोक उत्पन्नः।
०१३.०१९. तेन खलु समयेन वाराणस्यां द्वौ जायापतिकौ।
०१३.०१९. ताभ्यां काश्यपस्य सम्यक्सम्बुद्धस्यान्तिके शरणगमनशिक्षापदानि उद्गृहीतानि।
०१३.०२०. यदा काश्यपः सम्यक्सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषु निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा कृकिना चतूरत्नमयं चैत्यं कारितं समन्ताद्योजनमुच्चत्वेन्
०१३.०२२. तेन तत्र खण्डस्फुटप्रतिसंस्करणाय ये पूर्वनगरद्वारे करप्रत्याया उत्तिष्ठन्ते, ते तस्मिन् स्तूपेऽनुप्रदत्ताः।
०१३.०२३. यदा कृकी राजा कालगतः, तस्य पुत्रः सुजातो नांना स राज्ये प्रतिष्ठापितः।
०१३.०२४. तस्यामात्यैः स्तोकाः करप्रत्याया उपनामिताः।
०१३.०२५. सोऽमात्यानामन्त्रयते--किंकारणमस्माकं भवद्भिः स्तोककरप्रत्याया उपनामिताह्? किमस्माकं विजिते करप्रत्याया नोत्तिष्ठन्ते? ते कथयन्ति--देव, कुतः करप्रत्याया प्रज्ञापिताः।
०१३.०२८. यदि देवोऽनुजानीयात्, ते वयं तान् करप्रत्यायान् समुच्छिन्दामः।
०१३.०२८. स कथयति--भवन्तः, यन्मम पित्रा कृतम्, देवकृतं न तु ब्रह्मकृतं तत् ।
०१३.०२९. ते संलक्षयन्ति--यदि देवोऽनुजानीते, वयं तथा करिष्यामो यथा स्वयमेव ते करप्रत्याया नोत्थास्यन्ति।
०१३.०३०. तैः स द्वारे बद्ध्वा स्थापितः।
०१३.०३१. न भूयः करप्रत्याया उत्थिष्ठन्त्
०१३.०३१. तस्मिन् स्तूपे चटितकानि प्रादुर्भूतानि।
०१३.०३२. तौ जायापती वृद्धीभूतौ तत्रैव स्तूपे परिकर्म कुर्वाणौ तिष्ठतः।
०१३.०३२. उत्तरापथात्सार्थवाहह्<१४>पण्यमादाय वाराणसीमनुप्राप्तः।

०१४.००१. तेनासौ दृष्टः स्तूपः।
०१४.००१. चटितस्फुटितकः प्रादुर्भूतः।
०१४.००१. स दृष्ट्वा पृच्छति--अम्ब तात कस्यैष स्तूप इति।
०१४.००२. तौ कथयतह्--काश्यपस्य सम्यक्सम्बुद्धस्य्
०१४.००३. केन कारितह्? कृकिना राज्ञा।
०१४.००३. न तेन राज्ञास्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारकरणाय किंचित्प्रज्ञाप्तम्? तौ कथयतह्--प्रज्ञाप्तम्।
०१४.००४. ये पूर्वनगरद्वारे करप्रत्यायास्तेऽस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्करणाय निर्यातिताः।
०१४.००५. कृकी राजा कालगतः।
०१४.००५. तस्य पुत्रः सुजातो नाम, स राज्ये प्रतिष्ठितः।
०१४.००६. तेन ते करप्रत्यायाः समुच्छिन्नाः।
०१४.००६. तेनास्मिन् स्तूपे चटितस्फुटितकानि प्रादुर्भूतानि।
०१४.००७. तस्य रत्नकर्णिका कर्णे आमुक्तिका।
०१४.००७. तेन सा रत्नकर्णिकावतार्य तयोर्दत्ता।
०१४.००८. अम्ब तात अनया कर्णिकयास्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारं कुरुतमिति।
०१४.००८. यावदहं पण्यं विसर्जयित्वा आगच्छामि।
०१४.००९. ततः पश्चाद्भूयोऽपि दास्यामि।
०१४.००९. तैस्तां विक्रीय तस्मिन् स्तूपे खण्डस्फुटितप्रतिसंस्कारः कृतः।
०१४.०१०. अपरमुत्सर्पितम्।
०१४.०१०. अथापरेण समयेन सार्थवाहः पण्यं विसर्जयित्वा आगतः।
०१४.०११. तेन स दृष्टः स्तूपोऽसेचनकदर्शनः।
०१४.०११. दृष्ट्वा च भूयस्या मात्रयाभिप्रसन्नः।
०१४.०१२. स प्रसादजातः पृच्छति--अम्ब तात युष्माभिः किंचिदुद्धारिकृतम्।
०१४.०१३. तौ कथयतह्--पुत्र नास्माभिः किंचिदुद्धारिकृतम्।
०१४.०१३. किं त्वपरमुत्सर्पितं तिष्ठति।
०१४.०१४. तेन प्रसादजातेन यत्तत्रावशिष्टमपरं च दत्त्वा महतीं पूजां कृत्वा प्रणिधानं च कृतम्--अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्।
०१४.०१५. एवंविधानां च धर्माणां लाभी स्याम्।
०१४.०१६. एवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति।
०१४.०१६. किं मन्यध्वे भिक्षवो योऽसौ सार्थवाहः, एष एवासौ श्रोणः कोटिकर्णः।
०१४.०१७. यदनेन काश्यपस्य सम्यक्सम्बुद्धस्य स्तूपे कारां कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातः।
०१४.०१८. मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
०१४.०१९. अहमनेन काश्यपेन सम्यक्सम्बुद्धेन सार्धं समजवः समबलः समधुरः समसामान्यप्राप्तः शास्ता आरागितो न विरागितः।
०१४.०२०. इति भिक्षव एकान्तकृष्णानामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां धर्माणामेकान्तशुक्लो विपाकः, व्यतिमिश्राणां व्यतिमिश्रः।
०१४.०२२. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः।
०१४.०२३. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
०१४.०२४. भिक्षव ऊचुह्--किं भदन्त आयुष्मता श्रोणेन कोटिकर्णेन कर्म कृतं यस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्टाह्? भगवानाह--यदनेन मातुरन्तिके खरवाक्कर्म निश्चारितम्, तस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्टा इति॥
०१४.०२७. इदमवोचद्भगवान्।
०१४.०२७. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


०१४.०२८. इति श्रीदिव्यावदाने कोटिकर्णावदानं प्रथमम्॥


                    • अवदान २ **********


०१५.०००. दिव्२ पूर्णावदानम्।
०१५.००१. भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम्
०१५.००१. तेन खलु समयेन सूर्पारके नगरे नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी।
०१५.००३. तेन सदृशात्कुलात्कुलत्रमानीतम्।
०१५.००४. स तया सार्धं क्रीडति रमते परिचारयति।
०१५.००४. तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता।
०१५.००५. सा अष्टानां नवानां वा मासानामत्ययात्प्रसूता।
०१५.००५. दारको जातः।
०१५.००६. तस्य त्रीणि सप्तकानि एकविंशतिदिवसानि विस्तरेण जातस्य जातमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारकस्य नामेति।
०१५.००७. ज्ञातय ऊचुह्--अयं दारको भवस्य गृहपतेः पुत्रः, तस्माद्भवतु भविलेति नामधेयं व्यवस्थापितम्।
०१५.००८. भूयोऽप्यस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः।
०१५.००९. तस्य भवत्रातेति नामधेयं व्यवस्थापितम्।
०१५.००९. पुनरप्यस्य पुत्रो जातः।
०१५.०१०. तस्य भवनन्दीति नामधेयं व्यवस्थापितम्।
०१५.०१०. यावदपरेण समयेन भवो गृहपतिर्ग्लानं संवृत्तः।
०१५.०११. सोऽत्यर्थं परुषवचनसमुदाचारी यतः, पत्न्या पुत्रैश्चाप्युपेक्षितः।
०१५.०११. तस्य प्रेष्यदारिका।
०१५.०१२. सा संलक्षयति--मम स्वामिना अनेकैरुपायशतैर्भोगाः समुदानीताः।
०१५.०१३. सेदानीं ग्लानः संवृत्तः।
०१५.०१२. सैष पत्न्या पुत्रैश्चाप्युपेक्षितः।
०१५.०१३. न मम प्रतिरूपं स्याद्यदहं स्वामिनमध्युपेक्षेयमिति।
०१५.०१४. सा वैद्यसकाशं गत्वा कथयति--आर्य जानीषे त्वं भवं गृहपतिम्? जाने, किं तस्य? तस्यैवंविधं ग्लान्यं समुपजातम्।
०१५.०१५. स पत्न्या पुत्रैश्चाप्युपेक्षितः।
०१५.०१५. तस्य भविषज्यम् (भैषज्यम्) व्यपदिशेति।
०१५.०१६. स कथयति--दारिके त्वमेव कथयसि--स पत्न्या पुत्रैश्चाप्युपेक्षित इति।
०१५.०१७. अथ कस्तस्योपस्थानं करोति? सा कथयति--अहमस्योपस्थानं करोमि।
०१५.०१८. किं त्वल्पमूल्यानि भैषज्यानि व्यपदिशेति।
०१५.०१८. तेन व्यपदिष्टम्--इदं तस्य भैषज्यमिति।
०१५.०१८. ततस्तया किंचित्स्वभक्तात्तस्मादेव गृहादपहृत्योपस्थानं कृतम्।
०१५.०१९. स स्वस्थीभूतः संलक्षयति--अहं पत्न्या पुत्रैश्चाध्युपेक्षितः।
०१५.०२०. यदहं जीवितः, तदस्या दारिकायाः प्रभावात् ।
०१५.०२०. तदस्याः प्रत्युपपकारः कर्तव्य इति।
०१५.०२१. सा तेनोक्ता--दारिके, अहं पत्न्या पुत्रैश्चाप्युपेक्षितः।
०१५.०२१. यत्किंचिदहं जीवितः, सर्वं तव प्रभावात् ।
०१५.०२२. अहं ते वरमनुप्रयच्छामीति।
०१५.०२२. सा कथयति--स्वामिन्, यदि मे परितुष्टोऽसि, भवतु मे त्वया सार्धं समागम इति।
०१५.०२३. स कथयति--आर्यपुत्र, दूरमपि परमपि गत्वा दास्येवाहम्, यदि तु आर्यपुत्रेण सार्धं समागमो भवति, एवमदासी भवामीति।
०१५.०२६. तेनावश्यं निर्बन्धं ज्ञात्वा अभिहिता--यदा संवृत्ता ऋतुमती तदा ममारोचयिष्यसीति।
०१५.०२६. सा अपरेण समयेन कल्या संवृत्ता ऋतुमती।
०१५.०२७. तया तस्यारोचितम्।
०१५.०२७. ततो भवेन गृहपतिना तया सार्धं परिचारितम्।
०१५.०२८. सा आपन्नसत्त्वा संवृत्ता।
०१५.०२८. यमेव दिवसमापन्नसत्त्वा संवृत्ता तमेव दिवसमुपादाय भवस्य गृहपतेः सर्वार्थाः सर्वकर्मान्ताश्च परिपूर्णाः।
०१५.०२९. सा त्वष्टानां वा नवानां मासानामत्ययात्प्रसूता।
०१५.०३०. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशीर्षः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः।
०१५.०३१. यस्मिन्नेव दिवसे <१६>दारको जातः, तस्मिन्नेव दिवसे भवस्य गृहपतेर्भूयस्या मात्रया सर्वार्थाः सर्वकर्मान्ताः परिपूर्णाः।

०१६.००२. तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातमहं कृत्वा पूर्ववत्यावत्पूर्णेति नामधेयं व्यवस्थापितम्।
०१६.००३. पूर्णो दारकोऽष्टाभ्यो धात्रीभ्यो द्वाभ्यामंसधातीभ्यां दत्तो विस्तरेण यावदाशु वर्धते ह्रदस्थमिव पङ्कजम्।
०१६.००४. यदा महान् संवृत्तः, तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां रत्नपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायाम्।
०१६.००६. अष्टासु परीक्षासूद्धटको वाचकः पण्डितः पटुप्रचारः संवृत्तः।
०१६.००७. ततो भवेन गृहपतिना भविलादीनां पुत्राणां यथानुपूर्व्या निवेशाः कृताः।
०१६.००८. ते पत्नीभिः सार्धमतीव संरक्ता निवृत्ता मण्डनपरमा व्यवस्थिताः।
०१६.००९. ततो भवो गृहपतिः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः।
०१६.००९. स पुत्रैर्दृष्टः पुष्टश्च--तात, कस्मात्त्वं करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति।
०१६.०१०. स कथयति--पुत्रकाः, न तावन्मया निवेशः कृतो यावत्सुवर्णलक्षः समुदानीत इति।
०१६.०११. ते यूयं निरस्तव्यापाराः पत्नीष्वत्यर्थं संरक्ता मण्डनपरमा व्यवस्थिताः।
०१६.०१२. ममात्ययात्गृहं शोचनीयं भविष्यति।
०१६.०१२. कथं न चिन्तापरो भविष्यामीति? भविलेन रत्नकर्णिका पिनद्धा।
०१६.०१३. स तामवतार्यदारुकर्णिकां पिनह्य प्रतिज्ञामारूढह्--न तावत्रत्नकर्णिकां पिनह्यामि यावत्सुवर्णलक्षः समुपार्जित इति।
०१६.०१४. अपरेण स्तवकर्णिका।
०१६.०१५. अपरेण त्रपुकर्णिका।
०१६.०१५. तेषां यास्ताः संज्ञा भविलो भवत्रातो भवनन्दीति ता अन्तर्हिताः।
०१६.०१६. दारुकर्णी स्तवकर्णी त्रपुकर्णीति प्रादुर्भूताः।
०१६.०१६. ते पण्यमादाय महासमुद्रं संप्रस्थिताः।
०१६.०१६. पूर्णः कथयति--तात, अहमपि महासमुद्रं गच्छामीति।
०१६.०१७. स कथयति--पुत्र बालस्त्वम्।
०१६.०१७. अत्रैव तिष्ठ, आवार्यां व्यापारं कुरु।
०१६.०१८. स तत्रैवावस्थितः।
०१६.०१८. तेऽपि संसिद्धयानपात्रा आगताः।
०१६.०१८. मार्गश्रमं प्रतिविनोद्य कथयन्ति--तात कल्यतामस्मदीयं पण्यमिति।
०१६.०१९. तेन् कलितम्--एकैकस्य सुवर्णलक्षाः संवृत्ताः।
०१६.०२०. पूर्णेनापि तत्रैव धर्मेण न्यायेन व्यवहारिताः सातिरेकाः सुवर्णलक्षाः समुदानीताअः।
०१६.०२०. पूर्णोऽपि पितुः पादयोर्निपत्य कथयति--तात, ममापि कल्यतामावारीसमुत्थितं द्रव्यमिति।
०१६.०२१. स कथयति--पुत्र त्वमत्रैवावस्थितः।
०१६.०२२. किं तव कल्यते? स कथयति--तात कल्यताम्।
०१६.०२२. तथापि ज्ञातं भविष्यतीति।
०१६.०२३. कलितं यावन्न्यायोपार्जितस्य सुवर्णस्य मूल्यं वर्जयित्वा सातिरिक्ता लक्षाः संवृत्ताः।
०१६.०२४. भवो गृहपतिः प्रीतिसौमनस्यजातः संलक्षयति--पुण्यमहेशाख्योऽयं सत्त्वो येनेहैव स्थितेनेयत्सुवर्णं समुपार्जितमिति।
०१६.०२५. यावदपरेण समयेन भवो गृहपतिर्ग्लानः संवृत्तः।
०१६.०२५. स संलक्षयति--ममात्ययादेते भेदं गमिष्यन्ति।
०१६.०२६. उपायसंविधानं कर्तव्यमिति।
०१६.०२६. तेन तेऽभिहिताह्--पुत्रकाः, काष्ठानि समुदानयतेति।
०१६.०२७. तैः काष्ठानि समुदानीतानि।
०१६.०२७. स कथयति--अग्निं प्रज्वालयतेति।
०१६.०२८. तैरग्निः प्रज्वालितः।
०१६.०२८. भवो गृहपतिः कथयति--एकैकमलातमपनयतेति।
०१६.०२९. तैरपनीतम्।
०१६.०२९. सोऽग्निर्निवार्णः।
०१६.०२९. स कथयति--पुत्रकाः, दृष्टो वह्? तात दृष्टः।
०१६.०२९. स गाथां भाषते--
०१६.०३०. ज्वलन्ति सहिताङ्गारा भ्रातरः सहितास्तथा।
०१६.०३१. प्रविभक्ता निशाम्यन्ति यथाङ्गारस्तथा नराः॥१॥

०१७.००१. <१७>पुत्रकाः, न युष्माभिर्ममात्ययात्स्त्रीणां श्रोतव्यम्।
०१७.००२. कुटुम्बं भिद्यते स्त्रीभिर्वाग्भिर्भिद्यन्ति कातराः।
०१७.००३. दुर्न्यस्तो भिद्यते मन्त्रः प्रीतिर्भिद्यते लोभतः॥२॥ इति॥
०१७.००४. ते निष्क्रान्ताः।
०१७.००४. भविलस्तत्रैवावस्थितः।
०१७.००४. स तेनोक्तह्--पुत्र, न कदाचित्त्वया पूर्णो मोक्तव्यः।
०१७.००५. पुण्यमहेशाख्योऽयं सत्त्वः।
०१७.००५. इत्युक्त्वा--
०१७.००६. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
०१७.००७. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्॥३॥
०१७.००८. इति कालधर्मेण सम्युक्तः।
०१७.००८. तैर्नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य महता संस्कारेण श्मशानं नीत्वा ध्मापितः।
०१७.००९. ततस्ते शोकविनोदनं कृत्वा कथयन्ति--यदा अस्माकं पिता जीवति, तदा तदधीनाः प्राणाः।
०१७.०१०. यदिदानीं निरस्तव्यापारास्तिष्ठामः, गृःपमवसादं गमिष्यति।
०१७.०११. न शोभनं भविष्यति।
०१७.०११. यन्नु वयं पण्यमादाय देशान्तरं गच्छाम इति।
०१७.०११. पूर्णः कथयति--यद्येवमहमपि गच्छामीति।
०१७.०१२. ते कथयन्ति--त्वमत्रैवावार्यां व्यापारं कुरु, वयमेव गच्छाम इति।
०१७.०१३. ते पण्यमादाय देशान्तरं गताः।
०१७.०१३. पूर्णो न्यस्तसर्वकार्यस्तत्रैवावस्थितः॥
०१७.०१४. धर्मता खलु ईश्वरगृहेषु दिवसपरिव्ययो दीयत्
०१७.०१४. तास्तेषां पत्न्यो दारिकाः परिव्ययनिमित्तं प्रेषयन्ति।
०१७.०१५. पूर्णोऽपि धनिभिः श्रेष्ठिभिः सार्थवाहैरन्यैश्चाजीविभिः परिवृतोऽवतिष्ठत्
०१७.०१६. तास्त्ववकाशं न लभन्त्
०१७.०१६. यदा ते उपस्थाय प्रक्रान्ता भवन्ति, तदा तासां दिवसपरिव्ययं ददाति।
०१७.०१६. ता दारिकाश्चिरचिरादागच्छन्तीत्युपालभ्यन्त्
०१७.०१७. ता एवमर्थं विस्तरेणारोचयन्ति।
०१७.०१८. ताः कथयन्ति--एवं हि तेषां भवति, येषां दासीपुत्राः कुलेष्वैश्वचर्यं वशे वर्तयन्तीति।
०१७.०१९. भविलपत्न्या दारिका अभिहिता--त्वया कालं ज्ञात्वा गन्तव्यमिति।
०१७.०१९. सा कालं ज्ञात्वा गच्छति, शीघ्रं लभत्
०१७.०२०. अन्याश्चिरयन्ति।
०१७.०२०. ताभिः सा पृष्ठा--तया समाख्यातम्।
०१७.०२०. ता अपि तया सार्धं गन्तुमारब्धाः।
०१७.०२१. ता अपि शीघ्रं प्रतिलभन्त्
०१७.०२१. ताः स्वाभिनीभिरुक्ताह्--किमत्र कारणमिदानीं शीघ्रमागच्छथेति।
०१७.०२२. ताः कथयन्ति--आरोग्यं ज्येष्ठभविकायाअ भवतु।
०१७.०२२. यदा तस्या दारिका गता भवति, तदा लभ्यत्
०१७.०२३. वयं तया सार्धं गच्छाम इति।
०१७.०२३. ताः संजातामर्षाः कथयन्ति--एवं हि तेषां भवति येषां दासीपुत्राः कुलेस्वैश्चर्यं वशे वर्तयन्तीति।
०१७.०२४. यावदपरेण समयेन भविलो भवत्रातो भवनन्दी च सहिताः समग्राः संमोदमाना महासमुद्रात्संसिद्धयानपात्रा आगताः।
०१७.०२६. भविलेन पत्नी पृष्टा--भद्रे, शोभनं पूर्णेन प्रतिपालिता त्वमिति? सा कथयति--यथा भ्रात्रा पुत्रेण वेति।
०१७.०२७. ते अन्येऽपि स्वामिभ्यां पृष्टे कथयतह्--एवं हि तेषां भवति, येषां दासीपुत्राः कुलेष्वैश्चर्यं वशे वर्तयन्तीति।
०१७.०२८. तौ संलक्षयतह्--सुहृद्भेदकाः स्त्रियो भवन्तीति।
०१७.०२९. यावदपरेण समयेन काशिकवस्त्रावारी उद्घाटिता।
०१७.०२९. तत्समनन्तरं भविलस्य पुत्रो गतः।
०१७.०३०. स पूर्णेन काशिकवस्त्रयुगेनाच्छादितः।
०१७.०३०. अन्याभ्यां दृष्ट्वा स्वपुत्राः प्रेषिता यावत्काशिकवस्त्रावारी घट्टिता, फुट्टकवस्त्रावारी उद्घाटिता।
०१७.०३१. ते च दैवयोगात्संप्राप्ताः।
०१७.०३१. ते पूर्णेन फुट्टकैर्वस्त्रैराच्छादिताः।
०१७.०३२. ते दृष्ट्वा स्वामिनोः कथयतह्--दृष्टं युवाभ्यामपरेषां काशिकवस्त्राणि<१८> दीयन्ते, परेषां फुट्टकानीति।

०१८.००१. ताभ्यामनुसंज्ञप्तिर्दत्ता।
०१८.००१. किमेतदेव भविष्यति? नूनं काशिकवस्त्रावारी घट्टिता, फुट्टकवस्त्रावारी उद्घाटितेति।
०१८.००२. यावदपरेण समयेन शर्करावारी उद्घटिता।
०१८.००३. भविलस्य च पुत्रो गतः।
०१८.००३. तेन शर्कराखो{मो}दको लब्धः।
०१८.००३. तं दृष्ट्वा अन्याभ्यां स्वपुत्राः प्रेषिताः।
०१८.००४. ते दैवयोगाद्गुडावार्यामुद्घाटितायां गताः।
०१८.००४. तैर्गुडो लब्धः।
०१८.००४. ताभिस्तं दृष्ट्वा स्वामिनौ तथा तथा भग्नौ यथा गृहविभागं कर्तुमारब्धौ।
०१८.००५. तौ परस्परं संजल्पं कुरुतह्--सर्वथा विनष्टा वयम्, गृहं भाजयामेति।
०१८.००६. एकः कथयति--ज्येष्ठतरं शब्दयामः।
०१८.००६. एकः कथयति--विचारयामस्तावत्कथं भाजयामेति।
०१८.००७. तौ स्वबुद्ध्या विचारयतः।
०१८.००७. एकस्य गृहगतं क्षेत्रगतं च, एकस्यावारीगतं देशान्तरगतं च, एकस्य पूर्णकः।
०१८.००८. यदि ज्येष्ठतरो गृहगतं क्षेत्रगतं च ग्रहीष्यति, शक्नुमो वयमावारीगतेन देशान्तरगतेन चात्मानं संधारयितुम्।
०१८.०१०. अथावारीगतं देशान्तरगतं च ग्रहीष्यति, तथापि वयं श्क्नुमो गृहगतेन क्षेत्रगतेन चात्मानं संधारयितुम्, पूर्णकस्य च मार्यादाबन्धं कर्तुमिति।
०१८.०११. तावेवं संजल्पं कृत्वा भविलस्य सकाशं गतौ।
०१८.०१२. भ्रातः, विनष्टा वयं भाजयामो गृहमिति।
०१८.०१२. स कथयति--सुपरीक्षितं कर्तव्यम्, गृहभेदिकाः स्त्रियो भवन्तीति।
०१८.०१३. तौ कथयतह्--प्रत्यक्षीकृतमस्माभिः, भाजयामेति।
०१८.०१४. स कथयति--यदेवम्, आहूयन्तां कुलानीति।
०१८.०१४. तौ कथयतह्--पूर्वमेवास्माभिर्भाजितम्।
०१८.०१५. एकस्य गृहगतं क्षेत्रगतं च, एकस्यावारीगतं देशान्तरगतं च, एकस्य पूर्णकः।
०१८.०१६. स कथयति--पूर्णस्य प्रत्यंशं नानुप्रयच्छथ? तौ कथयतह्--दासीपुत्रः सः।
०१८.०१६. कस्तस्य प्रत्यंशं दद्यात्? अपि तु स एवास्माभिर्भाजितः।
०१८.०१७. यदि तवाभिप्रेतं तमेव गृहाणेति।
०१८.०१७. स संलक्षयति--अहं पित्रा अभिहितह्--सर्वस्वमपि ते परित्यज्य पूर्णो ग्रहीतव्य इति।
०१८.०१८. गृह्णामि पूर्णमिति विदित्वा कथयति--एवं भवतु मम पूर्णकेति।
०१८.०१९. यस्य गृहगतं क्षेत्रगतं च, स त्वरमाणो गृहं गत्वा कथयति--ज्येष्ठभविके निर्गच्छ्
०१८.०२०. सा निर्गता।
०१८.०२०. मा भूयः प्रवेक्ष्यसि।
०१८.०२१. कस्यार्थाय? अस्माभिर्भाजितं गृहम्।
०१८.०२१. यस्यावारीगतं देशान्तरगतं च, सोऽपि त्वरमाण आवारीं गत्वा कथयति--पूर्णक अवतरेति।
०१८.०२२. सोऽवतीर्णः।
०१८.०२२. मा भूयोऽभिरोक्ष्यसि।
०१८.०२२. किं कारणम्? अस्माभिर्भाजितम्।
०१८.०२३. यावत्भविलपत्नी पूर्णकेन सार्धं ज्ञातिगृहं संप्रस्थिता।
०१८.०२४. दारका बुभिक्षिता रोदितुमारब्धाः।
०१८.०२४. सा कथयति--पूर्ण, दारकाणां पूर्वभक्षिकामनुप्रयच्छेति।
०१८.०२५. स कथयति--कार्षापणं प्रयच्छ्
०१८.०२५. सा कथयति--त्वया इयतीभिः सुवर्णलक्षाभिर्व्यवहृतम्, दारकाणां पूर्वभिक्षिकापि नास्ति? पूर्णः कथयति--किमहं जाने युष्माकं गृहे ईदृशीयमवस्था भविष्यतीति।
०१८.०२७. यदि मया ज्ञातमभविष्यत्, मया अनेकाः सुवर्णलक्षाः संहारिता अभविष्यन्।
०१८.०२८. धर्मतैषा स्त्रिय आरकूटाकार्षापणान् वस्त्रान्ते बध्नन्ति।
०१८.०२८. तयारकूटमाषको दत्तह्--पूर्वभक्षिकामानयेति।
०१८.०२९. स तमादाय वीथीं संप्रस्थितः।
०१८.०२९. अन्यतमश्च पुरुषः समुद्रवेलाप्रेरितानां काष्ठानां भारमादाय शीतेनाभिद्रुतो वेपमान आगच्छति।
०१८.०३०. स तेन दृष्टः पृष्टश्च--भोः पुरुष, कस्मादेवं वेपसे? स कथयति--अहमपि न जान्
०१८.०३१. मया चायं भारक उत्क्षिप्तो भवति, मम चेदृशी समवस्था।
०१८.०३२. स दारुपरीक्षायां कृतावी।
०१८.०३२. स तत्काष्ठं निरीक्षितुमारब्धः।
०१८.०३२. पश्यति तत्र <१९>गोशीर्षचन्दनम्।

०१९.००१. स तेनाभिहितह्--भो पुरुष, कियता मूल्येन दीयते? पञ्चभिः कार्षापणशतैः।
०१९.००२. तेन तं काष्ठभारं गृहीत्वा तद्गोशीर्षचन्दनमपनीय वीथीं गत्वा करपत्रिकया चतस्रः खण्डिकाः कृताः।
०१९.००३. तच्चूर्णकस्यार्थं कार्षापणसहस्रेण विक्रीतं वर्तत्
०१९.००३. ततस्तस्य पुरुषस्य पञ्चकार्षापणशतानि दत्तानि।
०१९.००४. उक्तं च--एनं काष्ठभारकममुष्मिन् गृहे भविलपत्नी तिष्ठति तत्र नय, वक्तव्या पूर्णेन प्रेषितेति।
०१९.००५. तेनासौ नीतो यथावृत्तं चारोचितम्।
०१९.००५. सा उरसि प्रहारं दत्त्वा कथयति--यद्यसावर्थात्परिभ्रष्टः, किं प्रज्ञयापि परिभ्रष्टह्? पक्वमानयेति पाचनं प्रेषितम्।
०१९.००७. तदेव नास्ति यत्पक्तव्यमिति।
०१९.००७. पूर्णेन शेषकतिपयकार्षापणैर्दासदासीगोमहिषीवस्त्राणि जीवितोपकरणानि पक्वमादायागत्य दम्पत्योरुपनामितवान्।
०१९.००८. तेन कुटुम्बं संतोषितम्॥
०१९.००९. अत्रान्तरे सौर्पारकीयो राजा दाहज्वरेण विक्लवीभूतः।
०१९.००९. तस्य वैद्यैर्गोशीर्षचन्दनमुपा दिष्टम्।
०१९.०१०. ततोऽमात्या गोशीर्षचन्दनं समन्वेषयितुमारब्धाः।
०१९.०१०. तैर्वीथ्यां पारम्पर्येण श्रुतम्।
०१९.०१०. ते पूर्णस्य सकाशं गत्वा कथयन्ति--तवास्ति गोशीर्षचन्दनम्? स आह--अस्ति।
०१९.०११. ते ऊचुह्--कियता मूल्येन दीयते? स आह--कार्षापणसहस्रेण्
०१९.०१२. तैः कार्षापणसहस्रेण गृहीत्वा राज्ञः प्रलेपो दत्तः, स्वस्थीभूतः।
०१९.०१३. राजा संलक्षयति--कीदृशोऽसौ यस्य गृहे गोशीर्षचन्दनं नास्ति।
०१९.०१३. राजा पृच्छति--कुत एतत्? देव पूर्णात् ।
०१९.०१४. आहूयतां पूर्णकः।
०१९.०१४. स दूतेन गत्वा उक्तह्--पूर्ण, देवस्त्वां शब्दापयतीति।
०१९.०१५. स विचारयितुमारब्धह्--किमर्थं मां राजा शब्दापयति? स संलक्षयति--गोशीर्षचन्दनेनासौ राजा स्वस्थीभूतः।
०१९.०१६. तदर्थं मां शब्दायति।
०१९.०१६. सर्वथा गोशीर्षचन्दनमादाय गन्तव्यम्।
०१९.०१७. स गोशीर्षचन्दनस्य तिस्रो गण्डिका वस्त्रेण पिधायैकं पाणिना गृहीत्वा राज्ञः सकाशं गतः।
०१९.०१८. राज्ञा पृष्टह्--पूर्ण, अस्ति किंचिद्गोशीर्षचन्दनम्।
०१९.०१८. स कथयति--देव इदमस्ति।
०१९.०१९. किमस्य मूल्यम्? देव सुवर्णलक्षाः।
०१९.०१९. अपरमस्ति? देव अस्ति।
०१९.०१९. तेन तास्तिस्रो गण्डिका दर्शिताः।
०१९.०२०. राज्ञामात्यानामाज्ञा दत्ता--पूर्णस्य चतस्रः सुवर्णलक्षाः प्रयच्छतेति।
०१९.०२१. पूर्णः कथयति--देव, तिस्रो दीयन्ताम्।
०१९.०२१. एकगण्डिका देवस्य प्राभृतमिति।
०१९.०२१. ततस्तस्य तिस्रो दत्ताः।
०१९.०२२. राजा कथयति--पूर्ण, परितुष्टोऽहम्।
०१९.०२२. वद किं ते वरमनुप्रयच्छामीति।
०१९.०२२. पूर्णः कथयति--यदि मे देवः परितुष्टो देवस्य विजतेऽपरिभूतो वसेयमिति।
०१९.०२३. राज्ञा अमात्यानामाज्ञा दत्ता--भवन्तः, अद्याग्रेण कुमाराणामाज्ञा देया न त्वेवं पूर्णस्येति।
०१९.०२४. यावन्महासमुद्रात्पञ्चमात्राणि वणिक्शतानि संसिद्धयानपात्राणि सूर्पारकं नगरमनुप्राप्तानि।
०१९.०२५. वणिग्ग्रामेण क्रियाकारः कृतह्--न केनचिदस्माकं समस्तानां निर्गत्यैकाकिना वणिजां सकाशमुपसंक्रमितव्यम्।
०१९.०२६. गण एव संभूय भाण्डं ग्रहीष्यतीति।
०१९.०२७. अपरे कथयन्ति--पूर्णमपि शब्दापयामः।
०१९.०२७. अन्ये कथयन्ति--किं तस्य कृपणस्यास्ति यः शब्दायत इति।
०१९.०२८. तेन खलु समयेन पूर्णो बहिर्निर्गतः।
०१९.०२८. तेन श्रुतं महासमुद्रात्पञ्च वणिक्छतानि संसिद्धयानपात्राणि सूर्पारकं नगरमनुप्राप्तानीति।
०१९.०३०. सोऽप्रविश्यैव नगरं तेषां सकाशमुपसंक्रान्तः।
०१९.०३०. पृच्छति--भवतः, किमिदं द्रव्यमिति? ते कथयन्ति--इदं चेदं चेति।
०१९.०३१. किं मूल्यम्? ते कथयन्ति--सार्थवाह, दूरमपि परमपि गत्वा त्वमेव प्रष्टव्यः।
०१९.०३२. यद्यप्येवं तथापि उच्यतां मूल्यम्।
०१९.०३२. तैरष्टादश सुवर्णलक्षा मूल्यमुपदिष्टम्।
०१९.०३२. स <२०>कथयति--भवन्तस्तिस्रो लक्षा अवद्रंगं गृह्णीत, ममैतत् ।

०२०.००१. पण्यमवशिष्टं दास्यामि।
०२०.००१. तथा भवतु।
०२०.००२. तेन तिस्रो लक्षा आनाय्य दत्ताः।
०२०.००२. स्वमुद्रालक्षितं च कृत्वा प्रक्रान्तः।
०२०.००२. ततो वणिग्ग्रामेणावचरकाः पुरुषाः प्रेषिताह्--पश्यत किं द्रव्यमिति।
०२०.००३. तैर्गत्वा पृष्टाह्--किं द्रव्यम्? इदं चेदं च्
०२०.००४. अस्माकमपि पूर्णानि कोशकोष्ठागाराणि तिष्ठन्ति।
०२०.००४. पूर्णानि वा भवन्तु मा वा।
०२०.००४. अपि विक्रीतम्।
०२०.००५. कस्यान्तिके? पूर्णस्य्
०२०.००५. प्रभूतमासादयिष्यथ पूर्णस्यान्तिकाद्विक्रीय्
०२०.००५. ते कथयन्ति--यत्तेनावद्रङ्गे दत्तं तद्यूयं मूल्येऽपि न दास्यथ्
०२०.००६. किं तेनावद्रङ्गे दत्तम्? तिस्रः सुवर्णलक्षाः।
०२०.००७. सुमुषितास्तेन भ्रातरः कृताः।
०२०.००७. तैरागत्य वणिग्ग्रामस्यारोचितम्।
०२०.००७. तत्पण्यं विक्रीतम्।
०२०.००८. कस्यान्तिके? पूर्णस्य्
०२०.००८. प्रभूतमासादयिष्यन्ति पूर्णस्यान्तिके विक्रीय्
०२०.००८. यातेनावद्रङ्गे दत्तं तद्यूयं मूल्येऽपि न दास्यथ्
०२०.००९. किं तेनावद्रङ्गे दत्तम्? तिस्रः सुवर्णलक्षाः।
०२०.०१०. सुमुषितास्तेन ते भ्रातरः कृताः।
०२०.०१०. स तैराहूयोक्तह्--पूर्ण वणिग्ग्रामेण क्रियाकारः कृतह्--न केनचिदेकाकिना ग्रहीतव्यम्।
०२०.०११. वणिग्ग्राम एव ग्रहीष्यतीत्येव्
०२०.०११. कस्मात्ते गृहीतम्? स कथयति--भवन्तः, यदा युष्माभिः क्रियाकारः कृतस्तदा किमहं न शब्दितो मम भ्राता वा? युष्माभिरेव क्रियाकारः कृतो यूयमेव पालयत्
०२०.०१३. ततो वणिग्ग्रामेण संजातामर्षेण षष्टेः कार्षापणानामर्थायातपे धारितः।
०२०.०१४. राज्ञः पौरुषेयैर्दृष्टः।
०२०.०१४. तै राज्ञे आरोचितम्।
०२०.०१४. राजा कथयति--भवन्तः, शब्दयतैतान्।
०२०.०१५. तैः शब्दिताः।
०२०.०१५. कथयति राजा--भवन्तः, कस्यार्थे युष्माभिः पूर्ण आतपे विधारितह्? ते कथयन्ति--देव वणिग्ग्रामेण क्रियाकारः कृतो न केनचिदेकाकिना पण्यं ग्रहीतव्यमिति।
०२०.०१७. तदनेनैकाकिना गृहीतम्।
०२०.०१७. पूर्णः कथयति--देव, समनुयुज्यन्तां यदैभिः क्रियाकारः कृतस्तदा किमहमेभिः शब्दितो मम भ्राता वा? ते कथयन्ति--देव नेति।
०२०.०१९. राजा कथयति--भवन्तः, शोभनं पूर्णः कथयति--स तैर्व्रीडितैर्मुक्तः।
०२०.०१९. यावदपरेण समयेन राज्ञस्तेन द्रव्येण प्रयोजनमुत्पन्नम्।
०२०.०२०. तेन वणिग्ग्राम आहूयोक्तह्--भवन्तः, ममामुकेन द्रव्येण प्रयोजनम्।
०२०.०२१. अनुप्रयच्छतेति।
०२०.०२१. ते कथयन्ति--देव पूणस्यास्ति।
०२०.०२१. राजा कथयति--बह्वन्तः, नाहं तस्याज्ञां ददामि।
०२०.०२२. यूयमेव तस्यान्तिकात्क्रीत्वानुप्रयच्छत्
०२०.०२२. तैः पूर्णस्य दूतः प्रेषितह्--वणिग्ग्रामः शब्दयतीति।
०२०.०२३. स कथयति--नाहमागच्छामि।
०२०.०२३. ते वणिग्ग्रामाः सर्व एव संभूय तस्य निवेशनं गत्वा द्वारि स्थित्वा तैर्दूतः प्रेषितः।
०२०.०२४. पूर्ण, निर्गच्छ वणिग्ग्रामो द्वारि तिष्ठतीति।
०२०.०२५. स साहंकारः कामकारमदत्त्वा निर्गतः।
०२०.०२५. वणिग्ग्रामः कथयति--सार्थवाह यथाक्रीतकं पण्यमनुप्रयच्छ्
०२०.०२६. स कथयति--अतिवाणिजकोऽहं यदि यथाकृतं पण्यमनुप्रयच्छामीति।
०२०.०२६. ते कथयन्ति--सार्थवाह, द्विगुणमूल्येन दत्तम्।
०२०.०२७. पञ्चदश लक्षाणि तेषां वणिज्यं दत्तमवशिष्टं स्वगृहं प्रवेशितम्।
०२०.०२८. स संलक्षयति--किं शक्यमवश्यायबिन्दुना कुम्भं पूरयितुम्? महासमुद्रमवतरामीति।
०२०.०२९. तेन सूर्पारके नगरे घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तः सौर्पारकीया वणिजः।
०२०.०३०. पूर्णः सार्थवाहो महासमुद्रमवतरति।
०२०.०३०. यो युष्माकमुत्सहते पूर्णेन सार्थवाहेन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतर्तुं स महासमुद्रगमनीयं पण्यं समुदानयत्विति।
०२०.०३२. पञ्चमात्रैर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्।
०२०.०३२. ततः पूर्णः सार्थवाहः कृतकुतूहलमङ्गलस्वस्त्ययनह्<२१> पञ्चवणिक्शतपरिवारो महासमुद्रमवतीर्णः।

०२१.००१. मङ्गलस्वस्त्ययनः पञ्चवणिक्शतपरिवारो महासमुद्रमवतीर्णः।
०२१.००१. स संसिद्धयानपात्रश्च प्रत्यागतः।
०२१.००२. एवं यावत्षट्कृत्वः।
०२१.००२. सामन्तकेन शब्दो विश्रुतः।
०२१.००२. पूर्णः षट्कृत्वो महासमुद्रमवतीर्णः संसिद्धयानपात्रश्च प्रत्यागत इति।
०२१.००३. श्रावस्तेया वणिजः पण्यमादाय सूर्पारकं नगरं गताः।
०२१.००४. ते मार्गश्रमं प्रतिविनोद्य येन पूर्णः सार्थवाहस्तेनोपसंक्रान्ताः।
०२१.००४. उअप्संक्रम्य कथयन्ति--सार्थवाह महासमुद्रमवतरामेति।
०२१.००५. स कथयति--भवन्तः, अस्ति कश्चिद्युष्माभिर्दृष्टः श्रुतो वा षट्कृत्वो महासमुद्रात्संसिद्धयानपात्रागतः सप्तमं वारमवतरन्? ते कथयन्ति--पूर्ण, वयं त्वामुद्दिश्य दूरादागताः।
०२१.००७. यदि नावतरसि, त्वमेव प्रमाणमिति।
०२१.००७. स संलक्षयति--किं चाप्यहं धनेनानर्थी तथाप्येषामर्थायावतरामीति।
०२१.००८. स तैः सार्धं महासमुद्रं संप्रस्थितः।
०२१.००९. ते रात्र्याः प्रत्यूषसमये उदानात्पारायणात्सत्यदृशः स्थविरगाथाः शैलगाथा मुनिगाथा अर्थवर्गीयाणि च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं कुर्वन्ति।
०२१.०१०. तेन ते श्रुताः।
०२१.०१०. स कथयति--भवन्तः, शोभनानि गीतानि गायथ्
०२१.०११. ते कथयन्ति--सार्थवाह, नैतानि? किंतु खल्वेतद्बुद्धवचनम्।
०२१.०१२. स बुद्ध इत्यश्रुतपूर्वं शब्दं श्रुत्वा सर्वरोमकूपानि आहृष्टानि।
०२१.०१२. स आदरजातः पृच्छति--भवन्तः, कोऽयं बुद्धनामेति।
०२१.०१३. ते कथयन्ति--अस्ति श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः।
०२१.०१५. सोऽनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धः।
०२१.०१५. स एष सार्थवाह बुद्धो नाम्
०२१.०१६. कुत्र भवन्तः स भगवानेतर्हि विहरति? सार्थवाह, श्राव्स्त्यां जेतवनेऽनाथपिण्डदस्याराम्
०२१.०१७. स तं हृदि कृत्वा तैः सार्धं महासमुद्रमवतीर्णः संसिद्धयानपात्रश्च प्रत्यागतः।
०२१.०१७. भ्रातास्य भविलः संलक्षयति--परिखिन्नोऽयं महासमुद्रगमनेन, निवेशोऽस्य कर्तव्य इति।
०२१.०१८. स तेनोक्तह्--भ्रातः, कथय कतरस्य धनिनः सार्थवाहस्य वा तवार्थाय दुहितरं प्रार्थयामीति।
०२१.०१९. स कथयति--नाहं कामैरर्थी।
०२१.०२०. यद्यनुजानासि, प्रव्रजामीति।
०२१.०२०. स कथयति--यदास्माकं गृहे वार्ता नास्ति, तदा न प्रव्रजितः।
०२१.०२१. इदानीं कामार्थं प्रव्रजसि।
०२१.०२१. पूर्णः कथयति--भ्रातः, तदानीं न शोभते, इदानीं तु युक्तम्।
०२१.०२२. स तेनावश्यं निर्बन्धं ज्ञात्वानुज्ञातः।
०२१.०२२. स कथयति--भ्रातः, महासमुद्रो बह्वादीनवोऽल्पास्वादः।
०२१.०२३. बहवोऽवतरन्ति, अल्पा व्युत्तिष्ठन्ति।
०२१.०२३. सर्वथा न त्वया महासमुद्रमवतर्तव्यम्।
०२१.०२३. न्यायोपार्जितं ते प्रभूतं धनमस्ति, एषां तु तव भ्रातृर्णामन्यायोपर्जितम्।
०२१.०२४. यद्येते कथयन्ति एकध्ये वसामेति, न वस्तव्यम्।
०२१.०२५. इत्युक्त्वोपस्थायकमादाय श्रावस्तीं संप्रस्थितः।
०२१.०२५. अनुपूर्वेण श्रावस्तीमनुप्राप्तः॥
०२१.०२६. श्रावस्त्यामुद्याने स्थितेन अनाथपिण्डदस्य गृहपतेर्दूतोऽनुप्रेषितः।
०२१.०२६. तेन गत्वा अनाथपिण्डदस्य गृहप्तेरारोचितम्--गृहपते, पूर्णः सार्थवाह उद्याने तिष्ठति गृहपतिं द्रष्टुकाम इति।
०२१.०२८. अनाथपिण्डदो गृहपतिः संलक्षयति--नूनं जलयानेन खिन्न इदानीं स्थलयानेनागतः।
०२१.०२९. ततः पृच्छति--भोः पुरुष, कियत्प्रभूतं पण्यमानीतम्।
०२१.०२९. स कथयति--कुतोऽस्य पण्यम्? उपस्थायकद्वितीयः।
०२१.०३०. स चाहं च्
०२१.०३०. अनाथपिण्डदः संलक्षयति--न मम प्रतिरूपं यदहं प्रधानपुरुषमसत्कारेण प्रवेशयेयमिति।
०२१.०३१. स तेन महता सत्कारेण प्रवेशित उद्वर्तितः स्नापितो भोजितः।
०२१.०३२. स्वैरालापेणावस्थितयोरनाथपिण्डदः पृच्छति--<२२>सार्थवाह, किमागमनप्रयोजनम्? अपूर्वेण गृहपते इच्छामि स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावमिति।

०२२.००२. ततोऽनाथपिण्डदो गृहपतिः पूर्वं कायमभ्युन्नमय्य दक्षिणं बाहुं प्रसार्योदानमुदानयति--अहो बुद्धः।
०२२.००३. अहो धर्मः।
०२२.००३. अहो संघस्य स्वाख्यातता।
०२२.००३. यत्रेदानीमीदृशाः प्रधानपुरुषा विस्तीर्णस्वजनबन्धुवर्गमपहाय स्फीतानि च कोशकोष्ठागाराणि आकाङ्क्षन्ति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावमिति।
०२२.००५. ततोऽनाथपिण्डदो गृःपतिः पूर्णं सार्थवाहमादाय येन भगवांस्तेनोपसंक्रान्तः।
०२२.००६. तेन खलु समयेन भगवाननेकशताया भिक्षुपरिषदः पुरस्तान्निषण्णो धर्मं देशयति।
०२२.००७. अद्राक्षीद्भगवाननाथपिण्डदं गृहपतिं सप्राभृतमागच्छन्तम्।
०२२.००८. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--एष भिक्षवोऽनाथपिण्डदो गृहपतिः सप्राभृत आगच्छति।
०२२.००९. नास्ति तथागतस्यैवंविधः प्राभृतो यथा वैनेयप्राभृत इति।
०२२.०१०. ततोऽनाथपिण्डदो गृहपतिर्भगवतः पादाभिवन्दनं कृत्वा पूर्णेन सार्थवाहेन सार्धमेकान्ते निषण्णः।
०२२.०११. एकान्तनिषण्णोऽनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्--अयं भदन्त पूर्णः सार्थवाह आकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
०२२.०१२. तं भगवान् प्रव्राजयतु उपसम्पादयेदनुकम्पामुपादायेति।
०२२.०१३. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन्
०२२.०१४. ततो भगवान् पूर्णं सार्थवाहमामन्त्रयते--एहि भिक्षो चर ब्रह्मचर्यमिति।
०२२.०१४. स भगवतो वाचावसाने मुण्डः संवृत्तः संघाटिप्रावृतः पात्रकरकव्यग्रहस्तः सप्ताहावरोपितकेशश्मश्रुर्वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावास्थितः।
०२२.०१७. एहीति चोक्तः स तथागतेन मुण्डश्च संघाटिपरीतदेहः।
०२२.०१९. सद्यः प्रशान्तेन्द्रिय एव तस्थौ एवं स्थितो बुद्धमनोरथेन् ।४॥
०२२.०२१. अथापरेण समयेनायुष्मान् पूर्णो येन भगवांस्तेनोपसंक्रान्तः।
०२२.०२१. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् ।
०२२.०२२. एकान्ते स्थित आयुष्मान् पूर्णो भगवन्तमिदमवोचत्--साधु मे भगवांस्तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतोऽन्तिकात्संक्षिप्तेन धर्मं श्रुत्वैको व्यपकृष्टोऽप्रमत्त आतापी प्रहितात्मा विहरेयम्।
०२२.०२४. यदर्थं कुलपुत्राः केशश्मश्रूणि अवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजन्ति, तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्टधर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसम्पद्य प्रव्रजयेयम्--क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति।
०२२.०२७. एवमुक्ते भगवानायुष्मन्तं पूर्णमिदमवोचत्--साधु पूर्ण, साधु खलु त्वं पूर्ण यस्त्वमेवं वदसि--साधु मे भगवांस्तथा संक्षिप्तेन धर्मं देशयतु पूर्ववद्यावन्नापरमस्माद्भवं प्रजानामीति।
०२२.०२९. तेन हि पूर्ण शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्य् ।
०२२.०३१. सन्ति पूर्ण चक्षुर्विज्ञेयानि रूपाणीष्टकानि कान्तानि प्रियाणि मनापानि कामोपसंहितानि रञ्जनीयानि।
०२२.०३२. तानि चेद्भिक्षुर्दृष्ट्वाभिनन्दति अभिवदाति अध्यवस्यति अध्यवसाय <२३>तिष्ठति, तानि अभिनन्दतोऽभिवदतोऽध्यवसतोऽध्यवसाय तिष्ठत आनन्दी भवति।

०२३.००१. आनन्द्यानन्दीसौमनस्यं भवति।
०२३.००२. नन्दीसौमनस्ये सति सरागो भवति।
०२३.००२. नन्दीसरागे सति नन्दीसरागसम्योजनं भवति।
०२३.००३. नन्दीसरागसम्योजनसम्युक्तः पूर्ण भिक्षुराअरन्निर्वाणस्योच्यत्
०२३.००३. सन्ति पूर्ण श्रोत्रविज्ञेयाः शब्दाः, घ्राणविज्ञेया गन्धाः, जिह्वाविज्ञेया रसाः, कायविज्ञेयानि स्प्रष्टव्यानि, मनोविज्ञेया धर्मा इष्टाः कान्ताः प्रिया मनापाः कामोपसंहिता रञ्जनीयाः।
०२३.००६. तांश्च भिक्षुर्दृष्ट्वा पूर्ववद्यावदारान्निर्वाणस्येति उच्यत्
०२३.००६. सन्ति तु पूर्ण चक्षुर्विज्ञेयानि रूपाणि इष्टानि कान्तानि प्रियाणि मनापानि पूर्ववद्यवत्शुक्लपक्षेणान्तिके निर्वाणस्येति उच्यत्
०२३.००८. अनेन त्वं पूर्ण मया संक्षिप्तेनाववादेन चोदितः।
०२३.००८. कुत्रेच्छसि वस्तुं कुत्रेच्छसि वासं कल्पयितुम्? अनेनाहं भदन्त भगवता संक्षिप्तेनाववादेन चोदित इच्छामि श्रोणापरान्तकेषु जनपदेषु वस्तुं श्रोणापरान्तकेषु जनपदेषु वासं कल्पयितुम्।
०२३.०१०. चण्डाः पूर्ण श्रोणापरान्तिका मनुष्या रभसाः कर्कशा आक्रोशका रोषकाः परिभाषकाः।
०२३.०११. सचेत्त्वां पूर्ण श्रोणापरान्तका मनुष्या संमुखं पापिकया असत्यया परुषया वाचा आक्रोक्ष्यन्ति रोषयिष्यन्ति परिभाषिष्यन्ते, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः संमुखं पापिकया असात्यया परुषया वाचा आक्रोक्ष्यन्ति रोषयिष्यन्ति परिभाषिष्यन्ते, तस्य ममैवं भविष्यति--भद्रका बत श्रोणापरान्तका मनुष्याः, स्निग्धका बत श्रोणापरान्तका मनुष्याः, ये मां संमुखं पापिकया असत्यया परुषया
वाचा आक्रोशन्ति रोषयन्ति परिभाषन्त्
०२३.०१७. नो तु पाणिना वा लोष्टेन वा प्रहरन्तीति।
०२३.०१७. चण्डाः पूर्ण श्रोणापरान्तका मनुष्याः पूर्ववत्यावत्परिभाषकाः।
०२३.०१८. सचेत्त्वां पूर्ण श्रोणापरान्तका मनुष्याः पाणिना वा लोष्टेन वा प्रहरिष्यन्ति, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः पाणिना वा लोष्टेन वा प्रहरिष्यन्ति, तस्य ममैवं भविष्यति--भद्रका बत श्रोणापरान्तका मनुष्याः, स्नेहका बत श्रोणापरान्तका मनुष्याः, ये मां पाणिना वा लोष्टेन वा प्रहरन्ति, नो तु दण्डेन वा शस्त्रेण वा प्रहरन्तीति।
०२३.०२२. चण्डाः पूर्ण श्रोणापरान्तका मनुष्याः पूर्ववद्यावत्परिभाषकाः।
०२३.०२३. सचेत्त्वां पूर्ण श्रोणापरान्तका मनुष्या दण्डेन वा शस्त्रेण वा प्रहरिष्यन्ति, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्या दण्डेन वा शस्त्रेण वा प्रहरिष्यन्ति, तस्य ममैवं भविष्यति--भद्रका बत श्रोणापरान्तका मनुष्याः, स्नेहका बत श्रोणापरान्तका मनुष्याः, ये मां दण्डेन वा शस्त्रेण वा प्रहरन्ति, नो तु सर्वेण सर्वं जीविताद्व्यपरोपयन्ति।
०२३.०२७. चण्डाः पूर्ण श्रोणापरान्तका मनुष्या यावत्परिभाषकाः।
०२३.०२७. सचेत्त्वां पूर्ण श्रोणापरान्तका मनुष्याः सर्वेण सर्वं जीविताद्व्यपरोपयिष्यन्ति, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः सर्वेण सर्वं जीविताद्व्यपरोयिष्यन्ति, तस्य मे एवं भविष्यति--सन्ति भगवतः श्रावका ये अनेन पूतिकायेनार्दीयमाना जेह्रीयन्ते, विजुगुप्समानाः शस्त्रमपि आधारयन्ति, विषमपि भिक्षयन्ति, रज्ज्वा बद्धा अपि म्रियन्ते, प्रपातादपि प्रपतन्त्यपि।
०२३.०३२. भद्रका बत श्रोणापरान्तका मनुष्यकाः, स्नेहका <२४>बत श्रोणापरान्तका मनुष्याः, ये मामस्मात्पूतिकलेवरादल्पकृच्छ्रेण परिमोचयन्तीति।

०२४.००२. साधु साधु पूर्ण, शक्यस्त्वं पूर्ण अनेन क्षान्तिसौरभ्येन समन्वागतः श्रोणापरान्तकेषु जनपदेषु वस्तुं श्रोणापरान्तकेषु वासं कल्पयितुम्।
०२४.००३. गच्छ त्वं पूर्ण, मुक्तो मोचय, तीर्णस्तारय, आश्वस्त आश्वसय, परिनिर्वृतः परिनिर्वापयेति॥
०२४.००५. अथायुष्मान् पूर्णो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः।
०२४.००६. अथायुष्मान् पूर्णस्तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत् ।
०२४.००७. श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तः।
०२४.००८. यथापरिभुक्तशयनासनं प्रतिसमय्य समादाय पात्रचीवरं येन श्रोणापरान्तका जनपदास्तेन चारिकां चरञ्श्रोणापरान्तकाञ्जनपदाननुप्राप्तः।
०२४.०१०. अथायुष्मान् पूर्णः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रोणापरान्तकं पिण्डाय प्राविक्षत् ।
०२४.०११. अन्यतमश्च लुब्धको धनुष्पाणिर्मृगयां निर्गच्छति।
०२४.०११. तेन दृष्टः।
०२४.०११. स संलक्षयति--अमङ्गलोऽयं मुण्डकः श्रमणको मया दृष्ट इति विदित्वा आ कर्णाद्धनुः पूरयित्वा येनायुष्मान् पूर्णस्तेन प्रधावितः।
०२४.०१३. स आयुष्मता पूर्णेन दृष्टः।
०२४.०१३. दृष्ट्वा चेत्तरासङ्गं विवर्त्य कथयति--भद्रमुख, अस्य दुष्पूरस्यार्थे प्रविशामि, अत्र प्रहरेति।
०२४.०१४. गाथां च भाषते--
०२४.०१५. यस्यार्थे गहने चरन्ति विहगा गच्छन्ति बन्धं मृगाः संग्रामे शरशक्ततोमरधरा नश्यन्त्यजस्रं नराः।
०२४.०१७. दीना दुर्दिनचारिणश्च कृपणा मत्स्या ग्रसन्त्यायसमस्यार्थे उदरस्य पापकलिले दूरादिहाभ्यागतः॥५॥ इति॥
०२४.०१९. स संलक्षयति--अयं प्रव्रजित ईदृशेन क्षान्तिसौरभ्येन समन्वागतः।
०२४.०१९. किमस्य प्रहरामीति मत्वा अभिप्रसन्नः।
०२४.०२०. ततोऽस्यायुष्मता पूर्णेन धर्मो देश्यितः, शरणगमनशिक्षापदेशेषु च प्रतिष्ठापितः।
०२४.०२१. अन्यानि च पञ्चोपासकशतानि कृतानि पञ्चोपासिकाशतानि।
०२४.०२१. पञ्चविहारशतानि कारितानि, अनेकानि च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि अनुप्रदापितानि।
०२४.०२३. तस्यैव च त्रिमासस्यात्ययात्तिस्रो विद्याः कायेन साक्षात्कृताः।
०२४.०२३. अर्हन् संवृत्तः।
०२४.०२४. त्रैधातुकवीतरागो यावत्सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः॥
०२४.०२५. यावदपरेण समयेन दारुकर्णिभ्रात्रोर्भोगास्तनुत्वं परिक्षयं पर्यादानं गताः।
०२४.०२५. तौ कथयतह्--गतोऽसौ अस्माकं गृहात्कालकर्णिप्रख्यः।
०२४.०२६. आगच्छ, एकध्ये प्रतिवसामः।
०२४.०२६. स कथयति--कतरोऽसौ कालकर्णिप्रख्यह्? तौ कथयतह्--पूर्णकश्रीः।
०२४.०२७. सा मम गृहान्निष्क्रान्ता।
०२४.०२८. नासौ कालकर्णिप्रख्यः।
०२४.०२८. तौ कथयतह्--श्रीर्वा भवतु कालकर्णी वा, आगच्छ एकध्ये प्रतिवसामः।
०२४.०२९. स कथयति--युवयोरन्यायोपार्जितं धनम्, मम न्यायोपार्जितम्।
०२४.०२९. नाहं युवाभ्यां सार्धमेकध्ये वासं कल्पयामीति।
०२४.०३०. तौ कथयतह्--तेन दासीपुत्रेण महासमुद्रमवतीर्यावतीर्य भोगाः समुदानीता येन त्वं भुञ्जानो विकत्थस्
०२४.०३१. कुतस्तव सामर्थ्यं महासमुद्रमवतर्तुमिति।
०२४.०३१. स ताभ्यां मानं ग्राहितः।
०२४.०३२. स संलक्षयति--अहमपि महासमुद्रमवतरामि।
०२४.०३२. पूर्ववत्यावन्महासमुद्रमवतीर्णह्<२५>।

०२५.००१. यावत्तद्वहनं वायुना गोशीर्षचन्दनवनमनुप्रेरितम्।
०२५.००१. कर्णधारः कथयति--भवन्तः, यत्तत्श्रूयते गोशीर्षचन्दनवनमिति, इदं तत् ।
०२५.००२. गृह्णन्तु अत्र यत्सारमिति।
०२५.००२. तेन खलु समयेन गोशीर्षचन्दनवनं महेश्वरस्य यक्षस्य परिग्रहोऽभूत् ।
०२५.००३. स च यक्षाणां यक्षसमितिं गतः।
०२५.००३. ततो गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वोढुमारब्धानि।
०२५.००४. अद्राक्षीदप्रियाख्यो यो यक्षो गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वहतः।
०२५.००५. दृष्ट्वा च येन महेश्वरो यक्षः, तेनोपसंक्रान्तः।
०२५.००६. उपसंक्रम्य महेश्वरं यक्षमिदमवोचत्--यत्खलु ग्रामणीर्जानीया गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वहन्ति।
०२५.००७. यत्ते कृत्यं वा करणीयं वा तत्कुरुष्वेति।
०२५.००७. अथ महेश्वरो यक्षो यक्षाणां समितिमसमितिं कृत्वा संजातामर्षो महान्तं कालिकावातभयं संजन्य येन गोशीर्षचन्दनवनं तेन संप्रस्थितः।
०२५.००९. कर्णधारेणारोचितम्--शृण्वन्तु भवन्तो जाम्बुद्वीपका वणिजह्--यत्तत्श्रूयते महाकालिकावातभयमिति, इदं तत् ।
०२५.०१०. किं मन्यध्वमिति? ततस्ते वणिजो भीतास्त्रस्ताः संविग्ना आहृष्टरोमकूपा देवतायाचनं कर्तुमारब्धाः।
०२५.०१२. शिववरुणकुबेरशक्रब्रह्माद्या सुरमनुजोरगयक्षदानवेन्द्राः।
०२५.०१४. व्यसनमतिभयं वयं प्रपन्ना विगतभया हि भवन्तु नोऽद्य नाथाः॥६॥
०२५.०१६. केचिन्नमस्यन्ति शचीपतिं नरा ब्रह्माणमन्ये हरिशंकरावपि।
०२५.०१८. भूम्याश्रितान् वृक्षवनाश्रितांश्च त्राणार्थिनो वातपिशाचदस्थाह्(यक्षाह्?)॥७॥
०२५.०२०. दारुकर्णी अल्पोत्सुकस्तिष्ठति।
०२५.०२०. वणिजः कथयन्ति--सार्थवाह, वयं कृच्छ्रसंकटसम्बाधप्राप्ताः।
०२५.०२१. किमर्थमल्पोत्सुकस्तिष्ठसीति? स कथयति--भवन्तः, अहं भ्रात्रा अभिहितह्--महासमुद्रोऽल्पास्वादो बह्वादीनवः।
०२५.०२२. तृष्णान्धा बहवोऽवतरन्ति, स्वल्पा व्युत्थास्यन्ति।
०२५.०२२. न त्वया केनचित्प्रकारेण महासमुद्रमवतर्तव्यमिति।
०२५.०२३. सोऽहं तस्य वचनमवचनं कृत्वा महासमुद्रमवतीर्णः।
०२५.०२४. किमिदानीं करोमि? कस्तव भ्राअता? पूर्णः।
०२५.०२४. वणिजः कथयन्ति--भवन्तः, स एवार्यपूर्णः पुण्यमहेशाख्यः।
०२५.०२५. तमेव शरणं प्रपद्याम इति।
०२५.०२५. तैरेकस्वरेण सर्वैरेवं नादो मुक्तह्--नमस्तस्मै आर्याय पूर्णाय, नमो नमस्तस्मै आर्याय पूर्णायेति।
०२५.०२६. अथ या देवता आयुष्मती पूर्णेऽभिप्रसन्ना, सा येनायुष्मान् पूर्णस्तेनोपसंक्रान्ता।
०२५.०२७. उपसंक्रम्य आयुष्मन्तं पूर्णमिदमवोचत्--आर्य, भ्राता ते कृच्छ्रसंकटसम्बाधप्राप्तः, समन्वाहरेति।
०२५.०२८. तेन समन्वाहृतम्।
०२५.०२९. तत आयुष्मान् पूर्णस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते श्रोणापरान्तकेऽन्तर्हितो महासमुद्रे वहनसीमायां पर्यङ्कं बद्ध्वा अवस्थितः।
०२५.०३०. ततोऽसौ कालिकावातः सुमेरुप्रत्याहत इव प्रतिनिवृत्तः।
०२५.०३१. अथ महेश्वरो यक्षः संलक्षयति--पूर्वं यत्किंचिद्वहनं कालिकावातेन स्पृश्यते, तत्तूलपिचुवत क्षिप्यते विशीर्यते च्
०२५.०३२. इदानीं को योगो येन कालिकावातह्<२६>सुमेरुप्रत्याहत इव प्रतिनिवृत्तह्? स इतश्चामुतश्च प्रत्यवेक्षितुमारब्धो यावत्पश्यति आयुष्मन्तं पूर्णं वहनसीमायां पर्यङ्कं बद्ध्वावस्थितम्।

०२६.००२. दृष्ट्वा च पुनः कथयति--आर्य पूर्ण, किं विहेठयसीति? आयुष्मान् पूर्णः कथयति--जराधर्मोऽहम्।
०२६.००३. किं मामेव विहेठयसि? यदि मयेदृशा गुणगणा नाधिगताः स्युर्भ्राता मे त्वया नामावशेषः कृतः स्यात् ।
०२६.००४. महेश्वरो यक्षः कथयति--आर्य इदं गोशीर्षचन्दनवनं राज्ञश्चकरवर्तिनोऽर्थाय धार्यत्
०२६.००५. किं मन्यसे ग्रामणीः किं वरं राजा चक्रवर्ती उत तथगतोऽर्हन् सम्यक्सम्बुद्ध? किमार्य भगवांल्लोक उत्पन्नह्? उत्पन्नः।
०२६.००७. यदि एवं यदपरिपूर्णं तत्परिपूर्यताम्।
०२६.००७. ततस्ते वणिजो गतप्रत्यागतप्राणा आयुष्मति पूर्णे चित्तमभिप्रसाद्य तद्वहनं गोशीर्षचन्दनस्य पूरयित्वा संप्रस्थिताः।
०२६.००८. अनुपूर्वेण सूर्पारकं नगरमनुप्राप्ताः॥
०२६.०१०. तत आयुष्मान् पूर्णो भ्रातुः कथयति--यस्य नांना वहनं संसिद्धयानपात्रमागच्छति, तत्तस्य गम्यं भवति।
०२६.०११. त्वमेषां वणिजां रत्नसविभागं कुरु।
०२६.०११. अहमनेन गोशीर्षचन्दनेन भगवतोऽर्थाय चन्दनमालं प्रासादं कारयामीति।
०२६.०१२. तेन तेषां वणिजां रत्नैः संविभागः कृतः।
०२६.०१३. तत आयुष्मान् पूर्णो गोशीर्षचन्दनेन प्रासादं मापयितुमारब्धः।
०२६.०१३. तेन शिल्पानाहूयोक्ताह्--भवन्तः, किं दिवसे दिवसे पञ्च कार्षापणशतानि गृह्णीध्वमाहोस्वित्गोशीर्षचन्दनचूर्णस्य बिडालपदम्? ते कथयन्ति--आर्य गोशीर्षचन्दनचूर्णस्य बिडालपदम्।
०२६.०१५. यावतल्पीयसा कालेन चन्दनमालः प्रासादः कृतः।
०२६.०१६. राजा कथयति--बह्वन्तः, शोभनं प्रासादम्।
०२६.०१६. सर्वजातकृतनिष्ठतः संवृत्तः।
०२६.०१७. यत्तत्र संकलिका चूर्णं चावशिष्टम्, तत्पिष्ट्वा तत्रैव प्रलेपो दत्तः।
०२६.०१८. ते च भ्रातर परस्परं सर्वे क्षमिता उक्ताश्च--बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य भोजयत्
०२६.०१८. आर्य, कुत्र भगवान्? श्रावस्त्याम्।
०२६.०१९. कियद्दूरमितः श्रावस्ती? सातिरेकं योजनशतम्।
०२६.०१९. राजानं तावदवलोकयामः।
०२६.०२०. एवं कुरुत्
०२६.०२०. ते राज्ञः सकाशमुपसंक्रान्ताः।
०२६.०२०. उपसंक्रम्य शिरसा प्रणामं कृत्वा कथयन्ति--देव, इच्छामो वयं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य भोजयितुम्।
०२६.०२१. देवोऽस्माकं साहाय्यं कल्पयतु।
०२६.०२२. राजा कथयति--ततः शोभनम्।
०२६.०२२. तथा भवतु।
०२६.०२२. कल्पयामि।
०२६.०२२. तत आयुष्मान् पूर्णः शरणपृष्ठमभिरुह्य जेतवनाभिमुखं स्थित्वा उभे जानुमण्डले पृथिव्यां प्रतिष्ठाप्य पुष्पाणि क्षिप्त्वा धूपं संचार्य आरामिकेन च सौवर्णभृङ्गारं ग्राहयित्वा आराधितुं प्रवृत्तः।
०२६.०२५. विशुद्धशीलं सुविशुद्धबुद्धे भक्ताभिसारे सततार्थदर्शिन्।
०२६.०२७. अनाथभूतान् प्रसमीक्ष्य साधो कृत्वा कृपामागमनं कुरुष्व् ।८॥ इति।
०२६.०२९. ततस्तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेनोपरि पुष्पमण्डपं कृत्वा जेतवने गत्वा स्थितानि दूउपोऽभ्रकूटवदुदकं वैदूर्यशलाकावत् ।
०२६.०३०. आयुष्मानानन्दो निमित्तकुशलः।
०२६.०३१. स कृतकरपुटो भगवन्तं पप्रच्छ--कुतो भगवन्निमन्त्रणमागतम्? सूर्पारकातानन्द नगरात् ।
०२६.०३२. कियद्दूरे भदन्त सूर्पारकं नगरम्? सातिरेकमानन्द <२७>योजनशतम्।

०२७.००१. गच्छामह्? आनन्द, भिक्षूनारोचय--यो युष्माकमुत्सहते श्वः सूर्पारकं नगरं गत्वा भोक्तुम्, स शलाकां गृह्णातु इति।
०२७.००२. एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रतिश्रुत्य शलाकां गृहीत्वा भगवतः पुरस्तात्स्थितः।
०२७.००३. भगवता शलाका गृहीता, स्थविरस्थविरैश्च भिक्षुभिः॥
०२७.००४. तेन खलु समयेनायुष्मान् पूर्णः कुण्डोपधानीयकः स्थविरः प्रज्ञाविमुक्तस्तस्यामेव परिषदि संनिषण्णोऽभूत् ।
०२७.००५. संनिपतितः।
०२७.००५. सोऽपि शलाकां गृहीतुमारब्धः।
०२७.००५. तमायुष्मानानन्दो गाथया प्रत्यभाषत--
०२७.००७. नैतद्भोक्तव्यमायुष्मन् कोशलाधिपतेर्गृह्
०२७.००८. अगारे वा सुजातस्य मृगारभवनेऽथवा॥९॥
०२७.००९. साधिकं योजनशतं सूर्पारकमितः पुरम्।
०२७.०१०. ऋद्धिभिर्यत्र गन्तव्यं तूष्णी त्वं भव पूर्णक् ।१०॥ इति॥
०२७.०११. स प्रज्ञाविमुक्तः।
०२७.०११. तेन ऋद्धिर्नोत्पादिता।
०२७.०११. तस्यैतदभवत्--येन मया सकलं क्लेशगणं वान्तं छर्दितं त्यक्तं प्रतिनिःसृष्टम्, सोऽहं तीर्थिकसाधारणायामृद्ध्यां विषण्णः।
०२७.०१२. तेन वीर्यमास्थाय ऋद्धिमुत्पाद्य यावदायुष्मानानन्दस्तृतीयस्थविरस्य शलाकां न ददाति, तावत्तेन गजभुजसदृशं बाहुमभिप्रसार्य शलाका गृहीता।
०२७.०१४. ततो गाथां भाषते--
०२७.०१५. वपुष्मत्तया श्रुतेन वा न बलात्कारगुणैश्च गौतम्
०२७.०१६. प्रबलैरपि वान्मनोरथैः षडभिज्ञत्वमिहाधिगम्यत् ।११॥
०२७.०१७. शमशीलविपश्यनाबलैर्विविधैर्ध्यानबलैः परीक्षिताः।
०२७.०१८. जरया हि निपीडितयौवनाः षडभिज्ञा हि भवन्ति मद्विधाः॥१२॥ इति॥
०२७.०१९. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां चैत्यशलाकाग्रहण्
०२७.०२०. तत्प्रथमतः शलाकां गृह्णतां यदुत पूर्णः कुण्डोपधानीयकः स्थविरः।
०२७.०२०. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द भिक्षूणामारोचय्
०२७.०२१. किं चापि उक्तं मया--प्रतिच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यं विवृतपापैरिति, अपि तु तीर्थिकावस्तब्धं तन्नगरम्।
०२७.०२३. यो वो यस्या ऋद्धेर्लाभी, तेन तया तत्र सूर्पारकं नगरं गत्वा भोक्तव्यमिति।
०२७.०२३. एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--आयुष्मन्तः, भगवानेवमाह--किं चापि उक्तं मया प्रतिच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यमिति पूर्ववत्यावत्गत्वा भोक्तव्यमिति।
०२७.०२६. ततः सूर्पारकराज्ञा सूर्पारकनगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं नानाविधसुरभिधूपघटिकासमलंकृतमामुक्तपट्टदामकलापं नानापुष्पाभिकीर्णं रमणीयम्।
०२७.०२८. सूर्पारकस्य नगरस्याष्टादश द्वाराणि।
०२७.०२८. तस्यापि राज्ञः सप्तदश पुत्राः।
०२७.०२९. प्रत्येकमेकैकस्मिन् द्वारे परमया विभूत्या राजपुत्रा व्यवस्थिताः।
०२७.०२९. मूलद्वारे च महता राजानुभावेन सूर्पारकाधिपती राजा आयुष्मान् पूर्णो दारुकर्णी स्तवकर्णी त्रपुकर्णी च व्यवस्थितः।
०२७.०३१. यावत्पत्रचारिका ऋद्ध्या हरितचारिका भाजनचारिकाश्चागताः।
०२७.०३१. तान् दृष्ट्वा राजा कथयति--भदन्त पूर्ण, किं भगवानागतह्? आयुष्मान् पूर्णः कथयति--महाराज <२८>पत्रचारिका हरितचारिका भाजनचारिकाश्चैते, न तावत्भगवान्।

०२८.००१. यावत्स्थविरस्थविरा भिक्षवोऽनेकविधाभिर्ध्यानसमापत्तिभिः संप्राप्तः।
०२८.००२. पुनरपि पृच्छति--भदन्त पूर्ण, किं भगवानागतह्? आयुष्मान् पूर्णः कथयति--महाराज न भगवान्, अपि तु खलु स्थविरस्थविरा एव ते भिक्षव इति।
०२८.००४. अथान्यतमोपासकस्तस्यां वेलायां गाथां भाषते--
०२८.००५. सिंहव्याघ्रगजाश्वनागवृषभानाश्रित्य केचित्शुभान् केचिद्रत्नविमानपर्वततरूंश्चित्रान् रथांश्चोज्ज्वलान्।
०२८.००७. अन्ये तोयधरा इवाम्बरतले विद्युल्लतालंकृता ऋद्ध्या देवपुरीमिव प्रमुदिता गन्तुं समभ्युद्यताः॥१३॥
०२८.००९. गां भित्त्वा ह्युत्पतन्त्येके पतन्त्यन्त्ये नभस्तलात् ।
०२८.०१०. आसने निर्मिताश्चैके पश्य ऋद्धिमतां बलम्॥१४॥ इति॥
०२८.०११. ततो भगवान् बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य प्रज्ञप्त एवासने निषण्णः।
०२८.०१२. यावद्भगवता गन्धकुट्यां साभिसंस्कारं पादो न्यस्तः, षड्विकारः पृथिवीकम्पो जातह्--इयं महापृथिवी चलति संचलति संप्रचलति।
०२८.०१४. व्यधति प्रव्यधति संप्रव्यधति।
०२८.०१४. पूर्वदिग्भाग उन्नमति, पश्चिमोऽवनमति।
०२८.०१५. पश्चिम उन्नमति, पूर्वोऽवनमति।
०२८.०१५. दक्षिण उन्नमति, उत्तरोऽवनमति।
०२८.०१५. उत्तर उन्नमति, दक्षिणोऽवनमति।
०२८.०१६. अन्त उन्नमति, मध्योऽवनमति।
०२८.०१६. मध्य उन्नमति, अन्तोऽवनमति।
०२८.०१६. राजा आयुष्मन्तं पूर्णं पृच्छति--आर्य पूर्ण, किमेतत्? स कथयति--महाराज, भगवता गन्धकुट्यां साभिसंस्कारः पादो न्यस्तः, तेन षट्विकारः पृथिवीकम्पो जातः।
०२८.०१८. ततो भगवता कनकमरीचिवर्णप्रभा उत्सृष्टा यया जम्बुद्वीपो विलीनकनकावभासः संवृत्तः।
०२८.०१९. पुनरपि राजा विस्मयोत्फुल्ललोचनः पृच्छति--आर्य पूर्ण, इदं किम्? स कथयति--महाराज भगवता कनकमरीचिवर्णप्रभा उत्सृष्टेति॥
०२८.०२१. ततो भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारः पञ्चभिरर्हच्छान्तैः सार्धं सूर्पारकाभिमुखः संप्रस्थितः।
०२८.०२२. अथ वा जेतवननिवासिनी देवता, सा बकुलशाखां गृहीत्वा भगवतश्छायां कुर्वन्ती पृष्टतः संप्रस्थिता।
०२८.०२३. तस्या भगवता आशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधकी धर्मदेशना कृता, यां श्रुत्वा तया देवतया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्।

०२८.०२५. यावदन्यतमस्मिन् प्रदेशे पञ्चमात्राणि घरिणीशतानि प्रतिवसन्ति।
०२८.०२६. अद्राक्षुस्ता बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्।
०२८.०२८. सहदर्शनाच्च तासां भगवति महाप्रसाद उत्पन्नः।
०२८.०२९. धर्मतैषा--न तथा द्वादशवर्षाभ्यस्तः शमथश्चित्तस्य कल्यतां जनयति अपुत्रस्य च पुत्रलाभो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथोपचितकुशलमूलहेतुकस्य सत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्।
०२८.०३१. ततो भगवांस्तासां विनयकालमवेक्ष्य पुरस्ताद्भिक्षुसंघस्य <२९>प्रज्ञप्त एवासने निषण्णः।

०२९.००१. ता अपि भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः।
०२९.००१. ततो भगवता तासामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा यावत्स्रोताअपत्तिफलं साक्षात्कृतम्।
०२९.००३. ता दृष्टसत्यास्त्रिरुदानमुदानयन्ति--इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञा नेष्टस्वजनबन्धुवर्गेण न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं तत्कृतम्।
०२९.००५. उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, प्रतिष्ठापिता वयं देवमनुष्येषु अतिक्रान्तातिक्रान्ताः।
०२९.००६. एता वयं भगवतं शरणं गच्छामो धर्मं च भिक्षुसंघं च्
०२९.००७. उपासिकाश्चास्मान् भगवान् धारयतु।
०२९.००७. तत उत्थायासनात्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--अहो बत भगवानस्माकं किंचिदत्र प्रयच्छेत्यत्र वयं कारां करिष्यामः।
०२९.००९. ततो भगवता ऋद्ध्या केशनखमुत्सृष्टम्।
०२९.००९. ताभिर्भगवतः केशनखस्तूपः प्रतिष्ठापितः।
०२९.०१०. ततस्तया जेतवननिवासिन्या तस्मिन् स्तूपे यष्ट्यां सा बकुलशाखारोपिता।
०२९.०१०. भगवांश्चोक्तह्--भगवन्, अहमस्मिन् स्तूपे कारां कुर्वन्ती तिष्ठामीति।
०२९.०११. सा तत्रैव आस्थिता।
०२९.०१२. तत्र केचित्घरिणीस्तूप इति संजानते, केचित्बकुलमेधीति, यमद्यापि चैत्यवन्दका भिकवो वन्दन्त्
०२९.०१३. ततो भगवान् संप्रस्थितः॥
०२९.०१४. यावदन्यस्मिन्नाश्रमपदे पञ्च ऋषिशतानि प्रतिवसन्ति।
०२९.०१४. तत्तेषामाश्रमपदं पुष्पफलसलिलसम्पन्नम्।
०२९.०१५. ते तेन मदेन मत्ता न किंचिन्मन्यन्त्
०२९.०१५. ततो भगवांस्तेषां विनयकालमवेक्ष्य तदाश्रमपदमुपसंक्रान्तः।
०२९.०१६. उपसंक्रम्य तस्मादाश्रमपदात्पुष्पफलमृद्ध्या शामितम्, सलिलं शोषितम्, हरितशाड्वलं कृष्णं स्थण्डिलानि पातितानि।
०२९.०१७. ततस्ते ऋषयः करे कपोलं दत्त्वा चिन्तापरा व्यवस्थिताः।
०२९.०१८. ततो भगवता अभिहिताह्--महर्षयः, किमर्थं चिन्तापरास्तिष्ठतेति।
०२९.०१८. ते कथयन्ति--भगवंस्त्वं द्विपादकं पुण्यक्षेत्रमिह प्रविष्टोऽस्माकं चेदृशी समवस्था।
०२९.०१९. भगवानाह--किम्? ते कथयन्ति--भगवन्, पुष्पफलसलिलसम्पन्नमाश्रमपदं विनष्टं यथापौराणं भवतु।
०२९.०२१. भवतु इत्याह भगवान्।
०२९.०२१. ततो भगवता ऋद्धिः प्रस्रब्धा, यथापौराणं संवृत्तम्।
०२९.०२१. ततस्ते परं विस्मयमुपगता भगवति चित्तमभिप्रसादयामासुः।
०२९.०२२. ततो भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तैः पञ्चभिरृषिशतैरनागामिफलं साक्षात्कृतम्, ऋद्धिश्चाभिनिर्हृता।
०२९.०२४. ततो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
०२९.०२६. चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यम्।
०२९.०२६. ततस्ते भगवता एहिभिक्षुकया आभाषिताह्--एत भिक्षवश्चरत ब्रह्मचर्यमिति।
०२९.०२७. भगवतो वाचावसाने मुण्डाः संवृत्ताः संघाटिप्रावृताः पात्रकरव्यग्रहस्ताः सप्ताहावरोपितकेशश्मश्रवो वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेन अवस्थिताः।
०२९.०२९. एहीति चोक्ता हि तथागतेन मुण्डाश्च संघाटिपरीतदेहाः।
०२९.०३१. सद्यः प्रशान्तेन्द्रिया एव तस्थुरेवं स्थिता बुद्धमनोरथेन् ।१५॥

०३०.००१. <३०>तैर्युज्यमानैर्घटमानैर्व्यायच्छमानैरिदमेव पञ्चगण्डकं पूर्ववत्यावदभिवाद्याश्च संवृत्ताः।
०३०.००२. यस्तेषामृषिरववादकः स कथयति--भगवन्, मया अनेन वेषेण महाजनकायो विप्रलब्धः।
०३०.००२. तं यावदभिप्रसादयामि पश्चात्प्रव्रजिष्यामीति।
०३०.००३. ततो भगवान् पञ्चभिरृषिशतैः पूर्वकैश्च पञ्चभिर्भिक्षुःशतैरर्धचन्द्राकारोपगूढस्ततेव ऋद्ध्या उपरि विहायसा प्रक्रान्तोऽनुपूर्वेण मुसलकं पर्वतमनुप्राप्तः।
०३०.००५. तेन खलु समयेन मुसलके पर्वते वक्कली नाम ऋषिः प्रतिवसति।
०३०.००६. अद्राक्षीत्स ऋषिर्भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं पूर्ववत्यावत्समन्ततो भद्रकम्।
०३०.००७. सहदर्शनाच्चानेन भगवतोऽन्तिके चित्तमभिप्रसादितम्।
०३०.००७. स प्रसादजातश्चिन्तयति--यन्न्वहं पर्वतादवतीर्य भगवन्तं दर्शनायोपसंक्रमिष्यामि।
०३०.००८. भगवान् वैनेयापेक्षया अतिक्रमिष्यति।
०३०.००९. यन्न्वहमात्मानं पर्वतान्मुञ्चेयमिति।
०३०.००९. तेन पर्वतादात्मा मुक्तः।
०३०.००९. असंमोषधर्माणो बुद्धा भगवन्तः।
०३०.०१०. भगवता ऋद्ध्या प्रतीष्टः।
०३०.०१०. ततोऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा वक्कलिना अनागामिफलं साक्षात्कृतम्, ऋद्धिश्चाभिनिर्हृता।
०३०.०१२. ततो भगवन्तमिदमवोचत्--लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावं पूर्ववत्यावत्भगवता एहिभिक्षुकया प्रव्राजितो यावदेवं स्थितो बुद्धमनोरथेन् ।
०३०.०१४. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रद्धाधिमुक्तानां यदुत वक्कली भिक्षुरिति।
०३०.०१५. ततो भगवान् भिक्षुसहस्रपरिवृतो विचित्राणि प्रातिहार्याणि कुर्वन् सूर्पारकं नगरमनुप्राप्तः।
०३०.०१६. भग्वान् संलक्षयति--यदि एकेन द्वारेण प्रविशामि, अपरेषां भविष्यति अन्यथात्वम्।
०३०.०१७. यन्न्वहमृद्ध्यैव प्रविशेयमिति।
०३०.०१७. तत ऋद्ध्या उपरि विहायसा मध्ये सूर्पारकस्य नगरस्यावतीर्णः।
०३०.०१८. ततः सूर्पारकाधिपती राजा आयुष्मान् पूर्णो दारुकर्णी स्तवकर्णी त्रपुकर्णी ते च सप्तदश पुत्राः स्वकस्वकेन परिवारेण येन भगवांस्तेनोपसंक्रान्ताः, अनेकानि च प्राणिशतसहस्राणि।
०३०.०२०. ततो भगवाननेकैः प्राणिशतसहस्रैरनुगम्यमानो येन चन्दनमालः प्रासादस्तेनोपसंक्रान्तः।
०३०.०२१. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
०३०.०२२. स जनकायो भगवन्तमपश्यंश्चन्दनमालं प्रासादं भेत्तुमारब्धः।
०३०.०२२. भगवान् संलक्षयति--यदि चन्दनमालः प्रासादो भेत्स्यते, दातृर्णां पुण्यान्तरायो भविष्यति।
०३०.०२३. यन्न्वहमेनं स्फटिकमयं निर्मिनुयामिति।
०३०.०२४. स भगवता स्फटिकमयो निर्मितः।
०३०.०२४. ततो भगवता तस्याः परिषदाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधिगतः।
०३०.०२६. कैश्चिन्मोक्षभागीयानि कुशलमूलानि उत्पादितानि, कैश्चिन्निर्वेधभागीयानि, कैश्चित्स्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चित्श्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि।
०३०.०३०. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता॥
०३०.०३१. अथ दारुकर्णी स्तवकर्णी त्रपुकर्णी च प्रणीतं खादनीयं भोजनीयं समुदानीय आसनानि प्रज्ञाप्य भगवतो दूतेन कालमारोचयन्ति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालम् <३१>मन्यत इति।

०३१.००१. तेन खलु समयेन कृष्णगौतमकौ नागराजौ महासमुद्रे प्रतिवसतः।
०३१.००१. तौ संलक्षयतह्--भगवान् सूर्पारके नगरे धर्मं देशयति।
०३१.००२. गच्छावः, धर्मं श्रोष्याव इति।
०३१.००२. ततस्तौ पञ्चनागशतपरिवारौ पञ्चनदीशतानि संजन्य सूर्पारकं नगरं संप्रस्थितौ।
०३१.००३. असंमोषधर्माणो बुद्धा भगवन्तः।
०३१.००४. भगवान् संलक्षयति--इमौ कृष्णगौतमौ नागराजौ यदि सूर्पारकं नगरमागमिष्यतः, अगोचरीकरिष्यतः।
०३१.००५. तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते--प्रतिगृहाण महामौद्गल्यायन तथागतस्यात्ययिकपिण्डपातम्।
०३१.००६. तत्कस्य हेतोह्? पञ्च मे मौद्गल्यायन आत्ययिकपिण्डपाताः।
०३१.००७. कतमे पञ्च? आगन्तुकस्य गमिकस्य ग्लानस्य ग्लानोपस्थायकस्योपधिवारिकस्य च्
०३१.००७. अस्मिंस्त्वर्थे भगवानुपाधौ वर्तत्
०३१.००८. अथ भगवान्मौद्गल्यायनसहायो येन कृष्णगौतमकौ नागराजौ तेनोपसंक्रान्तः।
०३१.००९. तौ कथयतह्--समन्वाहरत नागेन्द्रौ सूर्पारकं नगरमगोचरीभविष्यति।
०३१.०१०. तौ कथयतह्--तादृशेन भदन्त प्रसादेन वयमागता यन्न शक्यमस्माभिः कुन्तपिपीलिकस्यापि प्राणिनः पीडामुत्पादयितुं प्रागेव सूर्पारकनगरनिवासिनो जनकायस्येति।
०३१.०१२. ततो भगवता कृष्णगौतमकयोर्नागराजयोस्तादृशो धर्मो यं श्रुत्वा बुद्धं शरणं गतौ, धर्मं संघं च शरणं गतौ, शिक्षापदानि च गृहीतानि।
०३१.०१३. भगवान् भक्तकृत्यं कर्तुमारब्धः।
०३१.०१४. एकैको नागः संलक्षयति--अहो बत भगवान्मम पानीयं पिबतु इति।
०३१.०१५. भगवान् संलक्षय्ति--यदि एकस्येइव पानीयं पास्यामि, एषां भविष्यति अन्यथात्वम्।
०३१.०१५. उपायसंविधानं कर्तव्यमिति।
०३१.०१६. तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते--गच्छ मौद्गल्यायन, यत्र पञ्चानां नदीशतानां संभेदः, तस्मादुदकस्य पात्रपूरमानय्
०३१.०१७. एवं भदन्तेति आयुष्मान्महामौद्गल्यायनो भगवतः प्रतिश्रुत्य यत्र पञ्चानां नदीशतानां संभेदस्तत्रोदकस्य पात्रपूरमादाय येन भगवांस्तेनोपसंक्रान्तः।
०३१.०१९. उपसंक्रम्य भगवत उदकस्य पात्रपूरमुपनामयति।
०३१.०२०. भगवता गृहीत्वा परिभुक्तम्।
०३१.०२०. आयुष्मान्महामौद्गल्यायनः संलक्षयति--पूर्वमुक्तं भगवता--दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ आप्यायकौ पोषकौ संवर्धकौ स्तन्यस्य दातारौ चित्रस्य जम्बुद्वीपस्य दर्शयितारौ।
०३१.०२२. एकेनांशेन पुत्रो मातरं द्वितीयेन पितरं पूर्णवर्षशतं परिचरेत्, यद्वा अस्यां महापृथिव्यां मणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालं रजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्त इति, एवम्रूपे वा विविधैश्वर्याधिपत्ये प्रतिष्ठापयत्, नेयता पुत्रेण मातापितरोः कृतं वा स्यादुपकृतं वा।
०३१.०२५. यस्तु असावश्राद्धं मातापितरं श्रद्धासम्पदि समादापयति विनयति निवेशयति प्रतिष्ठापयति, दुःशीलं शीलसम्पदि, मत्सरिणं त्यागसम्पदि, दुष्प्रज्ञं प्रज्ञासम्पदि समादापयति विनयति निवेशयति प्रतिष्ठापयति, इयता पुत्रेण मातापित्रोः कृतं वा स्यादुपकृतं वेति।
०३१.०२८. मया च मातुर्न कश्चिदुपकारः कृतः।
०३१.०२८. यदहं समन्वाहरेयं कुत्र मे माता उपपन्नेति।
०३१.०२९. समन्वाहर्तुं संवृत्तः पश्यति मरीचिके लोकधातौ उपपन्ना।
०३१.०३०. स संलक्षयति--कस्य विनेया? पश्यति भगवतः।
०३१.०३०. तस्यैतदभवत्--दूरं वयमिहागताः।
०३१.०३१. यन्न्वहमेतमर्थं भगवतो निवेदयेयमिति भगवन्तमिदमवोचत्--उक्तं भदन्त भगवता पूर्वम्--दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ इति।
०३१.०३२. तन्मम माता मरीचिके लोकधातौ उपपन्ना, <३२>सा च भगवतो विनेया।

०३२.००१. तदर्हति भगवांस्तां विनेतुमनुकम्पामुपादायेति।
०३२.००१. भगवान् कथयति--मौद्गल्यायन, कस्य ऋद्ध्या गच्छामह्? भगवन्मदीयया।
०३२.००२. ततो भगवानायुष्मांश्च महामौद्गल्यायनः सुमेरुमूर्ध्नि पादान् स्थापयन्तौ संप्रस्थितौ।
०३२.००३. सप्तमे दिवसे मरीचिकं लोकधातुमनुप्राप्तः।
०३२.००४. अद्राक्षीत्सा भद्रकन्या आयुष्मन्तं महामौद्गल्यायनं दूरादेव्
०३२.००४. दृष्ट्वा च पुनः ससम्भ्रमात्तत्सकाशमुपसंक्रम्य कथयति--चिराद्बत पुत्रकं पश्यामीति।
०३२.००५. ततो जनकायः कथयति--भदन्तोऽयं प्रव्रजितो वृद्धः।
०३२.००६. इयं च कन्या।
०३२.००६. कथमस्य माता भवतीति? आयुष्मान्मौद्गल्यायनः कथयति--भवन्तः, मम इमे स्कन्धा अन्याः संवृद्धाः।
०३२.००७. तेन ममेयं मातेति।
०३२.००८. ततो भगवता तस्या भद्रकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तया भद्रकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशौलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
०३२.०१०. सा दृष्टसत्या त्रिरुदानमुदानयति पूर्ववत्यावत्प्रतिष्ठापिता देवमनुष्येषु।
०३२.०११. आह च--
०३२.०१२. तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषदुष्टः।
०३२.०१३. अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गं च मयोपलब्धम्॥१६॥
०३२.०१४. त्वदाश्रयाच्चाप्तमपेतदोषं ममाद्य शुद्धं सुविशुद्धचक्षुः।
०३२.०१५. प्राप्तं च कान्तं पदमार्यकान्तं तीर्णा च दुःखार्णवपारमस्मि॥१७॥
०३२.०१६. जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय्
०३२.०१७. भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥१८॥
०३२.०१८. अतिक्रान्ताहं भदन्त अतिक्रान्ता।
०३२.०१८. एषाहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च्
०३२.०१९. उपासिकां च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतां शरणं गतामभिप्रसन्नाम्।
०३२.०२०. अधिवासयतु मे भगवानद्य पिण्डपातेन सार्धमार्यमहामौद्गल्यायनेनेति।
०३२.०२०. अधिवासयति भगवांस्तस्या भद्रकन्यायास्तूष्णीभावेन्
०३२.०२१. अथ सा भद्रकन्या भगवन्तमायुष्मन्तं च महामौद्गल्यायनं सुखोपनिषण्णं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धातहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय्
०३२.०२४. भगवता तस्या धर्मो देशितः।
०३२.०२४. आयुष्मान्महामौद्गल्यायनो भगवतः पात्रग्राहकः पात्रं निर्यातयति।
०३२.०२५. भगवता अभिहितह्--मौद्गल्यायन गच्छामः।
०३२.०२६. गच्छामो भगवन्।
०३२.०२६. कस्य ऋद्ध्या? तथागतस्य भगवतः।
०३२.०२६. यदि एवम्, समन्वाहर जेतवनम्।
०३२.०२७. आगताः स्मो भगवन्, आगताः।
०३२.०२७. मौद्गल्यायनस्ततो विस्मयावर्जितमतिः कथयति--किं नामेयं भगवन्नृद्धिह्? मनोजवा मौद्गल्यायन्
०३२.०२८. न मया भदन्त विज्ञातमेवं गम्भीरमेवं गम्भीरा बुद्धधर्मा इति।
०३२.०२९. यदि विज्ञातमभविष्यत्, तिलशोऽपि मे संचूर्णितशरीरेणानुत्तरायाः सम्यक्सम्बोधेश्चित्तं व्यावर्तितमभविष्यत् ।
०३२.०३०. इदानीं किं करोमि दग्धेन्धन इति॥
०३२.०३१. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता पूर्णेन कर्म कृतं येनाढ्ये महाधने महाभोगे कुले जातः, किं कर्म कृतं येन <३३>दास्याः कुक्षौ उपपन्नः, प्रव्रज्य च सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? भगवानाह--पूर्णेन भिक्षवो भिक्षुणा कर्माणि कृतानि उपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थिताअनि अवश्यम्भावीनि।

०३३.००३. पूर्णेन कर्माणि कृतानि उपचितानि।
०३३.००३. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतानि उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च्
०३३.००७. न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि।
०३३.००८. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१९॥
०३३.००९. भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्सम्बुद्धो लोक उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां च्
०३३.०११. बुद्धो भगवान् वाराणसीं नगरीमुपनिश्रित्य विहरति।
०३३.०१२. तस्यायं शासने प्रव्रजितः।
०३३.०१२. त्रिपिटकसंघस्य च धर्मवैयावृत्यं करोति।
०३३.०१२. यावदन्यतमस्यार्हत उपधिवारः प्राप्तः।
०३३.०१३. स विहारं संमर्ष्टुमारब्धः।
०३३.०१३. वायुनेतश्चामुतश्च संकारो नीयत्
०३३.०१३. स संलक्षयति--तिष्ठतु तावद्यावद्वायुरुपशमं गच्छतीति।
०३३.०१४. वैयावृत्यकरेणासंमृष्टो विहारो दृष्टः।
०३३.०१५. तेन तीव्रेण पर्यवस्थानेन खरवाक्कर्म निश्चारितम्--कस्य दासीपुत्रस्योपधिवार इति।
०३३.०१५. तेन अर्हता श्रुतम्।
०३३.०१५. स संलक्षयति--पर्यवस्थितोऽयम्।
०३३.०१६. तिष्ठतु तावत् ।
०३३.०१६. पश्चात्संज्ञापयिष्यामीति।
०३३.०१७. यदा अस्य पर्यवस्थानं विगतं तदा तस्य सकाशमुपसंक्रम्य कथयति--जानीषे त्वं कोऽहमिति? स कथयति--जाने त्वं काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितोऽहमपीति।
०३३.०१८. स कथयति--यद्यप्येवं तथापि तु यन्मया प्रव्रज्य चरणीयं तत्कृतमहं सकलबन्धनाबद्धः।
०३३.०१९. खरं ते वाक्कर्म निश्चारितम्।
०३३.०२०. अत्ययमत्ययतो देशय्
०३३.०२०. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति।
०३३.०२१. तेनात्ययमत्ययतो देशितम्।
०३३.०२१. यत्तेन नरक उपपद्य दासीपुत्रेण भवितव्यम्, तन्नरके नोपपन्नः।
०३३.०२२. पञ्च तु जन्मशतानि दास्याः कुक्षौ उपपन्नः।
०३३.०२२. यावदेतर्ह्यपि चरमे भवे दास्या एव कुक्षौ उपपन्नः।
०३३.०२३. यत्संघस्योपस्थानं कृतम्, तेनाढ्ये महाधने महाभोगे कुले जातः।
०३३.०२४. यत्तत्र पठितं स्वाध्यायितं स्कन्धकौशलं च कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
०३३.०२५. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणामेकान्तशुक्लो विपाकः, व्यतिमिश्राणां व्यतिमिश्रः।
०३३.०२७. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः।
०३३.०२८. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
०३३.०२९. इदमवोचद्भगवान्।
०३३.०२९. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्निति॥


०३३.०३०. इति श्रीदिव्यावदाने पूर्णावदानं द्वितीयम्॥


                    • अवदान ३ **********


०३४.००१. दिव्३ मैत्रेयावदानम्।
०३४.००२. यदा राज्ञा भागधेन अजातशत्रुणा वैदेहीपुत्रेण नौक्रमो मातापित्रोर्मापितस्तदा वैशालकैर्लिच्छविभिर्भगवतोऽर्थे नौक्रमो मापितः।
०३४.००३. नागाः संलक्षयन्ति--वयं विनिपतितशरीरा यन्नु वयं फणसंक्रमेण भगवन्तं नदी{दीम्} गङ्गामुत्तारयेम इति।
०३४.००४. तैः फणसंक्रमो मापितः।
०३४.००५. तत्र भगवान् भिक्षूनामन्त्रयते स्म--राजगृहात्श्रावस्तीं गन्तुं यो युष्माकं भिक्षव उत्सहते राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेण नदीगङ्गामुत्तर्तुम्, स तेन तरतु, यो वा भिक्षवो वैशालकानां लिच्छवीनां नौसंक्रमेण, सोऽपि तेनोत्तररु।
०३४.००७. अहमपि आयुष्मता आनन्देन भिक्षुणा सार्धं नागानां फणसंक्रमेण नदीं गङ्गामुत्तरिष्यामि।
०३४.००८. तत्र केचित्राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेणोत्तीर्णाः, केचित्वैशालिकानां लिच्छवीनां नौसंक्रमेण्
०३४.०१०. भगवानपि आयुष्मता आनन्देन सार्धं नागानां फणसंक्रमेणोत्तीर्णः।
०३४.०१०. अथान्यतमोपासकस्तस्यां वेलायां गाथां भाषते--
०३४.०१२. ये तरन्त्यर्णवं सरः सेतुं कृत्वा विसृज्य पल्वलानि।
०३४.०१३. कोलं हि जनाः प्रबन्धिता उत्तीर्णा मेधाविनो जनाः॥१॥
०३४.०१४. उत्तीर्णो भगवान् बुद्धो ब्राह्मणस्तिष्ठति स्थल्
०३४.०१५. भिक्षवोऽत्र परिस्नान्ति कोलं बध्नन्ति श्रावकाः॥२॥
०३४.०१६. किं कुर्यादुदपानेन आपश्चेत्सर्वतो यदि।
०३४.०१७. छित्त्वेह मूलं तृष्णायाः कस्य पर्येषणां चरेत् ॥३॥ इति॥
०३४.०१८. अद्राक्षीद्भगवानन्यतमस्मिन् भूभागे उन्नतोन्नतं पृथिवीप्रदेशम्।
०३४.०१८. दृष्ट्वा च पुनरायुष्मन्तमामन्त्रयते--इच्छसि त्वमानन्द योऽसौ यूय ऊर्ध्वं व्यामसहस्रं तिर्यक्षोडशप्रवेधो नानारत्नविचित्रो वितः, तं द्रष्टुम्? एतस्य भगवन् कालः, एतस्य सुगतसमयः, योऽयं भगवान् यूपमुच्छ्रापयेत्, भिक्षवः पश्येयुः।
०३४.०२२. ततो भगवता चक्रस्वतिकनन्द्यावर्तेन जालावनद्धेनानेकपुण्यशतनिर्जातेन भीतानामाश्वासनकरेण पृथिवी परामृष्टा।
०३४.०२४. नागाः संलक्षयन्ति--किमर्थं भगवता पृथिवी परामृष्टेति? यावत्पश्यन्ति यूयं द्रष्टुकामाः।
०३४.०२४. ततस्तैरुच्छ्रापितः।
०३४.०२४. भिक्षवो यूपं द्रष्टुमारब्धाः।
०३४.०२५. आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति।
०३४.०२५. तत्र भगवान् भिक्षूनामन्त्रयते स्म--आरोहपरिणाहं निमित्तं भिक्षवो यूपस्य गृह्णीत, अन्तर्धास्यतीति।
०३४.०२६. अन्तर्हितः।
०३४.०२७. भिक्षवो बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त भिक्षवो यूपं पश्यन्ति।
०३४.०२७. आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति।
०३४.०२८. किं तावत्वीतररागत्वादाहोस्वित्पर्युपासितपूर्वत्वात्? तद्यदि तावद्वीतरागत्वात्, सन्त्यन्येऽपि वीतरागाः।
०३४.०२९. अथ पर्युपासितपूर्वत्वात्? कुत्र केन पर्युपासितमिति।
०३४.०३०. भगवानाह--अपि भिक्षवो वीतरागत्वादपि पर्युपासितपूर्वत्वात् ।
०३४.०३०. कुत्रानेन पर्युपासितम्?

०३५.००१. <३५>भूतपूर्वं भिक्षवो राजाभूत प्रणादो नाम शक्रस्य देवेन्द्रस्य वयस्यकः।
०३५.००१. सोऽपुत्रः पुत्राभिनन्दी करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अनेकधनसमुदितोऽहमपुत्रश्च्
०३५.००२. ममात्ययाद्राजवंशसमुच्छेदो भविष्यतीति।
०३५.००३. ततः शक्रेण दृष्टः पृष्टश्च--मार्ष, कस्मात्त्वं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति? स कथयति--कौशिल, अनेकधनसमुदितोऽहमपुत्रश्च्
०३५.००५. ममात्ययाद्राजवंशस्योच्छेदो भविष्यति।
०३५.००५. शक्रः कथयति--मार्ष, मा त्वं चिन्तापरस्तिष्ठ्
०३५.००६. यदि कश्चित्च्यवनधर्मा देवपुत्रो भविष्यति, तत्ते पुत्रत्वे समादापयिष्यामीति।
०३५.००७. धर्मता खलु च्यवनधर्मणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति--अक्लिष्टानि वासांसि संक्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ते, दौर्गन्धं मुखान्निश्चरति, उभाभ्यां कक्षाभ्यां स्वेदः प्रघरति, स्वे चासने धृतिं न लभत्
०३५.००९. यावदन्यतमस्य देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भूतानि।
०३५.०१०. स शक्रेण देवेन्द्रेणोक्तह्--मार्ष, प्रणादस्य राज्ञोऽग्रामहिष्याः कुक्षौ प्रतिसंधिं गृहाणेति।
०३५.०११. स कथयति--प्रमादस्थानं कौशिकम्।
०३५.०११. बहुकिल्बिष्कारिणो हि कौशिक राजानः।
०३५.०१२. मा अधर्मेण राज्यं कृत्वा नरकपरायणो भविष्यामीति।
०३५.०१२. शक्रः कथयति--मार्ष, अहं ते स्मारयिष्यामि।
०३५.०१३. प्रमत्ताः कौशलिक देवा रतिबहुलाः।
०३५.०१३. एवमेतन्मार्ष्
०३५.०१३. तथापि त्वहं भवन्तं स्मारयामि।
०३५.०१४. तेन प्रणादस्य राज्ञोऽग्रमहिष्याः कुक्षौ प्रतिसंधिर्गृहीता।
०३५.०१४. यस्मिन्नेव दिवसे प्रतिसंधिर्गृहीता, तस्मिन् दिवसे महाजनकायेन प्रणादो मुक्तः।
०३५.०१५. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता।
०३५.०१६. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः।
०३५.०१७. तस्य ज्ञातयः संगम्य समागम्य नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नामेति।
०३५.०१८. ज्ञातय ऊचुह्--यस्मिन्नेव दिवसेऽयं दारको मातुः कुक्षिमवक्रान्तः, तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः।
०३५.०१९. यस्मिन्नेव दिवसे जातस्तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः।
०३५.०२०. तस्मात्भवतु दारकस्य महाप्रणाद इति नाम्
०३५.०२१. तस्य महाप्रणाद इति नामधेयं व्यवस्थापितम्।
०३५.०२१. महाप्रणादो दारकोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो द्वाभ्यांसंधात्रीभ्यां द्वाघ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्याम्।
०३५.०२३. सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्ण्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः।
०३५.०२४. आशु वर्धते ह्रदस्थामिव पङ्कजम्।
०३५.०२४. यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः।
०३५.०२५. संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारीपरीक्षायाम्।
०३५.०२६. सोऽष्टासु परीक्षासूद्घट्टको वाचकः पटुप्रचारः पण्डितः संवृत्तः।
०३५.०२७. स यानि तानि राअज्ञां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यासतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा--हस्तिशिक्षायामश्वपृष्ठे रथे शरे धनुषि प्रयाणे निर्याणेऽङ्कुशग्रहे पाशग्रहे तोमरग्रहे यष्टिबन्धे पदबन्धे शिखाबन्धे दूरवेधे मर्मवेधेऽक्षुण्णवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः॥
०३५.०३२. धर्मता खलु न तावत्पुत्रस्य नाम प्रज्ञायते यावत्तातो जीवति।
०३५.०३२. अपरेण समयेन <३६>प्रणादो राजा कालगतः।

०३६.००१. महाप्रणादो राज्ये प्रतिष्ठितः।
०३६.००१. स यावत्तावद्धर्मेण राज्यं कारयित्वा अधर्मेण कारयितुं प्रवृत्तः।
०३६.००२. ततः शक्रेण देवेन्द्रेणोक्तह्--मार्ष, मया त्वं प्रणादस्य राज्ञः समादापितः।
०३६.००३. मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति।
०३६.००४. स यावत्तावद्धर्मेण राज्यं कारयित्वा पुनरपि अधर्मेण राज्यं कारयितुं प्रवृत्तः।
०३६.००४. द्विरपि शक्रेणोक्तह्--मार्ष, मया त्वं प्रणादस्य राज्ञः पुत्रत्वे समादापितः।
०३६.००५. मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति।
०३६.००६. स कथयति--कौशिक, वयं राजानः प्रमत्ता इति रतिबहुलाः क्षणाद्विस्मरामः।
०३६.००७. किंचित्त्वमस्माकं चिह्नं स्थापय, यं दृष्ट्वा दानानि दास्यामः, पुण्यानि कारयिष्याम इति।
०३६.००८. न च शक्यते विना निमित्तेन पुण्यं कर्तुम्।
०३६.००८. ततः शक्रेण देवेन्द्रेण विश्वकर्मणो देवपुत्रस्याज्ञा दत्ता--गच्छ त्वं विश्वकर्मन् राज्ञो महाप्रणादस्य निवेशन्
०३६.००९. दिव्यं मण्डलवाटं निर्मिणु, यूपं चोच्छ्रापय्
०३६.०१०. ऊर्ध्वं व्यामसहस्रेण तिर्यक्षोडशप्रवेधं नानारत्नविचित्रं सर्वसौवर्णमिति।
०३६.०११. ततो विश्वकर्मणा देवपुत्रेण महाप्रणादस्य राज्ञो निवेशने दिव्यो मण्डलवाटो निर्मितो यूपश्चोच्छ्रितः।
०३६.०१२. ऊर्ध्वं व्यामसहस्रं नानारत्नविचित्रो दिव्यः सर्वसौवर्णः।
०३६.०१२. ततो महाप्रणादेन राज्ञा दानशाला मापिता।
०३६.०१३. तस्य मातुलोऽशोको नाम यूपस्य परिचारको व्यवस्थितः।
०३६.०१४. ततो यूपदर्शनोद्युक्तः सर्व एव जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति।
०३६.०१५. ततः कृषिकर्मान्ताः समुच्छिन्नाः।
०३६.०१५. राज्ञः करप्रत्याया नोत्तिष्ठन्त्
०३६.०१६. अमात्यैः स्तोकाः करप्रत्याया उपनीताः।
०३६.०१६. महाप्रणादो राजा पृच्छति--भवन्तः, कस्मात्स्तोकाः करप्रत्याया उपनीताह्? देव, जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति।
०३६.०१८. कृषिकर्मान्ताः समुच्छिन्नाः।
०३६.०१८. राज्ञः करप्रत्याया नोत्तिष्ठन्त इति।
०३६.०१९. राजा कथयति--समुच्छिद्यतां दानशालेति।
०३६.०१९. तैः समुच्छिन्ना।
०३६.०१९. ततोऽप्यसौ जनकायः स्वपथ्यदनमादाय भुक्त्वा यूपं निरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति।
०३६.०२१. कृषिकर्मान्ताः समुच्छिन्नाः।
०३६.०२१. तथापि करप्रत्याया नोत्तिष्ठन्त्
०३६.०२१. राजा पृच्छति--भवन्तः, दानशलाः समुच्छिन्नाः।
०३६.०२२. इदानीं करप्रत्याया नोत्तिष्ठन्त इति।
०३६.०२२. अमात्याः कथयन्ति--देव, जनकायः स्वपथ्यदनमादाय भुक्त्वा यूपं नीरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति।
०३६.०२३. कृषिकर्मान्ताः समुच्छिन्नाः, यतः करप्रत्याया नोत्तिष्ठन्त्
०३६.०२४. ततो राज्ञा महाप्रणादेन दानानि दत्त्वा पुण्यानि कृत्वा स यूपो नद्यां गङ्गायामाप्लावितः।
०३६.०२५. किं मन्यध्वे भिक्षवो योऽसौ माप्रणादस्याशोको नाम मातुलः, एष एवासौ भद्दाली भिक्षुः।
०३६.०२६. तत्रानेन पर्युपासितपूर्वः॥
०३६.०२७. कुत्र भदन्त असौ यूपो विलयं गमिष्यति? भविष्यन्ति भिक्षवोऽनागतेऽध्वनि अशीतिवर्षसहस्रायुषो मनुष्याः।
०३६.०२८. अशीतिवर्षसहस्रायुषां मनुष्याणां शङ्खो नाम राजा भविष्यति सम्यमनी चक्रवर्ती चतुरन्तविजेता धार्मिको धर्मराजा सप्तरत्नसमन्वागतः।
०३६.०२९. तस्येमान्येवं रूपाणि सप्त रत्नानि भविष्यन्ति।
०३६.०३०. तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्।
०३६.०३१. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्।
०३६.०३२. स इमामेव समुद्रपर्यन्तां पृथिवीमखिलामकणटकामनुत्पीडामदण्डेनाशस्रेण धर्मेण <३७>समयेन अभिनिर्जित्याध्यावसिष्यति।

०३७.००१. शङ्खस्य राज्ञो ब्रह्मायुर्नाम ब्राह्मणः पुरोहितो भविष्यति।
०३७.००२. तस्य ब्रह्मवती नाम पत्नी भविष्यति।
०३७.००२. सा मैत्रेयांशेन स्फुरित्वा पुत्रं जनयिष्यति मैत्रेयं नाम्
०३७.००३. ब्रह्मायुर्माणवोऽशीतिमाणवकशतानि ब्राह्मणकान्मन्त्रान् वाचयिष्यति।
०३७.००३. स तान्माणवकान्मैत्रेयाय अनुप्रदास्यति।
०३७.००४. मैत्रेयो माणवोऽशीतिमाणवकसहस्राणि ब्राह्मणकान्मन्त्रान् वाचयिष्यति।
०३७.००५. अथ चत्वारो महाराजाश्चतुर्महानिधिस्थाह्--
०३७.००६. पिङ्गलश्च कलिङ्गेषु मिथिलायां च पाण्डुकः।
०३७.००७. एलापत्रश्च गान्धारे शङ्खो वाराणसीपुर् ।४॥
०३७.००८. एनं च यूपमादाय शङ्खस्य राज्ञ उपनामयिष्यन्ति।
०३७.००८. शङ्खोऽपि राजा ब्रह्मायुषे ब्राह्मणायानुप्रदास्यति।
०३७.००९. ब्रह्मायुरपि ब्राह्मणो मैत्रेयाय माणवायानुप्रदास्यति।
०३७.००९. मैत्रेयोऽपि माणवस्तेषां माणवकानामनुप्रदास्यति।
०३७.०१०. ततस्ते माणवकास्तं यूपं खण्डं खण्डं छित्त्वा भाजयिष्यन्ति।
०३७.०११. ततो मैत्रेयो माणवकस्तस्य यूपस्यानित्यतां दृष्ट्वा तेनैव संवेगेन वनं संश्रयिष्यति।
०३७.०११. यस्मिन्नेव दिवसे वनं संश्रयिष्यति, तस्मिन्नेव दिवसे मैत्रेयांशेन स्फुरित्वा अनुत्तरं ज्ञानमधिगमिष्यति।
०३७.०१३. तस्य मैत्रेयः सम्यक्सम्बुद्ध इति संज्ञा भविष्यति।
०३७.०१३. यस्मिन्नेव दिवसे मैत्रेयः सम्यक्सम्बुद्धोऽनुत्तरज्ञानमधिगमिष्यति, तस्मिन्नेव दिवसे शङ्खस्य राज्ञः सप्तरत्नान्यन्तर्धास्यन्त्
०३७.०१४. शङ्खोऽपि राजा अशीतिकोट्टराजसहस्रपरिवारो मैत्रेयं सम्यक्सम्बुद्धं प्रव्रजितमनुप्रव्रजिष्यति।
०३७.०१५. यदप्यस्य स्त्रीरत्नं विशाखा नाम, सापि अशीतिस्त्रीसहस्रपरिवारा मैत्रेयं सम्यक्सम्बुद्धं प्रव्रजितमनुप्रव्रजिष्यति।
०३७.०१७. ततो मैत्रेयः सम्यक्सम्बुद्धोऽशीतिभिक्षुकोटिपरिवारो येन गुरुपादकः पर्वतस्तेनोपसंक्रमिष्यति, यत्र काश्यपस्य भिक्षोरस्थसंघातोऽविकोपितस्तिष्ठति।
०३७.०१८. गुरुपादकपर्वतो मैत्रेयाय सम्यक्सम्बुद्धाय विवरमनुप्रदास्यति।
०३७.०१९. यतो मैत्रेयः सम्यक्सम्बुद्धः काश्यपस्य भिक्षोरविकोपितमस्थिसंघातं दक्षिणेन पाणिना गृहीत्वा वामे पाणौ प्रतिष्ठाप्य एवं श्रावकाणां धर्मं देशयिष्यति--योऽसौ भिक्षवो वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम शास्ता लोक उत्पन्नस्तस्यायं श्रावकः काश्यपो नांना अल्पेच्छानां संतुष्टानां धूतगुणवादिनामग्रो, निर्दिष्टः।
०३७.०२२. शाक्यमुनेः परिनिर्वृतस्यानेन शासनसंगीतिः कृता इति।
०३७.०२३. ते दृष्ट्वा संवेगमापत्स्यन्ते--कथमिदानीमीदृशेनात्मभावेनेदृशा गुणगणा अधिगता इति।
०३७.०२४. ते तेनैव संवेगेनार्हत्त्वं साक्षात्करिष्यन्ति।
०३७.०२५. षण्णवतिकोट्योऽर्हतां भविष्यन्ति धूतगुणसाक्षात्कृताः।
०३७.०२५. यं च संवेगमापत्स्यन्ते, तत्रासौ यूपो विलयं गमिष्यति॥
०३७.०२७. को भदन्त हेतुः कः प्रत्ययो द्वयो रत्नयोर्युगपल्लोके प्रादुर्भावाय? भगवानाह--प्रणिधानवशात् ।
०३७.०२८. कुत्र भगवन् प्रणिधानं कृतम्?
०३७.०२९. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि मध्यदेशे वासवो नाम राजा राज्यं कारयति ऋद्धं स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
०३७.०३०. तस्य सदापुष्पफला वृक्षाः।
०३७.०३०. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
०३७.०३१. अतीव शस्यसम्पत्तिर्भवति।
०३७.०३१. उत्तरापथे धनसंमतो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
०३७.०३३. तस्यापि सदापुष्पफला वृक्षाः।
०३७.०३३. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति।
०३७.०३३. अतीव <३८>शस्यसम्पत्तिर्भवति।

०३८.००१. यावदपरेण समयेन वासवस्य राज्ञः पुत्रो जातो रत्नप्रत्युप्तया शिखया।
०३८.००२. तस्य विस्तरेण जातिमहं कृत्वा रत्नशिखीति नामधेयं व्यवस्थापितम्।
०३८.००२. सोऽपरेण समयेन जीर्णातुरमृतंसंदर्शनादुद्विग्नो वनं संश्रितः।
०३८.००३. यस्मिन्नेव दिवसे वनं संश्रितस्तस्मिन्नेव दिवसेऽनुत्तरं ज्ञानमधिगतम्।
०३८.००४. तस्य रत्नशिखी सम्यक्सम्बुद्ध इति संज्ञोदपादि।
०३८.००४. अथापरेण समयेन धनसंमतो राजा उपरिप्रासादतलगतोऽमात्यगणपरिवृतस्तिष्ठति।
०३८.००५. सोऽमात्यानामन्त्रयते--भवतः, कस्यचिदन्यस्यापि राज्ञो राज्यमेवमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
०३८.००७. सदापुष्पफला वृक्षाः।
०३८.००७. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति।
०३८.००८. अतीव शस्यसम्पत्तिर्भवति यथा अस्माकमिति? मध्यदेशाद्वणिजः पण्यमादायोत्तरापथं गताः।
०३८.००९. ते कथयन्ति--अस्ति देव मध्यदेशे वासवो नाम राजा इति।
०३८.००९. सहश्रवणादेव धनसंमतस्य राज्ञोऽमर्ष उत्पन्नः।
०३८.०१०. स संजातामर्षोऽमात्यानामन्त्रयते--संनाहयन्तु भवन्तश्चत्रुअङ्गं बलकायम्।
०३८.०११. राष्ट्रापमर्दनमस्य करिष्याम इति।
०३८.०११. ततो धनसंमतो राजा चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूलेऽवस्थितः।
०३८.०१३. अश्रौषीद्वासवो राजा--धनसंमतो राजा चत्रुअङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूलेऽवस्थित इति।
०३८.०१४. श्रुत्वा च पुनः सोऽपि चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पतिकायं गङ्गाया उत्तरे कूलेऽवस्थितः।
०३८.०१६. अथ रत्नशिखी सम्यक्सम्बुद्धस्तयोर्विनयकालं ज्ञात्वा नद्या गङ्गायास्तीरे रात्रिं वासमुपगतः।
०३८.०१७. रत्नशिखिना सम्यक्सम्बुद्धेन लौकिकं चित्तमुत्पादितम्।
०३८.०१७. धर्मता खलु यदा बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये शक्रब्रह्मादयो देवा भगवतश्चेतसा चित्तमाजानन्ति।
०३८.०१९. अथ शक्रब्रह्मादयो देवा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्ताः।
०३८.०२०. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णाः।
०३८.०२०. तेषां वर्णानुभावेन महानुदारावभासः संवृत्तः।
०३८.०२१. धनसंमतेन राज्ञा दृष्टः।
०३८.०२१. दृष्ट्वा च पुनरमात्यान् पृच्छति--किमयं भवन्तो वासवस्य राज्ञो विजिते महानुदारावभासह्? ते कथयन्ति--देव, वासवस्य राज्ञो विजिते महानुदारावभासह्? ते कथयन्ति--देव, वासवस्य राज्ञो विजिते रत्नशिखी नाम सम्यक्सम्बुद्धहुत्पन्नः।
०३८.०२३. तस्य शक्रब्रह्मादयो देवा दर्शनायोपसंक्रमन्ति।
०३८.०२४. तेनैवोदारावभासः संवृत्तः।
०३८.०२४. महर्द्धिकोऽसौ महानुभावः।
०३८.०२४. तस्यायमनुभाव इति।
०३८.०२५. धनसंमतो राजा कथयति--भवन्तः, यस्य विजिते ईदृशं द्विपादकं पुण्यक्षेत्रमुत्पन्नम्, यं शक्रब्रह्मादयोऽपि देवा दर्शनायोपसंक्रामन्ति, तस्याहं कीदृशमनर्थं करिष्यामि? तेन तस्य दूतोऽनुप्रेषितः।
०३८.०२७. वयस्य, आगच्छ्
०३८.०२७. न तेऽहं किंचित्कारिष्यामि इति।
०३८.०२७. पुण्यमहेशाख्यस्त्वम्, यस्य विजिते द्विपादकं पुण्यक्षेत्रं रत्नशिखी सम्यक्सम्बुद्धोऽयम्।
०३८.०२८. शक्रब्रह्मादयो देवा दर्शनायोपसंक्रामन्ति।
०३८.०२९. किं तु कण्ठाश्लेषं ते दत्वा गमिष्यामि।
०३८.०२९. एवमावयोः परस्परं चित्तसौमनस्यं भवतीति।
०३८.०३०. वासवो राजा विश्वासं न गच्छति।
०३८.०३०. स येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः।
०३८.०३१. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
०३८.०३२. एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--<३९>मम भदन्त धनसंमतेन राज्ञा संदिष्टम्--प्रियवयसय आगच्छ, न तेऽहं किंचित्करिष्यामि।

०३९.००२. कण्ढा कण्ढाश्लेषं श्लेषं दत्व अगमिष्यामि।
०३९.००२. एवमावयोः परस्परं चित्तसौमनस्यं भवतीति।
०३९.००२. तत्र मया कथं प्रतिपत्तव्यम्? रत्नशिखी सम्यक्सम्बुद्धः कथयति--गच्छ महाराज, शोभनं भविष्यति।
०३९.००४. भगवन्, किं मया तस्य पादयोर्निपतितव्यम्? महाराज, बलश्रेष्ठा हि राजानः।
०३९.००४. निपतितव्यम्।
०३९.००५. अथ वासवो राजा रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तः।
०३९.००६. येन धनसंमतो राजा तेनोपसंक्रान्तः।
०३९.००६. उपसंक्रम्य धनसंमतस्य राज्ञः पादयोर्निपतितः।
०३९.००७. ततो धनसंमतेन राज्ञा कण्ढे श्लेषं दत्त्वा विश्वासमुत्पाद्य प्रेषितः॥
०३९.००८. अथ वासवो राजा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः।
०३९.००८. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
०३९.००९. एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--कस्य भदन्त सर्वे राजानः पादयोर्निपतन्ति? राज्ञो महाराज चक्रवर्तिनः।
०३९.०११. अथ वासवो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी तथागतः सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन्
०३९.०१३. अथ वासवो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति।
०३९.०१६. अथ रत्नशिखी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञो वासवस्य भक्तभिसारस्तेनोपसंक्रान्तः।
०३९.०१८. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
०३९.०१८. अथ राजा वासवो रत्नशिखिनं सम्यक्सम्बुद्धं सुखोपनिषण्णं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
०३९.०२०. अनेकपर्यायेण शुचिना खादनीयेन भोजनीयेन स्वहस्तं समतर्प्य संप्रवार्य भगवन्तं रत्नशिखिनं सम्यक्सम्बुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर्निपत्य प्रणिधानं कर्तुमारब्धह्--अनेनाहं भदन्त कुशलमूलेन राजा स्यां चक्रवर्तीति।
०३९.०२३. तत्समनन्तरं च शङ्ख आपूरितः।
०३९.०२३. ततो रत्नशिखी सम्यक्सम्बुद्धो वासवं राजानमिदमवोचत्--भविष्यसि महाराज अशीतिवर्षसहस्रायुषि प्रजायां शङ्खो नाम राजा चक्रवर्तीति।
०३९.०२४. तत उच्चशब्दो महाशब्दो जातः।
०३९.०२५. धनसंमतो राजा कोलाहलशब्दं श्रुत्वा अमात्यान् पृच्छति--किमेष भवन्तो वासवस्य राज्ञो विजिते कोलाहलशब्दः श्रूयते इति? तैरागम्य निवेदितम्--देव, रत्नशिखिना सम्यक्सम्बुद्धेन वासवो राजा चक्रवर्तिराज्ये व्याकृत इति जनकायो हृष्टतुष्टप्रमुदितः।
०३९.०२८. तेन कोलाहलशब्दो जात इति।
०३९.०२८. अथ धनसंमतो राजा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः।
०३९.०२९. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
०३९.०३०. एकान्तनिषण्णो धनसंमतो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--कस्य भदन्त सर्वे चक्रवर्तिनः पादयोर्निपतन्ति? तथागतस्य महाराज अर्हतः सम्यक्सम्बुद्धस्य्
०३९.०३२. अथ धनसंमतो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनाञ्जलिम्<४०> प्रणम्य रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन्

०४०.००२. अधिवासयति रत्नशिखी सम्यक्सम्बुद्धो धनसंमतस्य राज्ञोऽपि तूष्णीभावेन्
०४०.००३. अथ धनसंमतो राजा रत्नशिखिनः सम्यक्सम्बुद्धस्य तूष्णीभावेनाधिवासनं विदित्वा रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा रत्नशिखिनः सम्यक्सम्बुद्धस्यान्तिकात्प्रक्रान्तः॥
०४०.००६. अथ धनसंमतो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति।
०४०.००९. अथ रत्नशिखी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन धनसंमतस्य राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः।
०४०.०१०. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
०४०.०११. अथ धनसंमतो राजा सुखोपनिषण्णं रत्नशिखिनं सम्यक्सम्बुद्धं तत्प्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्पयति संप्रवारयति।
०४०.०१३. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्प्य संप्रवार्य रत्नशिखिनं सम्यक्सम्बुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर्निपत्य सर्वमिमं लोकं मैत्रेणांशेन स्फुरित्वा प्रणिधानं कर्तुमरब्धह्--अनेनाहं कुशलमूलेन शास्ता लोके भवेयं तथागतोऽर्हन् सम्यक्सम्बुद्ध इति।
०४०.०१६. रत्नशिखी सम्यक्सम्बुद्धः कथयति--भविष्यसि त्वं महाराज अशीतिवर्षसहस्रायुषि प्रजायां मैत्रेयो नाम तथागतोऽर्हन् सम्यकस्म्बुद्ध इति।
०४०.०१८. तत्प्रणिधानवशाद्द्वयो रत्नयोर्लोके प्रादुर्भावो भविष्यति॥
०४०.०१९. इदमवोचद्भगवान्।
०४०.०१९. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


०४०.०२०. इति श्रीदिव्यावदाने मैत्रेयावदानं तृतीयम्॥


                    • अवदान ४ **********


०४१.००१. दिव्४ ब्राह्मणदारिकावदानम्।
०४१.००२. भगवान्न्यग्रोधिकामनुप्राप्तः।
०४१.००२. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय न्यग्रोधिकां पिण्डाय प्राविक्षत् ।
०४१.००२. कपिलवस्तुनो ब्राह्मणस्य दारिका न्यग्रोधिकायां निविष्टा।
०४१.००३. अद्राक्षीत्सा ब्राह्मणदारिका भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्।
०४१.००५. सहदर्शनादस्या एतदभवत्--अयं स भगवाञ्शाक्यकुलनन्दनश्चक्रवर्तिकुलाद्राज्यमपहाय स्फीतमन्तःपुरं स्फीतानि च कोशकोष्ठागाराणि प्रव्रजित इदानीं भिक्षामटत्
०४१.००६. यदि ममान्तिकात्सक्तुकभिक्षां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति।
०४१.००७. ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्--यदि ते भगिनि परित्यक्तम्, आकीर्यतामस्मिन् पात्र इति।
०४१.००८. ततो भूयस्या मात्रया तस्याः प्रसाद उत्पन्नः।
०४१.००९. जानाति मे भगवांश्चेतसा चित्तमिति विदित्वा तीव्रेण प्रसादेन भगवते सक्तुभिक्षां दत्तवती।
०४१.०१०. ततो भगवता स्मितमुपदर्शितम्।
०४१.०१०. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाताः पुष्परागपद्मरागवज्रवैडूर्यमुसारगल्वार्कलोहितकादक्षिणावर्तशङ्खशिलाप्रवालजातरूपरजतवर्णा अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति।
०४१.०१३. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहव हुहुवमुत्पलं पद्मं महापद्ममवीचिपर्यन्तान्नरकान् गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति।
०४१.०१६. तेनानुगतास्तेषां सत्त्वानां तस्मिन् क्षणे कारणाविशेषाः, ते प्रतिप्रस्रभ्यन्त्
०४१.०१७. तेषामेवं भवति--किं नु वयं भवन्तमितश्च्युता आहोस्विदन्यत्रोपपन्ना इति।
०४१.०१८. तेषां प्रसादसंजननार्थं भगवान्निर्मितम् {दर्शनम्} विसर्जयति।
०४१.०१९. तेषां निर्मितं दृष्ट्वैवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्ना इति।
०४१.०२०. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति।
०४१.०२२. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकान् देवान् गत्वा त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो देवान् ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानभृहानतपान् सुदृशान् सुदर्शानकनिष्ठपर्यन्तान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयन्ति।
०४१.०२६. गाथाद्वयं च भाषन्ते--
०४१.०२७. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन्
०४१.०२८. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥
०४१.०२९. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
०४१.०३०. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥

०४२.००१. <४२>अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति।
०४२.००२. तद्यदि भगवानतीतं व्याकर्तुकामो भवति, पृष्ठतोऽन्तर्धीयन्त्
०४२.००३. अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्त्
०४२.००३. नरकोपपत्तिं व्याकर्तुकामो भवति, पादतलेऽन्तर्धीयन्त्
०४२.००४. तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्त्
०४२.००४. प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठेऽन्तर्धीयन्त्
०४२.००५. मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोरन्तर्धीयन्त्
०४२.००६. बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतलेऽन्तर्धीयन्त्
०४२.००६. चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतलेऽन्तर्धीयन्त्
०४२.००७. श्रावकबोधिं व्याकर्तुकामो भवति, आस्येऽन्तर्धीयन्त्
०४२.००८. प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्त्
०४२.००८. यदि अनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति, उष्णीषेऽन्तर्धीयन्त् ।
०४२.०१०. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्योर्णायामन्तर्हिताः।
०४२.०१०. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--
०४२.०१२. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्क्रमितः कलापः।
०४२.०१४. अवभासिता येन दिशः समन्तात्दिवाकरेणोदयता यथैव् ।३॥
०४२.०१६. गाथाद्वयं च भाषते--
०४२.०१७. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
०४२.०१९. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः॥४॥
०४२.०२१. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्।
०४२.०२३. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥५॥
०४२.०२५. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।
०४२.०२७. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः॥६॥ इति।
०४२.०२९. भगवानाह--एवमेतदानन्द, एवमेतत् ।
०४२.०२९. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
०४२.०३०. सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
०४२.०३०. दृष्टा तवैषा सा आनन्द ब्राह्मणदारिका, यया <४३>प्रसादजातया मह्यं सक्तुभिक्षानुप्रदत्ता ? दृष्टा भदन्त्

०४३.००१. असावानन्द ब्राह्मणदारिका अनेन कुशलमूलेन त्रयोदश कल्पान् विनिपातं न गमिष्यति।
०४३.००२. किं तर्हि देवांश्च मनुष्यांश्च संवाच्यसंसृत्य पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिम आत्मभावप्रतिलम्भे सुपर्णिहितो नाम प्रत्येकबुद्धो भविष्यति।
०४३.००४. सामन्तकेन शब्दो विसृतह्--अमुकया ब्राह्मणदारिका प्रसादजातया भगवते सक्तुभिक्षा प्रतिपादिता, सा भगवता प्रत्येकायां बोधौ व्याकृतेति।
०४३.००६. तस्याश्च स्वामी पुष्पसमिधामर्थायारण्यं गतः।
०४३.००६. तेन श्रुतं मम पत्न्या श्रमणाय गौतमाय सक्तुभिक्षा प्रतिपादिता, सा च श्रमणेन गौतमेन प्रत्येकायां बोधौ व्याकृता इति।
०४३.००८. श्रुत्वा पुनः संजातामर्षो येन भगवांस्तेनोपसंक्रान्तः।
०४३.००८. भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य भगवन्तमिदमवोचत्--अगमद्भवान् गौतमोऽस्माकं निवेशनम्? अगमं ब्राह्मण्
०४३.०१०. सत्यं भवते तया मम पत्न्या सक्तुभिक्षा प्रतिपादिता, सा च त्वया प्रत्येकायां बोधौ व्याकृता इति? सत्यं ब्राह्मण्
०४३.०११. त्वं गौतम चक्रवर्तिराज्यमपहाय प्रव्रजितः।
०४३.०११. कथं नाम त्वमेतर्हि सक्तुभिक्षाहेतोः संप्रजानन्मृषावादं संभाषसे, कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्येतत्फलमिति? तेन हि ब्राह्मण त्वमेव प्रक्ष्यामि, यथा ते क्षमते तथैवं व्याकुरु।
०४३.०१४. किं मन्यसे ब्राह्मण अस्ति कश्चित्त्वया आश्चर्याद्भुतो धर्मो दृष्टह्? तिष्ठन्तु तावत्भो गौतम अन्ये आश्चर्याद्भुता धर्माः।
०४३.०१५. यो मया अस्यामेव न्यग्रोधिकायामाश्चर्याद्भुतो धर्मो दृष्टः, स तावच्छ्रूयताम्।
०४३.०१६. अस्यां भो गौतम न्यग्रोधिकायां पूर्वेण न्यग्रोधो वृक्षो यस्य नांनेयं न्यग्रोधिका, तस्याधस्तात्पञ्च शकटशतानि असंसक्तानि तिष्ठन्ति अन्योन्यासम्बाधमानानि।
०४३.०१८. कियत्प्रमाणं तस्य न्यग्रोधस्य फलम्? कियत्तावत्? केदारमात्रम्।
०४३.०१८. नो भो गौतम किलिञ्जमात्रम्।
०४३.०१९. तैलिकचक्रमात्रम्।
०४३.०१९. शकटचक्रमात्रम्।
०४३.०१९. गोपिटकमात्रम्।
०४३.०१९. बिल्वमात्रम्।
०४३.०२०. कपित्थमात्रम्? नो भो गौतम सर्षपचतुष्टयभागमात्रम्।
०४३.०२०. कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्यायं महावृक्षो निर्वृत्त इति? श्रद्दधातु मे भवान् गौतमो मा वा।
०४३.०२१. नैतत्प्रत्यक्षं क्षेत्रम्।
०४३.०२२. तावद्भो गौतम निरुपहतं स्निग्धमधुरमृत्तिकाप्रदेशं बीजं च नवसारं सुखारोपितम्।
०४३.०२३. कालेन च कालं देवो वृष्यते, तेनायं महान्यग्रोधवृक्षोऽभिनिर्वृत्तः।
०४३.०२३. अथ भगवानस्मिन्नुत्पन्ने गाथां भाषते--
०४३.०२५. यथा क्षेत्रे च बीजेन प्रत्यक्षस्त्वमिह द्विज्
०४३.०२६. एवं कर्मविपाकेषु प्रत्यक्षा हि तथागताः॥७॥
०४३.०२७. यथा त्वया ब्राह्मण दृषमेतदल्पं च बीजं सुमहांश्च वृक्षः।
०४३.०२९. एवं मया ब्राह्मण दृष्टमेततल्पं च बीजं महती च संपत् ॥८॥ इति॥
०४३.०३१. ततो भगवता मुखात्जिह्वां निर्नमय्य सर्वं मुखमण्डलमाच्छादितं यावत्केशपर्यन्तमुपादाय, स च ब्राह्मणोऽभिहितह्--किं मन्यसे ब्राह्मण यस्य मुखात्जिह्वां निश्चार्य सर्वम् <४४>मुखमण्डलमाच्छादयति, अपि त्वसौ चक्रवर्तिराज्यशतसहस्रहेतोरपि संप्रजानन्मृषावदां भाषेत? नो भो गौतम्

०४४.००२. ततोऽन्वेव गाथां भाषते--
०४४.००३. अप्येव हि स्यादनृताभिधायिनी ममेह जिह्वार्जवसत्यवादिता।
०४४.००५. तदेवमेतन्न यथा हि ब्राह्मण तथागतोऽस्मीत्यवगन्तुमर्हसि॥९॥
०४४.००७. अथ स ब्राह्मणोऽभिप्रसन्नः।
०४४.००७. ततोऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्--अतिक्रान्तोऽहं भदन्त अतिक्रान्तः।
०४४.०१०. एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च्
०४४.०१०. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतमभिप्रसन्नम्।
०४४.०११. अथ स ब्राह्मणो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्तः॥
०४४.०१३. इदमवोचद्भगवान्।
०४४.०१३. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


०४४.०१४. इति श्रीदिव्यावदाने ब्राह्मणदारिकावदानं चतुर्थम्॥


                    • अवदान ५ **********


०४५.००१. दिव्५ स्तुतिब्राह्मणावदानम्।
०४५.००२. अथ भगवान् हस्तिनापुरमनुप्राप्तः।
०४५.००२. अन्यतमो ब्राह्मणो भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव पर्वतं समन्ततो भद्रकं दृष्ट्वा च पुनर्भगवन्तमभिगम्य गाथाभिः स्तोतुमारब्धह्--
०४५.००४. सुवर्णवर्णो नयनाभिरामः प्रीत्याकरः सर्वगुणैरुपेतः।
०४५.००६. देवातिदेवो नरदम्यसारथिस्तीर्णोऽसि पारं भवसागरस्य् ।१॥ इति॥
०४५.००९. ततो भगवता स्मितमुपदर्शितम्।
०४५.००९. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, पूर्ववद्यावद्भगवत ऊर्णायामन्तर्हिताः।
०४५.०१०. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--
०४५.०१२. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्न्ष्क्रमितः कलापः।
०४५.०१४. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव् ।२॥
०४५.०१६. गाथां च भाषते--
०४५.०१७. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
०४५.०१९. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः॥३॥
०४५.०२१. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्।
०४५.०२३. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥४॥
०४५.०२५. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।
०४५.०२७. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः॥५॥ इति॥
०४५.०२९. भगवानाह--एवमेतदानन्द, एवमेतत् ।
०४५.०२९. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
०४५.०३०. दृष्टस्ते आनन्द ब्राह्मणो येन तथागतो गाथया अभिष्टुतह्?<४६> दृष्टो भदन्त्

०४६.००१. असौ अनेन कुशलमूलेन विंशतिकल्पं विनिपातं न गमिष्यति।
०४६.००२. किं तु देवांश्च मनुष्यांश्च गत्वा संसृत्य पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे स्तवार्हो नाम प्रत्येकबुद्धो भविष्यति।
०४६.००३. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त अनेन ब्राह्मणेन भगवानेकया गाथया स्तुतो भगवता च प्रत्येकायां बोधौ व्याकृत इति।
०४६.००५. भगवानाह--न भिक्षव एतर्हि, यथा अतीतेऽध्वनि अनेनाहमेकया गाथया स्तुतः, मया च पञ्चसु ग्रामवरेषु प्रतिष्ठापितः।
०४६.००६. तच्छृणु{त}, साधु च सुष्ठु च मनसि कुरु{त}, भाषिष्य् ।
०४६.००८. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
०४६.००९. स चातीव कविप्रियः।
०४६.००९. वाराणस्यामन्यतमो ब्राह्मणः कविः।
०४६.०१०. स ब्राह्मण्योच्यते--ब्राह्मण शीतकालो वर्तत्
०४६.०१०. गच्छ, अस्य राज्ञः कच्चिदनुकूलं भाषितं कृत्वा कदाचित्किंचित्शीतत्राणं संपद्यत इति।
०४६.०११. स संप्रस्थितः।
०४६.०१२. यावद्राजा हस्तिस्कन्धारूढो निर्गच्छति।
०४६.०१२. स ब्राह्मणः संलक्षयति--किं तावद्राजानं स्तुनोमि आहोस्विधस्तिनागमिति।
०४६.०१३. तस्यैतदभवत्--अयं हस्तिनागः सर्वलोकस्य प्रियो मनापश्च्
०४६.०१४. तिष्ठतु तावद्राजा, हस्तिनागं तावदभिष्टौमीति।
०४६.०१४. गाथां च भाषते--
०४६.०१५. एरावणस्याकृतितुल्यदेहो रूपोपपन्नो वरलक्षणैश्च्
०४६.०१७. लक्षे प्रशस्तोऽसि महागजेन्द्र वर्णप्रमाणेन सुरूपरूप् ।६॥ इति॥
०४६.०१९. ततो राजा अभिप्रसन्नो गाथां भाषते--
०४६.०२०. यो मे गजेन्द्रो दयितो मनापः प्रीतिप्रदो दृष्टिहरो नराणाम्।
०४६.०२२. तं भाषसे वर्णपदानि तस्य ददामि ते ग्रामवराणि पञ्च् ।७॥ इति॥
०४६.०२४. किं मन्यध्वे भिक्षवो योऽसौ हस्तिनागः, अहमेव तेन कालेन तेन समयेन्
०४६.०२५. तदाप्यहमनेनैकया गाथया स्तुतः, मया चायं पञ्चग्रामवरेषु प्रतिष्ठापितः।
०४६.०२५. एतर्हि अनेनैकगाथया स्तुतः, मयापि चायं प्रत्येकबोधौ व्याकृत इति॥
०४६.०२७. इदमवोचद्भगवान्।
०४६.०२७. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


०४६.०२८. इति श्रीदिव्यावदाने स्तुतिब्राह्मणावदानं पञ्चमम्॥


                    • अवदान ६ **********


०४७.००१. दिव्६ इन्द्रनामब्राह्मणावदानम्।
०४७.००२. भगवाञ्श्रुघ्नामनुप्राप्तः।
०४७.००२. श्रुघ्नायामिन्द्रो नाम ब्राह्मणः प्रतिवसति।
०४७.००२. स च रूपयौवनश्रुतमनुप्राप्तो न ममास्ति कश्चित्तुल्य इत्यतीव विकत्थत्
०४७.००३. भगवांश्चान्यतमस्मिन् प्रदेशे पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णो धर्मं देशयति।
०४७.००४. अश्रौषीदिन्द्रो नाम ब्राह्मणह्--श्रमणो गौतमः श्रुघ्नामनुप्राप्त इति।
०४७.००५. तस्यैतदभवत्--श्रमणो गौतमः श्रूयतेऽभिरूपो दर्शनीयः प्रासादिक इति।
०४७.००६. गच्छामि पश्यामि किं ममान्तिकादभिरूपतर आहोस्विन्नेति।
०४७.००७. स निर्गतो यावत्पश्यति भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहसरातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्।
०४७.००९. दृष्ट्वा च पुनरस्यैतदभवत्--किं चापि श्रमणो गौतमो ममान्तिकादभिरूपतरः, नोच्चतर इति।
०४७.०१०. स भगवतो मूर्धानमवलोकयितुमारब्धो यावन्न पश्यति।
०४७.०१०. स ऊर्ध्वतरं प्रदेशमारूढः।
०४७.०११. तत्र भगवानिन्द्रं ब्राह्मणमामन्त्रयते--अलं ब्राह्मण, खेदमापत्स्यस्
०४७.०११. यदि सुमेरुमूर्धानमपि अभिरुह्य तथागतस्य मूर्धानमवलोकयसि, तथा सुतरां खेदमापत्स्यसे, न च द्रक्ष्यसि।
०४७.०१३. अपि तु न त्वया श्रुतं ससुरासुरजगदनवलोकितमूर्धानो बुद्धा भगवन्त इति? अपि तु यदीप्ससि तथागतस्य शरीरप्रमाणं द्रष्टुम्, तव गृहेऽग्निहोत्रकुण्डं तस्याधस्ताद्गोशीर्षचन्दनमयी यष्टिरुपतिष्ठते, तामुद्धृत्य मापय्
०४७.०१५. तत्तथागतमातापैतृकस्याश्रयस्य प्रमाणमिति।
०४७.०१५. इन्द्रो ब्राह्मणः संलक्षयति--एतदस्याश्चर्यं न कदाचिन्मया श्रुतम्, गच्छामि पश्यामीति।
०४७.०१६. त्वरितत्वरितगतोऽग्निहोत्रकुण्डकस्याधस्तात्खनितुमारब्धः।
०४७.०१७. सर्वं तथैव्
०४७.०१७. सोऽभिप्रसन्नः।
०४७.०१७. स संलक्षयति--नूनं श्रमणो गौतमः सर्वज्ञः।
०४७.०१८. गच्छामि पर्युपासितुमिति।
०४७.०१८. स प्रसादजातो येन भगवांस्तेनोपसंक्रान्तः।
०४७.०१९. उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः।
०४७.०२०. ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यथैन्द्रेण ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्।
०४७.०२२. स दृष्टसत्यः कथयति--अतिक्रान्तोऽहं भदन्त, अतिक्रान्तः।
०४७.०२३. एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च्
०४७.०२३. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतम्।
०४७.०२४. अभिप्रसन्नोऽथेन्द्रो ब्राह्मण उत्थायासनातेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अहं गोशीर्षचन्दनमय्या यष्ट्या महं प्रज्ञपयेयमिति।
०४७.०२६. भगवानाह--गच्छ ब्राह्मण अनुज्ञातं प्रज्ञपयसि।
०४७.०२७. ततस्तेन विविक्तावकाशे महता सत्कारेणासौ यष्टिरुच्छ्रापिता, महश्च प्रज्ञपितः।
०४७.०२८. अन्यैरपि ब्राह्मणगृहपतिभिः कुशलमधिष्ठानाय भवत्विति विदित्वा कुला बद्धा(?)।
०४७.०२९. इन्द्रेण ब्राह्मणेन यष्ट्या महः प्रज्ञपित इति इन्द्रमह इन्द्रमह इति संज्ञा संवृत्ता॥
०४७.०३०. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--आगमय आनन्द येन तोयिका।
०४७.०३०. एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ।
०४७.०३१. अथ भगवांस्तोयिकामनुप्राप्तः।
०४७.०३१. तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति।
०४७.०३२. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैह्<४८>समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्।

०४८.००२. दृष्ट्वा संलक्षयति--यदि भगवन्तं गौतममुपेत्याभिवादयिष्यामि, कर्मपरिहाणिर्मे भविष्यतीति।
०४८.००३. अथ निपेत्याभिवादयिष्यामि, पुण्यपरिहाणिर्भविष्यति।
०४८.००३. तत्कोऽसौ उपायः स्यात्येन मे कर्मपरिहाणिर्न स्यान्नापि पुण्यपरिहाणिरिति।
०४८.००४. तस्य बुद्धिरुत्पन्ना--अत्रस्थ एवाभिवादनं करोमि।
०४८.००५. एवं न कर्मपरिहाणिर्न पुण्यपरिहाणिरिति।
०४८.००६. तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनैवाभिवादनं कृतम्--अभिवादये बुद्धं भगवन्तमिति।
०४८.००७. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--भवक्षयकरः क्षणम्।
०४८.००७. एष ब्राह्मणः।
०४८.००७. सचेदस्यैवं सम्यक्सम्प्रत्ययज्ञानदर्शनमहमनेनोपक्रमेण वन्दितो भवेयम्, एवमनेन द्वाभ्यां सम्यक्सम्बुद्धाभ्यां वन्दना कृता भवेत् ।
०४८.०१०. तत्कस्य हेतोह्? अस्मिन्नानन्द प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठति।
०४८.०११. अथायुष्मानानन्दो लघुलध्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य भगवन्तमिदमवोचत्--निषीदतु भगवान् प्रज्ञप्त एवासन्
०४८.०१२. एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्सम्बुद्धाभ्यां परिभुक्तो भविष्यति, यच्च काश्यपेन सम्यक्सम्बुद्धेन, यच्चैतर्हि भगवता इति।
०४८.०१४. निषण्णो भगवान् प्रज्ञप्त एवासन्
०४८.०१४. निषद्य भिक्षूनामन्त्रयते स्म--इच्छथ कालः, एतस्य सुगत समयः, यं भगवान् भिक्षूणां काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितं शरीरसंघातमुपदर्शयेत् ।
०४८.०१७. दृष्ट्वा भिक्षवश्चित्तमभिप्रसादयिष्यन्ति।
०४८.०१७. ततो भगवता लौकिकं चित्तमुत्पादितम्।
०४८.०१७. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये कुन्तपिपीलिका अपि प्राणिनो भगवतश्चेतसा चित्तमाजानन्ति।
०४८.०१९. नागाः संलक्षयन्ति--किं कारणं भगवता लौकिकचित्तमुत्पादितमिति? पश्यन्ति--काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकाम इति।
०४८.०२१. ततस्तैः काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितशरीरसंघात उच्छ्रापितः।
०४८.०२१. तत्र भगवान् भिक्षूनामन्त्रयते स्म--उद्गृह्णीत भिक्षवो निमित्तम्।
०४८.०२२. अन्तर्धास्यति।
०४८.०२२. अन्तर्हितः॥
०४८.०२३. राज्ञा प्रसेनजिता श्रुतं भगवता श्रावकाणां दर्शनायाविकोपितं काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातं समुच्छ्रितमिति।
०४८.०२४. श्रुत्वा च पुनः कुतूहलजातः सहान्तःपुरेण कुमारैरमात्यैर्भटबलाग्रैर्नैगमजानपदैश्च द्रष्टुं संप्रस्थितः।
०४८.०२५. एवं विरूढकः, अनाथपिण्डदो गृहपतिः, ऋषिदत्तः पुराणस्थपितः, विशाखा मृगारमाता, अनेकानि च प्राणिशतसहस्राणि कुतूहलजातानि द्रष्टुं संप्रस्थितानि पूर्वकैश्च कुशलमूलैः संचोद्यमानानि।
०४८.०२७. यावदसौ अनतर्हितः।
०४८.०२७. तैः श्रुतम्--अनतर्हितोऽसौ भगवतः काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातुरविकोपित इति।
०४८.०२९. श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नम्--वृथा अस्माकमागमनं जातमिति।
०४८.०२९. अथान्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः।
०४८.०३०. एवं च चेतसा चित्तमभिसंस्कृतम्--अस्मान्मे पदाविहारात्कियत्पुण्यं भविष्यतीति।
०४८.०३१. अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषते--

०४९.००१. <४९>शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति।
०४९.००३. यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान्॥१॥
०४९.००५. अन्यतमेन उपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः।
०४९.००५. एवं च चित्तमभिसंस्कृतम्--पदाविहारस्य तावदियत्पुण्यमाख्यातं भगवता अन्यत्र्
०४९.००६. मृत्तिकापिण्डस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तस्यापि चेतसा चित्तमाज्ञाय भाषते--
०४९.००८. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति।
०४९.०१०. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मृत्तिकपिण्डमेकम्॥२॥
०४९.०१२. ततः श्रुत्वा अनेकैः प्राणिशतसहस्रैर्मृत्तिकापिण्डसमारोपणं कृतम्।
०४९.०१२. अपरैस्तत्र मुक्तपुष्पाण्यवक्षिप्तानि, एवं च चित्तमभिसंस्कृतम्--पदाविहारस्य मृत्तिकापिण्डस्य चेयत्पुण्यमुक्तं भगवता, अस्माकं तु मुक्तपुष्पाणां कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते--
०४९.०१६. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति।
०४९.०१८. यो बुद्धचैत्येषु प्रसन्नचित्तहारोपयेन्मुक्तसुपुष्पराशिम्॥३॥
०४९.०२०. अपरैस्तत्र मालाविहारः कृतः, चित्तं चाभिसंस्कृतम्--मुक्तपुष्पाणां भगवता इयत्पुण्यमुक्तम्।
०४९.०२१. अस्माकं मालाविहारस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते--
०४९.०२३. शतंसहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति।
०४९.०२५. यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्॥४॥
०४९.०२७. अपरैस्तत्र प्रदीपमाला दत्ता, चित्तं चाभिसंस्कृतम्--मालाविहारस्य भगवता इयत्पुण्यमुक्तम्।
०४९.०२८. अस्माकं प्रदीपदानस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते--

०५०.००१. <५०>शतंसहस्राणि सुवर्णकोट्यो जाम्बूनदा नास्य समा भवन्ति।
०५०.००३. यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्॥५॥
०५०.००५. अपरैस्तत्र गन्धाभिषेको दत्तः।
०५०.००५. एवं चेतसा चित्तमभिसंस्कृतम्--प्रदीपस्य भगवता इयत्पुण्यमुक्तम्।
०५०.००६. अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते--
०५०.००८. शतंसहस्राणि सुवर्णराशयो जाम्बूनदा नास्य समा भवन्ति।
०५०.०१०. यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्॥६॥
०५०.०१२. अपरैस्तत्र च्छत्रध्वजपताकारोपणं कृतम्।
०५०.०१२. एवं च ... चेतसा चित्तमाज्ञाय गाथां भाषते--
०५०.०१३. तिष्ठन्तं पूजयेद्यञ्च यञ्चापि परिनिर्वृतम्।
०५०.०१४. समं चित्तं प्रसाद्येह नास्ति पुण्यविशेषता॥७॥
०५०.०१५. एवं ह्यचिन्तिया बुद्धा बुद्धधर्माप्यचिन्तिया।
०५०.०१६. अचिन्तिये प्रसन्नानां विपाकोऽपि अचिन्तियः॥८॥
०५०.०१७. तेषामचिन्तियानामप्रतिहतधर्मचक्रवर्तिनाम्।
०५०.०१८. सम्यक्सम्बुद्धानां नालं गुणपारमधिगन्तुम्॥९॥ इति॥
०५०.०१९. ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधिगतः।
०५०.०२१. कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ, कैश्चिन्मूर्धागतानि, कैश्चिन्मूर्धानः, कैश्चिदुष्णगतान्यासादितानि, कैश्चित्सत्यानुलोमाः क्षान्तयः, कैश्चित्स्रोताअपत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागमिफलम्, कैश्चित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
०५०.०२३. यद्भूयसा बुद्धनिंना धर्मप्रवणाः संघप्राग्भारा व्यवस्थापिताः॥
०५०.०२५. अथ अनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अत्र महं प्रज्ञायेयम्।
०५०.०२६. अनुजानामि गृहपते, प्रज्ञापयितव्यम्।
०५०.०२६. ततोऽनाथपिण्डदेन गृहपतिना महः प्रज्ञापितः।
०५०.०२७. तोयिकामह इति संज्ञा संवृत्ता॥
०५०.०२८. इदमवोचद्भगवान्।
०५०.०२८. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

०५०.०२९. इति श्रीदिव्यावदाने इन्द्रनामब्राह्मणावदानं षष्ठम्॥