देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०२
← अध्यायः ०१ | देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०२ वेदव्यासः |
अध्यायः ०३ → |
विन्ध्योपाख्यानवर्णनम्
श्रीदेव्युवाच
भूमिपाल महाबाहो सर्वमेतद्भविष्यति ।
यत्त्वया प्रार्थितं तत्ते ददामि मनुजाधिप ॥ १ ॥
अहं प्रसन्ना दैत्येन्द्रनाशनामोघविक्रमा ।
वाग्भवस्य जपेनैव तपसा ते सुनिश्चितम् ॥ २ ॥
राज्यं निष्कण्टकं तेऽस्तु पुत्रा वंशकरा अपि ।
मयि भक्तिर्दृढा वत्स मोक्षान्ते सत्पदे भवेत् ॥ ३ ॥
एवं वरान्महादेवी तस्मै दत्त्वा महात्मने ।
पश्यतस्तु मनोरेव जगाम विन्ध्यपर्वतम् ॥ ४ ॥
योऽसौ विन्ध्याचलो रुद्धः कुम्भोद्भवमहर्षिणा ।
भानुमार्गावरोधार्थं प्रवृत्तो गगनं स्पृशन् ॥ ५ ॥
सा विन्ध्यवासिनी विष्णोरनुजा वरदेश्वरी ।
बभूव पूज्या लोकानां सर्वेषां मुनिसत्तम ॥ ६ ॥
ऋषय ऊचुः
कोऽसौ विन्ध्याचलः सूत किमर्थं गगनं स्पृशन् ।
भानुमार्गावरोधं च किमर्थं कृतवानसौ ॥ ७ ॥
कथं च मैत्रावरुणिः पर्वतं तं महोन्नतम् ।
प्रकृतिस्थं चकारेति सर्वं विस्तरतो वद ॥ ८ ॥
न हि तृप्यामहे साधो त्वदास्यगलितामृतम् ।
देव्याश्चरित्ररूपाख्यं पीत्वा तृष्णा प्रवर्धते ॥ ९ ॥
सूत उवाच
आसीद्विन्ध्याचलो नाम मान्यः सर्वधराभृताम् ।
महावनसमूहाढ्यो महापादपसंवृतः ॥ १० ॥
सुपुष्पितैरनेकैश्च लतागुल्मैस्तु संवृतः ।
मृगा वराहा महिषा व्याघ्राः शार्दूलका अपि ॥ ११ ॥
वानराः शशका ऋक्षाः शृगालाश्च समन्ततः ।
विचरन्ति सदा हृष्टा पुष्टा एव महोद्यमाः ॥ १२ ॥
नदीनदजलाक्रान्तो देवगन्धर्वकिन्नरैः ।
अप्सरोभिः किम्पुरुषैः सर्वकामफलद्रुमैः ॥ १३ ॥
एतादृशे विन्ध्यनगे कदाचित्पर्यटन् महीम् ।
देवर्षिः परमप्रीतो जगाम स्वेच्छया मुनिः ॥ १४ ॥
तं दृष्ट्वा स नगो मङ्क्षु तूर्णमुत्थाय सम्भ्रमात् ।
पाद्यमर्घ्यं तथा दत्त्वा वरासनमथार्पयत् ॥ १५ ॥
सुखोपविष्टं देवर्षिं प्रसन्नं नग ऊचिवान् ।
विन्ध्य उवाच
देवर्षे कथ्यतां जात आगमः कुत उत्तमः ॥ १६ ॥
तवागमनतो जातमनर्घ्यं मम मन्दिरम् ।
तव चङ्क्रमणं देवाभयार्थं हि यथा रवेः ॥ १७ ॥
अपूर्वं यन्मनोवृत्तं तद् ब्रूहि मम नारद ।
नारद उवाच
ममागमनमिन्द्रारे जातं स्वर्णगिरेरथ ॥ १८ ॥
तत्र दृष्टा मया लोकाः शक्राग्नियमपाशिनाम् ।
सर्वेषां लोकपालानां भवनानि समन्ततः ॥ १९ ॥
मया दृष्टानि विन्ध्याग नानाभोगप्रदानि च ।
इति चोक्त्वा ब्रह्मयोनिः पुनरुच्छ्वासमाविशत् ॥ २० ॥
उच्छ्वसन्तं मुनिं दृष्ट्वा पुनः पप्रच्छ शैलराट् ।
उच्छ्वासकारणं किं तद् ब्रूहि देवऋषे मम ॥ २१ ॥
इत्याकर्ण्य नगस्योक्तं देवर्षिरमितद्युतिः ।
अब्रवीच्छ्रूयतां वत्स ममोच्छ्वासस्य कारणम् ॥ २२ ॥
गौरीगुरुस्तु हिमवाञ्छिवस्य श्वशुरः किल ।
सम्बन्धित्वात्पशुपतेः पूज्य आसीत्क्षमाभृताम् ॥ २३ ॥
एवमेव च कैलासः शिवस्यावसथः प्रभुः ।
पूज्यः पृथ्वीभृतां जातो लोके पापौघदारणः ॥ २४ ॥
निषधः पर्वतो नीलो गन्धमादन एव च ।
पूज्याः स्वस्थानमासाद्य सर्व एव क्षमाभृतः ॥ २५ ॥
यं पर्येति च विश्वात्मा सहस्रकिरणः स्वराट् ।
सग्रहर्क्षगणोपेतः सोऽयं कनकपर्वतः ॥ २६ ॥
आत्मानं मनुते श्रेष्ठं वरिष्ठं च धराभृताम् ।
सर्वेषामहमेवाग्र्यो नास्ति लोकेषु मत्समः ॥ २७ ॥
एवंमानाभिमानं तं स्मृत्वोच्छ्वासो मयोज्झितः ।
अस्तु नैतावता कृत्यं तपोबलवतां नग ।
प्रसङ्गतो मयोक्तं ते गमिष्यामि निजं गृहम् ॥ २८ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे विन्ध्योपाख्यानवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥