देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०३

← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०२ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०३
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०४ →




गायत्रीमन्त्रकवचवर्णनम्

नारद उवाच
 स्वामिन्सर्वजगन्नाथ संशयोऽस्ति मम प्रभो ।
 चतुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर ॥ १ ॥
 मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् ।
 देहश्च देवतारूपो मन्त्ररूपो विशेषतः ॥ २ ॥
 कर्म तच्छ्रोतुमिच्छामि न्यासं च विधिपूर्वकम् ।
 ऋषिश्छन्दोऽधिदैवं च ध्यानं च विधिवद्विभो ॥ ३ ॥
 श्रीनारायण उवाच
 अस्त्येकं परमं गुह्यं गायत्रीकवचं तथा ।
 पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते ॥ ४ ॥
 सर्वान्कामानवाप्नोति देवीरूपश्च जायते ।
 गायत्रीकवचस्यास्य ब्रह्मविष्णुमहेश्वराः ॥ ५ ॥
 ऋषयो ऋग्यजुःसामाथर्वश्छन्दांसि नारद ।
 ब्रह्मरूपा देवतोक्ता गायत्री परमा कला ॥ ६ ॥
 तद्‌बीजं भर्ग इत्येषा शक्तिरुक्ता मनीषिभिः ।
 कीलकं च धियः प्रोक्तं मोक्षार्थे विनियोजनम् ॥ ७ ॥
 चतुर्भिर्हृदयं प्रोक्तं त्रिभिर्वर्णेः शिरः स्मृतम् ।
 चतुर्भिः स्याच्छिखा पश्चात् त्रिभिस्तु कवचं स्मृतम् ॥ ८ ॥
 चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् ।
 अथ ध्यानं प्रवक्ष्यामि साधकाभीष्टदायकम् ॥ ९ ॥
 मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै-
र्युक्तामिन्दुनिबद्धरत्‍नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
 गायत्रीं वरदाभयाङ्‌कुशकशाः शुभ्रं कपालं गुणं
 शङ्‌खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १० ॥
 गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।
 ब्रह्मसन्ध्या तु मे पश्चादुत्तरायां सरस्वती ॥ ११ ॥
 पार्वती मे दिशं रक्षेत्पावकीं जलशायिनी ।
 यातुधानी दिशं रक्षेद्‌यातुधानभयङ्‌करी ॥ १२ ॥
 पावमानी दिशं रक्षेत्पवमानविलासिनी ।
 दिशं रौद्री च मे पातु रुद्राणी रुद्ररूपिणी ॥ १३ ॥
 ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
 एवं दश दिशो रक्षेत्सर्वाङ्‌गं भुवनेश्वरी ॥ १४ ॥
 तत्पदं पातु मे पादौ जङ्‌घे मे सवितुः पदम् ।
 वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च ॥ १५ ॥
 देवस्य मे तद्धृदयं धीमहीति च गल्लयोः ।
 धियः पदं च मे नेत्रे यः पदं मे ललाटकम् ॥ १६ ॥
 नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात् ।
 तत्पदं पातु मूर्धानं सकारः पातु भालकम् ॥ १७ ॥
 चक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः ।
 नासापुटं वकारार्णो रेकारस्तु मुखे तथा ॥ १८ ॥
 णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् ।
 आस्यमध्ये भकारार्णो र्गोकारश्चिबुके तथा ॥ १९ ॥
 देकारः कण्ठदेशे तु वकारः स्कन्धदेशकम् ।
 स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥ २० ॥
 मकारो हृदयं रक्षेद्धिकार उदरे तथा ।
 धिकारो नाभिदेशे तु योकारस्तु कटिं तथा ॥ २१ ॥
 गुह्यं रक्षतु योकार ऊरू द्वौ नः पदाक्षरम् ।
 प्रकारो जानुनी रक्षेच्चोकारो जङ्‌घदेशकम् ॥ २२ ॥
 दकारं गुल्फदेशे तु यकारः पदयुग्मकम् ।
 तकारव्यञ्जनं चैव सर्वाङ्‌गं मे सदावतु ॥ २३ ॥
 इदं तु कवचं दिव्यं बाधाशतविनाशनम् ।
 चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् ॥ २४ ॥
 मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ।
 पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत् ॥ २५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां द्वादशस्कन्धे गायत्रीमन्त्रकवचवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥

वर्गःदेवीभागवतपुराणम्