देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०३

← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०२ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०३
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०४ →



क्षमाहात्म्यवर्णनम्

<poem> श्रीनारायण उवाच
(शुद्धं स्मार्तं चाचमनं पौराणं वैदिकं तथा ।
तान्त्रिकं श्रौतमित्याहुः षड्‌विधं श्रुतिचोदितम् ॥
विण्मूत्रादिकशौचं च शुद्धं च परिकीर्तितम् ।
स्मार्तं पौराणिकं कर्म आचान्ते विधिपूर्वकम् ॥
वैदिकं श्रौत्रमित्यादि ब्रह्मयज्ञादिपूर्वकम् ।
अस्त्रविद्यादिकं कर्म तान्त्रिको विधिरुच्यते ॥)
स्मृत्वा चोङ्‌कारगायत्रीं निबध्नीयाच्छिखां तथा ।
पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत् ॥ १ ॥
क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ।
पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥ २ ॥
अग्निरापश्च वेदाश्च सोमः सूर्योऽनिलस्तथा ।
सर्वे नारद विप्रस्य कर्णे तिष्ठन्ति दक्षिणे ॥ ३ ॥
ततस्तु गत्वा नद्यादौ प्रातःस्नानं विशोधनम् ।
समाचरेन्मुनिश्रेष्ठ देहसंशुद्धिहेतवे ॥ ४ ॥
अत्यन्तमलिनो देहो नवद्वारैर्मलं वहन् ।
सदाऽऽस्ते तच्छोधनाय प्रातःस्नानं विधीयते ॥ ५ ॥
अगम्यागमनात्पापं यच्च पापं प्रतिग्रहात् ।
रहस्याचरितं पापं मुच्यते स्नानकर्मणा ॥ ६ ॥
अस्नातस्य क्रियाः सर्वा भवन्ति विफला यतः ।
तस्मात्प्रातश्चरेत्स्नानं नित्यमेव दिने दिने ॥ ७ ॥
दर्भयुक्तश्चरेत्स्नानं तथा सन्ध्याभिवन्दनम् ।
सप्ताहं प्रातरस्नायी सन्ध्याहीनस्त्रिभिर्दिनैः ॥ ८ ॥
द्वादशाहमनग्निः सन्द्विजः शूद्रत्वमाप्नुयात् ।
अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः ॥ ९ ॥
प्रातर्न तु तथा स्नायाद्धोमकाले विगर्हितः ।
गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ १० ॥
गायन्तं त्रायते यस्माद्‌गायत्रीत्यभिधीयते ।
प्रणवेन तु संयुक्तां व्याहृतित्रयसंयुताम् ॥ ११ ॥
वायुं वायौ जयेद्विप्रः प्राणसंयमनत्रयात् ।
ब्राह्मणः श्रुतिसम्पन्नः स्वधर्मनिरतः सदा ॥ १२ ॥
स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन ।
गौशृङ्‌गे सर्षपो यावत् तावद्येषां न स स्थिरः ॥ १३ ॥
न तारयन्त्युभौ पक्षौ पितॄनेकोत्तरं शतम् ।
सगर्भो जपसंयुक्तस्त्वगर्भो ध्यानमात्रकः ॥ १४ ॥
स्नानाङ्‌गतर्पणं कृत्वा देवर्षिपितृतोषकम् ।
शुद्धे वस्त्रे परीधाय जलाद्‌बहिरुपागतः ॥ १५ ॥
विभूतिधारणं कार्यं रुद्राक्षाणां च धारणम् ।
क्रमयोगेन कर्तव्यं सर्वदा जपसाधकैः ॥ १६ ॥
रुद्राक्षान्कण्ठदेशे दशनपरिमिता-
     न्मस्तके विंशती द्वे
षट् षट् कर्णप्रदेशे करयुगलकृते
     द्वादश द्वादशैव ।
बाह्वोरिन्दोः कलाभिर्नयनयुगकृते
     त्वेकमेकं शिखायां
वक्षस्यष्टाधिकं यः कलयति शतकं
     स स्वयं नीलकण्ठः ॥ १७ ॥
बद्ध्वा स्वर्णेन रुद्राक्षं रजतेनाथवा मुने ।
शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः ॥ १८ ॥
यज्ञोपवीते हस्ते वा कण्ठे तुन्देऽथवा नरः ।
श्रीमत्पञ्चाक्षरेणैव प्रणवेन तथापि वा ॥ १९ ॥
निर्व्याजभक्त्या मेधावी रुद्राक्षं धारयेन्मुदा ।
रुद्राक्षधारणं साक्षाच्छिवज्ञानस्य साधनम् ॥ २० ॥
रुद्राक्षं यच्छिखायां तत्तारतत्त्वमिति स्मरेत् ।
कर्णयोरुभयोर्ब्रह्मन् देवं देवीं च भावयेत् ॥ २१ ॥
यज्ञोपवीते वेदांश्च तथा हस्ते दिशः स्मरेत् ।
कण्ठे सरस्वतीं देवीं पावकं चापि भावयेत् ॥ २२ ॥
सर्वाश्रमाणां वर्णानां रुद्राक्षाणां च धारणम् ।
कर्तव्यं मन्त्रतः प्रोक्तं द्विजानां नान्यवर्णिनाम् ॥ २३ ॥
रुद्राक्षधारणाद्‌रुद्रो भवत्येव न संशयः ।
पश्यन्नपि निषिद्धांश्च तथा शृण्वन्नपि स्मरन् ॥ २४ ॥
जिघ्रन्नपि तथा चाश्नन् प्रलपन्नपि सन्ततम् ।
कुर्वन्नपि सदा गच्छन्विसृजन्नपि मानवः ॥ २५ ॥
रुद्राक्षधारणादेव सर्वपापैर्न लिप्यते ।
अनेन भुक्तं देवेन भुक्तं यत्तु तथा भवेत् ॥ २६ ॥
पीतं रुद्रेण तत्पीतं घ्रातं घ्रातं शिवेन तत् ।
रुद्राक्षधारणे लज्जा येषामस्ति महामुने ॥ २७ ॥
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ।
रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः ॥ २८ ॥
उत्पत्तौ तस्य साङ्‌कर्यमस्त्वेवेति विनिश्चयः ।
रुद्राक्षधारणादेव रुद्रो रुद्रत्वमाप्नुयात् ॥ २९ ॥
मुनयः सत्यसङ्‌कल्पा ब्रह्मा ब्रह्मत्वमागतः ।
रुद्राक्षधारणाच्छ्रेष्ठं न किञ्चिदपि विद्यते ॥ ३० ॥
रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः ।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ ३१ ॥
रुद्राक्षधारिणं श्राद्धे भोजयेत विमोदतः ।
पितृलोकमवाप्नोति नात्र कार्या विचारणा ॥ ३२ ॥
रुद्राक्षधारिणः पादौ प्रक्षाल्याद्‌‍भिः पिबेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ३३ ॥
हारं वा कटकं वापि सुवर्णं वा द्विजोत्तमः ।
रुद्राक्षसहितं भक्त्या धारयन् रुद्रतामियात् ॥ ३४ ॥
रुद्राक्षं केवलं वापि यत्र कुत्र महामते ।
समन्त्रकं वा मन्त्रेण रहितं भाववर्जितम् ॥ ३५ ॥
यो वा को वा नरो भक्त्या धारयेल्लज्जयापि वा ।
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ ३६ ॥
अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते ।
तस्मात्सर्वप्रयत्‍नेन कुर्याद्‌रुद्राक्षधारणम् ॥ ३७ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सदाचारनिरूपणे रुद्राक्षमाहात्म्यवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥

</poem>