← अवदानम् १-५० दिव्यावदानम्
अवदानम् ५१-१००
[[लेखकः :|]]
अवदानम् १०१-१५० →

अवदान ७

०५१.००१. दिव्७ नगरावलम्बिकावदानम्।

०५१.००२. अथ भगवान् कोशलेषु जनपदेषु चारिकां चरञ्श्रावस्तीमनुप्राप्तः।
०५१.००२. श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्याराम्
०५१.००३. अश्रौषीदनाथपिण्डदो गृहपतिह्--भगवान् कोशलेषु जनपदेषु चारिकां चरञ्श्रावस्तीमनुप्राप्तः।
०५१.००४. श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामिति।
०५१.००५. श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः।
०५१.००५. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
०५१.००६. एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
०५१.००७. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
०५१.००८. अनाथपिण्डदो गृहपतिहुत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ्श्वोऽन्तर्गृहे भुक्तेन सार्धं भिक्षुसंघेन इति।
०५१.०१०. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन्
०५१.०११. अनाथपिण्डदो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तो येन स्वनिवेशनं तेनोपसंक्रान्तः।
०५१.०१३. उपसंक्रम्य दौवारिकं पुरुषमामन्त्रयते--न तावद्भोः पुरुष तीर्थ्यानां प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तं भवति।
०५१.०१४. ततः पश्चादहं तीर्थ्यानां दास्यामीति।
०५१.०१५. एवमार्येति दौवारिकः पुरुषोऽनाथपिण्डदस्य गृहपतेः प्रत्यश्रौषीत् ।
०५१.०१६. अनाथपिण्डदो गृहपतिस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीयं काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति।
०५१.०१८. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन अनाथपिण्डदस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः।
०५१.०२०. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
०५१.०२०. अथ अनाथपिण्डदो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
०५१.०२२. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय् ।
०५१.०२५. अथायुष्मान्महाकाश्यपोऽन्यतमस्मादारण्यकाच्छयनासनात्दीर्घकेशश्मश्रुर्लूहचीवरो जेतवनं गतः।
०५१.०२६. स पश्यति जेतवनं शून्यम्।
०५१.०२६. तेनोपधिवारिकः पृष्टह्--कुत्र बुद्धप्रमुखो भिक्षुसंघ इति।
०५१.०२७. तेन समाख्यातम्--अनाथपिण्डदेन गृहापतिनोपनिमन्त्रित इति।
०५१.०२७. स संलक्षयति--गच्छामि, तत्रैव पिण्डपातं परिभोक्ष्यामि, बुद्धप्रमुखं च भिक्षुसंघं पर्युपासिष्यामीति।
०५१.०२८. सोऽनाथपिण्डदस्य गृहपतेर्निवेशनं गतः।
०५१.०२९. अतो दौवारिकेन उक्तह्--आर्य तिष्ठ, मा प्रवेक्ष्यसि।
०५१.०३०. कस्यार्थाय? अनाथपिण्डदेन गृहपतिना आज्ञा दत्ता--मा तावत्तीर्थ्यानां प्रवेशं दास्यसि, यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्।
०५१.०३१. ततः पश्चात्तीर्थ्यानां दास्यामि इति।
०५१.०३१. अथायुष्मान्महाकाश्यपः संलक्षयति--तस्य मे लाभाः सुलब्धाः, यन्मां श्राद्धा ब्राह्मणगृहपतयः श्रमणशाक्यपुत्रीय<५२> इति न जानन्त्

०५२.००१. गच्छामि, कृपणजनस्यानुग्रहं करोमीति विदित्वा उद्यानं गतः।
०५२.००१. स संलक्षयति--अद्य मया कस्यानुग्रहः कर्तव्य इति।
०५२.००२. यावदन्यतमा नगरावलम्बिका कुष्ठाभिद्रुता सरुजार्ता पक्वगात्रा भिक्षामटति।
०५२.००३. स तस्याः सकाशमुपसंक्रान्तः।
०५२.००३. तस्याश्च भिक्षायामायासः संपन्नः।
०५२.००४. तया आयुष्मान्महाकाश्यपो दृष्टः कायप्रासादिकश्चित्तप्रासादिकः शान्तेन ईर्यापथेन्
०५२.००५. सा संलक्षयति--नूनं मया एवंविधे दक्षिणीये कारा कृता, येन मे इयमेवम्रूपा समवस्था।
०५२.००५. यदि आर्यो महाकाश्यपो ममान्तिकादनुकम्पामुपादाय आचामं प्रतिगृह्णीयात्, अहमस्मै दद्यामिति।
०५२.००७. तत आयुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्--यदि ते भगिनि परित्यक्तम्, दीयतामस्मिन् पात्र इति।
०५२.००८. ततस्तया चित्तमभिप्रसाद्य तस्मिन् पात्रे दत्तम्।
०५२.००९. मक्षिका च पतिता।
०५२.००९. सा तामपनेतुमारब्धा।
०५२.००९. तस्यास्तस्मिन्नाचामेऽङ्गुलिः पतिता।
०५२.००९. संलक्षयति--किं चाप्यार्येण मम चित्तानुरक्षया न च्छोरितः, अपि तु न परिभोक्ष्यतीति।
०५२.०१०. अथायुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय तस्या एव प्रत्यक्षमन्यतमं कुड्यमूलं निश्रित्य परिभुक्तम्।
०५२.०१२. स संलक्षयति--किं चापि आर्येण मम चित्तानुरक्षया परिभुक्तम्, नानेनाहारेणाहारकृत्यं करिष्यति इति।
०५२.०१३. अथायुष्मान्महाकाश्यपस्तस्याश्चित्तमाज्ञाय तां नगरावलम्बिकामिदमवोचत्--भगिनि प्रामोद्यमुत्पादयसि, अहं त्वदीयेनाहारेण रात्रिंदिवसमतिनामयिष्यामि इति।
०५२.०१४. तस्या अतीव औद्बिल्यमुत्पन्नम्--ममार्येण महाकाश्यपेन पिण्डपातः प्रतिगृहीत इति।
०५२.०१५. तत आयुष्मती महाकाश्यपे चित्तमभिप्रसाद्य कालं गता तुषिते देवनिकाये उपपन्ना।
०५२.०१६. सा शक्रेण देवेन्द्रेण दृष्टा आचामं प्रतिपादयन्ती चित्तमभिप्रसादयन्ती कालं च कुर्वाणा।
०५२.०१७. नो तु दृष्टा कुत्रोपपन्ना इति।
०५२.०१८. स नरकान् व्यवलोकयितुमारब्धो न पश्यति, तिर्यक्च प्रेतं च मनुष्यांश्चातुर्महाराजिकान् देवांस्त्रायस्त्रिंशान् यावन्न पश्यति।
०५२.०१९. तथा ह्यधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नो तूपरिष्टात् ।
०५२.०२०. अथ शक्रो देवानामिन्द्रो येन भगवांस्तेनोपसंक्रान्तः।
०५२.०२०. उपसंक्रम्य गाथाभिगीतेन प्रश्नं पप्रच्छ--
०५२.०२२. चरतः पिण्डपातं हि काश्यपस्य महात्मनः।
०५२.०२३. कुत्रासौ मोदये नारी काश्यपाचामदायिका॥१॥
०५२.०२४. भगवानाह--
०५२.०२५. तुषिता नाम ते देवाः सर्वकामसमृद्धयः।
०५२.०२६. यत्रासौ मोदते नारी काश्यपाचामदायिका॥२॥ इति॥
०५२.०२७. अथ शक्रस्य देवानामिन्द्रस्यैतदभवत्--इमे च तावन्मनुष्याः पुण्यापुण्यानामप्रत्यक्षदर्शिनो दानानि ददति, पुण्यानि कुर्वन्ति।
०५२.०२८. अहं प्रत्यक्षदर्शनेन पुण्यानां स्वपुण्यफले व्यवस्थितः कस्मात्दानानि न ददामि, पुण्यानि वा न करोमि? अयमार्यो महाकाश्यपो दीनानाथकृपणवनीपकानुकम्पी।
०५२.०३०. यन्न्वहमेनं पिण्डकेन प्रतिपादयेयम्।
०५२.०३०. इति विदित्वा कृपणवीथ्यां गृहं निर्मितवान्।
०५२.०३१. अवचीरविचीरकं काकाभिलीनकं नातिपरमरूपं कुविन्दं चात्मानमभिनिमार्य उदूढशिरस्कः सणशाटिकानिवासितः स्फटितपाणिपादो वस्त्रं वायितुमारब्धह्<५३>।

०५३.००१. शची अपि देवकन्या कुविन्दनर्या वेशधारिणी तसरिकां कर्तुमारब्धा।
०५३.००१. पार्श्वे चास्या दिव्या सुधा सज्जीकृता तिष्ठति।
०५३.००२. अथायुष्मान्महाकाश्यपः कृपणानाथवनीपकजनानुकम्पकोऽनुपूर्वेण तद्गृहमनुप्राप्तः।
०५३.००३. दुःखितकोऽयमिति कृत्वा द्वारे स्थितेन पात्रं प्रसादितम्।
०५३.००४. शक्रेण देवानामिन्द्रेण दिव्यया सुधया पूरितम्।
०५३.००४. अथायुष्मतो महाकाश्यपस्यैतदभवत्--
०५३.००६. दिव्यं चास्य सुधाभक्तमयं च गृहविस्तरः।
०५३.००७. सुविरुद्धमिति कृत्वा जातो मे हृदि संशयः॥३॥ इति॥
०५३.००८. धर्मता ह्येषा--असमन्वाहृत्य अर्हतां ज्ञानदर्शनं न प्रवर्तत्
०५३.००८. स समन्वाहर्तुं प्रवृत्तः।
०५३.००९. यावत्पश्यति शक्रं देवेन्द्रम्।
०५३.००९. स कथयति--कौशिक, किं दुःखितजनस्यान्तरायं करोषि, यस्य ते भगवता दीर्घरात्रानुगतो विचिकित्साकथंकथाशल्यः समूल आरूढो यथापि तत्तथागतेनार्हता सम्यक्सम्बुद्धेन्
०५३.०११. आर्य महाकाश्यप किं दुःखितजनस्यान्तरायं करोमि? इमे तावत्मनुष्याः पुण्यानामप्रत्यक्षदर्शिनो दानानि ददति पुण्यानि कुर्वन्ति।
०५३.०१२. अहं प्रत्यक्षदर्शी एव पुण्यानां कथं दानानि न ददामि? ननु चोक्तं भगवता--
०५३.०१४. करणीयानि पुण्यानि दुःखा ह्यकृतपुण्यता।
०५३.०१५. कृतपुण्यानि मोदन्ते अस्मिम्ल्लोके परत्र च् ।४॥
०५३.०१६. ततः प्रभृति आयुष्मान्महाकाश्यपः समन्वाहृत्य कुलानि पिण्डपातं प्रवेष्टुमारब्धः।
०५३.०१७. अथ शक्रो देवेन्द्र आकाशस्थश्चायुष्मतो महाकाश्यपस्य पिण्डपातं चरतो दिव्यया सुधया पात्रं पूरयति।
०५३.०१८. आयुष्मानपि महाकाश्यपः पात्रमधोमुखं करोति।
०५३.०१८. अन्नपानं छोर्यत्
०५३.०१८. एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति।
०५३.०१९. भगवानाह--तस्मादनुजानामि पिण्डोपधानं धारयितव्यमिति॥
०५३.०२१. सामन्तकेन शब्दो विसृतह्--अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः, सा च तुषिते देवनिकाये उपपन्ना इति।
०५३.०२२. राज्ञा प्रसेनजिता कौशलेन श्रुतम्--अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः।
०५३.०२३. सा तुषिते देवे उपपन्ना इति।
०५३.०२४. श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः।
०५३.०२४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
०५३.०२५. एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
०५३.०२७. अथ राजा प्रसेनजित्कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवानार्यमहाकाश्यपमुद्दिश्य भक्तं सप्ताहेन इति।
०५३.०२९. अधिवासयति भगवान् राज्ञः प्रसेनजितस्तूष्णीभावेन्
०५३.०३०. अथ राजा प्रसेनजित्कौशलो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकात्प्रक्रान्तः।
०५३.०३१. अथ राजा प्रसेनजित्कौशलस्तामेव रात्रिं प्रणीतं खादनीयं भोजनीयं समुदानीयं काल्यमेवोत्थाय आसनानि <५४>प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति।

०५४.००२. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञः प्रसेनजितः कौशलस्य भक्ताभिसारस्तेनोपसंक्रान्तः।
०५४.००४. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
०५४.००४. अथ राजा प्रसेनजित्कौशलः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति।
०५४.००६. अन्यतमश्च क्रोडमल्लको वृद्धान्ते चित्तमभिप्रसादयंस्तिष्ठति--अयं राजा प्रत्यक्षदर्शीमेव पुण्यानां स्वे पुण्यफले प्रतिष्ठापितोऽतृप्त एव पुण्यैर्दानानि ददाति, पुण्यानि करोति।
०५४.००८. अथ राजा प्रसेनजित्कौशलोऽनेकपर्यायेण बुद्धप्रमुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात्निषण्णो धर्मश्रवणाय्
०५४.०११. ततो भगवता अभिहितह्--महाराज, कस्य नांना दक्षिणामादिशामि? किं तव, आहोस्विद्येन तवान्तिकात्प्रभूततरं पुण्यं प्रसूतमिति? राजा संलक्षयति--मां भगवान् पिण्डपातं परिभुङ्क्त्
०५४.०१३. कोऽन्यो ममान्तिकात्प्रभूततरं पुण्यं प्रसविष्यतीति विदित्वा कथयति--भगवन् येन ममान्तिकात्प्रभूततरं पुण्यं प्रसूतं तस्य भगवान्नांना दक्षिणामादिशतु इति।
०५४.०१४. ततो भगवता क्रोडमल्लकस्य नांना दक्षिणा आदिष्टा।
०५४.०१५. एवं यावत्षड्दिवसान्।
०५४.०१५. ततोऽन्यदिवसे राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--मम भगवान् पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नांना दक्षिणामादिशति इति।
०५४.०१७. सोऽमात्यैर्दृष्टः।
०५४.०१७. ते कथयन्ति--किमर्थं करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति? राजा कथयति--भवन्तः, कथं न चिन्तापरस्तिष्ठामि, यत्रेदानीं स भगवान्मम पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नांना दक्षिणामामादिशतीति? तत्रैको वृद्धोऽमात्यः कथयति--अल्पोत्सुको भवतु।
०५४.०२०. वयं तथा करिष्यामो यथा श्वो भगवान् देवस्यैव नांना दक्षिणामादिशतीति।
०५४.०२१. तैः पौरुषेयाणामाज्ञा दत्ता यतः श्वो भवद्भिः प्रणीत आहारः सज्जीकर्तव्यः प्रभूतश्चैव समुदानयितव्यो यथोपार्धं भिक्षूणां पात्रे पतति उपार्धं भूमौ इति।
०५४.०२३. अमात्यैरपरस्मिन् दिवसे प्रभूत आहारः सज्जीकृतः प्रणीतश्च्
०५४.०२३. ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं परिवेषितुमारब्धः।
०५४.०२४. उपार्धं भिक्षूणां पात्रे पतति, उपार्धं भूमौ।
०५४.०२५. ततः क्रोडमल्लकाः प्रधाविताह्--भूमौ निपतितं गृह्णीम इति।
०५४.०२५. ते परिवेषकैर्निवारिताः।
०५४.०२६. ततः क्रोडमल्लकः कथयति--यद्यस्य राज्ञः प्रभूतमन्नम्, स्वापतेयमस्ति, सन्त्यन्येऽपि अस्मद्विधा दुःखितका आकाङ्क्षन्त्
०५४.०२७. किमर्थं न दीयते? किमनेनापरिभोगं छोरितेन इति।
०५४.०२७. तस्य क्रोडमल्लकस्य चित्तविक्षेपो जातह्--न शक्यं तेन तथा चित्तं प्रसादयितुं यथा पूर्वम्।
०५४.०२८. ततो राजा बुद्धप्रमुखं भिक्षुअसंघं भोजयित्वा न मम नांना दक्षिणामादिशतीति विदित्वा दक्षिणामश्रुत्वैव प्रविष्टः।
०५४.०३०. ततो भगवता राज्ञः प्रसेनजितः कौशलस्य नांना दक्षिणा आदिष्टा--
०५४.०३१. हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैर्गमम्।
०५४.०३२. पश्यसि(?) फलं हि रूष्किकाया अलवणिकायाः कुल्माषपिण्डिकायाः॥५॥

०५५.००१. <५५>अथायुष्मानानन्दो भगवन्तमिदमवोचत्--बहुशो बहुशो भदन्त भगवता राज्ञः प्रसेनजितः कौशलस्य निवेशने भुक्त्वा नांना दक्षिणामादिष्टा।
०५५.००२. नाभिजानामि कदाचिदेवम्रूपां दक्षिणामादिष्टपूर्वाम्।
०५५.००३. भगवानाह--इच्छसि त्वमानन्द राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिं श्रोतुम्? एतस्य भगवन् कालः, एतस्य सुगत समयः।
०५५.००५. अयं भगवान् राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिं वर्णयेत्, भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति इति।
०५५.००६. तत्र भगवान् भिक्षूनामन्त्रयते स्म--
०५५.००७. भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्पटके गृहपतिः प्रतिवसति।
०५५.००७. तेन सदृशात्कुलात्कलत्रमानीतम्।
०५५.००८. स तया सार्धं क्रीडति रमते परिचारयति।
०५५.००८. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः।
०५५.००९. स उन्नीतो वर्धितः पटुः संवृत्तः।
०५५.००९. यावदसौ गृहपतिः पत्नीमामन्त्रयते--भद्र, जातोऽस्माकमृणहारको धनहारकश्च्
०५५.०१०. गच्छामि पण्यमादाय देशान्तरमिति।
०५५.०११. सा कथयति--आर्यपुत्र, एतत्कुरुष्व इति।
०५५.०११. स पण्यमादाय देशान्तरं गतः।
०५५.०११. तत्रैवानयेन व्यसनमापन्नः।
०५५.०१२. अल्पपरिच्छदोऽसौ गृहपतिः।
०५५.०१२. तस्य गृहपतेर्धनजातं परिक्षीणम्।
०५५.०१२. सोऽस्य पुत्रो दुःखितो जातः।
०५५.०१३. तस्य गृहपतेर्वयस्यकः।
०५५.०१३. तेन तस्य दारकस्य माता अभिहिता--अयं तव पुत्रः क्षेत्रं रक्षतु, अहमस्य सुखं भुक्तेन योगोद्वहनं करिष्यामि।
०५५.०१४. एवं भवतु।
०५५.०१५. स तस्य क्षेत्रं रक्षितुमारब्धः।
०५५.०१५. स तस्य सुखं भक्तकेन योगोद्वहनं कर्तुमारब्धः।
०५५.०१५. यावदपरेण समयेन पर्वणी प्रत्युपस्थिता।
०५५.०१६. तस्य दारकस्य माता संलक्षयति--अद्य गृहपतिपत्नी सुहृत्सम्बन्धिबान्धवाः सह श्रमणब्राह्मणभोजनेन व्यग्रा भविष्यति।
०५५.०१७. गच्छामि सानुकालं तस्य दारकस्य भक्तं नयामि इति।
०५५.०१८. सा सानुकालं गत्वा गृहपतिपत्न्या एतमर्थं निवेशयति।
०५५.०१८. सा रुषिता कथयति--न तावच्छ्रमणब्राह्मणेभ्यो ददामि ज्ञातीनां वा, तावत्प्रेष्यमनुष्याय ददामि? अद्य तावत्तिष्ठतु, श्वो द्विगुणं दास्यामीति।
०५५.०२०. ततस्तस्य दारकस्य माता संलक्षयति--मा मे पुत्रो बुभुक्षितकः स्थास्यतीति।
०५५.०२१. तया आत्मनोऽर्थेऽलवणिका कुल्माषपिण्डका संपादिता।
०५५.०२२. सा तामादाय गता।
०५५.०२२. तेन दारकेण दूरत एव दृष्टा।
०५५.०२२. स कथयति--अम्ब, अस्ति किंचिन्मृष्टं मृष्टम्? सा कथयति--पुत्र, यदेव प्रातिदैवसिकं तदप्यद्य नास्ति।
०५५.०२३. मया आत्मनोऽर्थेऽलवणिका कुल्माषपिण्डिका साधिता।
०५५.०२४. तामहं गृहीत्वा आगता।
०५५.०२४. एतां परिभुङ्क्ष्वेति।
०५५.०२५. स कथयति--स्थापयित्वा गच्छस्वेति।
०५५.०२५. सा स्थापयित्वा प्रक्रान्ता॥
०५५.०२६. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रन्तशयनासनभक्ता एकदक्षिणीया लोकस्य्
०५५.०२७. यावदन्यतमः प्रत्येकबुद्धस्तत्प्रदेशमनुप्राप्तः।
०५५.०२७. स तेन दृष्टः कायप्रासादिकश्चित्रप्रासादिकश्च शान्तेर्यापथवर्ती।
०५५.०२८. स संलक्षयति--नूनं मया एवंविधे सद्भूते दक्षिणीये कारा न कृता, येन मे ईदृशी समवस्था।
०५५.०२९. यद्ययं ममान्तिकादलवणिकां कुल्माषपिण्डिकां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति।
०५५.०३०. ततोऽसौ प्रत्येकबुद्धस्तस्य दरिद्रपुरुषस्य चेतसा चित्तमाज्ञाय पात्रं प्रसारितवान्--भद्रमुख, सचेत्ते परित्यक्तम्, दीयतामस्मिन् पात्र इति।
०५५.०३२. ततस्तेन तीव्रेण प्रसादेन सा अलवणिका कुल्माषपिण्डका तस्मै प्रत्येकबुद्धाय प्रतिपादिता॥

०५६.००१. <५६>किं मन्यध्वे भिक्षवो योऽसौ दरिद्रपुरुषः, एष एवासौ राजा प्रसेनजित्कौशलस्तेन कालेन तेन समयेन्
०५६.००२. यदनेन प्रत्येकबुद्धायालवणिका कुल्माषपिण्डका प्रतिपादिता, तेन कर्मणा षट्कृत्वो देवेषु त्रायस्त्रिंशेषु राज्यैश्वर्याधिपत्यं कारितवान्, षट्कृत्वोऽस्यामेव श्रावस्त्यां राजा क्षत्रियो मूर्ध्नाभिषिक्तः, तेनैव च कर्मणा अवशेषेण एतर्हि राजा क्षत्रियो मूर्ध्नाभिषिक्तः संवृत्तः।
०५६.००५. सोऽस्य तमहं संधाय कथयामि--
०५६.००६. हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैर्गमनम्।
०५६.००७. पश्यसि फलं हि रूक्षिकाया अलवणिकाया कुल्माषपिण्डकायाः॥ इति।
०५६.००८. सामन्तकेन शब्दो विसृतह्--भगवता राज्ञः प्रसेनजितोऽलवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिर्व्याकृता इति।
०५६.००९. राज्ञापि प्रसेनजिता श्रुतम्।
०५६.००९. स येन भगवांसेतेनोपसंक्रान्तः।
०५६.०१०. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
०५६.०१०. एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदरश्यति समादापयति समुत्तेजयति संप्रहर्षयति।
०५६.०१२. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
०५६.०१२. अथ राजा प्रसेनजित्कौशल उत्थायासनादेकांसमुत्तेरासङ्गं कृत्वा भगवन्तमिदमवोचत्--अधिवासयतु मे भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं संघेनेति।
०५६.०१५. अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन्
०५६.०१५. ततो राज्ञा प्रसेनजिता कौशलेन बुद्धमुखाय भिक्षुसंघाय त्रैमास्यं शतरसं भोजनं दत्तम्।
०५६.०१६. एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेणाच्छादितः।
०५६.०१७. तैलस्य च कुम्भकोटिं समुदानीय दीपमाला अभ्युद्यतो दातुम्।
०५६.०१८. तत्र भक्ते पूजायां च महान् कोलाहलो जातः।
०५६.०१८. यावदन्यतमा नगरावलम्बिका अतीव दुःखिता।
०५६.०१९. तया क्रोडमल्लकेन भिक्षामटन्त्या उच्चशब्धः श्रुतः।
०५६.०१९. श्रुत्वा च पुनः पृच्छति--भवन्तः, किमेष उच्चशब्दो महाशब्द इति।
०५६.०२०. अपरैः समाख्यातम्--राज्ञा प्रसेनजिता कौशलेन बुद्धप्रमुखो भिक्षुअस्ंघस्त्रैमास्यं भोजितः, एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेण आच्छादितः, तैलस्य कुम्भकोटिं च समुदानीय दीपमाला अभ्युद्यतो दातुमिति।
०५६.०२२. ततस्तस्या नगरावलम्बिकाया एतदभवत्--अयं तावद्राजा प्रसेनजित्कौशलः पुण्यैरतृप्तोऽद्यापि दानानि ददाति, पुण्यानि करोति।
०५६.०२४. यन्न्वहमपि कुतश्चित्समुदानीय भगवतः प्रदीपं दद्यामिति।
०५६.०२४. तया खण्डमल्लके तैलस्य स्तोकं याचयित्वा प्रदीपं प्रज्वाल्य भगवतश्चङ्क्रमे दत्तः।
०५६.०२५. पादयोर्निपत्य प्रणिधानं कृतम्--अनेनाहं कुशलमूलेन यथायं भगवाञ्शाक्यमुनिर्वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम शास्ता लोक उत्पन्नः, एवमहमपि वर्षशतायुषि प्रजायां शाक्यमुनिरेव शास्ता भवेयम्।
०५६.०२८. यथा चास्य दारिपुत्रमौद्गल्यायनाग्रयुगं भद्रयुगमानन्दो भिक्षुरुपस्थायकः, शुद्धोदनः पिता, माता महामाया, राहुलभद्रः कुमारः पुत्रः।
०५६.०२९. यथायं भगवान् धातुविभागं कृत्वा परिनिर्वास्यति, एवमहमपि धातुविभागं कृत्वा परिनिर्वापयेयमिति।
०५६.०३०. यावत्सर्वे ते दीपा नैर्वाणाः।
०५६.०३१. स तया प्रज्वलितः प्रदीपः प्रज्वलत्येव्
०५६.०३१. धर्मता खलु बुद्धानां भगवताम्--न तावदुपस्थायकाः प्रतिसम्लीयन्ते न यावद्बुद्धा भगवन्तः प्रतिसम्लीना इति।
०५६.०३२. अथायुष्मानानन्दः संलक्षयति--अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति।
०५६.०३३. यन्न्वहं दीपम् <५७>निर्वापयेयमिति।

०५७.००१. स हस्तेन निर्वापयितुमारब्धो न शक्नोति।
०५७.००१. ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोति निर्वापयितुम्।
०५७.००२. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--किमेतदानन्देति।
०५७.००३. स कथयति--भगवन्, मम बुद्धिरुत्पना--अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति।
०५७.००४. यन्न्वहं दीपं निर्वापयेयमिति।
०५७.००४. सोऽहं हस्तेन निर्वापयितुमारब्धो न शक्नोमि, ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोमीति।
०५७.००५. भगवानाह--खेदमानन्द आपत्स्यस्
०५७.००६. यदि वैरम्भका अपि वायवो वायेयुः, तेऽपि न शक्नुयुर्निर्वापयितुं प्रागेव हस्तगतश्चीवरकर्णिको व्यजनं वा।
०५७.००७. तथा हि--अयं प्रदीपस्तया दारिकया महता चित्ताभिसंस्कारेण प्रज्वलितः।
०५७.००८. अपि तु आनन्द भविष्यत्यसौ दारिका वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धः।
०५७.००९. शारिपुत्रमौद्गल्यायनौ तस्याग्रयुगं भद्रयुगम्, आनन्दो भिक्षुरुपासकः, शुद्धोदनः पिता, महामाया माता, कपिलवस्तु नगरम्, राहुलभद्रः कुमारः पुत्रः।
०५७.०११. सापि धातुविभागं कृत्वा परिनिर्वास्यतीति॥
०५७.०१२. इदमवोचद्भगवान्।
०५७.०१२. आत्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


०५७.०१३. इति श्रीदिव्यावदाने नगरावलम्बिकावदानं सप्तमम्॥


                    • अवदान ८ **********


०५८.००१ दिव्८ सुपिर्यावदान

०५८.००२. बुद्धो भवाञ्श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैर्ब्राह्मणैर्गृहपतिभिः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवांल्लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः।
०५८.००५. तत्र खलु वर्षावासं भगवानुपग्तो जेतवने अनाथपिण्डदस्याराम्
०५८.००६. अथ तदैव प्रवारणायां प्रत्युपस्थितायां संबहुलाः श्र्तावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः।
०५८.००७. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तो निषण्णाह्
०५८.००८. एकान्तनिषण्णान् संबहुलाञ्श्रावस्तीनिवासिनो वणिजो भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
०५८.०१०. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
०५८.०११. अथ संबहुलाः।
०५८.०११. श्रावस्तीनिवासिनो वणिजो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रकान्ताः, येनायुष्मानानन्दस्तेनोपसंक्रान्ताः।
०५८.०१२. उपसंक्रम्यायुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः।
०५८.०१३. संबहुलाञ्श्रावस्तीनिवासिनो वणिज आयुष्मानानन्दो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
०५८.०१५. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
०५८.०१६. अथ ते वणिज उत्थायासनेभ्यहेकांसमुत्तरासङ्गं कृत्वा येनायुष्मानानन्दस्तेनान्ञ्जलिं प्रणम्य आयुष्मन्तमानन्दमिदमवोचन् -- किंचित्ते आर्यानन्द श्रुतं वर्षोषितो भगवान् कतमेषु जनपदेषु चारिकां चरिष्यतीति, यद्वयं तद्यात्रिकं भाण्डं समुदानीमहे ? धर्मता चैषा षण्महानगरनिवासिनो वणिजो यस्यां दिशि बुद्धा भगवन्तो गन्तुकामा भवन्ति, तद्यात्रिकभाण्डं समुदानयन्ति।
०५८.०२०. स कथयति -- बुद्धं भगवन्तं किं न पृच्छथ ? दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः।
०५८.०२१. न शक्नुमो वयं भगवन्तं प्रष्टुम्।
०५८.०२१. ममापि भवन्तो दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः।
०५८.०२२. अहमपि न शक्नोमि भगवन्तं प्रष्टुम्।
०५८.०२२. यदि भदन्तानन्दस्यापि दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः, कथं भदन्तानन्दो जानीतेऽमुकां दिशं भगवान् गमिष्यतीति ? निमित्तेन वा भवन्तः परिकथया वा।
०५८.०२४. कथं निमित्तेन ? यां दिशं भगवान् गन्तुकामस्ततोऽभिमुखो निषीदति, एवं निमित्तेन्
०५८.०२५. कथं परिकथया ? तेषां जनपदानां वर्णं भाषते, एवं परिकथया।
०५८.०२६. कुतोमुखो भदन्तानन्द भगवान्निषीदति, कतमेषां च जनपदानां वर्णं भाषते ? मगधाभिमुखो भवन्तो भगवान्निषीदति, मागधकानां जनपदानां वर्णं भाषत्
०५८.०२७. अपि तु भवन्तोऽष्टादशानुशंसा बुद्धचारिकायाम्।
०५८.०२८. कतमेऽष्टादश ? नाग्निभ्यं नोदकभ्यं न सिंहभ्यं न व्याघ्रभ्यं न द्वीपितरक्षुपरचक्रभ्यं न चौरभयं न गुल्मतरपण्यातियात्राभ्यं न मनुष्यामनुष्यभयम्।
०५८.०३०. कालेन च कालं दिव्यानि रूपाणि दृश्यन्ते, दिव्याः शब्दाः श्रूयन्ते, उदाराश्चावभासाः प्रज्ञ्न्यायन्ते, आत्मव्याकरणानि च श्रूयन्ते, धर्मसम्भोग आमिषसम्भोगोऽ।
०५८.०३१. पाबाधा च बुद्धचन्द्रिका॥

०५९.००१. <०५९>अथ संबहुलाः श्रावस्तीनिवासिनो वणिजहायुष्मतहानन्दस्य भाषितमभिनन्द्यानुमोद्य आयुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा उत्थायासनात्प्रक्रान्ताः।
०५९.००३. धर्ता खलु बुद्धा भगवन्तो जीवन्तो ध्रियन्तो यापयन्तो महाकरुणया संचोद्यमानाः परानुग्रहप्रवृत्ताः कालेन कालमरण्यचारिकां चरन्ति, नदीचारिकां पर्वतचारिकां श्मशानचारिकां जनपद चारिकां चरन्ति।
०५९.००५. अस्मिंस्त्वर्थे बुद्धो भगवान्मगधेषु जनपदचारिकां चर्तुकामस्तदेव प्रवारणां प्रवारयित्वा आयुष्मन्तमानदामामन्त्रयते स्म -- गच्छ आनन्द, भिक्षूणामारोचय इतः सप्तमे दिवसे तथागतो मगधेषु जनपदेषु चारिकां चारिष्यति।
०५९.००७. यो युष्माकमुत्सहते तथागतेन सार्धं जनपदचारिकां चर्तुम्, स चीवरकर्म करोतु।
०५९.००८. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति -- भगवानायुष्यन्त इतः सप्तमे दिवसे मगधेषु जनपदेषु चारिकां चरिष्यति।
०५९.००९. यो युष्माकमुत्सहते भगवता सार्धं मगधेषु जनपदेषु चारिकां चर्तुम्, स चीवरकर्म करोतु।
०५९.०११. अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः संबहुलैश्च श्रावस्तीनिवासिभिर्वणिग्ब्राह्मणगृहपतिभिः सार्धं मगधेषु जनपदेषु चारिकां प्रक्रान्तः॥
०५९.०१३. अथ संबहुलाश्च श्रावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः।
०५९.०१३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचन् -- अधिवासयत्वस्माकं भगवान् यावच्च श्रावस्ती यावच्च राजगृहम्, अत्रान्तरा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन्
०५९.०१६. अधिवासयति भगवान् संबहुलानां श्रावस्तीनिवासिनां वणिजां तूष्णीभावेन्
०५९.०१७. अथ संबहुलाः श्रावस्तीनिवासिनो वणिजो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकात्प्रक्रान्ताः॥
०५९.०१९. अथ संप्रस्थिते बुद्धे भगवति अन्तरा च श्रावस्तीमन्तरा च राजगृहम्, अत्रान्तरान्महाटव्यां चौरसहस्रं प्रतिवसति।
०५९.०२०. अद्राक्षीत्तच्चौरसहस्रं भगवन्तं सार्थपरिवृतं भिक्षुसंघपुरस्कृतम्।
०५९.०२१. दृष्ट्वा च पुनः परस्परं कथयन्ति -- गच्चतु भगवान् सश्रावकसंघः।
०५९.०२१. शेषं सार्थं मुषि ष्यामः।
०५९.०२२. इत्यनुविचिन्त्य सर्वे जवेन प्रसृता येन सार्थः।
०५९.०२२. भगवता अभिहितह्-- किमेतद्भवन्तः समारब्धम् ? चौराः कथयन्ति -- वयं स्मो भदन्त चौरा अटवीचराः।
०५९.०२३. नासमाकं कृषिर्न वाणिज्या न गौरक्ष्यम्।
०५९.०२४. अनेनोपक्रमेण जीविकां कल्पयामः।
०५९.०२४. गच्छतु भगवान् सश्रावकसंघः।
०५९.०२४. शेषं सार्थं मुषिष्यामः।
०५९.०२५. भगवानाह -- ममैष सार्थः संनिश्रितः।
०५९.०२५. अपि तु सकलस्य सार्थस्य परिगणय्य सुवर्णं गृह्णीध्वम्।
०५९.०२६. तथा भवत्विति चौरसहस्रेण प्रतिज्ञ्नातम्।
०५९.०२६. अस्मिन् सार्थे ये उपासका विणिजस्तैः कृत्स्नस्य सार्थस्य मूल्यं गणय्य चौराणां निवेदितमियन्ति शतानि सहस्राणि चेति।
०५९.०२८. ततस्तेषां चौराणां सार्थनिष्क्रयार्थं भगवता निधानं दर्शितम्।
०५९.०२९. ततस्तेन चौरसहस्रेण सार्थमूल्यप्रमाणं सुवर्णं गृहीतम्, अवशिष्टं तत्रैवान्तर्हितम्।
०५९.०२९. एवं भगवता सार्थश्चौरसहस्रात्प्रतिमोक्षितः॥
०५९.०३१. अनुपूर्वेण भगवान् राजगृहमनुप्राप्तः।
०५९.०३१. पुनरपि भगवान् सार्थपरिवृतो भिक्षुसंघ पुरस्कृतो राजगृहात्श्रावस्तीं संप्रस्थितः।
०५९.०३२. तथैव चौरसहस्रसकाशात्सार्थो निष्क्रीतः।

०६०.००१. <६०>एवं द्वित्रिचतुष्पन्ञ्चषड्वारांश्च चैरसहस्रसकाशादागमनगमनेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्।
०६०.००२. सप्तं तु चारं भगवान् सार्थरहितो भिक्षुसंघपुरस्कृतः शावस्त्या राजगृहं संप्रस्थितः।
०६०.००३. अद्राक्षीच्चौरसहस्रं बुद्धं भगवन्तं सार्थविरहितं भिक्षुसंघपरिवृतम्।
०६०.००३. दृष्ट्वा च पुनः परस्परं संलपन्ति -- भगवान् गच्छतु, भिक्षुसंघं मुषिष्यांः।
०६०.००४. तत्कस्य हेतोह्? एषो हि भगवान् सुवर्णप्रदः।
०६०.००५. इत्युक्त्वा सर्वजवेन प्रधाविता भिक्षून्मुषितुमारब्धाः।
०६०.००५. भगवता चाभिहिताह्-- वत्साः, मम एते श्रावकाः।
०६०.००६. चौराः कथयन्ति -- जानास्येव भगवान् -- वयं चौरा अटवीचराः।
०६०.००७. नास्माकं कृषिर्न वणिज्या न गौरक्ष्यम्।
०६०.००७. अनेन वयं जीविकां कल्पयामः।
०६०.००८. ततो भगवता चौराणां महानिधानं दर्शितम्, एवं चोक्ताह्-- वत्साः, यावदाप्तं धनं गृह्णीथेति।
०६०.००९. ततस्तेन चौरसहस्रेण तस्मान्महानिधानाद्यावदाप्तं सुवर्णमादत्तम्, अवशिष्टं तत्रैवान्तर्हितम्।
०६०.०१०. अथ भगवांस्तच्चौरसहस्रं यावदाप्तं धनेन संतर्पयित्वा ततोऽनुपूर्वेण राजगृहमनुप्राप्तः।
०६०.०११. ततस्तेषां चौराणां बुद्धिरुत्पन्ना -- या काचिदस्माकं श्रीसौभाग्यसम्पत्, सर्वासौ बुद्धं भगवन्तमागम्य्
०६०.०१२. यन्नु वयं भगवन्तं सश्रावकसंघमस्मिन् प्रदेशे भोजयेम इति।
०६०.०१२. अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतां महाकारुणिकानामेकरक्षाणामेकवीराणामद्वयवादिनां शमथविपश्यनाविहारिणां त्रिविधदमथवस्तुकुशलानां चतुरृद्धिपादचरणतलसुप्रितिष्ठितानां चतुरोघोत्तीर्णानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां दशबलबलिनां चतुर्वैशारद्यविशारदानामुदारार्षभसम्यक्सिंहनादनादिनां पन्ञ्चाङ्गविप्रहीणानां पन्ञ्चस्कन्ध विमोचकानां पन्ञ्चगतिसमतिक्रान्तानां षडायतनभेदकानां संघातविहारिणां षट्पारमितापरिपूर्णयशसां
सप्तबोध्यङ्गकुसुमाढ्यानां सप्तसमाधिपरिष्कारदायकानामार्याष्टाङ्गमार्गदेशिकानामार्यमार्गपुद्गलनायकानां नवानुपूर्वसमापत्तिकुशलानां नवसम्योजनविसम्योजनकानां दशदिक्परिपूर्णयशसां दशशतवशवर्तिप्रतिविशिष्तानां त्रीरात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसेन बुद्धचक्षुषा लोकम्
व्यवलोकयन्तिकस्यानवरोपितानि कुशलमूलान्यवरोपयामि, कस्यावरोपितानि विवर्धयामि, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, कं कृच्छ्रसंकटसम्बाधात्परिमोचयामि, कोऽपायनिंनः, कोऽपायप्रवणः, कोऽपायप्राग्भारः, कमहमपायाद्व्युत्थाप्य स्वर्गे मोक्षफले च प्रतिष्ठापयामि, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छामि, कस्य बुद्धोत्पादविभूषितं लोकं सफलीकरोमि, कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्टापयेयम्, को हीयते को वर्धत्
०६०.०२७. अप्येवातिक्रमेद्वेलां सागरो मकरालयः।
०६०.०२८. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत् ॥१॥
०६०.०२९. यथा हि माता प्रियमेकपुत्रकं ह्यवेक्षते रक्षति चास्य जीवितम्।
०६०.०३१. तथैव वैनेयजनं तथगतो ह्यवेक्षते रक्षति चास्य संततिम्॥२॥

०६१.००१. <६१>सर्वज्ञ्नसंताननिवासिनी हि कारुण्यधेनुर्मृगयत्यखिन्ना।
०६१.००३. वैनेयवत्सान् भवदुःखनष्टान् वत्सान् प्रणष्टनिव वत्सला गौः॥३॥
०६१.००५. ततो भगवांस्तेषां चौराणां वैनेयकालमपेक्ष्य राजगृहादनुपूर्वेण भिक्षुगणपरिवृतो भिक्षुगणपुरस्कृतो दान्तो दान्तपरिवारः शान्तः शान्तपरिवारश्चन्दनश्चन्दनपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारः पूर्ववत्यावन्महाकरुणया समन्वागतस्तां सालाटवीमनुप्राप्तः।
०६१.००८. अद्राक्षीत्तच्चौरसहस्रं बुद्धं भगवन्तं सश्रावकसंघं दूरादेवागच्छन्तम्।
०६१.००८. दृष्ट्वा च पुनश्चित्तान्यभिप्रसाद्य येन भगवांस्तेनोपसंक्रान्तः।
०६१.००९. उपसंक्रम्य भगवतः पादयोर्निपत्य भगवन्तमिदमवोद्चन् -- अधिवासयतु अस्माकं भगवाञ्श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन्
०६१.०११. अधिवासयति भगवांस्तस्य चौरसस्रस्य तूष्णीभावेन्
०६१.०११. अथ चौरसहस्रं भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकान् प्रक्रान्तम्॥
०६१.०१३. अथ तच्चौरसहस्रं तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञ्नप्य उदकमणीन् प्रतिष्ठाप्य, भगवतो दूतेन कालमारोचयति -- समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यस्
०६१.०१५. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य चौरसहस्रस्य भक्ताभिसारस्तेनोपसंक्रान्तः।
०६१.०१७. अथ तच्चौरसहस्रं बुद्धप्रमुखस्य भिक्षुसंघस्य चन्दनोदकेन पादौ प्रक्षालयामास्
०६१.०१८. अथ भगवान् प्रक्षालितपाणिपादः पुरस्ताद्भिक्षुसंघस्य प्रज्ञ्नप्त एवासने निषण्णः।
०६१.०१९. निषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतराण्यासनानि गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय्
०६१.०१९. अथ भगवता तेषामाशयानुशयं विदित्वा धातुं प्रकृतिं च ज्ञ्नात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा तेन चौरसहस्रेण तस्मिन्नेवासने निषण्णेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञ्नानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
०६१.०२४. दृष्टसत्याश्च कथयन्ति -- इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञ्ना न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्नेष्टैर्न स्वजनबन्धुवर्गेण यदस्माभिर्भगवन्तं कल्याणमित्रमागम्य्
०६१.०२५. उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः, प्रतिष्ठापिता देवमनुष्येषु, पर्यन्तीकृतः संसारः, उच्छोषिता रुधिराश्रुसमुद्राः, उत्तीर्णा अश्रुसागराः, लङ्घिता अस्थिपर्वताः।
०६१.०२७. लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
०६१.०२८. चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यम्।
०६१.०२८. ततो भगवता ब्रह्मेण स्वरेणाभिहिताह्-- एत वत्साः, चरत ब्रह्मचर्यम्।
०६१.०२९. वाचावसाने भगवतो मुण्डाः संवृत्तस्त्रैधातुकवीतरागाः समलोष्टकान्ञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञ्नाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपरान्मुखाः।
०६१.०३१. सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश्च संवृत्ताः॥

०६२.००१. <६२>भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्-- पश्य भदन्त भगवता इदं चौरसहस्रं सप्तवारं धनेन संतर्पयित्वा अत्यन्तनिष्ठेऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापितम्।
०६२.००३. भगवानाह -- न भिक्षव एतर्हि, यथा अतीतेऽप्यध्वनि मया अस्यैव चौरसहस्रस्य सकाशादनेकभाण्डसहस्रः सार्थो निष्क्रीतः, न च शकिताः संतर्पयितुम्।
०६२.००४. ततो मया अनेकैर्दुष्करशतसहस्रैर्देवमनुष्यदुष्प्राप्यां शक्रब्रह्माद्यैरपि दुरधिगमां बदरद्वीपयात्रां वर्षशतेन साधयित्वा एतदेव चौरसहस्रमारभ्य कृत्स्नो जाम्बुद्वीपः सुवर्णरजतवैडूर्यस्फटिकाद्यै रत्नविशेषैर्मनोरथेप्सितैश्चोपकरणविशेषैः संतर्पयित्वा दशभिः कुशलैः कर्मपथैः प्रतिष्ठापितः।
०६२.००७. तच्छ्रुणुत -- भूतपूर्वं भिक्षवोऽतीतेऽध्वनि अस्मिन्नेव जम्बुद्वीपे वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति स्म ऋद्धं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगतम्।
०६२.०१०. प्रियमिवैकपुत्रकमिव राज्यं कारयति।
०६२.०१०. तेन खलु समयेन वाराणस्यां प्रियसेनो नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो वैश्रवणधनप्रतिस्पर्धी।
०६२.०१२. तेन सदृशात्कुलात्कलत्रमानीतम्।
०६२.०१२. स तया सार्धं क्रीडते रमते परिचारयति।
०६२.०१३. अथ अन्यतम उदारपुण्यमहेशाख्यः सत्त्वोऽन्यतमस्मात्प्रणीताद्देवनिकायाच्चयुत्वा तस्याः प्रजापत्याः कुक्षिमवक्रान्तः।
०६२.०१४. पन्ञ्चावेणीया धर्मा इहैकत्ये पण्डितजातीये मातृग्राम्
०६२.०१५. कतमे पन्ञ्च? रक्तं पुरुषं जानाति, कालं जानाति ऋतुं जानाति, गर्भमवक्रान्तं जानाति, यस्याः सकाशाद्गर्भोऽवक्रामति तं जानाति, दारकं जानाति दारिकां जानाति।
०६२.०१७. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति।
०६२.०१७. सचेद्दारिका भवति, वामं कुक्षिंनिश्रित्य तिष्ठति।
०६२.०१८. सा आत्तमनाः स्वामिन आरोचयति -- दिष्ट्या आर्यपुत्र वर्धस्व, आपन्नसत्त्वास्मि संवृत्ता।
०६२.०१९. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति।
०६२.०२०. सोऽप्यात्तमनात्तमना उदानमुदानयति -- अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्।
०६२.०२१. जातो मे स्यान्नावजातः।
०६२.०२१. कृत्यानि मे कुर्यात् ।
०६२.०२१. भृतः प्रतिभरेत् ।
०६२.०२१. दायाद्यं प्रतिपद्येत्
०६२.०२२. कुलवंशो मे चिरष्ठितिकः स्यात् ।
०६२.०२२. अस्माकं चाप्यतीतकालगतानामुद्दिश्य दानानि दत्वा पुण्यानि कृत्वा नांना दक्षिणामादिशेत्-- इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति।
०६२.०२४. आपन्नसत्त्वां चैनां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति -- उष्ण उष्णोपकरणैः शीते शीतोपकरणैर्वैद्यप्रज्ञ्नप्तैराहारैर्नातिशीतैर्नात्युष्णैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैः।
०६२.०२६. हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनचारिणीं मन्ञ्चान्मन्ञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्।
०६२.०२७. न चास्याकिंचिदमनोज्ञ्नशब्दश्रवणं यावदेव गर्भस्य परिपाकाय्
०६२.०२८. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता।
०६२.०२९. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासो दृढकठिनशरीरो महानग्नबलः।
०६२.०३१. तस्य ज्ञ्नातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिरात्रिंदिवसानि तस्य जातस्य जातो महं कृत्वा नामधेयं व्यवस्थापयन्ति -- किं भवतु दारकस्य नाम? अयं दारकः प्रियसेनस्य <६३>सर्थवाहस्य पुत्रः।

०६३.००१. तद्भवतु दारकस्य नाम सुप्रिय इति।
०६३.००१. सुप्रियो दारकोऽष्टाभ्यो धात्रीभ्य उपन्यस्तो द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्।
०६३.००३. सोऽष्टाभिर्धात्रीभुरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैष्चोत्तप्तोत्तपैरुपकरणविशेषैः।
०६३.००४. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥
०६३.००५. यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः।
०६३.००५. संख्यायां गणनायां मुद्रायामुद्धारे न्यासे
०६३.००६. निक्षेपे हस्तिपरीक्षायामश्वपरीक्षायां रत्नपरीक्षायां दारुपरीक्षायां वस्त्रपरीक्षायां पुरुषपरीक्षायां स्त्रीपरीक्षायाम्।
०६३.००७. नानापण्यपरीक्षासु पर्यवदातः सर्वशास्त्रज्ञ्नः सरवकलाभिज्ञ्नः सर्वशिल्पज्ञ्नः सर्वभूतरुतज्ञ्नः सर्वगतिगतिज्ञ्नहुद्धट्टको वाचकः पण्डितः पटुप्रचारः परमतीक्ष्णनिशितबुद्धिः संवृत्तोऽग्निकल्प इव ज्ञ्नानेन्
०६३.००९. स यानि तानि राज्ञ्नां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा हस्तिग्रीवायामश्वपृष्ठे रथे त्सरुधनुःषु उपयाने निर्याणेऽङ्कुशग्रहे तोमरग्रहे छेद्ये भेद्ये मुष्टिबन्धे पदबन्धे दूरवेधे शब्दवेधेऽक्षुण्णवेधे मर्मवेधे दृढप्रहारितायाम्।
०६३.०१३. पन्ञ्चसु स्थानेषु कृतावी संवृत्तः।
०६३.०१३. धर्मता चैषा -- न तावत्पुत्रस्य नाम निर्गच्छति यावत्पिता ध्रियत्
०६३.०१४. अथापरेण समयेन प्रियसेनः सार्थवाहो ग्लानीभूतः।
०६३.०१४. स मूलगण्डपुत्रपुष्पफलभैषज्यैरुपस्थीयमानो हीयत एव्
०६३.०१६. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
०६३.०१७. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्॥४॥
०६३.०१८. इति स कालधर्मेण सम्युक्तः।
०६३.०१८. कालगते प्रियसेने सार्थवाहे ब्रह्मदत्तेन काशिराज्ञ्ना सुप्रियो महासार्थवाहत्वेऽभिषिक्तः।
०६३.०१९. तेन सार्थवाहभूतेन इयमेवम्रूपा महाप्रतिज्ञ्ना कृता -- सर्वत्त्वा मया धनेन संतर्पयितव्याः।
०६३.०२०. अल्पं च देयं बहवश्च याचकाः।
०६३.०२०. ततोऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्।
०६३.०२१. अथ सुप्रियो महासार्थवाहः संलक्षयति -- अल्पं च देयं बहवश्च याचकाः।
०६३.०२२. ततोऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्।
०६३.०२२. यन्न्वहं सामुद्रं यानपात्रं समुदानीय महासमुद्रमवतरेयं धनहारिकः।
०६३.०२३. ततः सुप्रियो महासार्थवाहः सामुद्रयानपात्रं समुदानीय पञ्चमात्रैर्वणिक्शतैः सार्धं महासमुद्रमवतीर्णः।
०६३.०२४. ततोऽनुपूर्वेण रत्नद्वीपं गत्वा रत्नसंग्रहं कृत्वा स्वस्तिक्षेमाभ्यां महासमुद्रादुत्तीर्य स्थलजैर्वहित्रैर्भाण्डमारोप्य वाराणस्यभिमुखः संप्रस्थितः।
०६३.०२६. अटवीकान्तारमध्यगतश्चौरसहस्रेणासादितः।
०६३.०२६. ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः।
०६३.०२७. सुप्रियेण च सर्वाहेनावलोक्याभिहिताह्-- किमेतद्भवन्तः समारब्धम्? चौराः कथयन्ति -- सार्थवाह, त्वमेकः स्वस्तिक्षेमाभ्यां गच्छ, अवशिष्टं सार्थं भुषिष्यामः।
०६३.०२८. सार्थवाहः कथयति ममैष भवन्तः सार्थः संनिश्रितः।
०६३.०२९. नार्हन्ति भवन्तो मुषितुम् । एवमुक्ताश्चौराः कथयन्ति -- वयं स्मः सार्थवाहचौरा अटवीचराः।
०६३.०३०. नास्माकं कृषिर्न वाणिज्या न गौरक्ष्यम्।
०६३.०३०. अनेन वयं जीविकां कल्पयामः।
०६३.०३१. तेषां सुप्रियः सार्थवाहः कथयति -- सार्थस्य मूल्यं भवन्तो गण्यताम्।
०६३.०३२. अहमेषामर्थे मूल्यं दास्यामीति।
०६३.०३२. ततस्ते वणिजः परस्परं मूल्यं गणयित्वा चौराणां निवेदयन्ति<६४> -- इयन्ति शतानि सहस्राणि चेति।

०६४.००१. ततः सुप्रियेण सार्थवाहेन भाण्डनिष्क्रयार्थे स्वं द्रव्यमनुप्रदत्तम्।
०६४.००२. चौरसकाशात्सार्थः परित्रातः।
०६४.००२. एवं द्विस्त्रिश्चतुःपन्ञ्चषड्वारांस्तस्यैव चौरसहस्रस्य सकाशात्सुप्रियेण सार्थवाहेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्।
०६४.००३. यावत्सप्तं तु वारं सुप्रियः सार्थवाहो महासमुद्रमवतीर्णः।
०६४.००४. ततः संसिद्धयानपात्रोऽभ्यागतोऽटवीकान्तारमध्यगतस्तेनैव चौरसहस्रेणासादितः।
०६४.००५. ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः।
०६४.००६. सुप्रियेण च सार्थवाहेनावलोक्याभिहिताह्-- सुप्रियोऽहं भवन्तः सार्थवाहः।
०६४.००६. चौराः कथयन्ति -- जानास्येव महासार्थवाह वयं चौरा अटवीचराः।
०६४.००७. नास्माकं कृषिर्न वाणिज्यं न गौरक्ष्यम्।
०६४.००८. अनेन वयं जीविकां कल्पयामः।
०६४.००८. ततः सुप्रियेण सार्थवाहेन पूर्विकां प्रतिज्ञ्नामनुस्मृत्य दृढप्रतिज्ञ्नेन तस्य चौरसहस्रस्य भाण्डमनुप्रदत्तम्।
०६४.००९. सुप्रियो महासार्थवाहः संलक्षयति -- इमे चौरा लब्धं लब्धमर्थजातसंनिचयं कुर्वन्ति।
०६४.०१०. मया च महती प्रतिज्ञ्ना कृता सर्वसत्त्वा धनेन मया संतर्पयितव्या इति।
०६४.०११. सोऽहमिमं चौरसहस्रं न शक्नोमि धनेन संतर्पयितुम्।
०६४.०११. कथं पुनः सर्वसत्त्वान् धनेन संतर्पयिष्यामीति चिन्तापरो मिद्धमवक्रान्तः॥
०६४.०१३. अथ तस्य महात्मन उदारपुण्यमहेशाख्यस्योदारचेतसोपपन्नस्य सर्वसत्त्वमनोरथपरिपूरकस्य लोकहितार्थमभ्युद्गतस्य अन्यतरा महेशाख्या देवता उपसंक्रम्य समाश्वासयति -- मा त्वं सार्थवाह खेदमापद्यस्व्
०६४.०१५. ऋद्धिष्यति ते प्रणिधिरिति।
०६४.०१५. अस्ति खलु महासार्थवाह अस्मिन्नेव जम्बुद्वीपे बदरद्वीपो नाम महापत्तनोऽमनुष्यावचरितो महेशाख्यमनुष्याधिष्ठितः।
०६४.०१६. सन्ति तस्मिन् बदरद्वीपे प्रधानानि रत्नानि सर्वसत्त्वविचित्रमनोरथपरिपूरकाणि।
०६४.०१७. यदि महासार्थवाहो बदरद्वीपयात्रां साधयेत्, एवमिमां महतीं प्रतिज्ञ्नां प्रतिनिस्तरेत्
०६४.०१८. इयं हि महाप्रतिज्ञ्ना शक्रब्रह्मादीनामपि दुस्तरा, प्रगेव मनुष्यभूतस्य्
०६४.०१९. इत्युक्तवा सा देवता तत्रैवान्तर्हिता।
०६४.०१९. न च शकिता सुप्रियेण महासार्थवाहेन सा देवता प्रष्टुम् -- कतरस्यां दिशि बदरद्वीइपः कथं वा तत्र गम्यत इति।
०६४.०२१. अथ सुप्रियस्य सात्र्थवाहस्य सुप्तप्रतिबुद्धस्य एतदभवत्-- अहो बत मे सा देवता पुनरपि दर्शयेत्, दिशं चोपायं च व्यपदिशेद्बदरद्वीपमहापत्तनस्य गमनायेति चिन्तापरो मिद्धमवक्रान्तः।
०६४.०२३. अथ सा देवता तस्य महात्मन उदारपुण्यमहेशाख्यस्य दृढोदारप्रतिज्ञ्नस्योदारवीर्यपराक्रमनामनिक्षिप्तोत्साहतां विदित्वा उपसंक्रम्य एवमाह -- मा त्वं सार्थवाह खेदमापद्यस्व्
०६४.०२५. अस्ति खलु महासार्थवाह पश्चिमे दिग्भागे पन्ञ्चान्तरद्वीपशतानि समतिक्रम्य सप्त महापर्वताः, उच्चैश्च प्रगृहीताश्च सप्त च महानद्यः।
०६४.०२६. तान् वीर्यबलेन लङ्घयित्वा अन्तरोद्दानमनुलोमप्रतिलोमद्वयमावर्तः शङ्खनाभः शङ्खनाभी च नीलोदस्तारकाक्षश्च पर्वतौ नीलग्रीव एव च वैरम्भा ताम्राटवी वेम्णुगुल्मः सप्त पर्वताः सकण्टकाः क्षारनदी त्रिशङ्कुहयस्किलमष्टादशवक्रो नदीश्लक्ष्ण एव च धूमनेत्रमुदकं सप्तशीविषपर्वता नदी भवति पश्चिमा।
०६४.०२९. अनुलोमो प्रतिलोमो नाम महासमुद्रः।
०६४.०३०. अनुलोमप्रतिलोमे महासमुद्रे मनुष्यानवचरिते अनुलोमप्रतिलोमा वायवो वान्ति।
०६४.०३१. तत्र योऽसौ पुरुषो भवति महेशाख्यो महेशाख्यदेवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन महान्तं प्लवमास्थाय अनुलोमप्रतिलोममहासमुद्रमवतरति<६५>।

०६५.००१. स यन्मासेन गच्छति, तदेकेन दिवसेन प्रत्याह्रियत्
०६५.००१. एवं द्विस्त्रिः।
०६५.००१. ह्रियमाणश्च प्रत्याह्रियमाणश्च यदि मध्यमामुदकधारां प्रतिपद्यते, एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गम्योत्तरति, निस्तरति, अभिनिष्क्रमति।
०६५.००३. अनुलोमप्रतिलोमं महासमुद्रं समतिक्रम्य अनुलोमप्रतिलोमो नाम पर्वतः।
०६५.००४. अनुलोमप्रतिलोमे महापर्वतेऽमनुष्यावचरितेऽनुलोमप्रतिलोमा नाम वायवो वान्ति, यैः पुरुषस्तिमिरीकृतनेत्रो नष्टसंज्ञ्नः संतिष्ठत्
०६५.००५. स वीर्यबलेनात्मानं संधार्य तस्मादेव महापर्वतादमोघां नामौषधीं समन्विष्य गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनुलोमप्रतिलोमं नाम महापर्वतमभिनिष्क्रमितव्यम्।
०६५.००७. सचेदेतं विधिमनुतिष्ठते, नास्य संमोहो भवति, स्वस्तिक्षेमेणातिक्रमत्यनुलोमप्रतिलोमं महापर्वतम्।
०६५.००८. सचेदेवं विधिं वा नानुतिष्ठति औषधीं वा न लभते, लब्ध्वा वा न गृह्णाति, स षण्मासान्मुह्यति, उन्मादमपि प्राप्नोति, उच्छ्रित्य वा कालं करोति।
०६५.०१०. अनुलोमप्रतिलोमं महापर्वतं समतिक्रम्य आवर्तो नाम महासमुद्रः।
०६५.०११. तत्र वैरम्भका वायवो वान्ति यैस्तदुदकं भ्राम्यत्
०६५.०११. तत्र योऽसौ पुरुषो भवत्युदारपुण्यविपाकमहेशाख्यो देवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन कायबलेन महान्तं प्लवमास्थाय आवर्तं महासमुद्रमवरति।
०६५.०१३. स एकस्मिन्नावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यत्
०६५.०१४. योजनं गत्वा द्वितीये आवर्ते उन्मज्जत्
०६५.०१५. स तस्मिन्नप्यावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यत्
०६५.०१५. एवं द्वितीये तृतीये चतुर्थे पन्ञ्चमे षष्ठे आवर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते, योजनं गत्वा उन्मज्जत्
०६५.०१६. एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गत उत्तरति निस्तरत्यभिनिष्क्रामति।
०६५.०१७. आवर्तं महासमुद्रमभिनिष्क्रम्य आवर्तो नाम पर्वतोऽमनुष्यावचरितः।
०६५.०१८. तत्र शङ्खो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरो महाबलो महाकायः।
०६५.०१९. तस्योपरिष्टाद्योजनमात्रे शङ्खनाभी नामौषधी दिवा धूमायते रात्रौ प्रज्वलति।
०६५.०२०. सा नागपरिगृहीता तिष्ठति।
०६५.०२०. स खलु नागो दिवा स्वपिति रात्रौ चरति।
०६५.०२०. तत्र तेन पुरुषेण दिवा सुखसुप्तस्य नागस्य आत्मानं समनुरक्षता नागशरीरमविहेठयता औषधिबलेन मन्त्रबलेन पुण्यबलेन शङ्खनाभी औषधी ग्रहीतव्या।
०६५.०२२. गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य आवर्तः पर्वतोऽधिरोढव्यः।
०६५.०२३. सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमेणातिक्रामति आवर्तं पर्वतमविहेठितः शङ्खनाभेन राक्षसेन्
०६५.०२४. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं शङ्खनाभो राक्षसः पन्ञ्चत्वमापादयति।
०६५.०२५. आवर्तं पर्वतमतिक्रम्य नीलोदो नाम महासमुद्रः।
०६५.०२६. गम्भीरोऽयं गम्भीरावभासः।
०६५.०२६. नीलोदे महासमुद्रे ताराक्षो नाम राक्षसः प्रतिवसति रक्तनेत्रः प्रदीप्तशिरोरुहो विकृतचरणदशननयनः पर्वतायतकुक्षिः।
०६५.०२७. सचेत्स्वपिति, विवृतान्यस्य नेत्राणि भवन्ति, तद्यथा अचिरोदितो भास्करः।
०६५.०२८. औदारिकाश्चास्य आश्वासप्रश्वासा गुरुगुरुकाः प्रवर्तन्ते यथा मेघस्य गर्जतोऽशन्यां च स्फूर्जत्यां शब्दः।
०६५.०३०. यदा जागर्ति, निमीलितान्यस्य भवन्ति नेत्राणि।
०६५.०३०. तत्र तेन पुरुषेण तस्मादेव समुद्रकूलान्महामकरिनामौषधीं समन्विष्य गृह्य नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य महानतं प्लवमास्थाय सुप्तं ताराक्षं दकराक्षसं विदित्वा पूर्वबुद्धभाषितामेरण्डां नाम महाविद्यामुच्चारयता <६६>मन्त्रपदां दकराक्षससमीपेन गन्तव्यम्

०६६.००१. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं ताराक्षो दकराक्षस ओजं वा घट्टयति, चित्तं वा क्षिपति, सर्वेण वा सर्वं जीविताद्व्यपरोपयति।
०६६.००३. नीलोदं महासमुद्रं समतिक्रम्य नीलोदो नाम महापर्वतः।
०६६.००३. तत्र नीलग्रीवो नाम राक्षसः प्रतिवसति पन्ञ्चशतपरिवार उग्रतेजा रौद्रः परप्राणहरः।
०६६.००४. नीलोदो महापर्वत एकनीलोऽखण्डोऽच्छिद्रोऽसुषिरः संवृत एकघनः।
०६६.००५. अपीदानीमनिमिषं पश्यतो नेत्राणि व्याबाधयते, मूर्च्छां च संजनयति।
०६६.००६. तस्योपरिष्टाद्योजनमात्रेऽमोघा नामौषधी विचित्ररूपा।
०६६.००७. सा नागपरिगृहीता तिष्ठति।
०६६.००७. स खलु नागो दृष्टिविषोऽपि श्वासविषोऽपि स्पर्शविषोऽपि दंष्ट्राविषोऽपि।
०६६.००८. यदा स्वपिति, तदा धूमायत्
०६६.००८. यः खलु तेन धूमेन मृगो वा पक्षी वा स्पृश्यते, स पन्ञ्चत्वमापद्यत्
०६६.००९. तत्र तेन पुरुषेण शिरःस्नातेनोपोषितेन मैत्रायता करुणायता अव्यापन्नेन चित्तेनात्मानं समनुरक्षता नागशरीरमविहेठयता औषधी ग्रहीतव्या।
०६६.०१०. नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनेन विधिना जानतानुष्ठितेन नीलोदः पर्वतोऽभिरोढव्यः।
०६६.०११. तिमिरं न भविष्यति, मूर्च्छा च न भविष्यति।
०६६.०१२. न चास्य गुह्यकाः शरीरे प्रहरिष्यन्ति।
०६६.०१२. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं नीलग्रीवो राक्षसः पन्ञ्चत्वमापादयिष्यति।
०६६.०१४. नीलोदं पर्वतं समतिक्रम्य वैरम्भो नाम महासमुद्रः।
०६६.०१४. वैरम्भे महासमुद्रे वैरम्भा नाम वायवो वान्ति यैस्तदुदकं क्षोभ्यते, यत्रागतिर्मकरकच्छपवल्लकशिशुमारादीनां प्रेतपिशाचकुम्भाण्डकटपूतनादीनां कः पुनर्वादो मनुष्याणाम्।
०६६.०१६. तमुत्सृज्य उत्तरेण वैरम्भस्य महासमुद्रस्य महती ताम्राटवी अनेकयोजनायामविस्तारा।
०६६.०१७. तस्यास्ताम्राटव्या मध्ये महत्सालवनं महच्चोदपानम्।
०६६.०१८. तत्र ताम्राक्षो नाम अजगरः प्रतिवसति रौद्रः परप्राणहरः परमदुर्गन्धः पन्ञ्चयोजनायामः।
०६६.०१९. स षण्मासान् स्वपिति।
०६६.०१९. यदा स्वपिति, तदा अस्य योजनं सामन्तकेन लालास्य स्फरित्वा।
०६६.०२०. तिष्ठति, यदा जागर्ति, अल्पास्य लाला भवति।
०६६.०२०. तस्योपरिष्टान्महान् वेणुगुल्मः।
०६६.०२१. तस्मिन् वेणुगुल्मे महत्यश्मशिला।
०६६.०२१. तां विर्यबलेन उत्पाट्य गुहा।
०६६.०२१. तस्यां गुहायां संमोहनी नामौषधी।
०६६.०२२. सा रात्रिंदिवसं प्रज्वलति।
०६६.०२२. तां गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य सुप्तं ताम्राक्षमजगरं विदित्वा औषधीबलेन मन्त्रबलेन वा अजगरभवनसमीपेन गन्तव्यम्।
०६६.०२४. सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमाभ्यामतिक्रम्य अविहेठितस्ताम्राक्षेणाजगरेण ततः पश्चान्मूलफलानि भक्षयता गन्तव्यम्।
०६६.०२५. महतीं ताम्राटवीमतिक्रम्य सप्त पर्वताः कण्टकवेणुप्रतिच्छन्नाः।
०६६.०२६. तत्र तेन पुरुषेण ताम्रपट्टैः पादौ बद्ध्वा तान् पर्वतान् वीर्यबलेन लङ्घयित्वा सप्त क्षारनद्यः।
०६६.०२७. तासां तीरे महाशाल्मलीवनम्।
०६६.०२७. ततः शाल्मलीफलकैः प्लवं बद्ध्वा अभिरुह्यातिक्रमितव्या अस्पृशता पानीयम्।
०६६.०२८. सचेत्स्पृशेत्, तदङ्गं शीर्यत्
०६६.०२८. सप्त क्षारनदीः समतिक्रम्य त्रिशङ्कुर्नाम पर्वतः।
०६६.०२९. त्रिशङ्कौ पर्वते त्रिशङ्कवो नाम कण्टकास्तीक्ष्णाः सुतीक्ष्णाः।
०६६.०३०. ततस्तेन पुरुषेण ताम्रपट्टैर्वेत्रपाशैः पादौ बद्ध्वा अतिकरमितव्यम्।
०६६.०३०. त्रिशङ्कुपर्वतमतिक्रम्य त्रिशङ्कुर्नाम नदी।
०६६.०३१. त्रिशङ्कवो नाम कण्टकास्तीक्ष्णा अष्टादशाङ्गुला उदकेऽन्तर्गतास्तिष्ठन्ति।
०६६.०३१. तत्र तेन पुरुषेण शाल्मलीफलकैः प्लवं बद्ध्वा अतिक्रमितव्यमस्पृशता पानीयम्।
०६६.०३२. सचेत्पतति, <६७>तत्रैवानयेन व्यसनमापद्यत्

०६७.००१. यथा त्रिशङ्कुः पर्वतः, एवं त्रिशङ्कुका नाम नदी।
०६७.००१. एवमयस्किलः पर्वतोऽयस्किला नाम नदी।
०६७.००२. अयस्किलानदीमतिकर्म्य अष्टादशवक्रो नाम पर्वतः।
०६७.००३. उच्छ्रितश्च सर्वतः संवृतोऽद्वारकश्च्
०६७.००३. अस्य न किंचित्निस्तरणमन्यत्र वृक्षाग्राद्वृक्षमधिरुह्य गन्तव्यम्।
०६७.००४. अष्टादशवक्रं पर्वतमतिक्रम्य अष्टादशवक्रिका नाम नादी ग्राहमकराकुला संवृता च्
०६७.००५. तत्र वेत्रपाशं बद्ध्वा अतिक्रमितव्यम्।
०६७.००५. सचेत्पतति, अनयेन व्यसनमापद्यत्
०६७.००६. अष्टादशवक्रिकां नदीमतिक्रम्य श्लक्ष्णो नाम पर्वतः।
०६७.००६. श्लक्ष्णः पर्वतो मृदुरुच्छ्रितोऽद्वारकश्च्
०६७.००७. न चास्य किंचिन्निस्तरणम्।
०६७.००७. तत्रायस्कीलानां कोट्यातिक्रमितव्यम्।
०६७.००७. श्लक्ष्णं पर्वतमतिक्रम्य श्लक्ष्णा नाम नदी ग्राहमकराकुला।
०६७.००८. संवृता च सा नदी।
०६७.००८. तत्र वेत्रपाशान् बद्ध्वा अतिकरमितव्यम्।
०६७.००९. सचेत्पतति, अनयेन व्यसनमापद्यत्
०६७.००९. श्लक्ष्णां नदीमतिक्रम्य धूमनेत्रो नाम पर्वतो धूमायते संधूमायत्
०६७.०१०. येन खलु तेन धूमेन मृगा वा पक्षिणो वा स्पृश्यन्ते, पन्ञ्चत्वमापद्यन्त्
०६७.०११. धूमनेत्रः पर्वत उच्छ्रितो महाप्रपातोऽद्वारकश्च्
०६७.०११. तत्र तेन पुरुषेण गुहा पर्येषितव्या।
०६७.०१२. गुहां समन्विष्य तेनात्र गुहाद्वारमौषधिबलेन मन्त्रबलेन च मोक्तव्यम् ।
०६७.०१२. सा च खलु गुहा आशीविषपरिपूर्णा तिष्ठति।
०६७.०१३. ते खलु आशीविषा दृष्टिविषा अपि, स्पर्शविषा अपि।
०६७.०१४. धूमनेत्रस्य पर्वतस्योपरिष्टान्महदुदकपल्वलम्।
०६७.०१४. तस्मिन्नुदकपल्वले महत्यश्मशिला।
०६७.०१४. तां वीर्यबलेनओत्पाट्य गुहा।
०६७.०१५. तस्यां गुहायां संजीवनी नामौषधी ज्योतीरसश्च मणिर्दीपप्रभासः।
०६७.०१६. तामौषधीं गृहीत्वा सशीर्षपादं समालभ्य तां चौषधीं गृहीत्वा गुहा प्रवेष्टव्या।
०६७.०१६. औषधीबलेन मन्त्रबलेन औषधीप्रभावाच्चाशीविषाः काये न क्रमिष्यन्ति।
०६७.०१७. एवं हि तस्मात्पर्वतान्निस्तरणं भविष्यति।
०६७.०१८. धूमनेत्रपर्वतमतिक्रम्य सप्ताशीविषपर्वताः।
०६७.०१८. औषधीबलेन मन्त्रबलेन च सप्ताशीविषपर्वता अतिक्रमितव्याः।
०६७.०१९. सप्ताशीविषपर्वतानतिक्रम्य सप्तशीविषनद्यः।
०६७.०१९. तीक्ष्णगन्धा नाम तत्राशीविषाः।
०६७.०२०. तत्र तेन पुरुषेण मांसपेश्यन्वेषितव्या।
०६७.०२०. तासामाशीविषनदीनां तीरे शाल्मलीवनम्।
०६७.०२१. ततः शाल्मलीफलकैः प्लवं बद्ध्वा मांसपेश्या आत्मानमाच्छाद्य अधिरोढव्यम्।
०६७.०२२. ततस्ता आशीविषा मांसगन्धेन पारात्पारं गमिष्यन्ति।
०६७.०२२. सप्ताशीविषमतिक्रम्य महान् सुधावदातः पर्वतः, उच्चश्च प्रगृहीतश्च्
०६७.०२३. सोऽधिरोढव्यस्तत्र द्रक्ष्यसि महान्तं सौवर्णभूमिं पृथिवीप्रदेशं पुष्पफलच्छायावृक्षोपशोभितम्।
०६७.०२४. रोहितकाञ्जनपदानृद्धांश्च क्षेमांश्च सुभिक्षांश्च आकीर्णबहुजनमनुष्यांश्च्
०६७.०२५. रोहितकं च महानगरं द्वादशयोजनायामं सप्तयोजनविस्तृतं सप्तप्राकारपरिक्षिप्तं द्वाषष्टिद्वारोपशोभितं भवनशतसहस्रविराजितं सुविविक्तरथ्यावीथिचत्वरशृङ्गाटकान्तरापणम्।
०६७.०२७. वीणा वल्लिका महती सुघोषकैः श्रोत्राभिरामैश्च गीतध्वनिभिरनुपरतप्रयोगं नानापण्यसंवृद्धं नित्यप्रमुदितजनौघसंकुलं त्रिदशेन्द्रोपेन्द्रसदृशोद्यानसभापुष्करिणीसम्पन्नं कादम्बहंसकारण्डवचक्रवाकोपशोभिततडागं रोहितकं महाराजाध्युषितं महापुरुषवणिग्निसेवितम्।
०६७.०३०. यत्र मघः सार्थवाहः प्रतिवसति अभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो मेधावी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी द्वीपान्तरद्वीपगमनविधिज्ञ्नो महासमुद्रयानपात्रयायी<६८>।

०६८.००१. स ते बदरद्वीपमहापत्तनस्य प्रवृत्तिमाख्यास्यति, निमित्तानि, च दर्शयिष्यति।
०६८.००२. यथोक्तं च विधिमनुष्ठास्यसि, न च खेदमापत्स्यस्
०६८.००२. एवं महासार्थवाह परमदुष्करकारक इमां सुमेरुमलयमन्दरसदृशीं दृढां प्रतिज्ञ्नां निस्तरिष्यसि।
०६८.००३. इयं च महाप्रतिज्ञ्ना शक्रब्रह्मादीनामपि दुष्करा, प्रागेव मनुष्यभूतानाम्॥
०६८.००५. इत्युक्त्वा सा देवता तत्रैवान्तर्हिता।
०६८.००५. अथ सुप्रियः सार्थवाहः सुप्तप्रतिबुद्धो देवतावचनं श्रुत्वा परमविस्मयमापन्नश्चिन्तयति -- नूनमनया देवतया अनेकैरेवंविधैः परमदुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा भविष्यति।
०६८.००७. यदि तावत्साधिता, दुष्करकारिका इयं देवता।
०६८.००८. अथ साध्यमाना, दृष्टाः परमदुष्करकारकास्ते मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधिता।
०६८.००९. अतिदुष्करं चैतदस्माभिः करणीयम्।
०६८.००९. अथवा यद्यप्यहं लोकहितार्थे प्रतिपद्येयम्, सफलो मे परिश्रमः स्यात् ।
०६८.०१०. यथा अनेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनयात्रां सधयिष्यामि, परं लोकानुग्रहं करिष्यामि।
०६८.०११. तेऽपि मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा।
०६८.०१२. अहमपि मनुष्यः।
०६८.०१२. तैः साधिता।
०६८.०१२. कस्मादहं न साधयिष्यामीत्यनुविचिन्त्य सुप्रियो महासार्थवाहो दृढप्रतिज्ञ्नो दृढवीर्यपराक्रमोऽनिक्षिप्तोत्साह उदारपुण्यविपाकमहेशाख्यो।
०६८.०१४. लोकहितार्थमभ्युद्गतो यथोपदिष्टोद्देशस्मृतिपरिगृहीतो दृढप्रतिज्ञ्नां समनुस्मृत्य महता वीर्यबलेन एकाकी अद्वितीयव्यवसायो यथोपदिष्टानि पन्ञ्चान्तरद्वीपशतानि समतिक्रामति।
०६८.०१६. सप्त महापर्वतान्, सप्त महानद्यो विस्तरेण सर्वाणि संकटानि यथोक्तेन विधिना मूलकन्दफलाहारो गुणवति फलके बद्ध्वा परिपूर्णैर्द्वादशभिर्वर्षै रोहितकं महानगरमनुप्राप्तः।
०६८.०१८. उद्याने स्थित्वा अन्यतमं पुरुषमामन्त्रयते -- कश्चिद्भोः पुरुष अस्मिन् रोहितके महानगरे मघो नाम सार्थवाहः प्ररिवसति? स एवमाह -- अस्ति भोः पुरुष्
०६८.०१९. किं तर्हि महाव्याधिना ग्रस्तः।
०६८.०२०. स्थानमेतद्विद्यते यत्तेनैवाबाधेन कालं करिष्यतीति।
०६८.०२०. अथ सुप्रियस्य महासार्थवाहस्यैतदभवत्-- मा हैव मघो महासार्थवाहोऽदृष्ट एव कालं कुर्यात् ।
०६८.०२१. को मे व्यपदेशं करिष्यति तस्य बदरद्वीपमहापत्तनस्य गमनायेति विदित्वा त्वरितत्वरितं येन मघस्य सार्थवाहस्य निवेशनं तेनोपसंक्रान्तः।
०६८.०२३. स द्वारे निवार्यते, न लभते प्रवेशं महासार्थवाहदर्शनाय्
०६८.०२४. धर्मता खलु कुशला बोधिसत्त्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु।
०६८.०२४. ततो वैद्यसंज्ञ्नां घोषयित्वा प्रविष्टः।
०६८.०२५. अद्रक्षीत्सुप्रियो महासार्थवाहोऽरिष्टाध्यायेषु विदितवृत्तान्तह्-- मघः सार्थवाहः षड्भिर्मासैः कालं करिष्यतीति विदित्वा सुप्रियो महासार्तह्वाहोऽधीत्य वैद्यमतानि स्वयमेव मूलगण्डपत्रपुष्पफलभैषज्यान्यानुलोमिकानि व्यपदिशति स्म व्याधिव्युपशमार्थम्।
०६८.०२८. परं चैनं तोषयति चित्राक्षरव्यन्ञ्जनपदाभिधानैः, शास्त्रबद्धाभिः, कथाभिः, नानाश्रुतिमनोरथाख्यायिकाभिः संरन्ञ्जयति।
०६८.०२९. दाक्ष्यदाक्षिण्यचातुर्यमाधुर्योपेतमुपस्थानकर्मणि सत्पुत्र इव पितरं भक्त्या गौरवेण शुश्रूषत्
०६८.०३०. ततो मघस्य सार्थवाहस्य क्षेमणीयतरं चाभूद्यापनीयतरं च्
०६८.०३१. संज्ञ्ना अनेन प्रतिलब्धा।
०६८.०३१. अथ मघो महासार्थवाहः प्रतिलब्धसंज्ञ्नः सुप्रियं महासार्थवाहमिदमवोचत्-- कुतो भवाञ्ज्ञ्नानविज्ञ्नानसम्पन्नोऽभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो <६९>मेधावी पटुप्रचारः सर्वशास्त्रज्ञ्नः सर्वशास्त्रविशारदः सर्वकलाभिज्ञ्नः सर्वभूतरुतज्ञ्न इङ्गितज्ञ्न? किं जात्या भवान्? किंगोत्रह्? केन वा कारणेन अमनुष्यावचरितं देशमभ्यागतह्? एवमूक्तः सुप्रियः सार्थवाहः कथयति -- साधु साधु महासार्थवाह्

०६९.००३. कालेऽस्मि महासर्थवाहेन जातिकुलगोत्रागमनप्रयोजनं पृष्टः।
०६९.००४. अथ सुप्रियो महासार्थवाहो मघाय सार्थवाहाय जातिकुलगोत्रागमनप्रयोजनं विस्तरेणारोचयति स्म, परं चैनं विज्ञ्नापयति -- सार्वाहानुभावादहं बदरद्वीपमहापत्तनं पश्येयम्।
०६९.००६. एवमहं स्यात्परिपूर्णमनोरथो निस्तीर्णदृढप्रतिज्ञ्नः सर्वसत्त्वमनोरथपरिपूरकः।
०६९.००७. अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्याश्रुतपूर्वां परहितार्थमभ्युद्यतां दृढप्रतिज्ञ्नां श्रुत्वा परमविस्मयजातोऽनिमिषदृष्टिः सुचिरं निरीक्ष्य सुप्रियं महासार्थवाहमिदमवोचत्-- तरुणश्च भवान् धर्मकामश्च्
०६९.००९. आश्चर्यममानुषपराक्रमं ते पश्यामि, यो नाम भवाञ्जम्बुद्वीपादमनुष्यावचरितं पर्वतसमुद्रनद्योत्तरणं कृत्वा इहागतः, यत्रामनुष्याः प्रलयं गच्छन्ति, प्रागेव मनुष्याः।
०६९.०११. देवं तद्भवन्तं पश्यामि देवान्यतमं वा मनुष्यवेषधारिणम्।
०६९.०१२. न ते किंचिद्दुस्तरमसाध्यं वा।
०६९.०१२. अपि तु अहं महाव्याधिना ग्रस्तो मुमूर्षुः।
०६९.०१२. भवांश्चायातः।
०६९.०१३. अपि तु को भवतोऽर्थे परहितार्थेऽभ्युद्यतस्यात्मपरित्यागमपि न कुर्यात्? तेन हि वत्स क्षिप्रं मङ्गलपोतं समुदानय, संवरं चारोपय, यदावयोर्यात्रायनं भविष्यतीति।
०६९.०१४. एवं सार्थवाहेति सुप्रियो महासार्थवाहो मघाय महासार्थवाहाय प्रतिश्रुत्य मङ्गलपोतं समुदानीय संवरं चारोप्य येन मघो महासार्थवाहस्तेनओपसंक्रान्तः।
०६९.०१६. उपसंक्रम्य मघं सार्थवाहमिदमवोचत्-- देव समुदानीतो मङ्गलपोतः, संवरं चारोपितम्, यस्येदानीं महासार्थवाहः कालं मन्यत्
०६९.०१७. अथ मघो महासार्थवाहो वदरद्वीपमहापत्तनगमनकृतबुद्धिः स्वजनबन्धुवर्गपुत्रदारमित्रामात्यज्ञ्नातिसालोहितैः सभृत्यवर्गेण च रोहितकराज्ञ्ना च निवार्यमाणोऽपि गुणवति फलके बद्ध्वा आशु सुप्रियसार्थवाहसहायो मङ्गलपोतमभिरुह्य महासमुद्रमवतीर्णः।
०६९.०२०. अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्य कथयति -- अहं बाढग्लानो न शक्यामि स्थियो गन्तुम्।
०६९.०२१. तदर्हसि शय्यां कल्पयितुं यत्राहमपाश्रितो गमिष्यामीति।
०६९.०२२. अपि तु अस्मिन्महासमुद्रे यावदेवंविधानि निमित्तानि भवन्ति उदकस्य वर्णसंस्थानानि च मम निवेदयितव्यानि।
०६९.०२३. यथा अनेकानि योजनशतानि गत्वा अद्राक्षीत्सुप्रियो महासार्थवाह एकपाण्डरं पानीयम्।
०६९.०२४. दृष्ट्वा पुनर्मघाय सार्थवहायारोचयति -- यत्खलु महासार्थवाह जानीयाः, एकपाण्डरं पानीयं पश्यामि।
०६९.०२५. एवमुक्ते मघः सार्थवाहः कथयति -- नैतन्महासार्थवाह एकपाण्डरं पानीयम्।
०६९.०२६. अपि तु पश्यसि त्वं दक्षिणकेन महत्सुधापर्वतं यदिदं तस्यैतदनुभावेन पानीयं रन्ञ्जितम्।
०६९.०२७. यत्रैकविंशतिधातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैडूर्यान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्त्
०६९.०२९. इदं बदरद्वीपमहापत्तनस्य प्रथमनिमित्तम्।
०६९.०२९. पुनरपि गच्छन् पश्यति सुप्रियो महासार्थवाहः शस्त्रवर्णं पानीयम्।
०६९.०३०. दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति -- यत्खलु महासार्थवाह जानीयाह्-- शस्त्रवर्णं पानीयं दृश्यत्
०६९.०३१. मघः सार्थवाहः कथयति -- नैतच्छस्त्रवण पानीयम्।
०६९.०३२. पश्यसि त्वं दक्षिणकेण महच्छस्त्रपर्वतम्।
०६९.०३२. तस्यैतदनुभावेन पानीयं रन्ञ्जितम्।

०७०.००१. <७०>अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्त्
०७०.००२. इदं बदरद्वीपमहापत्तनस्य द्वितीयं निमित्तम्।
०७०.००३. एवं लोहपर्वतास्ताम्रपर्वता रूप्यपर्वताः सुवर्णपर्वताः स्फटिकपर्वता वैदूर्यपर्वताः।
०७०.००४. अद्राक्षीत्सुप्रियो महासार्थवाहो नीलपीतलोहितावदातं पानीयम्, अन्तर्जले च दीपार्चिषः पश्यति दीप्यमानाः।
०७०.००५. दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति -- यत्खलु महासार्थवाह जानीयाह्-- नीलपीतलोहितावदातं पानीयं दृश्यते, अन्तर्जले च दीपार्चिषो दीप्यमानाः।
०७०.००७. एवेमुक्ते मघो महासार्थवाहः कथयति -- नैतन्महासार्थवाह नीलपीतलोहितावदातं पानीयम्, नाप्येते दीपा इव दीप्यन्त्
०७०.००८. पश्यसि त्वं दक्षिणकेन चतूरत्नमयं पर्वतम्।
०७०.००९. तस्यैतदनुभावेन पानीयं रन्ञ्जितम्।
०७०.००९. येऽप्येते दीपा इव दीप्यन्ते, एतेऽन्तर्गता औषध्यो दीप्यन्त्
०७०.०१०. अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यत्रैके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्त्
०७०.०११. इदं बदरद्वीपमहापत्तनस्य दशमं निमित्तम्।
०७०.०१२. अपि तु महासार्थवाह इयन्त्येवाहं बदरद्वीपमहापत्तनस्य दश निमित्तानि जाने गमनं प्रति, अतः परेण न जान्
०७०.०१३. एवमुक्ते सुप्रियो महासार्थवाहः कथयति -- कदा बदरद्वीपमहापत्तनस्य गमनायान्तो भविष्यति? एवमुक्ते मघः सार्थवाहः कथयति -- मयापि सुप्रिय बदरद्वीपमहापत्तनं कार्त्स्येन न दृष्टम्।
०७०.०१५. अपि तु मया श्रुतं पौराणानां महासार्थवाहानामन्तिकाज्जीर्णानां वृद्धानां महल्लकानाम् -- इतो जलमपहाय पश्चिमां दिशं स्थलेन गम्यत्
०७०.०१७. तेन चैवमभिहितम्, मरणान्तिकाश्चास्य वेदनाः प्रादुर्भूताः।
०७०.०१७. ततः सुप्रियाय महासार्थवाहाय कथयति -- मरणान्तिका मे वेदनाः प्रादुर्भूताः।
०७०.०१८. एतत्त्वं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बद्ध्वा मच्छरीरे शरीरपूजां कुरुष्व्
०७०.०१९. ततः सुप्रियो महासार्थवाहस्तं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बध्नाति।
०७०.०२०. अत्रान्तरे मघो महासार्थवाहः कालगतः।
०७०.०२१. अथ सुप्रियो महासार्थवाहो मघं सार्थवाहं कालगतं विदित्वा स्थले उत्थाप्य शरीरे शरीरपूजं कृत्वा चिन्तयति -- मङ्गलपोतमारुह्य यास्यामीति।
०७०.०२२. स च पोतो वायुना वेत्रपाशं छित्त्वा अपहृतः।
०७०.०२३. ततः सुप्रियो महासार्थवाहश्चतूरत्नमयस्य पर्वतस्य दक्षिणेन पार्श्वेनाटव्यां स्थलेन संप्रस्थितो मूलफलानि भक्षयमाणः।
०७०.०२४. अनेकानि योजनानि गत्वा अद्राक्षीत्श्लक्ष्णं पर्वतमनुपूर्वप्रवणमनुपूर्वप्राग्भारम्।
०७०.०२५. न शक्यतेऽभिरोढुम्।
०७०.०२५. ततः सुप्रियो महासार्थवाहो मधुना पादौ प्रलिप्याभिरूढश्च, अवतीर्णश्च, अनेकानि योजनानि गत्वा मूलफलाहारो गतः।
०७०.०२७. स तत्र पश्यति महान्तं पर्वतमुच्चं च प्रगृहीतं च्
०७०.०२७. निःसरणं पर्येषमाणो न लभते, न चास्य कश्चिन्निःसरणव्यपदेष्टा।
०७०.०२८. ततश्चिन्तापरः शयितः।
०७०.०२८. तत्र च पर्वते नीलादो नाम यक्षः प्रतिवसति।
०७०.०२९. स संलक्षयति -- अयं बोधिसत्त्वो लोकहितार्थमुद्यतः परिक्लिश्यते, यन्न्वहमस्य साहाय्यं कल्पयेयम्।
०७०.०३०. इदमनुचिन्त्य सुप्रियं महासार्थवाहमिदमवोचत्-- इतो महासार्थवाह पूर्वेण योजनं गत्वा त्रीणि पर्वतशृङ्गाण्यनुपूर्वनिंनान्यनुपूर्वप्रवणान्यनुपूर्वप्राग्भाराणि।
०७०.०३२. तत्र त्वया वेत्रशिटाम्(?) बद्ध्वा अतिक्रमितव्यम्।
०७०.०३२. अथ सुप्रियो महासार्थवाहः सुप्तप्रबुद्धो वेत्रशिटाम् <७१>बद्ध्वा तानि पर्वतशृङ्गाण्यतिक्रान्तः।

०७१.००१. भूयः संप्रस्थितोऽद्राक्षीत्सुप्रियो महासाथवाहः स्फटिकपर्वतं श्लक्ष्णं निरालम्बमगम्यं मनुष्यमात्रस्य्
०७१.००२. न चास्योपायं पश्यति तं पर्वतमभिरोहणायेति विदित्वा चिन्तापरोऽहोरात्रमवस्थितः।
०७१.००३. तस्मिंश्च पर्वते चन्द्रप्रभो नाम यक्षः प्रतिवसति।
०७१.००४. स चिन्तापरं सार्थवाहं विदित्वा लोकहितार्थमभ्युद्यतं महायानसम्प्रस्थितं प्रसन्नचित्तं चोपेत्याश्वासयति -- न खलु महासार्थवहेन विषादः करणीय इति।
०७१.००५. पूर्वेण क्रोशमात्रं गत्वा महच्चन्दनवनम्।
०७१.००६. तस्मिंश्च चन्दनवने महत्यश्मशिला।
०७१.००६. तां वीर्यबलेनोत्पाट्य गुहां द्रक्ष्यसि।
०७१.००७. तस्यां गुहायां प्रभास्वरा नामौषधी पन्ञ्चगुणोपेता।
०७१.००७. तया गृहीतया नास्य काये शस्त्रं क्रमिष्यति, अमनुष्याश्चावतारं न लप्स्यन्ते, बलं च वीर्यं च संजनयति, आलोकं च करोति।
०७१.००९. तेनालोकेन द्रक्ष्यसि चतूरत्नमयं सोपानम्।
०७१.००९. तेन सोपानेन स्फटिकपर्वतमतिक्रमितव्यम्।
०७१.०१०. स्फटिकपर्वतमतिक्रान्तस्य ते प्रभास्वरा औषध्यन्तर्धास्यति।
०७१.०१०. तत्र ते न शोचितव्यं न क्रन्दितव्यं न परिदेवितव्यम्।
०७१.०११. अथ चन्द्रप्रभो यक्षः सुप्रियं महासार्थवाहं समनुशास्य तत्रैवान्तर्हितः।
०७१.०१२. अथ सुप्रियो महासार्थवाहश्चन्द्रप्रभेण महायक्षेण समाश्वास्य आदेशितमार्गो यथोक्तेन विधिना स्फटिकपर्वतमतिक्रान्तः।
०७१.०१३. अतिक्रान्तस्य चास्य प्रभास्वरा औषध्यन्तर्हिता।
०७१.०१४. भूयः संप्रस्थितोऽद्राक्षीत्सुप्रियो महासार्थवाहः सौवर्णं महानगरमारामसम्पन्नं पुष्करिणीसम्पन्नम्।
०७१.०१५. ततः सुप्रियो महासार्थवाहो नगरद्वारं गतः।
०७१.०१५. यावद्बद्धं नगरं पश्यति।
०७१.०१६. दृष्ट्वा च पुनरुद्यानं गत्वा चिन्तयति -- यद्यप्यहं नगरमद्राक्षम्, तदपि शून्यम्।
०७१.०१७. कदा बदरद्वीपस्य महापत्तनस्यागमनायाध्वा भविष्यतीति विदित्वा शयितः।
०७१.०१७. अथ सा पूर्वदेवता सुप्रियं महासार्थवाहं दुर्मनसं विदित्वा रात्र्याः प्रत्यूषसमय उषसंक्रम्य समाश्वास्य उत्कर्षयति -- साधु साधु महासार्थवाह, निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि मनुष्यामनुष्यागम्यानि।
०७१.०२०. संप्राप्तोऽसि बदरद्वीपमहापत्तनं मनुष्यामनुष्यानवचरितं महेशाख्य पुरुषाध्युषितम्।
०७१.०२१. किं तर्हि न साम्प्रतमप्रमादः करणीयः।
०७१.०२१. इन्द्रियाणि च गोपयितव्यानि चक्षुरादीनि, कायगता स्मृतिर्भावयितव्या।
०७१.०२२. श्वोभूते नगरद्वारं त्रिकोटयितव्यम्।
०७१.०२२. ततश्चतस्रः किन्नरकन्या निर्गमिष्यन्ति अभिरूपा दर्शनीयाः प्रसादिकाश्चातुर्यमाधुर्यसम्पन्नाः सार्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाताः सर्वालंकारविभूषिता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञ्नाः।
०७१.०२५. तास्त्वामत्यर्थमुपलालयन्ति, एवं च वक्ष्यन्ति -- एतु महासार्थवाहः।
०७१.०२५. स्वागतं महासार्थवाह, अस्माकमस्वामिनीनां स्वामी भव, अपतिकानां पतिरलयनानां लयनोऽद्वीपानां द्वीपोऽत्राणानां त्राणोऽशरणानां शरणमपरायणानां परायणः।
०७१.०२७. इमानि च तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि, प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा -- मणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भमुसारगल्वो लोहितिका दक्षिणावर्ताः।
०७१.०२८. एतानि च ते रत्नानि।
०७१.०३०. त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व्
०७१.०३१. तत्र ते तासु मातृसंज्ञ्ना उपस्थापयितव्या, भगिनीसंज्ञ्ना दुहितृसंज्ञ्ना उपस्थापयितव्या।
०७१.०३२. दशाकुशलाः कर्मपथा विगर्हितव्याः, दश कुशलाः कर्मपथाः संवर्णयितव्याः।
०७१.०३२. सुबह्वपि ते <७२>प्रलोभ्यमानेन रागसंज्ञ्ना नोत्पादयितव्या।

०७२.००१. सचेदुत्पादयिष्यसि तत्रैवानयेन व्यसनमापत्स्यस्
०७२.००२. सूपस्थितस्मृतेस्तव सफलः श्रमो भविष्यति।
०७२.००२. यद्यपि ते सुभाषितस्यार्घमणिं प्रयच्छेयुः, ततस्त्वया निपुणं प्रष्टव्याह्-- अस्य रत्नस्य भगिन्यः कोऽनुभाव इति।
०७२.००३. एवं द्वितीयं किन्नरनगरमनुप्राप्तस्याष्टौ किन्नरकन्या निर्गमिष्यन्ति, तासां पूर्विकानामन्तिकादभिरूपतराश्च्
०७२.००५. तत्रापि ते एषानुपूर्वी करणीया।
०७२.००५. यावच्चतुर्थकिन्नरनगरप्राप्तस्य ते द्वात्रिंशत्किन्नरकन्या निर्गमिष्यन्ति तासां पूर्विकानामन्तिकादभिरूपतराश्च दर्शनीयतराश्च प्रासादिकतराश्चाप्सरसह्-- प्रतिस्पर्धिन्यः।
०७२.००७. शतसहस्रशोभिता भविष्यन्ति।
०७२.००७. तत्रापि ते एषैवानुपूर्वी करणीया।
०७२.००७. इत्युक्त्वा सा देवता तत्रैवान्तर्हिता॥
०७२.००९. अथ सुप्रियो महासार्थवाहः प्रमुदितमनाः सुखप्रतिबुद्धः काल्यमेवोऽत्थाय सौवर्णं किन्नरनगरमनुप्राप्तः।
०७२.०१०. द्वारमूलमुपसंक्रम्य त्रिकोटयति।
०७२.०१०. ततः सुप्रियेण महासार्थवाहेन त्रिकोटिते द्वारे चतस्रः किन्नरकन्या निर्गता अभिरूपा दर्शनीयाः प्रासादिकाश्चातुर्यमाधुर्यसम्पन्नाः सर्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञ्नाः।
०७२.०१३. ता एवमाहुह्-- एतु महासार्थवाहः।
०७२.०१३. स्वागतं महासार्थवाह्
०७२.०१३. अस्माकमस्वामिनीनां स्वामी भव, अपतीनां पतिरलयनानां लयनोऽद्वीपानां द्वीपोऽशरणानां शरणोऽत्राणानां त्राणोऽपरायणानां परायणः।
०७२.०१५. इमानि च तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि च्
०७२.०१६. जाम्बुद्वीपकानि रत्नानि, तद्यथामणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताहेतानि च्
०७२.०१८. त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व्
०७२.०१८. अथ सुप्रियं महासार्थवाहं सूपस्थितस्मृतिं ताः किन्नरकन्याः सर्वाङ्गैरनुपरिगृह्य सौवर्णं किन्नरनगरं प्रवेश्य प्रासादमभिरोप्य प्रज्ञ्नप्त एवासने निषादयन्ति।
०७२.०२०. निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्।
०७२.०२२. तुष्टाश्च ताः किन्नरकन्याः कथयन्ति -- आश्चर्यं यत्रेदानीं दहरश्च भवान् धर्मकामश्च्
०७२.०२३. न च कामेषु सज्जसे वा बध्यसे वा।
०७२.०२३. प्रभूतैश्च रत्नैश्च प्रवारयन्ति।
०७२.०२३. धर्मदेशनावर्जिताश्च एकं सौभासिनिकं रत्नमनुप्रयच्छन्ति।
०७२.०२४. ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति -- अस्य रत्नस्य भगिन्यः कोऽनुभाव इति।
०७२.०२५. ताः कथयन्ति -- यत्खलु सार्थवाह जानीयाह्-- तदेव पोषधे पन्ञ्चदश्यां शिरःस्नात उपोषधोषित इदं मणिरत्नं ध्वजाग्रे आरोप्य योजनसहस्रं सामन्तकेन यो येनार्थी भवति हिरण्येन वा सुवर्णेन वा अन्नेन वा वस्त्रेण वा पानेन वा अलंकारविशेषेण वा द्विपादेन वा चतुष्पादेन वा यानेन वा वाहनेन वा धनेन वा धान्येन वा, स चित्तमुत्पादयतु, वाचं च निश्चारयतु।
०७२.०२९. सहचित्तोत्पादाद्वाग्निश्चारणेन यथेप्सिताश्चोपकरणविशेषा आकाशादवतरिष्यन्ति।
०७२.०३०. अयमस्य रत्नस्यानुभावः।
०७२.०३०. अथ सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत्प्रतिसंमोद्य सौवर्णात्किन्नरनगरात्प्रतिनिष्क्रान्तः।
०७२.०३२. अद्राक्षीत्सुप्रियो <७३>महासार्थवाहो रूप्यमयं किन्नरनगरमारामसम्पन्नं वनसम्पन्नं पुष्करिणीसम्पन्नम्।

०७३.००१. तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारेऽष्टौ किन्नरकन्या निर्गताः।
०७३.००२. ता अप्येवमाहुह्-- एतु महासार्थवाहः।
०७३.००३. स्वागतं महासार्थवाहाय्
०७३.००३. अस्माकमस्वामिकानां स्वामी भव, पूर्वद्यावत्ताभिरपि धर्मदेशनावर्जिताभिस्तद्विशिष्टतरं द्विसाहस्रयोजनवर्षकं मणिरत्नमनुप्रदत्तम्।
०७३.००४. तत्रापि सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया क्थया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत्प्रतिसंमोद्य रूप्यमयात्किन्नरनगरात्प्रतिनिष्क्रान्तो यावत्तृतीयं वैडूर्यमयं किन्नरनगरमनुप्राप्तः।
०७३.००७. तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारे षोडश किन्नरकन्या निर्गताः, तासां पूर्विकानामन्तिकादभिरूपतराश्च प्रासादिकतराश्च्
०७३.००८. ता अपि धर्मदेशनावर्जितास्तत एव विशिष्टतरं सौभासिनिकं त्रिसाहस्रयोजनिकं रत्नमनुप्रयच्छन्ति।
०७३.००९. ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति -- अस्य रत्नस्य भगिन्यः कोऽनुभाव इति? किन्नरकन्याः कथयन्ति -- पूर्ववत् ।
०७३.०११. सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत्प्रतिसंमोद्य तृतीयात्किन्नरनगरात्प्रतिनिष्क्रान्तः।
०७३.०१३. अद्राक्षीत्सुप्रियो महासार्थवाहश्चतुर्थं चतूरत्नमयं किन्नरनगरमारामोद्यानप्रासाददेवकुलपुष्करिणीतडागसुविभक्तरथ्यावीथीचत्वरशृङ्गाटकान्तरापणसुरचितगन्धोज्ज्वलं नानागीतवादितयुवतिमधुरस्वरवज्रवैडूर्यशातकुम्भमयप्राकारतोरणोपशोभितम्।
०७३.०१५. द्वारं त्रिराकोटयति।
०७३.०१५. ततः सुप्रियेण सार्थवाहेन त्रिराकोटिते द्वारे द्वात्रिंशत्किन्नरकन्या निर्गताः, तासां पूर्विकाणामन्तिकादभिरूपतराश्च दर्शनीयतराश्चाप्सरसःप्रतिस्पर्धिन्यः शतसहस्रशोभिताः।
०७३.०१७. ता अप्येवमाहुह्-- एतु महासार्थवाहः।
०७३.०१८. स्वागतं महासार्थवाहाय्
०७३.०१८. असमाकमस्वामिकानां स्वामी भव, अपतीनां पतिरलयनानां लयनोऽद्वीपानां द्वीपोऽशरणानां शरणोऽत्राणानां त्रणोऽपरायणानां परायणः।
०७३.०२०. इमानि च तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि।
०७३.०२१. प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा -- मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवालरजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः।
०७३.०२३. एतानि च ते वयं च्
०७३.०२३. अस्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व्
०७३.०२३. तत्रापि सुप्रियो महासार्थवाहः सूपस्थितस्मृतिस्ताः किन्नरकन्या विविधैर्धर्मपदव्यन्ञ्जनैः परितोषयामास्
०७३.०२५. तुष्टाश्च ताः किन्नरकन्याः सुप्रियं महासार्थवाहं सर्वाङ्गैरनुपरिगृह्य चतूरत्नमयं किन्नरनगरमनुप्रवेश्य प्रासादमभिरोप्य प्रज्ञ्नप्त एवासने निषादयन्ति।
०७३.०२६. निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्।
०७३.०२८. तुष्टाश्च ताः किन्नरकन्याः कथयन्ति -- आश्चर्यं यत्रेदानीं दहरश्च भवान् धर्मकामश्च्
०७३.०२९. न च कामेषु सज्जसे वा बध्यसे वा।
०७३.०२९. प्रभूतैश्च रत्नैः प्रवारयन्ति।
०७३.०३०. ता अपि धर्मदेशनावर्जिताः सौभासिनिकं जाम्बुद्वीपप्रधानमनर्घ्येयमूल्यमनन्तगुणप्रभावं बदरद्वीपमापत्तने सर्वस्वभूतं रत्नमनुप्रयच्छन्ति।
०७३.०३१. एवं च कथयन्ति -- इदमस्माकं महासार्थवाह मणिरत्नं बदरेण भ्रात्रा किन्नरराज्ञ्ना अनुप्रदत्तम्, अस्मिन् बदरद्वीपमहापत्तने <७४>चिह्नभूतमालक्ष्यभूतं मण्डनभूतं च्

०७४.००१. ततः सुप्रियो महासार्थवाहः कथयति -- अस्य रत्नस्य कोऽनुभाव इति? ताः कथयन्ति -- यत्खलु महासार्थवाह जानीयाह्-- इदं मणिरत्नं तदेव पोषधोषितो ध्वजाग्रे बद्ध्वा आरोप्य कृत्स्ने जम्बुद्वीपे घण्टावघोषणं करणीयम् -- शृण्वन्तु भवन्तो जम्बुद्वीपनिवासिनः स्तीमनुष्याः, युष्माकं यो येनर्थी उपकरणविशेषेण हिरण्येन वा सुबर्णेन वा रत्नेन वा अन्नेन वा पानेन वा वस्त्रेण वा भोजनेन वा अलंकारविशेषेण वा द्विपदेन वा चतुष्पदेन वा वाहनेन वा यानेन वा धनेन वा धान्येन वा स चित्तमुत्पादयतु, वचनं च निश्चारयतु।
०७४.००७. सहचित्तोत्पादाद्वाग्निश्चारणेन च यथेप्सिताश्चोपकरणविशेष अस्य रत्नस्यानुभावादाकाशादवतरिष्यन्ति।
०७४.००८. अयं तु प्रतिविशेषह्-- यानि चास्य लोकस्य भवन्ति महाभयानि, तद्यथा -- राजतो वा चैरतो वा अग्नितो वा उदको वा मनुष्यतो वा अमिष्यतो वा सिंहतो वा व्याघ्रतो वा द्वीपतरक्षुतो वा यक्ष्यराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनतो वा, ईतयोपद्रवो वा, उपसर्गो वा, अनावृष्टिर्वा दुर्भिक्षभयानि वा, अस्मिन्नुच्छ्रिते रत्नविशेषे इम ईरयोपद्रवा न भविष्यन्ति।
०७४.०१२. इर्युक्त्वा ताः किन्नरकन्याः सुप्रियं महासार्थवाहं संराधयामासुह्--- साधु साधु महासार्थवाह, निस्तीर्णानि महासमुद्रपर्वतनदीकान्ताराणि।
०७४.०१३. पूरिता ते दृढसुप्रतिज्ञा।
०७४.०१४. सफलीकृता ते श्रद्धा।
०७४.०१४. ते गोपितानीन्द्रियाणि।
०७४.०१४. साधिता बदरद्वीपमहापत्तनयात्रा।
०७४.०१५. अधिगतं ते सर्वजनमनोरथसम्पादकं जम्बुद्वीपप्रधानं रत्नविशेषम्।
०७४.०१५. अपि तु येन त्वं पथेनागतः, अमनुष्यास्तावत्, प्रलयं गच्छेयुः प्रागेव मनुष्याः।
०७४.०१६. अन्यदेव वयं सन्मार्गं व्यपदेक्ष्यामः क्षिप्रं वाराणसीगमनाय्
०७४.०१७. तच्छृणु, मनसि कुरु, भाषिष्यामह्-- इतः पश्चिमे दिग्भागे सप्त प्रतानतिक्रम्य महापर्वत उच्चः।
०७४.०१८. तस्मिन् पर्वते लोहिताक्षो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरः।
०७४.०१९. स च पर्वतोऽमनुष्यवचरितः कृष्णमन्धकारं सविस्फुलिङ्गं वायुं मोक्षयति।
०७४.०२०. तत्र ते एतदेव रत्नं ध्वजाग्रेऽवरोपयित्वा गन्तव्यम्।
०७४.०२०. रत्नप्रभावाच्च ते ईतयो विलयं गमिष्यन्ति।
०७४.०२१. महापर्वतमतिक्रम्य अपरपर्वतः।
०७४.०२१. तस्मिन् पर्वतेऽग्निमुखो नागः प्रतिवसति।
०७४.०२२. स तव गन्धमाघ्राय सप्त रात्रिंदिवसान्यशनिं पातयिष्यति।
०७४.०२२. तत्र रत्नगुहां समन्विष्य प्रवेष्टव्यम्।
०७४.०२३. सप्तरात्रस्य चात्ययाद्दुष्टनागः स्वपिष्यति।
०७४.०२३. शयिते दिष्टनागे पर्वतमधिरोढव्यम्।
०७४.०२३. तत्र द्रक्ष्यसि समं भूमिप्रदेशमकृष्टोप्तं च तण्डुलफलशालिमकणकमतुषं शुचिं निष्फुटिगन्धिकं चतुरङ्गुलपर्यवनद्धम्।
०७४.०२५. यस्तमष्टम्यां पन्ञ्चदश्यां वा बालाहोऽश्वराजः परिभुज्य सुखी अरोगो बलवान् प्रीणितेन्द्रियः पूर्वकायमभ्युन्नमय्योदानमुदानयति -- कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्रापयामि, स त्वयोपसंक्रम्य इदं स्याद्वचनीयम् -- अहं पारगामी, मां पारं नय, मां स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय्
०७४.०२८. अथ स सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृदुहितृवत्प्रतिसमोद्य यथोद्दिष्टेन मार्गेण यथोक्तेन विधिना अनुपूर्वेण तं भूमिप्रदेशमनुप्राप्तः।
०७४.०३०. स च बालाहोऽश्वराजश्चरन्नेवमाह -- कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्रापयामि? ततः सुप्रियो महासार्थवानो येन बालाहोऽश्वराजस्तेनोपसंक्रान्तः।

०७५.००१. <७४>उपसंक्रम्य एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन बालाहोऽश्वराजस्तेनान्ञ्जलिं प्रणम्य बालाहमश्वराजमिदवोचत्-- अहं पारगामी, अहं पारगामी, नय माम्।
०७५.००३. स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय्
०७५.००३. एवमुक्ते बालाहोऽश्वराजः सुप्रियं महासार्थवाहमिदमवोचत्-- न ते महासार्थवाह मम पृष्ठाधिरूढेन दिशो नावलोकयितव्याः, निमीलिताक्षेण ते स्थेयम्।
०७५.००५. इत्युक्त्वा बालाहोऽश्वराजः पृष्ठमुपनामयति।
०७५.००५. अथ सुप्रियो महासार्थवाहो बालाहस्याश्वराजस्य पृष्ठमधिरुह्य यथानुशिष्टोऽल्पैश्च क्षणलवमुहूर्तैर्वाराणसीमनुप्राप्तः।
०७५.००६. स्व उय्हानेऽवतरितः।
०७५.००७. अवतीर्य सुप्रियो महासार्थवाहो बालाहाश्वराजपृष्ठाद्बालाहाश्वराजं त्रिप्रदक्षिणीकृत्य पादाभिवन्दनं करोति।
०७५.००८. ततो बालाहोऽश्वराजः सुप्रियं महासार्थवाहं संराधयामास -- साधु साधु महासार्थवाह्
०७५.००९. निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि।
०७५.००९. पूरिता ते दृढप्रतिज्ञ्ना।
०७५.०१०. सफलीकृतस्तेऽध्वा।
०७५.०१०. गोपितानीन्द्रयाणि।
०७५.०१०. साधिता ते बदरद्वीपमहापत्तनयात्रा।
०७५.०१०. अधिगतस्ते सर्वजनमनोरथसम्पादको जम्बुद्वीपस्य प्रधानो रत्नविशेषः।
०७५.०११. एवं हि परहितार्थमभ्युद्यताः कुर्वन्ति सत्त्वविशेषाः।
०७५.०१२. इत्युक्त्वा बालाहोऽश्वराजः प्रक्रान्तः।
०७५.०१२. अथाचिरप्रक्रान्ते बालाहेऽश्वराजनि सुप्रियो महासार्थवाहः स्वगृहं प्रविष्टः।
०७५.०१३. अश्रौषुर्वाराणसीनिवासिनः पौरा ब्रह्मदत्तश्च काशिराजह्-- सुप्रियो महासार्थवाहः पूर्णेन वर्षशतेन संसिद्धयात्रः पूर्णमनोरथः स्वगृहमनुप्राप्त इति।
०७५.०१५. श्रुत्वा च पुनर्ब्रह्मदत्तः काशिराज आनन्दितः।
०७५.०१५. पौरवर्गः सुप्रियं सार्थवाहं संराधयामास्
०७५.०१६. अश्रौषीत्तत्पूर्वकं चौरसहस्रमन्यश्च जनो धनार्थी -- सुप्रियो महासार्थवाहः संसिद्धयात्रः परिपूर्णमनोरथ आगत इति।
०७५.०१७. स्रुत्वा च पुनरुपसंक्रम्य सुप्रियं महासार्थवाहमिदमवोचन् -- परिक्षीणधनाः स्म इति।
०७५.०१८. एवमुक्ते महासार्थवाहस्तान् सर्वान्मैत्रेण चक्षुषा व्यवलोक्य विज्ञ्नापयति -- गच्छतु भवन्तः स्वकस्वकेषु विजितेषु।
०७५.०१९. यो येनार्थी उपकरणविशेषेण भवति, स तस्यार्थे चित्तमुत्पादयतु, वाचं च निश्चारयतु।
०७५.०२०. श्रुत्वा च पुनः प्रक्रान्तः।
०७५.०२०. अथ सुप्रियो महासार्थवाहस्तदेव पोषधे पन्ञ्चदश्यां शिरःस्नात उपोषधोषितो यत्तत्प्रथमलब्धं मणिरत्नं ध्वजाग्रे आरोप्य वाचं च निश्चारयति, योजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्ते, सहाभिधानच्च यो येनार्थी तस्य तद्वर्षं भवति।
०७५.०२३. ततः परिपूर्णमनोरथास्ते सत्त्वाः।
०७५.०२४. तच्चौरसहस्रं सुप्रियेण महासार्थवाहेन दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः॥
०७५.०२५. अत्रान्तरात्कालगते ब्रह्मदत्ते काशिराजनि पौरामात्यैः सुप्रियो महासार्थवाहो राजाभिषेकेणाभिषिक्तः।
०७५.०२६. महाभिषिक्तेन सुप्रियेण महाराज्ञ्ना द्वितीयं मणिरत्नं ध्वजाग्रे आरोप्य पूर्वविधिना द्वीयोजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्तामिति सहाभिधानाच्च यो येनार्थी तस्य तद्वर्षति।
०७५.०२८. तृतीयेन मणिरत्नेन यथोक्तेन विधिना ध्वजाग्रोच्छ्रितेन यथेप्सितोपकरणविशेषवर्षणानि संपन्नानि।
०७५.०२९. एवं त्रियोजनसहस्रसामन्तकेनोपकरणैः स्त्रीमनुष्याः संतर्पिताः।
०७५.०३०. ततोऽनुपूर्वेण जम्बुद्वीपैश्वर्यभूतेन सुप्रियेण महाराज्ञ्ना तदेव पोषधे पन्ञ्चदश्यां शिरःस्नातेनोपोषधोषितेन कृत्स्ने जम्बुद्वीपे घण्टावघोषणं कृत्वा उपकरणोत्पन्नाभिलाषिणां स्त्रीमनुष्याणां जम्बुद्वीपनिवासिनां यन्मणिरत्नं बदरद्वीपमहापत्तनसर्वस्वभूतं यथेप्सितम् <७६>सर्वोपकरणवर्षिणं ध्वजाग्रे आरोपयामास्

०७६.००१. समनन्तरं ध्वजाग्रावरोपिते तस्मिञ्जम्बुद्वीपप्रधानमणिरत्ने कृत्स्नो जम्बुद्वीपनिवासी महाजनकायो यथेप्सितैरुपकरणविशेषैः संतर्पितः।
०७६.००३. उपकरणसंतर्पितश्च जम्बुद्वीपनिवासी जनकायः सुप्रियेण राज्ञ्ना दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः।
०७६.००४. ततो ज्येष्ठं कुमारं राज्यैश्वर्याधिपत्ये पर्तिष्ठाप्य राजर्षिब्रह्मचर्यं चरित्वा चतुरो ब्रह्मान् विहारान् भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारी ब्रह्मलोकसभागतायां चोपपन्नो महाब्रह्मा संवृत्तः॥
०७६.००७. भगवनाह -- किं मन्यध्वे भिक्षवो योऽसौ सुप्रियो नाम महासार्थवाहः, अहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तितवान्।
०७६.००८. यत्तच्चौरसहस्रम्, एतदेव भिक्षसहस्रम्।
०७६.००९. या सा पूर्वदेवता, काश्यपः सम्यक्सम्बुद्धो बोधिसत्त्वभूतः स तेन कालेन तेन समयेन्
०७६.०१०. यश्चासौ मघो महासार्थवाहः, एष एव शारिपुत्रो भुक्षुः स तेन का
लेन तेन समयेन्
०७६.०११. यश्चासौ नीलादो नाम महायक्षः, एष एवानन्दो भिक्षुस्तेन कालेन तेन समयेन्
०७६.०१२. यश्चासौ चन्द्रप्रभो यक्षः, एष एवानिरुद्धो भिक्षुः स तेन कालेन तेन समयेन्
०७६.०१२. यश्चासौ लोहिताक्षो नाम महायक्षः, स एष एव देवदत्तस्तेन कलेन तेन समयेन्
०७६.०१३. यश्चासौ अग्निमुखो नाम नागः, एष एव मारः पापीयान् स तेन कलेन तेन समयेन्
०७६.०१४. यश्चासौ बालाहोऽश्वराजः, मैत्रेयो बोद्धिसत्त्वस्तेन कालेन तेन समयेन्
०७६.०१५. तदा तावन्मया भिक्षवो दृढप्रतिज्ञ्नेन प्रतिज्ञ्नापूरणार्थं सप्तवारांश्चौरसहस्रात्सार्थः परित्रातः।
०७६.०१६. अपरितुष्टांश्च चौरान् विदित्वा दृढप्रतिज्ञ्ना कृता।
०७६.०१७. कृत्वा चानेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनस्य यात्रां साधयित्वा चौरसहस्रप्रमुखं कृत्स्नं जम्बुद्वीपं धनेन संतर्पयित्वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः।
०७६.०१९. इदानीमपि मया अनेकैर्दुष्करशतसहस्रैरनुत्तरं ज्ञ्नानमधिगम्य मैत्रायता करुणया सप्तकृत्वश्चौरसहस्रसकाशात्सार्थः परित्रातः।
०७६.०२०. अपरितुष्टं च चौरसहस्रं विदित्वा यावदाप्तं धनेन संतर्पयित्वा अत्यन्तनिष्ठेऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापिताः।
०७६.०२१. अनेकानि च देवमनुष्यशतसहस्राणि यक्षराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनकोटिशतसहस्राणि शरणगमनशिक्षापदेषु प्रतिष्ठापितानि॥
०७६.०२४. इदमवोचद्भगवान्।
०७६.०२४. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


०७६.०२५. इति श्रीदिव्यावदाने सुप्रियावदानमष्टमम्॥


                    • अवदान ९ **********


०७७.००१. दिव्९ मेन्धकग्र्हप्तिविभूतिपरिच्छेदः।

०७७.००२. श्रावस्त्यां निदानम्।
०७७.००२. तेन खलु समयेन भद्रंकरे नगरे षड्जना महापुण्याः प्रतिवसन्ति--मेण्ढको गृहपतिर्मेण्ढकपत्नी मेण्ढकपुत्रो मेण्ढकस्नुषा मेण्ढकदासो मेण्ढकदासी।
०७७.००४. कथं मेण्ढको गृहपतिर्ज्ञातो महापुण्यह्? स यदि रिक्तकानि कोशकोष्ठागाराणि पश्यति, सहदर्शनादेव पूर्यन्त्
०७७.००५. एवं मेण्ढको गृहपतिर्ज्ञातो महापुण्यः।
०७७.००५. कथं मेण्ढकपत्नी? सा एकस्यार्थाय स्थालिकां साधयति, शतानि सहस्राणि च भुञ्जत्
०७७.००६. एवं मेण्ढकपत्नी।
०७७.००६. कथं मेण्ढकपुत्रह्? तस्य पञ्चशतिको नकुलको कट्यां बद्धस्तिष्ठति।
०७७.००७. स यदि शतं सहस्रं वा परित्यजति, तदा पूर्ण एव तिष्ठति, न परिक्षीयत्
०७७.००८. एवं मेण्ढकपुत्रः।
०७७.००८. कथं मेण्ढकस्नुषा? सा एकस्यार्थाय गन्धं संपादयति, शतसहस्रस्य पर्याप्तिर्भवति।
०७७.००९. एवं मेण्ढकस्नुषा।
०७७.०१०. कथं मेण्ढकदासह्? स यदैकं हलसीरं कृषति, तदा सप्त सीराः कृष्टा भवन्ति।
०७७.०१०. एवं मेण्ढकदासः।
०७७.०१०. कथं मेण्ढकदासी महापुण्या? सा यदैकं वस्तु रक्षति, तत्सप्तगुणं स्यात् ।
०७७.०११. यदा एकमात्रं प्रतिजागर्ति, तदा सप्त मात्राः संपद्यन्त्
०७७.०१२. एवं मण्ढकदासी महापुण्या॥
०७७.०१३. धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रतिहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसस्य बुद्धचक्षुषा लोकं
व्यवलोक्य ज्ञानदर्शनं प्रवर्तते--को हीयते, को वर्धते, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, कोऽपायनिंनः, कोऽपायप्रवणः, कोऽपायप्राग्भारः, कमहमपायमार्गाद्व्युत्थाप्य स्वर्गफले मोक्षे च प्रतिष्ठापयेयम्, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्याम्,
कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयामि, कस्यानवरोपितानि कुशलमूलान्यवरोपयेयम्, कस्यावरोपितानि परिपाचयेयम्, कस्य पक्वानि विमोचयेयम्, कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर्विशोधयेयम्।
०७७.०२५. अप्येवातिक्रमेद्वेलां सागरो मकरालयः।
०७७.०२६. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत् ॥१॥
०७७.०२७. सर्वज्ञसंताननिवासिनी हि
०७७.०२८. कारुण्यधेनुर्मृगयत्यखिन्ना।
०७७.०२९. वैनेयवत्सान् भवदुर्गनष्टान्
०७७.०३०. वत्सान् प्रणष्टानिव वत्सला गौः॥२॥
०७७.०३१. भगवान् संलक्षयति--अयं मेण्ढको गृहपतिः सपरिवारो भद्रंकरे नगरे प्रतिवसति।
०७७.०३२. तस्य वैनेयकालं पक्वमिव गण्डं शस्त्राभिनिपातमवेक्षत्
०७७.०३२. यन्न्वहं भद्रंकरेषु जनपदेषु चारिकाम् <७८>चरेयम्।

०७८.००१. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, भिक्षूणामारोचय--तथागतो भिक्षवो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति।
०७८.००२. यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चर्तुम्, स चीवरकाणि प्रतिगृह्णातु इति।
०७८.००३. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--तथागत आयुष्मन्तो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति।
०७८.००५. यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चरितुम्, स चीवरकाणि प्रतिगृह्णातु इति।
०७८.००६. एवमायुष्मन्निति ते भिषव आयुष्मत आनन्दस्य प्रतिश्रुत्य पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति॥
०७८.००८. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारः, वृषभ इव गोगणपरिवृतः, सिंह इव दंष्ट्रगणपरिवारः, हंसराज इव हंसगणपरिवृतः, सुपर्ण इव पक्षिगणपरिवृतः, विप्र इव शिष्यगणपरिवृतः, सुवैद्य इवातुरगणपरिवृतः, शूर इव योधगणपरिवृतः, देशिक इवाध्वगणपरिवृतः, सार्थवाह इव वणिग्गणपरिवृतः, श्रेष्ठीव पौरजनपरिवृतः, कोट्टराज इव मन्त्रिय्गणपरिवृतः,
चक्रवर्तीव पुत्रसहस्रपरिवृतः, चन्द्र इव नक्षत्रगणपरिवृतः, सूर्य इव रश्मिसहस्रपरिवृतः, धृतराष्ट्र इव गन्धर्वगणपरिवृतः, विरूढक इव कुम्भाण्डगणपरिवृतो विरूपाक्ष इव नागगणपरिवृतः, धनद इव यक्षगणपरिवृतः, वेमचित्तिरिवासुरगणपरिवृतः, शक्र इव त्रिदशगणपरिवृतः, ब्रह्मेव ब्रह्मकायिकपरिवृतह्,
स्तिमित इव जलनिधिः, सजल इव जलनिधिः, विमद इव गजपतिः, सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैरशीत्यानुव्यञ्जनैर्विराजतगात्रो दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिः स्मृत्युपस्थानैर्महाकरुणया च्
०७८.०१९. एवमनेकगुणगणसमन्वागतो बुद्धो भगवाञ्जनपदचारिकया भद्रंकरं नगरं संप्रस्थितः।
०७८.०२०. यदा भगवता श्रावस्त्यां महाप्रातिहार्यं विदर्शितम्, निर्भर्त्सिता आनन्दिता देवमनुष्याः, तोषितानि सज्जनहृदयानि, तदा भग्नप्रभावास्तीर्थ्याः प्रत्यन्तान् संश्रिताः।
०७८.०२२. ततः केचिद्भद्रंकरं नगरं गत्वा अवस्थिताः।
०७८.०२३. तैः श्रुतं श्रमण गौतम आगच्छतीति।
०७८.०२३. श्रुत्वा च पुनर्व्यथितास्ते परस्परं कथयन्ति--पूर्वं तावद्वयं श्रमणेन गौतमेन मध्यदेशान्निर्वासिताः।
०७८.०२४. स यदीहागमिष्यति, नियतमितोऽपि निर्वासयिष्यति।
०७८.०२५. तदुपायसंविधानं कर्तव्यमिति।
०७८.०२५. ते कुलोपकरणशाला उपसंक्रम्य कथयन्ति--धर्मलाभो धर्मलाभः।
०७८.०२६. ते कथयन्ति--किमिदम्? अवलोकिता गमिष्यामः।
०७८.०२६. कस्यार्थाय? दृष्टा अस्माभिर्युष्माकं संपत्तिः, यावद्विपत्तिं न पश्यामः।
०७८.०२७. आर्यकाः, अस्माकं विपत्तिर्भविष्यति।
०७८.०२८. भवन्तः, श्रमणो गौतमः क्षुराशनिं पातयन्ननेका अपुत्रिका अपतिकाश्च कुर्वन्नागच्छति।
०७८.०२९. आर्याः, यद्येवम्, यस्मिन्नेव काले स्थातव्यं तस्मिन्नेव कालेऽस्माकं परित्यागस्त्रियत्
०७८.०३०. तिष्ठत, न गन्तव्यम्।
०७८.०३०. ते कथयन्ति--किं वयं न तिष्ठामह्? न यूयमस्माकं श्रोष्यथ्
०७८.०३०. आर्याः कथयत, श्रोष्यामः।
०७८.०३१. ते कथयन्ति--भद्रंकरसामन्तकेन सर्वजनकायमुद्वास्य भद्रंकरं नगरं प्रवासयत्
०७८.०३२. शाद्वलानि कृंषत्
०७८.०३२. स्थण्डिलानि पातयत्
०७८.०३२. पुष्पफलवृक्षं छेदयत्
०७८.०३२. पनीयानि <७९>विषेण दूषयत्

०७९.००१. ते कथयन्ति--आर्याः, तिष्ठत, सर्वमनुतिष्ठाम इति।
०७९.००१. तेऽवस्थिताः।
०७९.००१. ततस्तैर्भद्रंकरनगरसामन्तकेन सर्वो जनकाय उद्वास्य भद्रंकरं नगरं प्रवासितः, शाद्वलानि कृष्टानि, स्थण्डिलानि पातितानि, पुष्पफलवृक्षाश्छिन्नाः, पानीयानि विषदूषितानि।
०७९.००३. ततः शक्रो देवेन्द्रः संलक्षयति--न मम प्रतिरूपं यदहं भगवतोऽसत्कारमध्युपेक्षेयम्।
०७९.००४. येन नाम भगवता त्रिभिः कल्पासंख्येयैरनेकैर्दुष्करशतसहस्रैः षट्पारमिताः परिपूर्यानुत्तरज्ञानमधिगतम्, स नाम भगवान् सर्वलोकप्रतिविशिष्टः सर्ववादविजयी शून्ये जनपदे चारिकं चरिष्यति।
०७९.००७. यन्न्वहं भगवतः सश्रावकसंघस्य सुखस्पर्शार्थाय औत्सुक्यमापद्येयमिति।
०७९.००७. तेन वातबलाहकानां देवपुत्राणामाज्ञा दत्ता--गच्छत भद्रंकरनगरसामन्तकेन, विषपानीयानि शोषयत इति।
०७९.००९. वर्षबलाहकानां देवपुत्राणामाज्ञा दत्ता--आष्टाङ्गोपेतस्य पानीयस्यापूर्यतेति।
०७९.००९. चातुर्महाराजिका देवा उक्ताह्--यूयं भद्रंकराणां जनपदानां वासयतेति।
०७९.०१०. ततो वातबलाहकैर्देवपुत्रैर्विषदूषितानि पानीयानि {शोषितानि}, वर्षबलाहकैस्तान्येव कूपोदपानवापीसरस्तडागान्यष्टाङ्गोपेतस्य पानीयस्य पूरितानि।
०७९.०१२. चातुर्महाराजिकैर्देवैर्भद्रंकरनगरसामन्तकं सर्वमावासितम्।
०७९.०१२. जनपदा ऋद्धाः स्फीताः संवृत्ताः।
०७९.०१३. तीर्थ्यैर्नगरजनकायसमेतैरवचरकाः प्रेषिताह्--गत्वा पश्यत कीदृशा जनपदा इति।
०७९.०१४. ते गताः पश्यन्त्यतिशयेन जनपदानृद्धान् स्फीतान्।
०७९.०१४. तत आगत्य कथयन्ति--भवन्तः, न कदाचिदस्माभिरेवम्रूपा जनपदा ऋद्धाः स्फीता दृष्टपूर्वा इति।
०७९.०१५. तीर्थ्याः कथयन्ति--भवन्तः, वो यस्तावदचेतनान् भावानन्वावर्तयति, स युष्मान्नान्वावर्तयिष्यतीति? कुत एतत्? सर्वथा अवलोकिता भवन्तः, अपश्चिमं वो दर्शनम्, गच्छाम इति।
०७९.०१७. ते कथयन्ति--आर्याः, तिष्ठत, किं युष्माकं श्रमणो गौतमः करोति? सोऽपि प्रव्रजितः, यूयमपि प्रव्रजिता भिक्षाचराः।
०७९.०१९. किमसौ युष्माकं भिक्षां चरिष्यतीति? तीर्थ्याः कथयन्ति--समयेन तिष्ठामो यदि यूयं क्रियाकारं कुरुत--न केनचिच्छ्रमणं गौतमं दर्शनायोपसंक्रमितव्यम्।
०७९.०२०. य उपसंक्रामति, स षष्टिकार्षापणो दण्ड्य इति।
०७९.०२१. तैः प्रतिज्ञातं क्रियाकारश्च कृतः॥
०७९.०२२. ततो {भगवान्} जनपदचारिकां चरन् भद्रंकरं नगरमनुप्राप्तः।
०७९.०२२. भद्रंकरे नगरे विहरति दक्षिणायतन्
०७९.०२३. तेन् खलु समयेन कपिलवस्तुनो ब्राह्मणदारिका भद्रंकरे नगरे परिणीता।
०७९.०२४. तया प्राकारस्थया भगवानन्धकारे दृष्टः।
०७९.०२४. सा संलक्षयति--अयं भगवाञ्शाक्यकुलनन्दनः शाक्यकुलाद्राज्यमपहाय प्रव्रजितः।
०७९.०२५. स इदानीमन्धकारे तिष्ठति।
०७९.०२५. यद्यत्र सोपानं स्यात्, अहं प्रदीपमादायावतरेयमिति।
०७९.०२६. ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय सोपानं निर्मितम्।
०७९.०२७. ततो हृष्टतुष्टप्रमुदिता प्रदीपमादाय सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्ता।
०७९.०२७. उपसंक्रम्य भगवतः पुरस्तात्प्रदीपं स्थापयित्वा पादौ शिरसा वन्दित्वा निषण्णा धर्मश्रवणाय्
०७९.०२८. ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चत्रुआर्यसत्यसम्प्रतिवेधिकी पूर्ववद्यावच्छरणगतामभिप्रसन्नामिति।
०७९.०३०. अथ भगवांस्तां दारिकामिदमवोचत्--एहि त्वं दारिके येन मेण्ढको गृहपतिस्तेनोपसंक्रम, उपसंक्रम्यैवं मद्वचनादारोग्यापय, एवं च वद--गृहपते, त्वामुद्दिश्याहमिहागतः, त्वं च द्वारं बद्ध्वा स्थितः।
०७९.०३२. युक्तमेतदेवमतिथेः प्रतिपत्तुं यथा त्वम् <८०>प्रतिपन्न इति? यदि कथयति--गणेन क्रियाकारः कृत इति, वक्तव्यह्--तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति।

०८०.००२. स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयत्
०८०.००३. न शक्नोषि षष्टिकार्षापणं दत्त्वा आगन्तुमिति? एवं भदन्तेति सा दारिका भगवतः प्रतिश्रुत्य संप्रस्थिता।
०८०.००४. यथापरिज्ञातैव केनचिदेव मेण्डकस्य गृहपतेः सकाशं गता।
०८०.००५. गत्वा च कथयति--गृहपते भगवांस्त आरोग्ययति।
०८०.००५. स कथयति--वन्दे बुद्धं भगवन्तम्।
०८०.००६. गृहपते, भगवानेवमाह--त्वामेवाहमुद्दिश्यागतः, त्वं च द्वारं बद्ध्वा अवस्थितः।
०८०.००७. युक्तमेतदेवमतिथेः प्रतिपत्तुं यथा त्वं प्रतिपन्न इति? स कथयति--दारिके, गणेन क्रियाकारः कृतह्--न केनचिच्छ्रमणं गौतमं दर्शनाय उपसंक्रमितव्यम्।
०८०.००८. य उपसंक्रामति, स गणेन षष्टिकार्षापणो दण्ड्य इति।
०८०.००९. गृहपते, भगवान् कथयति--तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति।
०८०.०१०. स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयत्
०८०.०११. न शक्नोषि त्वं षष्टिकार्षापणं दत्वा आगन्तुमिति? स संलक्षयति--न कश्चिदेतज्जानीत्
०८०.०११. नूनं सर्वज्ञः स भगवान्।
०८०.०१२. गच्छामीति।
०८०.०१२. स षष्टिकार्षापणान् द्वारे स्थापयित्वा ब्राह्मणदारिकोपदिष्टेन सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्तः।
०८०.०१३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय्
०८०.०१४. ततो भगवता मेण्ढकस्य गृहपतेराशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा मेण्ढकेन गृहपतिना यावच्छ्रोतापत्तिफलं साक्षात्कृतम्।
०८०.०१६. स दृष्टसत्यः कथयति--भगवन्, किमेषोऽपि भद्रंकरनगरनिवासी जनकाय एवंविधानां धर्माणां लाभीते? भगवानाह--गृहपते, त्वामागम्य भूयसा सर्व एव जनकायो लाभीत्
०८०.०१८. ततो मेण्ढको गृहपतिर्भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः।
०८०.०१९. स्वगृहं गत्वा नगरमध्ये कार्षापणानां राशिं व्यवस्थाप्य गाथां भाषते--
०८०.०२१. यो द्रष्टुमिच्छति जिनं जितरागदोषं निर्बन्धमप्रतिसमं करुणावदातम्।
०८०.०२३. सोऽनिश्चरेण हृदयेन सुनिश्चितेन क्षिप्रं प्रयातु धनमस्य मया प्रदेयम्॥३॥ इति॥
०८०.०२५. जनकायः कथयति--गृहपते, श्रेयः श्रमणस्य गौतमस्य दर्शनम्? स कथयति--श्रेयः।
०८०.०२६. ते कथयन्ति--यद्येवम्, गणेनैवं क्रियाकारः कृतो गण एव उद्घाटयतु।
०८०.०२६. कोऽत्र विरोधह्? ते क्रियाकारमुद्घाट्य निर्गन्तुमारब्धाः।
०८०.०२७. ततः परस्परं संघट्टनेन न शक्नुवन्ति निर्गन्तुमिति वज्रपाणिना यक्षेण विनेयजनानुकम्पया वज्रः क्षिप्तः।
०८०.०२८. प्राकारस्य खण्डः पतितः।
०८०.०२९. अनेकानि प्राणिशतसहस्राणि निर्गतानि, कानिचित्कुतूहलजातानि, कानिचित्पूर्वकैः कुशलमूलैः संचोद्यमानानि।
०८०.०३०. ते गत्वा भगवतः पादाभिवन्दनं कृत्वा पुरतो निषण्णाः।
०८०.०३१. यावद्भगवतः सामन्तकेन पर्षत्संनिपतिता।
०८०.०३१. अथ बघवांस्तां पर्षदमभ्यवगाह्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषद्यानेकसत्त्वसंतानकुशलमूलसमारोपिकां धर्मदेशनां कृतवान्, याम् <८१>श्रुत्वा कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि।

०८१.००२. भगवतोऽचि{तश्चि}रं धर्मं देशयतो भोजनकालोऽतिक्रान्तः।
०८१.००२. मेण्ढको गृहपतिः कथयति--भगवन् भक्तकृत्यं क्रियतामिति।
०८१.००३. भगवानाह--गृहपते, भोजनकालोऽतिक्रान्त इति।
०८१.००३. स कथयति--भगवन्, किमकाले कल्पते? भगवानाह--धृतगुडशर्करापानकानि चेति।
०८१.००४. ततो मेण्ढकेन गृहपतिना शिल्पिन आहूय उक्ताह्--भगवतोऽकालखाद्यकानि शीघ्रं सज्जीकुरुतेति।
०८१.००६. तैरकालकानि सज्जीकृतानि।
०८१.००६. ततो मेण्ढकेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽकालखाद्यकैरकालपानकैश्च संतर्पितः।
०८१.००७. ततो भगवान्मेण्ढकं गृहपतिं सपरिवारं सत्येषु प्रतिष्ठापितं कर्वटनिवासिनं जनकायं यथाभव्यतया विनीय प्रक्रान्तः॥
०८१.००९. इदमवोचद्भगवान्।
०८१.००९. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


०८१.०१०. इति श्रीदिव्यावदाने मेण्ढकगृहपतिविभूतिपरिच्छेदो नवमः॥


                    • अवदान १० **********


०८२.००१. दिव्१० मेण्ढकावदानम्।

०८२.००२. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त मेण्ढकेन मेण्ढकपत्न्या मेण्ढकपुत्रेण मेण्ढकस्नुषया मेण्ढकदासेन मेण्ढकदास्या कर्म कृतं येन षडभिज्ञाता महापुण्याः संवृत्ताः, भगवतोऽन्तिके सत्यानि दृष्टानि, भगवांश्चैभिरारागितो न विरागित इति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।
०८२.००६. एभिः कर्माणि कृतान्युपचितानि।
०८२.००७. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च्
०८२.०१०. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
०८२.०११. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१॥
०८२.०१२. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करोगापगतं शालीक्षुगोमहिषीसम्पन्नमखिलमकण्टकम्।
०८२.०१४. एकपुत्रमिव राज्यं पालयति।
०८२.०१५. तेन खलु समयेन वाराणस्यां नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता।
०८२.०१६. त्रिविधं दुर्भिक्षं भविष्यति--चञ्चु श्वेतास्थि शलाकावृत्ति च्
०८२.०१६. तत्र चञ्चु उच्यते--समुद्गके तस्मिन्मनुष्या बीजानि प्रक्षिप्य अनागते सत्त्वापेक्षया सथापयन्ति।
०८२.०१७. मृता नाम अनेन ते बीजकायं करिष्यन्तीति।
०८२.०१८. इदं समुद्गकं बद्ध्वा चञ्चु उच्यत्
०८२.०१८. श्वेतास्थि नाम दुर्भिक्षम्--तस्मिन् काले मनुष्या अस्थीन्युपसंहृत्य तावत्क्वाथयन्ति, यावत्तान्यस्थीनि श्वेतानि संवृत्तानीति।
०८२.०१९. ततस्तत्क्वाथं पिबन्ति।
०८२.०२०. इदं श्वेतास्थि दुर्भिक्षमित्युचयत्
०८२.०२०. शलाकावृत्तिर्नाम--तस्मिन् काले मनुष्याः खलु बिलेभ्यो धान्यगुडकानि शलाकया आकृष्य बहुदकस्थाल्यां क्वाथयित्वा पिबन्ति।
०८२.०२१. इयं शलाकासम्बद्धत्वाच्छलाकावृत्तिरित्युच्यत्
०८२.०२२. ततो राज्ञा ब्रह्मदत्तेन वाराणस्यां घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः।
०८२.०२३. नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता शलाकावृत्ति दुर्भिक्षं चञ्चु श्वेतास्थि च्
०८२.०२४. येषां वो द्वादशवर्षिकं भक्तमस्ति, तैः स्थातव्यम्।
०८२.०२५. येषां नास्ति, ते यथेष्टं गच्छन्तु।
०८२.०२५. विगतदुर्भिक्षभयाः सुभिक्षे पुनरप्युपागमिष्यन्ति।
०८२.०२६. तस्मिन्श्च समये वाराणस्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णपरिवारः।
०८२.०२७. तेन कोष्ठागारिक आहूय उक्तह्--भोः पुरुष, भविष्यति मे सपरिवाराणां मे सपरिवाराणां द्वादश वर्षाणि भक्तमिति? स कथयति--आर्य भविष्यतीति।
०८२.०२८. स तत्रैवावस्थितः।
०८२.०२८. समन्तरानुबद्धं चैतत्दुभिक्षम्।
०८२.०२९. तस्य कोशकोष्ठागाराः परिक्षीणाः।
०८२.०२९. सर्वश्च परिजनः कालगतः।
०८२.०२९. आत्मना षष्ठो व्यवस्थितः।
०८२.०३०. ततस्तेन गृहपतिना कोशकोष्ठागराणि शोधयित्वा धान्यप्रस्थ उपसंहृतः।
०८२.०३१. सोऽस्य पत्न्या स्थाल्यां प्रक्षिप्य साधितः।
०८२.०३१. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनभक्ता एकदक्षिणीया लोकस्य्
०८२.०३२. यावदन्यतमः प्रत्येकबुद्धो <८३>जनपदचारिकां चरन् वाराणसीमनुप्राप्तः।

०८३.००१. स पूर्वाह्णे निवास्य पात्रचीवरमादाय वाराणसीं पिण्डाय प्रविष्टः।
०८३.००२. स च गृहपतिरात्मना षष्ठोऽवस्थितो भोक्तुम्।
०८३.००२. स च प्रत्येकबुद्धोऽनुपूर्वेण पिण्डपातमटंस्तस्य गृहपतिर्निवेशनमनुप्राप्तः।
०८३.००३. स तेन गृहपतिना दृष्टश्चित्तप्रासादिकः कायप्रासादिकश्च्
०८३.००४. दृष्ट्वा च पुनः संलक्षयति--एतदप्यहं परित्यज्य नियतं प्राणैर्वियोक्ष्य्
०८३.००५. यन्न्वहं स्वप्रत्यंशमस्मै प्रव्रजिताय दद्यामिति।
०८३.००५. तेन भार्या अभिहिता--भद्रे, यो मम प्रत्यंशस्तमहमस्मै प्रव्रजितायानुप्रयच्छामीति।
०८३.००६. स संलक्षयति--मम स्वामी न परिभुङ्क्ते, कथमहं परिभोक्ष्य इति।
०८३.००७. सा कथयति--आर्यपुत्र, अहमपि प्रत्यंशमस्मै प्रयच्छामि।
०८३.००७. एवं पुत्रेण स्नुषया दासेन दास्या च विचार्य स्वस्वप्रत्यंशाः परित्यक्ताः।
०८३.००८. ततस्तैः सर्वैः संभूय प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः।
०८३.००९. कायिकी तेषां महात्मनां धर्मदेशना, न वाचिकी।
०८३.००९. स विततपक्ष इव हंसराज उपरि विहायसमुद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
०८३.०१०. आशु पृथग्जनावर्जनकरी ऋद्धिः।
०८३.०११. ते मूलनिकृत्ता इव द्रुमाः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धाः।
०८३.०१२. गृहपतिः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यदि रिक्तकानि कोशकोष्ठागाराणि सहदर्शनान्मे पूर्णानि स्युह्--एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
०८३.०१४. पत्नी प्रणिधानं कर्तुमारब्धा--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्यार्थाय स्थालीं पचेयम्, सा शतेनापि परिभुज्येत, सहस्रेणापि, न परिक्षयं गच्छेत्, यावन्मया प्रयोगोऽप्रतिप्रश्रब्धः, इत्येवंविधानां च धर्माणां लाभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
०८३.०१८. पुत्रः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन पञ्चशतिको नकुलकः कट्यामुपरिबद्धस्तिष्ठेत्, यदि च शतं वा सहस्रं वा ततो व्ययं कुर्यात्, पूर्ण एव तिष्ठेत्, मा परिक्षयं गच्छेत्--एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विराअगयेयमिति।
०८३.०२२. स्नुषा प्रणिधानं कर्तुमारब्धा--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्य गन्धं योजयेयम्, शतं वा गन्धं घ्रास्यति, तं न च परिक्षयं गच्छेयुर्यावन्मया अप्रतिप्रश्रब्धम्--एवंविधानां धर्माणां लभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
०८३.०२५. दासः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकहलसीरं कृषेयम्, सप्त सीराः कृष्टाः स्युह्--एवंविधानां धर्माणां च लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
०८३.०२८. दासी प्रणिधानं कर्तुमारब्धा--एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकां मात्रमारभेयम्, सप्त मात्राः संपद्येरन्--एवंविधानां धर्माणां च लभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति।
०८३.०३०. तैश्चैवं प्रणिधानं कृतम्।
०८३.०३१. स च महात्मा प्रत्येकबुद्धस्तेषामनुकम्पया ऋद्ध्या उपरि विहायसा राजकुलस्योपरिष्टात्संप्रस्थितः॥

०८४.००१. <८४>तेन खलु समयेन राजा ब्रह्मदत्त उपरिप्रासादतलगतस्तिष्ठति।
०८४.००१. तस्य ऋद्ध्या गच्छतो राज्ञो ब्रह्मदत्तस्योपरि च्छाया निपतिता।
०८४.००२. स ऊर्ध्वमुखो निरीक्षितुमारब्धः।
०८४.००२. पश्यति तं प्रत्येकबुद्धम्।
०८४.००३. तस्यैतदभवत्--कस्याप्यनेन महात्मना ऋद्धिमहालाङ्गलैर्दारिद्र्यमूलान्युत्पाटितानि।
०८४.००४. बलवती आशा।
०८४.००४. ततोऽसौ गृहपतिः कोशकोष्ठागाराणि प्रत्यवेक्षितुमारब्धो यावत्पूर्णानि पश्यति।
०८४.००५. स पत्नीमामन्त्रयते--मम तावत्प्रणिधानं पूर्णम्, युष्माकमपीदानीं पश्याम इति।
०८४.००६. ततो दास्या धान्यानामेकां मात्रामारब्धा परिकर्मयितुम्, सप्त मात्राः संपन्नाः।
०८४.००७. प्रातिवेश्यैरनेकैश्च प्राणिशतसहस्रैः परिभुक्तम्, तथैवावस्थिता।
०८४.००८. तथैव पुत्रस्य स्नुषाया दासस्य प्रणिधिः सिद्धा।
०८४.००९. ततो गृहपतिना घण्टावघोषणं कारितं वाराणस्याम्--यो भवन्तोऽन्नेनार्थी, स आगच्छतु इति।
०८४.०१०. वाराणस्यामुच्चशब्धो महाशब्धो जातः।
०८४.०१०. राज्ञा श्रुतम्।
०८४.०१०. कथयति--किमेष भवन्त उच्चशब्दो महाशब्द इति? अमात्यैः समाख्यातम्--देव, अमुकेन गृहपतिना कोशकोष्ठागाराणि उद्धाटितानीति।
०८४.०१२. राजा तमाहूय कथयति--यदा एव लोकः कालगतः, तदा त्वया कोशकोष्ठागाराण्युद्धाटितानीति।
०८४.०१३. देव, कस्य कोशकोष्ठागाराण्युद्धाटितानि? अपि तु अद्यैव मे बीजमुप्तमद्यैव फलदायकमिति।
०८४.०१४. राजा पृच्छति--यथा कथम्? स एतत्प्रकरणं विस्तरेणारोचयति।
०८४.०१५. राजा कथयति--गृहपते, त्वया असौ महात्मा पिण्डकेन प्रतिपादितह्? देव मयैव प्रतिपादितः।
०८४.०१६. सोऽभिप्रसन्नो गाथां भाषते--
०८४.०१७. अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।
०८४.०१८. यत्रोप्तं बीजमद्यैव अद्यैव फलदायकम्॥२॥ इति।
०८४.०१९. किं मन्यध्वे भिक्षवो योऽसौ गृहपतिर्गृहपतिपत्नी गृहपतिपुत्रो गृहपतिस्नुषा गृहपतिदासो गृहपतिदासी, अयमेव मेण्ढको गृःपतिर्मेण्ढकपत्नी मेण्ढकपुत्रो मेण्ढकस्नुषा मेण्ढकदासो मेण्ढकदासी च्
०८४.०२१. यदेभिः प्रत्येकबुद्धे कारान् कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन षड्महापुण्या जाताः, ममान्तिके दृष्टसत्यानि।
०८४.०२२. अहं चैभिः प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टः शास्ता आरागितो न विरागितः।
०८४.०२३. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः।
०८४.०२५. तस्मात्तर्हि एवं शिक्षितव्यम्, यदेकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः।
०८४.०२६. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
०८४.०२७. इदमवोचद्भगवान्।
०८४.०२७. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


०८४.०२८. इति श्रीदिव्यावदाने मेण्ढकावदानं दशमम्॥


                    • अवदान ११ **********


०८५.००१. दिव्११ अशोकवर्नावदानम्।

०८५.००२. एवं मया श्रुतम्।
०८५.००२. एकस्मिन् समये भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैरसुरैर्यक्षैर्गौडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवाञ्ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वैशाल्यां विहरति स्म मर्कटसहस्रदतीरे कूटागारशालायाम्।
०८५.००६. तेन खलु समयेन वैशालिका लिच्छवय इदमेवम्रूपं क्रियाकारमकार्षुह्--पञ्चदश्यां भवन्तः पक्षस्य अष्टम्याअं चतुर्दश्यां च प्राणिनो हन्तव्या यत्कारणमेयुर्मनुष्या मांसमन्वेषन्त इति।
०८५.००८. तेन खलु समयेन अन्यतमो गोघातको महान्तं वृषभमादाय नगरान्निष्क्रमति प्रघातयितुम्।
०८५.००९. तमेनं महाजनकायः पृष्ठतः पृष्ठतः समनुबद्धो मांसार्थी कथयति--शीघ्रमेनं वृषं घातय, वयं मांसेनार्थिन इति।
०८५.०१०. स कथयति--एवं करिष्यामि, किं तु मुहूर्तमुदीक्षध्वमिति।
०८५.०११. ततो वृष ईदृशमनार्यं वचो दुरुक्तं श्रुत्वा भीतस्त्रस्तः संविग्नहाहृष्टरोमकूप इतश्चामुतश्च संभ्रान्तो निरीक्षते, चिन्तयति च--को मां कृच्छ्रसंकटसम्बाधप्राप्तमत्राणमशरणमिष्टेन जीवितेनाच्छादयेदिति।
०८५.०१३. स चैवं विह्वलवदनस्त्राणान्वेषी तिष्ठति।
०८५.०१४. भगवांश्च पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वैशालीं पिण्डाय प्राविशत् ।
०८५.०१५. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकमम्।
०८५.०१७. सहदर्शनैश्चास्य भगवतोऽन्तिके चित्तमभिप्रसन्नम्।
०८५.०१७. प्रसन्नचित्तश्च संलक्षयति--प्रासादिकोऽयं सत्त्वविशेषः।
०८५.०१८. शक्ष्यत्येषो मम प्राणपरित्राणं कर्तुम्।
०८५.०१९. यन्न्वहमेनमुपसंक्रमेयमिति।
०८५.०१९. अथ स वृषो भगवत्यवेक्षावान् प्रतिबद्धचित्तहेषो मे शरणमिति सहसैव तानि दृढानि वरत्रकाणि बन्धनानि च्छित्त्वा प्रधावन् येन भगवांस्तेनोपसंक्रान्तः।
०८५.०२१. उपसंक्रम्योभाभ्यां जानुभ्यां भगवतः पादयोर्निपत्य पादौ जिह्वया निलेढुमारब्धः।
०८५.०२२. स चास्य रौद्रकर्मा गोघातकः पृष्ठतः पृष्ठतः समनुबद्ध एव शस्त्रव्यग्रहस्तः।
०८५.०२२. ततो भगवांस्तं रौद्रकर्माणं गोघातकमिदमवोचत्--कुरुष्व त्वं भोः पुरुष अनेन गोवृषभेण सार्धं सात्म्यम्।
०८५.०२४. जीवितेनाच्छादयेति।
०८५.०२४. स कथयति--नाहं भदन्त प्रभवाभ्येनं जीवितेनाच्छादयितुम्।
०८५.०२४. तत्कस्य हेतोह्? मया एष बहुना मूल्येन क्रीतः।
०८५.०२५. पुत्रदारं च मे बहु पोषितव्यमिति।
०८५.०२५. भगवानाह---यदि मूल्यं दीयते, प्रतिमुञ्चसीति?।
०८५.०२६. स कथयति--प्रतिमोक्ष्यामि भगवन्निति।
०८५.०२६. अथ भगवाम्ल्लौकिकचित्तमुत्पादयति--अहो बत शक्रो देवेन्द्रस्त्रीणि कार्षापणसहस्राण्यादायागच्छेदिति।
०८५.०२८. सहचित्तोत्पादाद्भगवतः शक्रो देवेन्द्रः कार्षापणसहस्रत्रयमादाय भगवतः पुरस्तादस्थात् ।
०८५.०२९. अथ भगवाञ्शक्रं देवेन्द्रमिदमवोचत्--अनुप्रयच्छ कौशिक अस्य गोघातकस्य त्रिगुणं मूल्यम्।
०८५.०३०. अदाच्छक्रो देवेन्द्रस्तस्य गोघातकस्य कार्षापणत्रयसहस्रं वृषमूल्यम्।
०८५.०३०. अथ गोघातकः कार्षापणसहस्रयं वृषमूल्यं गृहीत्वा हृष्टस्तुष्टः प्रमुदितो भगवतः पादौ शिरसा वन्दित्वा तं गोवृषं बन्धनान्मुक्त्वा प्रक्रान्तः।
०८५.०३२. शक्रो देवेन्द्रो भगवतः पादौ शिरसा वन्दित्वा तत्रैवान्तर्हितः॥

०८६.००१. <८६>अथ गोवृषो गतप्रत्यागतप्राणो भूयस्या मात्रया भगवत्यभिप्रसन्नो भगवन्तं त्रिः प्रदक्षिणीकृत्य पृष्ठतः पृष्ठतः समनुबद्धो भगवतो मुखं व्यवलोकयमानोऽस्थात् ।
०८६.००२. अथ भगवान् स्मितमकार्षीत् ।
०८६.००३. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाताः पुष्पपरागपद्मरागवज्रवैडूर्यमुअसारगल्वार्कलोहितकादक्षिणावर्तशङ्खशिलाप्रवालजातरूपरजतवर्णा अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति।
०८६.००६. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मपर्यन्तान्नरकान् गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति।
०८६.००८. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्त्
०८६.००९. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति।
०८६.००९. तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति।
०८६.०१०. तेषां निर्मितं दृष्ट्वा एवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्ना इति।
०८६.०११. अपि त्वयमपूर्वदर्शनः सत्त्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति।
०८६.०१२. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिर्गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति।
०८६.०१३. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठपर्यन्तान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति।
०८६.०१७. गाथाद्वयं भाषन्ते--
०८६.०१८. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन्
०८६.०१९. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥
०८६.०२०. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
०८६.०२१. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥ इति।
०८६.०२२. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति।
०८६.०२३. तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतोऽन्तर्धीयन्त्
०८६.०२४. अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्त्
०८६.०२४. नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले-न्तर्धीयन्त्
०८६.०२५. तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्त्
०८६.०२५. प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठेऽन्तर्धीयन्त्
०८६.०२६. मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोरन्तर्धीयन्त्
०८६.०२७. बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतलेऽन्तर्धीयन्त्
०८६.०२७. चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतलेऽन्तर्धीयन्त्
०८६.०२८. देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्यामन्तर्धीयन्त्
०८६.०२९. श्रावकबोधिं व्याकर्तुकामो भवति, आस्येऽन्तर्धीयन्त्
०८६.०२९. प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्त्
०८६.०३०. अनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति, उष्णीषेऽन्तर्धीयन्त्
०८६.०३१. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामन्तर्हिताः॥
०८६.०३२. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--
०८६.०३३. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः।

०८७.००१. <८७>अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव् ।३॥
०८७.००३. गाथां च भाषिते--
०८७.००४. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
०८७.००६. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः॥४॥
०८७.००८. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्।
०८७.०१०. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥५॥
०८७.०१२. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।
०८७.०१४. यस्यार्थे स्मितमुपदर्शयन्ति धीरा स्तं श्रोतुं समभिलषन्ति ते जनौघाः॥६॥ इति॥
०८७.०१६. भगवानाह--एवमेतदानन्द, एवमेतत् ।
०८७.०१६. नाहेत्वप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
०८७.०१७. दृष्टस्ते आनन्द अयं गोवृषह्? दृष्टो भदन्त्
०८७.०१७. एष आनन्द गोवृषस्तथागतस्यान्तिके प्रसन्नचित्तः सप्तमे दिवसे कालं कृत्वा चात्रुमहाराजिकेषु देवेषूपपत्स्यत्
०८७.०१९. वैश्रवणस्य महाराजस्य पुत्रो भविष्यति।
०८७.०१९. ततश्च्युत्वा त्रायस्त्रिंशेषु देवेषूपपत्स्यत्
०८७.०२०. शक्रस्य देवेन्द्रस्य पुत्रो भविष्यति।
०८७.०२०. ततश्च्युत्वा यामेषु देवेषूपपत्स्यत्
०८७.०२०. यामस्य देवस्य पुत्रो भविष्यति।
०८७.०२१. ततश्च्युत्वा तुषितेषु देवेषूपपत्स्यत्
०८७.०२१. स तुषितस्य देवस्य पुत्रो भविष्यति।
०८७.०२२. ततश्च्युत्वा निर्माणरतिषु देवेषूपपत्स्यत्
०८७.०२२. सुनिर्मितस्य देवपुत्रस्य पुत्रो भविष्यति।
०८७.०२२. ततश्च्युत्वा परिनिर्मितवशवर्तिषु देवेषूपपत्स्यत्
०८७.०२३. वशवरतिनो देवपुत्रस्य पुत्रो भविष्यति।
०८७.०२३. तदनया संतत्या नवनवतिकल्पसहस्राणि विनिपातं न गमिष्यति।
०८७.०२४. ततः कामावचरेषु देवेषु दिव्यं सुखमनुभूय पश्चिमे भवे पश्चिमे निकेते समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे मनुष्यत्वं प्रतिलभ्य राजा भविष्यति अशोकवर्णो नाम चक्रवर्ती चतुरर्णवान्तविजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः।
०८७.०२७. तस्येमान्येवम्रूपाणि सप्त रत्नानि भविष्यन्ति।
०८७.०२७. तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्।
०८७.०२८. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणा परसैन्यप्रमर्दकानाम्।
०८७.०२९. इमामेव समुद्रपर्यन्तां महापृथिवीमखिलामकण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्म्येण समयेनाभिनिर्जित्य अध्यावत्स्यति।
०८७.०३१. सोऽपरेण समयेन दानानि दत्वा चक्रवर्तिराज्यमपहाय केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि ...षम्यगेव श्रद्धया अगारादनगारिकां प्रव्रज्य प्रत्येकां बोधिं साक्षात्करिष्यति, अशोकवर्णो नाम प्रत्येकबुद्धो भविष्यति।
०८७.०३३. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--किं भदन्त अनेन गोवृषेण कर्म कृतं येन तिर्यग्योनावुपपन्नः, किं कर्म कृतं येन दिव्यमानुषसुखमनुभूय <८८>प्रत्येकां बोधिमधिगमिष्यति? भगवानाह--अनेनैव आनन्द गोवृषेण कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।

०८८.००२. गोवृषेण कर्माणि कृतान्युपचितानि।
०८८.००३. कोऽन्यः प्रत्यनुभविष्यति? न ह्यानन्द कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभाशुभानि च्
०८८.००६. न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि।
०८८.००७. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥७॥
०८८.००८. भूतपूर्वमानन्द अतीतेऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्सम्बुद्धो लोक उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्।
०८८.०१०. स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति, अन्यतमस्मिन् वनषण्ड्
०८८.०१०. तस्य नातिदूरे षष्टिभिक्षवः प्रतिवसन्त्यारण्यकाः पिण्डपातिकाः।
०८८.०११. सर्वे च वीतरागा विगतद्वेषा विगतमोहा यावत्पञ्चमात्राणि धूर्तकशतानि तेन तेनाहिण्ड्यमानानि तं प्रदेशमनुप्राप्तानि।
०८८.०१३. तेषामेतदभवत्--एते हि प्रव्रजिता महात्मानहीदृशेषु स्थानेष्वभिरमन्त्
०८८.०१३. यद्येषां जीवितोपच्छेदं न करिष्यामः, न भूय एतस्मिन् प्रदेशे स्वस्थैर्विहर्तव्यं भविष्यति।
०८८.०१४. यद्यप्येते महात्मानः सर्वसत्त्वहितोदयप्रवृत्ता न परेषामारोचयिष्यन्ति, तथाप्येषां प्रधानपुरुषा उपसंक्रमिष्यन्ति।
०८८.०१६. तेऽस्माकं राज्ञः समर्पयिष्यन्ति।
०८८.०१६. तत्रास्माभिश्चारकावरुद्धैर्मर्तव्यं भविष्यति।
०८८.०१७. कथमत्र प्रतिपत्तव्यमिति? एकस्तत्रैव निर्घृणहृदयस्त्यक्तपरलोकः।
०८८.०१७. स कथयति--अघातयित्वा एतान् कुतः क्षेम इति? तैस्ते जीविताद्व्यपरोपिताः।
०८८.०१८. ते चैतत्कर्म कृत्वा पापकमकुशलमेकनवतिकल्पानपायेषूपपन्नाः।
०८८.०१९. यद्भूयसा तु नरकेषु तिर्यग्योनौ उपपन्नाश्च सन्तो नित्यं शस्त्रेण प्रघातिताः।
०८८.०२०. तत्र योऽसौ चौरस्तेषां समादापकः, स एवायं गोवृषः।
०८८.०२०. तस्य कर्मणो विपाकेन इयन्तं कालं न कदाचित्सुगतौ उपपन्नः।
०८८.०२१. यत्पुनरिदानीं ममान्तिके चित्तं प्रसादितम्, तस्य कर्मणो विपाकेन दिव्यं मानुषं सुखमनुभूय प्रत्येकां बोधिमधिगमिष्यति।
०८८.०२३. एवं हि आनन्द तथागतानां चित्तप्रसादोऽप्यचिन्त्यविपाकः, किं पुनः प्रणिधानम्।
०८८.०२४. तस्मात्तर्हि आनन्द एवं शिक्षितव्यं यत्स्तोकस्तोकं मुहूर्तमुहूर्तमन्ततोऽच्छटासंघातमात्रमपि तथागतमाकारतः समनुस्मरिष्यामीत्येवं ते आनन्द शिक्षितव्यम्॥
०८८.०२६. अथायुष्मानानन्दो भगवतो भाषितमभ्यानन्द्यानुमोद्य भिक्षूणां पुरस्ताद्गाथा भाषते--
०८८.०२७. अहो नाथस्य कारुण्यं सर्वज्ञस्य हितैषिणः।
०८८.०२८. सुकृतेनैव वात्सल्यं यस्येदृशमहोद्भुतम्॥८॥
०८८.०२९. आपन्नो हि परं कृच्छ्रं गोवृषो येन मोचितः।
०८८.०३०. व्याकृतश्च भवे दिव्ये प्रत्येकश्च जिनो ह्यसौ॥९॥ इति॥
०८८.०३१. इदमवोचद्भगवान्।
०८८.०३१. आत्तमनसस्ते भिक्षवो भाषितमभ्यनन्दन्॥


०८८.०३२. इति श्रीदिव्यावदानेऽशोकवर्णावदानमेकादशमम्॥


                    • अवदान १२ **********


०८९.००१. दिव्१२ प्रातिहार्यसूत्रम्।

०८९.००२. स भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो बगवाञ्ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो दिव्यानां मानुष्याणां च भगवाननुपलिप्तो विहरति पद्मपत्रमिवाम्भसा॥
०८९.००७. तेन खलु समयेन राजगृहे नगरे षट्पूर्णाद्याः शास्तारोऽसर्वज्ञाः सर्वज्ञमानिनः प्रतिवसन्ति स्म्
०८९.००८. तद्यथा--पूर्णः काश्यपः, मस्करी गोशालीपुत्रः, संजयी वैरट्टीपुत्रः, अजितः केशकम्बलः, ककुदः कात्यायनः, निर्ग्रङ्घो ज्ञातिपुत्रः।
०८९.००९. अथ षण्णां पूर्णादीनां तीर्थ्यानां भवन्तो जानीरन्--यदा श्रमणो गौतमो लोकेऽनुत्पन्नः, तदा वयं सत्कृताश्चाभूवन् गुरुकृताश्च मानिताश्च पूजिताश्च राज्ञां राजमात्राणां ब्राह्मणानां गृहपतीनां नैगमानां जानपदानां श्रेष्ठिनां सार्थवाहानाम्।
०८९.०१३. लाभीनश्चाभूवंश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्।
०८९.०१४. यदा तु श्रमणो गौतमो लोके उत्पन्नः, तदा श्रमणो गौतमः सत्कृतो गुरुकृतो मानितः पूजितो राज्ञां राजमात्राणां ब्राह्मणानां गृहपतीनां जनपदानां धनिनां श्रेष्ठिनां सार्थवाहानाम्।
०८९.०१५. लाभी च श्रमणो गौतमः सश्रावकसंघश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्।
०८९.०१७. अस्माकं च लाभसत्कारः सर्वेण सर्वमस्मुच्छिन्नः।
०८९.०१७. वयं स्म ऋद्धिमन्तो ज्ञानवादिनः।
०८९.०१८. श्रमणोऽपि गौतमो रिद्धिमाञ्ज्ञावादीत्यात्मानं प्रतिजानीत्
०८९.०१८. अर्हति ज्ञावादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्।
०८९.०१९. यद्येकं श्रमणो गौतमोऽनुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्व्
०८९.०२०. द्वे श्रमणो गौतमः, वयं चत्वारि।
०८९.०२०. चत्वारि श्रमणो गौतमः, वयमष्टौ।
०८९.०२१. अष्टौ श्रमणो गौतमः, वयं षोडश्
०८९.०२१. षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्त्रिगुणं विदर्शयिष्यामः।
०८९.०२३. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः।
०८९.०२४. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
०८९.०२४. अथ मारस्य पापीयस एतदभवत्--असकृदसकृन्मया श्रमणस्य गौतमस्य प्राक्रान्तम्, न च कदाचिदवतारो लब्धः।
०८९.०२६. यन्न्वहं तीर्थ्यानां प्रहरेयम्।
०८९.०२६. इति विदित्वा पूरणवदात्मानमभिनिर्माय उपरि विहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा मस्करिणं गोशालीपुत्रमामन्त्रयते--यत्खलु मस्करिञ्जानीयाह्--अहं रिद्धिमाञ्ज्ञानवादी, श्रमणो गौतमो रिद्धिमाञ्ज्ञानवादीत्यात्मानं परिजानीत्
०८९.०२९. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्।
०८९.०३०. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं द्व्
०८९.०३१. द्वे श्रमणो गौतमः, अहं चत्वारि।
०८९.०३१. चत्वारि श्रमणो गौतमः, अहमष्टौ।
०८९.०३१. अष्टौ श्रमणो गौतमः, अहं षोडश्
०८९.०३२. षोडश श्रमणो गौतमः, अहं द्वात्रिंशदिति यावच्छ्रमणो <९०>गौतम उत्तरे मनुष्यधर्मे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणमुत्तरं मनुष्यधर्मं रिद्धिप्रातिहार्यं विदर्शयिष्यामः।

०९०.००२. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, अहमप्युपार्धं मार्गं गमिष्यामि।
०९०.००३. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
०९०.००४. अथ मारस्य पापीयस एतदभवत्--असकृदसकृन्मया श्रमणस्य गौतमस्य पराक्रान्तम्, न च कदाचिदवतारो लब्धः।
०९०.००५. यन्न्वहं तीर्थ्यानां प्रहरेयम्।
०९०.००५. इति विदित्वा मस्करिवदात्मानमभिनिर्माय उपरि विहायसमभ्युद्गम्य ज्वलनतपनविद्योतनवर्षणप्रातिहार्याणि कृत्वा संजयिनं वैरट्टीपुत्रमामन्त्रयते--यत्खलु संजयिञ्जानीयाह्--अहं रिद्धिमाञ्ज्ञानवादी, श्रमणो गौतमो रिद्धिमाञ्ज्ञानवादीत्यात्मानं प्रतिजानीत्
०९०.००८. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्।
०९०.००९. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं द्व्
०९०.०१०. द्वे श्रमणो गौतमः, अहं चत्वारि।
०९०.०१०. चत्वारि श्रमणो गौतमः, अहमष्टौ।
०९०.०११. अष्टौ श्रमणो गौतमः, अहं षोडश्
०९०.०११. षोडश श्रमणो गौतमः, अहं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं तद्द्विगुणमुत्तरं मनुष्यधर्मप्रातिहार्यं विदर्शयिष्यामि।
०९०.०१३. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, अहमप्युपार्धं मार्गं गमिष्यामि।
०९०.०१४. तत्र मे भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
०९०.०१५. एवमन्योन्यं सर्वे विहेठिताः।
०९०.०१५. एकैक एवमाह--रिद्धेर्लाभी नाहमिति॥
०९०.०१६. पूरणाद्याः षट्शास्तारः सर्वज्ञज्ञानिनो येन राजा मागधः श्रेण्यो बिम्बिसारस्तेनोपसंक्रामन्।
०९०.०१७. उपसंक्रम्य राजानं मागधं श्रेण्यं बिम्बिसारमिदमवोचन्--यत्खलु देव जानीयाह्--वयमृद्धिमन्तो ज्ञानवादिनः।
०९०.०१८. श्रमणोऽपि गौतमो रिद्धिमाञ्ज्ञानवादीत्यात्मानं प्रतिजानीत्
०९०.०१८. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्।
०९०.०१९. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्व्
०९०.०२०. द्वे श्रमणो गौतमः, वयं चत्वारि।
०९०.०२१. चत्वारि श्रमणो गौतम, वयमष्टौ।
०९०.०२१. अष्टौ श्रमणो गौतमः, वयं षोडश्
०९०.०२१. षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्रिगुणं रिद्धिप्रातिहार्यं विदर्शयिष्यामः।
०९०.०२३. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः।
०९०.०२४. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मन्ष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्।
०९०.०२५. एवमुक्ते राजा मागधः श्रेण्यो बिम्बिसारस्तीर्थ्यानिदमवोचत्--यूयमपि शवा भूत्वा भगवता सार्धं रिद्धिं प्रारभध्वे? अथ पूरणाद्याः षट्शास्तारोऽसर्वज्ञाः सर्वज्ञानज्ञानिनोऽर्धमार्गे राजानं मागधं श्रेण्यं बिम्बिसारं विज्ञापयन्ति--वयं स्मो देव रिद्धिमन्तो ज्ञानवादिनः।
०९०.०२८. श्रमणोऽपि गौतमो रिद्धिमाञ्ज्ञानवादीत्यात्मानं प्रतिजानीत्
०९०.०२९. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्।
०९०.०३०. यावत्तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्।
०९०.०३१. एवमुत्तरे राजा मागधः श्रेण्यो बिम्बिसारस्तांस्तीर्थिकपरिव्राजकानिदमवोचत्--यद्येवं त्रिरप्येतमर्थं विज्ञापयिष्यथ, निर्विषयान् वः करिष्यामि।
०९०.०३२. अथ तीर्थ्यानामेतदभवत्--अयं राजा <९१>मागधः श्रेण्यो बिम्बिसारः श्रमणस्य गौतमस्य श्रावकः।

०९१.००१. बिम्बिसारस्तिष्ठतु।
०९१.००१. राजा प्रसेनजित्कौशलो मध्यस्थः।
०९१.००२. यदा श्रमणो गौतमः श्रावस्तीं गमिष्यति, तत्र वयं गत्वा श्रमणं गौतममुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्ये आह्णयिष्यामः।
०९१.००३. इत्युक्त्वा प्रक्रान्ताः॥
०९१.००४. अथ राजा मागधः श्रेण्यो बिम्बिसारोऽन्यतमं पुरुषमामन्त्रयते--गच्छ त्वं भोः पुरुष क्षिप्रम्।
०९१.००५. भद्रं यानं योजय, यत्राहमधिरुह्य भगवन्तं दर्शनायोपसंक्रमिष्यामि पर्युपासनायै।
०९१.००६. एवं देवेति स पुरुषो राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन राजा मागधः श्रेण्यो बिम्बिसारस्तेनोपसंक्रान्तः।
०९१.००७. उपसंक्रम्य राजानं मागधं श्रेण्यं बिम्बिसारमिदमवोचत्--युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति।
०९१.००८. अथ राजा मागधः श्रेण्यो बिम्बिसारो भद्रं यानमभिरुह्य राजगृहान्निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनायोपसंक्रमितुं पर्युपाअस्नाय्
०९१.०१०. तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेवारामं प्राविक्षत् ।
०९१.०११. अन्तरा राजा मागधः श्रेण्यो बिम्बिसारो भगवन्तमद्राक्षीत् ।
०९१.०१२. तदन्तरा पञ्च ककुदान्यपनीय तद्यथा--उष्णीषं छत्रं खड्गमणिं वालव्यजनं चित्रे चोपानहौ, स पञ्च ककुदान्यपनीय येन भगवांस्तेनोपसंक्रान्तः।
०९१.०१३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
०९१.०१४. एकान्तनिषण्णं विदित्वा राजानं मागधं श्रेण्यं बिम्बिसारं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
०९१.०१५. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
०९१.०१६. अथ राजा मागध श्रेण्यो बिम्बिसारो भगवन्तमभ्यानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः॥
०९१.०१९. अथ भगवत एतदभवत्--कुत्र पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्? देवता भगवत आरोचयन्ति--श्रुतपूर्वं भदन्त पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति।
०९१.०२१. भगवतो ज्ञानदर्शनं प्रवर्तते--श्रावस्त्यां पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति।
०९१.०२२. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, भिक्षूणामारोचय्
०९१.०२३. तथागतः कोशलेषु जनपदेषु चारिकां चरिष्यति।
०९१.०२४. यो युष्माकमुत्सहते तथागतेन सार्धं कोशलेषु जनपदेषु चारिकां चर्तुम्, स चीवरकाणि धावतु सीव्यतु रञ्जयतु।
०९१.०२५. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--भगवानायुष्मन्तः कोशलेषु जनपदेषु चारिकां चरिष्यति।
०९१.०२६. यो युष्माकमुत्सहते तथागतेन सार्धं कोशलेषु जनपदेषु चारिकां चरितुम्, स चीवराणि धावतु सीव्यतु रञ्जयतु इति।
०९१.०२७. ते भिक्षव आयुष्मत आनन्दस्य प्रत्यश्रौषुः।
०९१.०२८. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभगणपरिवृतः सिंह इव दंष्ट्टगणपरिवृतो राजहंस इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो<९२> देशिक इवाध्वगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव
नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो विरूढपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो वेमचित्र इवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मेव
ब्रह्मकायिकगणपरिवृतः स्तिमिव इव जलनिधिः सजल इव जलधरो विमद इव गजपरिः सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारोऽनेकैरावेणिकैर्बुद्धधर्मैर्महता भिक्षुसंघेन च पुरस्कृतो येन श्रावस्ती तेन चारिकां प्रक्रान्तः।

०९२.००७. अनेकैश्च देवताशतसहस्रैरनुगम्यमानोऽनुपूर्वेण चारिकां चरञ्श्रावस्तीमनुप्राप्तः श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्याराम् ।
०९२.०१०. अश्रौषुस्तीर्थ्याः श्रमणो गौतमः श्रावस्तीं गत इति।
०९२.०१०. श्रुत्वा च पुनः श्रावस्तीं संप्रस्थिताः।
०९२.०११. ते श्रावस्तीं गत्वा राजानं प्रसेनजित्कौशलमिदमवोचन्--यत्खलु देव जानीथाह्--वयमृद्धिमन्तो ज्ञानवादिनः।
०९२.०१२. श्रमणो गौतमो ऋद्धिमाञ्ज्ञावादीत्यात्मानं प्रतिजानीत्
०९२.०१३. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं विदर्शयितुम्।
०९२.०१३. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्व्
०९२.०१४. द्वे श्रमणो गौतमः, वयं चत्वारि।
०९२.०१५. चत्वारि श्रमणो गौतमः, वयमष्टौ।
०९२.०१५. अष्टौ श्रमणो गौतमः, वयं षोडश्
०९२.०१५. षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्त्रिगुणमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामः।
०९२.०१७. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः।
०९२.०१८. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
०९२.०१९. एवमुक्ते राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--आगमयन्तु तावद्भवन्तो यावदहं भगवन्तमवलोकयामि।
०९२.०२०. अथ राजा प्रसेनजित्कौशलोऽन्यतमं पुरुषमामन्त्रयते--गच्छ त्वं भोः पुरुष्
०९२.०२१. क्षिप्रं भद्रं यानं योजय्
०९२.०२२. अहमभिरुह्य अद्यैव भगवन्तं दर्शनायोपसंक्रमिष्यामि पर्युपासनायै।
०९२.०२२. एवं देवेति स पुरुषो राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रान्तः।
०९२.०२४. उपसंक्रम्य राजानं प्रसेनजितं कौशलमिदमवोचत्--युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत्
०९२.०२५. अथ राजा प्रसेनजित्कौशलो भद्रं यानमभिरुह्य श्रावस्त्या निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनाय उपसंक्रमितुं पर्युपासनाय्
०९२.०२७. तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतार्य पादाभ्यामेव आरामं प्रविश्य येन भगवांस्तेनोपसंक्रान्तः।
०९२.०२८. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
०९२.०२९. एकान्ते निषण्णो राजा प्रसेनजित्कौशलो भगवन्तमिदमवोचत्--इमे भदन्त तीर्थ्या भगवन्तमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्येणाह्वयन्त्
०९२.०३०. विदर्शयतु भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्।
०९२.०३१. निर्भर्त्सयतु भगवांस्तीर्थ्यान्।
०९२.०३१. नन्दयतु देवमनुष्यान्।
०९२.०३१. तोषयतु सज्जनहृदयमनांसि।
०९२.०३२. एवमुक्ते भगवान् राजानं प्रसेनजितं कौशलमिदमवोचत्--नाहं महाराज <९३>एवं श्रावकाणां धर्मं देशयामि एवं यूयं भिक्षव आगतागतानां ब्राह्मणगृहपतीनामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयतेति।

०९३.००२. अपि तु अहमेवं श्रावकाणां धर्मं देशयामि--प्रतिच्छन्नकल्याणा भिक्षवो विवृतपापा इति।
०९३.००३. द्विरपि त्रिरपि राजा प्रसेनजित्कौशलो भगवन्तमिदमवोचत्--विदर्शयतु भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्।
०९३.००४. निर्भर्त्सयतु तीर्थ्यान्।
०९३.००५. नन्दयतु भगवान् देवमनुष्यान्।
०९३.००५. तोषयतु सज्जनहृदयमनांसि।
०९३.००५. धर्मता खलु बुद्धानां भगवतां जीवतां तिष्ठतां ध्रियमाणानां यापयतां यदुत दशावश्यकरिणीयानि भवन्ति।
०९३.००७. न तावद्बुद्धा भगवन्तः परिनिर्वान्ति यावन्न बुद्धो बुद्धं व्याकरोति, यावन्न द्वितीयेन सत्त्वेनापरिवर्त्यमनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादितं भवति, सर्वबुद्धवैनेया विनीता भवन्ति, त्रिभाग आयुष उत्सृषो भवति, सीमाबन्धः कृतो भवति, श्रावकयुगमग्रतायां निर्दिष्टं भवति, सांकाश्ये नगरे देवतावतरणं विदर्शितं भवति, अनवतप्ते महासरसि श्रावकैः सार्धं पूर्विका कर्मप्लोतिर्व्याकृता भवति, मातापितरौ सत्येषु प्रतिष्ठापितौ भवतः, श्रावस्त्यां महाप्रातिहार्यं विदर्शितं भवति।
०९३.०१२. अथ भगवत एतदभवत्--अवश्यकरणीयमेतत्तथागतेनेति विदित्वा राजानं प्रसेनजितं कौशलमामन्त्रयते--गच्छ त्वं महाराज्
०९३.०१३. इतः सप्तमे दिवसे तथागतो महाराजनप्रत्यक्षमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति हिताय प्राणिनाम्।
०९३.०१४. अथ राजा प्रसेनजित्कौशलो भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अहं भगवतः प्रातिहार्यमण्डपं कारयेयम्।
०९३.०१६. अथ भगवत एतदभवत्--कतरस्मिन् प्रदेशे पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति? देवता भगवत आरोचयन्ति--अन्तरा भदन्त श्रावस्तीमन्तरा च जेतवनमत्रान्तरात्पूर्वकैः सम्यक्सम्बुद्धेर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्।
०९३.०१९. भगवतोऽपि ज्ञानदर्शनं प्रवर्तते--अन्तरा च श्रावस्तीमन्तरा च जेतवनमत्रान्तरात्पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्।
०९३.०२०. अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन्
०९३.०२१. अथ राजा प्रसेनजित्कौशलो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवन्तमिदमवोचत्--कतमस्मिन् भदन्त प्रदेशे प्रातिहार्यमण्डपं कारयामि? अन्तरा च महाराज श्रावस्तीमन्तरा च जेतवनम्।
०९३.०२३. अथ राजा प्रसेनजित्कौशलो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः॥
०९३.०२६. अथ राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--यत्खलु भवन्तो जानीरन्--इतः सप्तमे दिवसे भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति।
०९३.०२७. अथ तीर्थ्यामेतदभवत्--किं पुनः श्रमणो गौतमः सप्तभिर्दिवसैरनधिगतमधिगमिष्यति, अथ वा निष्पलायिष्यति, अथ वा पक्षपर्येषणं कर्तुकामह्? तेषामेतदभवत्--न ह्येव श्रमणो गौतमो निष्पलायिष्यति, नाप्यनधिगतमधिगमिष्यति।
०९३.०३०. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः।
०९३.०३१. वयमपि तावत्पक्षपर्येषणं करिष्यामः।
०९३.०३१. इति विदित्वा रक्ताक्षो नाम परिव्राजक इन्द्रजालाभिज्ञः स आहूतः।
०९३.०३२. रक्ताक्षस्य परिव्रजकस्यैतत्प्रकरणं विस्तरेणारोचयन्ति, एवं चाहुह्--<९४>यत्खलु रक्ताष्क जानीयाह्--श्रमणो गौतमोऽस्माभिरिद्ध्या आहूतः।

०९४.००१. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति।
०९४.००१. नूनं श्रमणो गतमः पक्षपर्येषणं कर्तुकामः।
०९४.००३. त्वमपि तावत्सब्रह्मचरिणां पक्षपर्येषणं कुरुष्व्
०९४.००३. तेन तथेति प्रतिज्ञातम्।
०९४.००३. अथ रक्ताक्षः परिव्राजको येन नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकास्तेनोपसंक्रान्तः।
०९४.००४. उपसंक्रम्य नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानामेतत्प्रकरणं विस्तरेणारोचयति, एवं चाह--यत्खलु भवन्तो जानीरन्--श्रमणो गौतमोऽस्माभिरिद्ध्या आहूतः।
०९४.००६. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शायिष्यामीति।
०९४.००७. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः।
०९४.००८. भवद्भिरपि ब्रह्मचारिणां साहाय्यं करणीयम्।
०९४.००८. सप्तमे दिवसे युष्माभिर्बहिः श्रावस्त्या निर्गन्तव्यम्।
०९४.००९. तैस्तथेति प्रतिज्ञातम्।
०९४.००९. अथान्यतमस्मिन् पर्वते पञ्चमात्राणि ऋषिशतानि प्रतिवसन्ति।
०९४.०१०. अथ रक्ताक्षः परिव्राजको येन ते ऋषयस्तेनोपसंक्रान्तः।
०९४.०११. उपसंक्रम्य तेषामेतत्प्रकरणं विस्तरेणारोचयति, एवं चाह--यत्खलु भवन्तो जानीरन्--श्रमणो गौतम ऋद्ध्या आहूतः।
०९४.०१२. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति।
०९४.०१३. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः।
०९४.०१३. भवद्भिरपि सब्रह्मचारिणां साहाय्यं करणीयम्।
०९४.०१४. सप्तमे दिवसे युष्माभिः श्रावस्तीमागन्तव्यम्।
०९४.०१४. तैस्तथेति प्रतिज्ञातम्।
०९४.०१५. तेन खलु समयेन सुभद्रो नाम परिव्राजकः पञ्चाभिज्ञः।
०९४.०१५. तस्य कुशिनगर्यामावसथोऽनवतप्ते महासरसि दिवा विहारः।
०९४.०१६. अथ रक्ताक्षः परिव्राजको येन सुभद्रः परिव्राजकस्तेनोपसंक्रान्तः।
०९४.०१७. उपसंक्रम्य एतत्प्रकरणं विस्तरेणारोचयति, एवं चाह--यत्खलु सुभद्र जानीयाह्--श्रमणो गौतमोऽस्माभिहृद्ध्या आहूतः।
०९४.०१८. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति।
०९४.०१९. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः।
०९४.०१९. त्वया सब्रह्मचारिणां साहाय्यं करणीयम्।
०९४.०२०. सप्तमे दिवसे त्वया श्रावस्तीमागन्तव्यम्।
०९४.०२०. सुभद्रेणाभिहितम्--न शोभनं भवद्भिः कृतं यद्युष्माभिः श्रमणो गौतमो रिद्ध्या आहूतः।
०९४.०२१. तत्कस्य हेतोह्? मम तावत्कुशिनगर्यामावासोऽनवतप्ते महासरसि दिवा विहारः।
०९४.०२२. श्रमणस्य गौतमस्य शारिपुत्रो नाम शिष्यस्तस्य चुन्दो नाम श्रामणेरकस्तस्यापि तत्रैवानवतप्ते महासरसि दिवा विहारः।
०९४.०२४. न तथानवतप्तकायिका देवता अपि कारान् कर्तव्यान्मन्यन्ते यथा तस्य्
०९४.०२५. एकोऽयं समयः।
०९४.०२५. इहाहं कुशिनगरीं पिण्डाय चरित्वा पिण्डपातमादाय अनवतप्तं महासरसं गच्छामि।
०९४.०२६. तस्य ममानवतप्तकायिका देवता अनवतप्तान्महासरसः पानीयमुद्धृत्य एकान्ते न प्रयच्छति।
०९४.०२७. चुन्दः श्रमणोद्देशः पांशुकूलान्यादायानवतप्तं महासरो गच्छति।
०९४.०२७. तस्यानवतप्तकायिका देवता पांशुकूलानि धावयित्वा तेन पानीयेनात्मानं सिञ्चति।
०९४.०२८. यस्य तावद्वयं शिष्यप्रतिशिष्यकयापि न तुल्याः, स युष्माभिरुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्येणाहूतः।
०९४.०२९. न शोभनं भवद्भिः कृतं यच्छ्रमणो गौतमो रिद्धिप्रातिहार्येणाहूतः।
०९४.०३०. एवमहं जाने यथा महर्द्धिकः श्रमणो गौतमो महानुभाव इति।
०९४.०३१. रक्तक्षेणाभिहितम्--त्वं तावच्च्रमणस्य गौतमस्य पक्षं वदसि।
०९४.०३२. त्वया तावन्न गन्तव्यम्।
०९४.०३२. सुभद्रेणाभिहितम्--नैव गमिष्यामीति॥

०९५.००१. <९५>अथ राज्ञः प्रसेनजितः कौशलस्य कालो नांना भ्राता अभिरूपो दर्शनीयः प्रासादिकः श्राद्धो भद्रः कल्याणाशयः।
०९५.००२. स राज्ञः प्रसेनजितः कौशलस्य निवेशनद्वारेणाभिनिष्क्रामति।
०९५.००३. अन्यतमया चावरुद्धिकया प्रासादतलगतया राजकुमारं दृष्ट्वा स्रग्दामं क्षिप्तम्।
०९५.००४. तत्तस्योपरि निपतितम्।
०९५.००४. मित्रारिमध्यमो लोकः।
०९५.००४. तै राज्ञे निवेदितम्--यत्खलु देव जानीथाह्--कालेन देवस्यान्तःपुरं प्रार्थितम्।
०९५.००५. राजा प्रसेनजित्कौशलश्चण्डो रभसः ककर्शः।
०९५.००६. तेनापरीक्ष्य पौरुषेयाणामाज्ञा दता--गच्छन्तु भवन्तः।
०९५.००६. शीघ्रं कालस्य हस्तपादांश्छिन्दन्तु।
०९५.००७. एवं देवेति पौरुषेयै राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य कालस्य वीथीमध्ये हस्तपादाश्छिन्नाः।
०९५.००८. स आर्तस्वरं क्रन्दते, दुःखां तीव्रां खरां कटुकाममनापां देवनां वेदयत्
०९५.००८. कालं राजकुमारं दृष्ट्वा महाजनकायो विक्रोष्टुमारब्धः।
०९५.००९. पूरणादायश्च निर्ग्रन्थास्तं प्रदेशमनुप्राप्ताः।
०९५.०१०. कालस्य ज्ञातिभिरभिहितम्--एतमार्याः कालं राजकुमारं सत्याभियाचनया यथापौराणं कुरुध्वमिति।
०९५.०११. पूरणेनाभिहितम्--एष श्रमणस्य गौतमस्य श्रावकः।
०९५.०११. श्रमणधर्मेण गौतमो यथापौराणं करिष्यति।
०९५.०१२. अथ कालस्य राजकुमारस्यैतदभवत्--कृच्छ्रसंकटसम्बाधप्राप्तं मां भगवान्न समन्वाहरतीति विदित्वा गाथां भाषते--
०९५.०१४. इमामवस्थां मम लोकनाथो न वेत्ति संबाधगतस्य कस्मात् ।
०९५.०१६. नमोऽस्तु तस्मै विगतज्वराय सर्वेषु भूतेष्वनुकम्पकाय् ।१॥
०९५.०१८. असंमोषधर्माणो बुद्धा भगवन्तः।
०९५.०१८. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--गच्छ त्वमानन्द संघाटिमादाय अन्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन कालो राजभ्राता तेनोपसंक्राम्
०९५.०२०. उपसंक्रम्य कालस्य राजकुमारस्य हस्तपादान् यथास्थाने स्थापयित्वा एवं वद--ये केचित्सत्त्वा अपदा वा द्विपदा वा बहुपदा वा अरूपिणो वा रूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो वा नासंज्ञिनः, तथागतोऽर्हन् सम्यक्सम्बुद्धस्तेषां सत्त्वानामग्र आख्यायत्
०९५.०२३. ये केचिद्धर्मा असंस्कृता वा संस्कृता वा, विरागो धर्मस्तेषामग्र आख्यातः।
०९५.०२५. अनेन सत्येन सत्यवाक्येन तव शरीरं यथापौराणं स्यात् ।
०९५.०२५. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य संघाटीमादायान्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन राजभ्राता कालस्तेनोपसंक्रान्तः।
०९५.०२७. उपसंक्रम्य कालस्य राजकुमारस्य हस्तपादान् यथास्थाने स्थापयित्वा एवमाह--ये केचित्सत्त्वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा यावन्नैवसंज्ञिनो नासंज्ञिनः, तथागतोऽर्हन् सम्यक्सम्बुद्धस्तेषां सत्त्वानामग्र आख्यातः।
०९५.०२९. ये केचिद्धर्माः संकृता वा असंस्कृता वा, विरागो धर्मस्तेषामग्र आख्यातः।
०९५.०३०. ये केचित्संघा वा गणा वा पूगा वा पर्षदो वा, तथागतश्रावकसंघस्तेषामग्र आख्यातः।
०९५.०३१. अनेन सत्येन सत्यवाक्येन तव शरीरं यथापौराणं भवतु।
०९५.०३२. सहाभिधानात्कालस्य राजकुमारस्य शरीरं यथापौराणं संवृत्तम्, <९६>यथापि तत्र बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन्

०९६.००१. कालेन कुमारेण तेनैव संवेगेन अनागामिफलं साक्षात्कृतमृद्धिश्चापि निर्हृता।
०९६.००२. तेन भगवत आरामो निर्यातितः।
०९६.००२. स भगवत उपस्थानं कर्तुमारब्धः।
०९६.००३. यत्रास्य शरीरं गण्डगण्डं कृतं तस्य गण्डक आरामिक इति संज्ञा संवृत्ता।
०९६.००४. अथ राज्ञा प्रसेनजिता कौशलेन सर्वोपकरणैः स प्रवारितः।
०९६.००४. कालेनाभिहितम्--न मम त्वया प्रयोजनम्।
०९६.००५. भगवत एवोपस्थानं करिष्यामीति॥
०९६.००६. राज्ञा प्रसेनजिता कौशलेन अन्तरा च श्रावस्तीमन्तरा च जेतवनमत्रान्तराद्भगवतः प्रातिहार्यमण्डपः कारितः शतसहस्रहस्तह्.... चतुर्णां मण्डपो विततः।
०९६.००७. भगवतः सिंहासनं प्रज्ञप्तम्।
०९६.००८. अन्यतीर्थिकश्रावकैरपि पूर्णादीनं निर्ग्रन्थानां प्रयेकप्रत्येकमण्डपः कारितः।
०९६.००९. राज्ञा प्रसेनजिता कौशलेन सप्तमे दिवसे यावज्जेतवनं यावच्च भगवतः प्रातिहार्यमण्डपोऽन्तरात्सर्वोऽसौ प्रदेशोऽपगतपाषाणशर्करकठल्यो व्यवस्थितः।
०९६.०१०. धूपचूर्णान्धकारः कृतः।
०९६.०११. छत्रध्वजपताकागन्धोदकपरिषिक्तो नानापुष्पाभिकीर्णो रमणीयः।
०९६.०११. अन्तरान्तरा च पुष्पमण्डपाः सज्जीकृताः॥
०९६.०१३. अथ भगवान् सप्तमे दिवसे पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्रविक्षत् ।
०९६.०१४. श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिश्राम्य बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविष्टः प्रतिसम्लयनाय्
०९६.०१५. अथ राजा प्रसेनजित्कौशलोऽनेकशतपरिवारोऽनेकसहस्रपरिवारोऽनेकशतसहस्रपरिवारो येन भगवतः प्रातिहार्यमण्डपस्तेनोपसंक्रान्तः।
०९६.०१७. उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः।
०९६.०१७. तीर्थ्या अपि महाजनकायपरिवृता येन मण्डपस्तेनोपसंक्रान्ताः।
०९६.०१८. उपसंक्रम्य प्रयेकप्रत्येकस्मिन्नासने निषण्णाः।
०९६.०१९. निषद्य राजानं प्रसेनजितं कौशलमिदमवोचत्--यत्खलु देव जानीयाह्--एते वयमागताः।
०९६.०२०. कुत्र एतर्हि श्रमणो गौतमह्? तेन भवन्तो मुहूर्तमागमयत्
०९६.०२०. एष इदानीं भगवानधिगमिष्यति।
०९६.०२१. अथ राजा प्रसेनजित्कौशल उत्तरं माणवमामन्त्रयते--एहि त्वमुत्त्र, येन भगवांस्तेनोपसंक्राम्
०९६.०२३. उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दित्वा अल्पाबाधतां च पृच्छ, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं च अनवद्यतां च स्पर्शविहारतां च्
०९६.०२४. एवं च वद--राजा भदन्त प्रसेनजित्कौशल एवमाह--इमे भदन्त तीर्थ्या आगता यस्येदानीं कालं मन्यत्
०९६.०२५. एवं देवेत्युत्तरो माणवो राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य येन भगवांस्तेनोपसंक्रान्तः।
०९६.०२६. उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः।
०९६.०२७. एकान्तनिषण्ण उत्तरो माणवो भगवन्तमिदमवोचत्--राजा भदन्त प्रसेनजित्कौशलो भगवतः पादौ शिरसा वन्दते, अल्पाबाधतां च पृच्छति अल्पातङ्कतां च लघूत्थानतां च यात्रं च बलं च सुखं च अनवद्यतां च स्पर्शविहारतां च्
०९६.०३०. सुखी भवतु माणव प्रसेनजित्कौशलस्त्वं च्
०९६.०३०. राजा भदन्त प्रसेनजित्कौशल एवमाह--इमे भदन्त तीर्थ्या आगता यस्येदानीं भगवान् कालं मन्यत्
०९६.०३१. एवमुक्ते भगवानुत्तरं माणवमिदमवोचत्--माणव एषोऽहमद्यागच्छामि।
०९६.०३२. भगवता तथाधिष्ठितो यथोत्तरो <९७>माणवस्ततेवोपरिविहायसा प्रक्रान्तः, येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रान्तः।

०९७.००२. अद्राक्षीद्राजा प्रसेनजित्कौशल उत्तरं माणवकमुपरि विहायसा आगच्छतम्।
०९७.००२. दृष्ट्वा च पुनस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
०९७.००३. यूयमपि विदर्शयत्
०९७.००४. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र महाराज संनिपतितः।
०९७.००४. किं त्वं ज्ञास्यसि केनैतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्तेऽर्गडच्छिद्रेणार्चिषो निर्गत्य भगवतः प्रातिहार्यमण्डपे निपतिताः, सर्वश्च प्रातिहार्यमण्डपः प्रज्वलितः।
०९७.००७. अद्राक्षुस्तीर्थ्या भगवतः प्रातिहार्यमण्डपं प्रज्वलितम्, दृष्ट्वा च पुनः प्रसेनजितं कौशलमिदमवोचत्--एष इदानीं महाराज श्रमणस्य गौतमस्य प्रातिहार्यमण्डपः प्रज्वलितः।
०९७.००९. गच्छ इदानीं निर्वापय्
०९७.००९. अथ सोऽग्निरस्पृष्ट एव वारिणा सर्वप्रातिहार्यमण्डपमदग्ध्वा स्वयमेव निर्वृतो यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन्
०९७.०१०. अथ राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
०९७.०१२. यूयमपि विदर्शयत्
०९७.०१२. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र महाराज संनिपतितः।
०९७.०१३. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? भगवता कनकमरीचिकावभासा उत्सृष्टाः, येन सर्वलोक उदारेणावभासेन स्फुटोऽभूत् ।
०९७.०१४. अद्राक्षीद्राजा प्रसेनजित्कौशलः सर्वलोकमुदारेणावभासेन स्फुटम्।
०९७.०१५. दृष्ट्वा च पुनस्तीर्थ्यानामन्त्रयते--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
०९७.०१६. यूयमपि विदर्शयत्
०९७.०१६. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र महाराज संनिपतितः।
०९७.०१७. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? भगवता कनकमरीचिकावभासा उत्सृष्टा येन सर्वलोक उदारेणावभासेन स्फुटोऽभूत् ।
०९७.०१९. अद्राक्षीद्राजा प्रसेनजित्कौशलः सर्वलोकमुदारेणावभासेन स्फुटम्।
०९७.०१९. दृष्ट्वा च पुनस्तीर्थ्यानामन्त्रयते--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
०९७.०२०. यूयमपि विदर्शयत्
०९७.०२१. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र महाराज संनिपतितः।
०९७.०२१. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन वा गौतमेन? गण्डकेनारामिकौरवाद्द्वीपात्कर्णिकारवृक्षमादाय भगवतः प्रातिहार्यमण्डपस्याग्रतः स्थापितः।
०९७.०२३. रत्नकेनाप्यारामिकेन गन्धमादनादशोकवृक्षमानीय बह्गवतः प्रातिहार्यमण्डपस्य पृष्ठतः स्थापितः।
०९७.०२४. अथ राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
०९७.०२५. यूयमपि विदर्शयत्
०९७.०२६. तीर्थ्याः कथयन्ति--महाजनकायोऽत्र संनिपतितः।
०९७.०२६. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? भगवता साभिसंस्कारेण पृथिव्यां पादौ न्यस्तौ।
०९७.०२८. महापृथिवीचालः संवृत्तः।
०९७.०२८. अयं त्रिसमाहस्रमहासाहस्रो लोकधातुरियं महापृथिवी षड्विकारं कम्पति प्रकम्पति संप्रकम्पति।
०९७.०२९. चलति संचलति संप्रचलति।
०९७.०२९. व्यथति संव्यथति संप्रव्यथति।
०९७.०३०. पूर्वावनमति पश्चिमोन्नमति।
०९७.०३०. {पूर्वोन्नमति पश्चिमावनमति।}
०९७.०३१. दक्षिणोन्नमति उत्तरावनमति।
०९७.०३१. उत्तरोन्नमति दक्षिणावनमति।
०९७.०३१. मध्ये उन्नमति अन्तेऽवनमति।
०९७.०३२. मध्येऽवनमति अन्ते उन्नमति।
०९७.०३२. इमौ सूर्यचन्द्रमसौ भासतस्तपतो विरोचतः।

०९८.००१. <९८>विचित्राणि च आश्चर्याद्भुतानि प्रादुर्भूतानि।
०९८.००१. गगनतलस्था देवता भगवत उपरिष्टाद्दिव्यान्युत्पलानि क्षिपन्ति पद्मानि कुमुदानि पुण्डरीकान्यगरुचूर्णानि चन्दनचूर्णानि तगरचूर्णानि तमालपत्राणि, दिव्यानि मान्दारकाणि पुष्पाणि क्षिपन्ति, दिव्यानि च वादित्राणि संप्रवादयन्ति, चैलविक्षेपं चाकार्षुः॥
०९८.००५. अथ तेषामृषीणामेतदभवत्--किमर्थं महापृथिवीचालः संवृत्त इति।
०९८.००५. तेषामेतदभवत्--नूनमस्माकं सब्रह्मचारिभिः श्रमणो गौतमो रिद्ध्या आहूतो भविष्यतीति विदित्वा पञ्च ऋषिशतानि श्रावस्तीं संप्रस्थितानि।
०९८.००७. तेषामागच्छतां भगवता एकायनो मार्गोऽधिष्ठितः।
०९८.००८. अद्राक्षुस्ते ऋषयो भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं मूर्तिमन्तमिव धर्मं हव्यावसिक्तमिव हुतवहं काञ्चनभाजनस्थमिव प्रदीपं जङ्गममिव सुवर्णपर्वतं नानारत्नविचित्रमिव सुवर्णरूपं स्फुटपटुमहाविमलविशुद्धबुद्धिं बुद्धं भगवन्तम्।
०९८.०१०. दृष्ट्वा च पुनर्न तथा द्वादशवर्षेऽभ्यस्तशमथो योगाचारस्य चित्तस्य कल्याताम्, जनयति, अपुत्रस्य वा पुत्रः प्रतिलम्भो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथा तत्प्रथमतपूर्वबुद्धारोपितकुशलमूलानां तत्प्रथमतो बुद्धदर्शनम्।
०९८.०१३. अथ ते ऋषयो येन भगवांस्तेनोपसंक्रान्ताः।
०९८.०१४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते स्थिताः।
०९८.०१४. एकान्तस्थितास्ते ऋषयो भगवन्तमिदमवोचत्--लभेमहि वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
०९८.०१६. चरेम वयं भगवतोऽन्तिके प्रव्रज्य ब्रह्मचर्यम्।
०९८.०१६. ते भगवता ब्राह्मेण स्वरेणाहूताह्--एत भिक्षवश्चरत ब्रह्मचर्यम्।
०९८.०१७. सहाभिधानान्मुण्डाः संवृत्ताः संघाटीप्रावृताः पात्रकरव्यग्रहस्ताः सप्ताहावरोपितकेशश्मश्रवो वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थिताः।
०९८.०१९. एहीति चोक्ताश्च तथागतेन मुण्डाश्च संघाटिपरीतदेहाः।
०९८.०२१. सत्य(द्यह्) प्रशान्तेन्द्रिया एव तस्थुरेवं स्थिता बुद्धमनोरथेन् ।२॥
०९८.०२३. अथ भगवान् दिव्यमानुष्येण पूजासत्कारेण सत्कृतो गुरुकृतो मानिनः पूजितोऽर्हन्नर्हत्परिवारो सप्तभिश्च निकायैः संपुरस्कृतो महता च जनौघेन येन प्रातिहार्यमण्डपस्तेनोपसंक्रान्तः।
०९८.०२५. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
०९८.०२५. भगवतः कायाद्रश्मयो निर्गत्य सर्वं प्रातिहार्यमण्डपं सुवर्णवर्णावभासं कृतवत्यः।
०९८.०२६. अथ लूहसुदत्तो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अल्पोत्सुको भगवान् भवतु।
०९८.०२८. अहं तीर्थ्यैः सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि।
०९८.०२९. निर्भर्त्सयिष्यामि तीर्थ्यान्।
०९८.०२९. सह धर्मेण नन्दयिष्यामि देवमनुष्यान्।
०९८.०३०. तोषयिष्यामि सज्जनहृदयमनांसि।
०९८.०३०. न त्वं गृहपते एभिहृद्ध्या आहूतः, अपि त्वहं तीर्थ्यई रिद्ध्या आहूतः।
०९८.०३१. अहमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि।
०९८.०३२. स्थानमेतद्विद्यते यत्तीर्थ्या एवं वदेयुह्--नास्ति श्रमणस्य गौतमस्योत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्<९९>।

०९९.००१. श्रावकस्यैषा गृहिणोऽवदातवसनस्य ऋद्धिरिति।
०९९.००१. निषीद त्वं गृहपते यथास्वके आसन्
०९९.००२. निषण्णो लूहसुदत्तो गृहपतिर्यथास्वके आसन्
०९९.००२. यथा लूहसुदत्तो गृहपतिरेवं कालो राजभ्राता, रम्भक आरामिकः, ऋद्धिलमाता उपासिका श्रमणोद्देशिका, चुन्दः श्रमणोद्देशः, उत्पलवर्णा भिक्षुणी।
०९९.००४. अथायुष्मान्महामौद्गल्यायन उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अल्पोत्सुको भगवान् भवतु।
०९९.००५. अहं तीर्थ्यैः सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि।
०९९.००६. तीर्थ्यान्निगृह्णिष्यामि।
०९९.००६. सह धर्मेण नन्दयिष्यामि देवमनुष्यान्।
०९९.००७. तोषयिष्यामि सज्जनगृहृदयमनांसि।
०९९.००७. प्रतिबलस्त्वं मौद्गल्यायन तीर्थ्यान् सहधर्मेण निगृहीतुम्।
०९९.००८. अपि तु न त्वं तीर्थ्यै रिद्ध्या आहूतः।
०९९.००८. अहमेषामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि हिताय प्राणिनाम्।
०९९.००९. निर्भर्त्सयिष्यामि तीर्थ्यान्।
०९९.००९. नन्दयिष्यामि देवमनुष्यान्।
०९९.०१०. तोषयिष्यामि सज्जनहृदयमनांसि।
०९९.०१०. निषीद त्वं मौद्गल्यायन यथास्वके आसन्
०९९.०११. निषण्ण आयुष्मान्महामौद्गल्यायनो यथास्वके आसन्
०९९.०११. तत्र भगवान् राजानं प्रसेनजितं कौशलमामन्त्रयते--को महाराज तथागतमध्येषते उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्? अथ राजा प्रसेनजित्कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्--अहं भदन्त भगवन्तमध्येषे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्।
०९९.०१५. भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम् {विदर्शयतु} हिताय प्राणिनाम्।
०९९.०१६. निर्भर्त्सयतु तीर्थ्यान्।
०९९.०१७. नन्दयतु देवमनुष्यान्।
०९९.०१७. तोषयतु सज्जनहृदयमनांसि।
०९९.०१७. अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वस्मिन्नासनेऽन्तर्हितः पूर्वस्यां दिशि उपरिविहायसमभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति तद्यथा--चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति।
०९९.०२०. तेजोधातुमपि संपद्यत्
०९९.०२०. तेजोधातुसमापन्नस्य बुद्धस्य भगवतो विविधान्यर्चीषि कायान्निश्चरन्ति तद्यथा नीलपीतानि लोहितान्यवदातानि मञ्जिष्ठानि स्फटिकवर्णानि।
०९९.०२१. अनेकान्यपि प्रातिहार्याणि विदर्श्यति।
०९९.०२२. अधःकायं प्रज्वालयति, उपरिमात्कायाच्छीतला वारिधाराः स्यन्दन्त्
०९९.०२३. यथा पूर्वस्यां दिशि एवं दक्षिणस्यां दिशीति चतुर्दिशं चतुर्विधमृद्धिप्रातिहार्यं विदर्श्य तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः।
०९९.०२४. निषद्य भगवान् राजानं प्रसेनजितं कौशलमिदमवोचत्--इयं महाराज तथागतस्य सर्वश्रावकसाधारणा ऋद्धिः।
०९९.०२६. तत्र भगवान् द्विरपि राजानं प्रसेनजितं कौशलमामन्त्रयते--को महाराज तथागतमध्येषतेऽसाधारणायामृद्ध्यामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्? अथ राजा प्रसेनजित्कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अहं भदन्त भगवन्तमध्येषेऽसाधारणायामृद्ध्यामुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं हिताय प्राणिनाम्।
०९९.०३०. निर्भर्त्सयतु तीर्थ्यान्।
०९९.०३१. नन्दयतु देवमनुष्यान्।
०९९.०३१. तोषयतु सज्जनहृदयमनांसि॥
०९९.०३२. भगवता लौकिकं चित्तमुत्पादितम्।
०९९.०३२. धर्मता खलु बुद्धानां भगवतां यदि लौकिकं चित्तमुत्पादयन्ति, अन्तशः कुन्तपिपीलिकोऽपि प्राणी भगवतह्चेतसि चित्तमाजानन्ति।

१००.००१. <१००>अथ लोकोत्तरचित्तमुत्पादयन्ति, तत्रागतिर्भवति प्रत्येकबुद्धानामपि, कः पुनर्वादः श्रावकाणाम्? अथ शक्रब्रह्मादीनां देवानामेतदभवत्--किमर्थं भगवता लौकिकं चित्तमुत्पादितम्? तेषामेतदभवत्--श्रावस्त्यां महाप्रातिहार्यं विदर्शयितुकामो हिताय प्राणिनाम्।
१००.००४. अथ शक्रब्रह्मादयो देवा अनेकानि च देवताशतसहस्राणि भगवतश्चेतसा चित्तमाज्ञाय तद्यथा बलवान् पुरुषः संकुञ्चितं वा बाहुं प्रसारयेत्, प्रसारितं वा संकुञ्चयेत्, एवमेव शक्रब्रह्मादयो देवा अनेकानि च देवताशतसहस्राणि च देवलोकेऽन्तर्हितानि, भगवतः पुरतस्तस्थुः।
१००.००६. अथ ब्रह्मादयो देवा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा दक्षिणं पार्श्वं निश्रित्य निषण्णाः।
१००.००८. शक्रादयो देवा भगवन्तं त्रिः प्रदक्षिणीक्त्य भगवतः पादौ शिरसा वन्दित्वा वामं पार्श्वं निश्रित्य निषण्णाः।
१००.००९. नन्दोपनन्दाभ्यां नागराजाभ्यां भगवत उपनामितं निर्मितं सहस्रपत्रं शकटचक्रमात्रं सर्वसौवर्णं रत्नदण्डं पद्मम्।
१००.०१०. भगवांश्च पद्मकर्णिकायां निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य्
१००.०११. पद्मस्योपरि पद्मं निर्मितम्।
१००.०१२. तत्रापि भगवान् पर्यङ्कनिषण्णः।
१००.०१२. एवमग्रतः पृष्ठतः पार्श्वतः।
१००.०१२. एवं भगवता बुद्धपिण्डी निर्मिता यावदकनिष्ठभवनमुपादाय बुद्धा भगवन्तो पर्षन्निर्मितम्(?)।
१००.०१३. केचिद्बुद्धनिर्माणांश्चक्रम्यन्ते, केचित्तिष्ठन्ति, केचिन्निषीदन्ति, केचिच्छायां कल्पयन्ति, तेजोधातुमपि समापद्यन्ते, ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कुर्वन्ति।
१००.०१५. अन्ये प्रश्नान् पृच्छन्ति, अन्ये विसर्जयन्ति।
१००.०१६. गाथाद्वयं भाषन्ते--
१००.०१७. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन्
१००.०१८. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥३॥
१००.०१९. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
१००.०२०. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥४॥
१००.०२१. भगवता तथा अधिष्ठितं यथा सर्वलोकोऽनावृतमद्राक्षीद्बुद्धावतंसकं यावदकनिष्ठभवनमुपादाय अन्ततो बालदारका अपि, यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन् ।
१००.०२४. तत्र भगवान् भिक्षूनामन्त्रयते स्म--तावत्प्रतिगृह्णीत भिक्षवोऽनुपूर्वे स्थिताया बुद्धपिण्ड्या निमित्तम्।
१००.०२५. एकपदेऽन्तर्धास्यन्ति।
१००.०२५. यावदेकपदेऽन्तर्हिता।
१००.०२५. अथ भगवांस्तमृद्ध्याभिसंस्क्रारं प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः।
१००.०२६. निषद्य भगवांस्तस्यां वेलायां गाथां भाषते--
१००.०२८. तावदभासते कृमिर्यावन्नोदयते दिवाकरः।
१००.०२९. विरोचन उद्गते तु वैरव्यार्तो(?) भवति न चावभासत् ।५॥
१००.०३०. तावदवभासितमास तार्किकैर्यावन्नोदितवांस्तथागतः।
१००.०३१. संबुद्धावभासिते तु लोके न तार्किको भासते न चास्य श्रावकः॥६॥
१००.०३२. अथ राजा प्रसेनजित्कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवता उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्।
१००.०३३. यूयमपि विदर्शयध्वम्।
१००.०३३. एवमुक्ते तीर्थ्यास्तूष्णीम्भूता यावत्<१०१>प्रयाणपरमाः स्थिताः।