देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १२

← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ११ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १२
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १३ →



मणिद्वीपवर्णनम्

व्यास उवाच
 तदेव देवीसदनं मध्यभागे विराजते ।
 सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ १ ॥
 शृङ्‌गारमण्डपश्चैको मुक्तिमण्डप एव च ।
 ज्ञानमण्डपसंज्ञस्तु तृतीयः परिकीर्तितः ॥ २ ॥
 एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः ।
 नानावितानसंयुक्ता नानाधूपैस्तु धूपिताः ॥ ३ ॥
 कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः ।
 तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ ४ ॥
 मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः ।
 असंख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ ५ ॥
 महापद्माटवी तद्वद्‌रत्‍नसोपाननिर्मिता ।
 सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ ६ ॥
 हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा ।
 वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ ७ ॥
 शृङ्‌गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः ।
 सभासदो देववरा मध्ये श्रीजगदम्बिका ॥ ८ ॥
 मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा ।
 ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ ९ ॥
 चतुर्थमण्डपे चैव जगद्‌रक्षाविचिन्तनम् ।
 मन्त्रिणीसहिता नित्यं करोति जगदम्बिका ॥ १० ॥
 चिन्तामणिगृहे राजञ्छक्तितत्त्वात्मकैः परैः ।
 सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते ॥ ११ ॥
 ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
 एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ १२ ॥
 तस्योपरि महादेवो भुवनेशो विराजते ।
 या देवी निजलीलार्थं द्विधाभूता बभूव ह ॥ १३ ॥
 सृष्ट्यादौ तु स एवायं तदर्धाङ्‌गो महेश्वरः ।
 कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः ॥ १४ ॥
 पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः ।
 हरिणाभीतिपरशून् वरं च निजबाहुभिः ॥ १५ ॥
 दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
 कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः ॥ १६ ॥
 शुद्धस्फटिकसंकाशस्त्रिनेत्रः शीतलद्युतिः ।
 वामाङ्‌गे सन्निषण्णास्य देवी श्रीभुवनेश्वरी ॥ १७ ॥
 नवरत्‍नगणाकीर्णकाञ्चीदामविराजिता ।
 तप्तकाञ्चनसन्नद्धवैदूर्याङ्‌गदभूषणा ॥ १८ ॥
 कनच्छ्रीचक्रताटङ्‌कविटङ्‌कवदनाम्बुजा ।
 ललाटकान्तिविभवविजितार्थसुधाकरा ॥ १९ ॥
 बिम्बकान्तितिरस्कारिरदच्छदविराजिता ।
 लसत्कुङ्‌कुमकस्तुरीतिलकोद्‍भासितानना ॥ २० ॥
 दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका ।
 उद्यत्कविसमस्वच्छनासाभरणभासुरा ॥ २१ ॥
 चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता ।
 पाटीरपङ्‌ककर्पूरकुङ्‌कुमालङ्‌कृतस्तनी ॥ २२ ॥
 विचित्रविविधाकल्पा कम्बुसंकाशकन्धरा ।
 दाडिमीफलबीजाभदन्तपङ्‌क्तिविराजिता ॥ २३ ॥
 अनर्घ्यरत्‍नघटितमुकुटाञ्चितमस्तका ।
 मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा ॥ २४ ॥
 कलङ्‌ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना ।
 जाह्नवीसलिलावर्तशोभिनाभिविभूषिता ॥ २५ ॥
 माणिक्यशकलाबद्धमुद्रिकाङ्‌गुलिभूषिता ।
 पुण्डरीकदलाकारनयनत्रयसुन्दरी ॥ २६ ॥
 कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा ।
 रत्‍नकिङ्‌किणिकायुक्तरत्‍नकङ्‌कणशोभिता ॥ २७ ॥
 मणिमुक्तासरापारलसत्पदकसन्ततिः ।
 रत्‍नाङ्‌गुलिप्रविततप्रभाजाललसत्करा ॥ २८ ॥
 कञ्चुकीगुम्फितापारनानारत्‍नततिद्युतिः ।
 मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता ॥ २९ ॥
 सुवृत्तनिबिडोत्तुङ्‌गकुचभारालसा शिवा ।
 वरपाशाङ्‌कुशाभीतिलसद्बाहुचतुष्टया ॥ ३० ॥
 सर्वशृङ्‌गारवेषाढ्या सुकुमाराङ्‌गवल्लरी ।
 सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ ३१ ॥
 निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी ।
 कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ ३२ ॥
 नानासखीभिर्दासीभिस्तथा देवाङ्‌गनादिभिः ।
 सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ ३३ ॥
 इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता ।
 लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ ३४ ॥
 बुद्धिर्मेधा स्मृतिर्लक्ष्मीर्मूर्तिमत्योऽङ्‌गनाः स्मृताः ।
 जया च विजया चैवाप्यजिता चापराजिता ॥ ३५ ॥
 नित्या विलासिनी दोग्ध्री त्वघोरा मङ्‌गला नव ।
 पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ ३६ ॥
 यस्यास्तु पार्श्वभागे स्तो निधी तौ शङ्‌खपद्मकौ ।
 नवरत्‍नवहा नद्यस्तथा वै काञ्चनस्रवाः ॥ ३७ ॥
 सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः ।
 सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ ३८ ॥
 सा देवी भुवनेशानी तद्वामाङ्‌के विराजते ।
 सर्वेशत्वं महेशस्य यत्सङ्‌गादेव नान्यथा ॥ ३९ ॥
 चिन्तामणिगृहस्यास्य प्रमाणं शृणु भूमिप ।
 सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ ४० ॥
 तदुत्तरे महाशालाः पूर्वस्माद्‌द्विगुणाः स्मृताः ।
 अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ ४१ ॥
 सङ्‌कोचश्च विकासश्च जायतेऽस्य निरन्तरम् ।
 पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ ४२ ॥
 शालानां चैव सर्वेषां सर्वकान्तिपरावधि ।
 चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ ४३ ॥
 ये ये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः ।
 देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ ४४ ॥
 श्रीदेव्यास्ते च सर्वेऽपि व्रजन्त्यत्रैव भूमिप ।
 देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ ४५ ॥
 ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा ।
 घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ ४६ ॥
 स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः ।
 द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ ४७ ॥
 आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः ।
 मनोरथफला वृक्षा वाप्यः कूपास्तथैव च ॥ ४८ ॥
 यथेष्टपानफलदा न न्यूनं किञ्चिदस्ति हि ।
 न रोगपलितं वापि जरा वापि कदाचन ॥ ४९ ॥
 न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा ।
 सर्वे युवानः सस्त्रीका सहस्रादित्यवर्चसः ॥ ५० ॥
 भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् ।
 केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ ५१ ॥
 सरूपतां गताः केचित्सार्ष्टितां च परे गताः ।
 या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ ५२ ॥
 समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् ।
 सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ ५३ ॥
 महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् ।
 कारणब्रह्मरूपां तां मायाशबलविग्रहाम् ॥ ५४ ॥
 इत्थं राजन् मया प्रोक्तं मणिद्वीपं महत्तरम् ।
 न सूर्यचन्द्रौ नो विद्युत्कोटयोऽग्निस्तथैव च ॥ ५५ ॥
 एतस्य भासा कोट्यंशकोट्यंशेनापि ते समाः ।
 क्यचिद्विद्रुमसकाशं क्वचिन्मरकतच्छवि ॥ ५६ ॥
 विद्युद्‍भानुसमच्छायं मध्यसूर्यसमं क्वचित् ।
 विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ ५७ ॥
 क्वचित्सिन्दूरनीलेन्द्रमाणिक्यसदृशच्छवि ।
 हीरसारमहागर्भधगद्धगितदिक्तटम् ॥ ५८ ॥
 कान्त्या दावानलसमं तप्तकाञ्चनसन्निभम् ।
 क्वचिच्चन्द्रोपलोद्‌गारं सूर्योद्‌गारं च कुत्रचित् ॥ ५९ ॥
 रत्‍नशृङ्‌गिसमायुक्तं रत्‍नप्राकारगोपुरम् ।
 रत्‍नपत्रै रत्‍नफलैर्वक्षैश्च परिमण्डितम् ॥ ६० ॥
 नृत्यन्मयूरसङ्‌घैश्च कपोतरणितोज्ज्वलम् ।
 कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ ६१ ॥
 सुरम्यरमणीयाम्बुलक्षावधिसरोवृतम् ।
 तन्मध्यभागविलसद्विकचद्‌रत्‍नपङ्‌कजैः ॥ ६२ ॥
 सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् ।
 मन्दमारुतसम्भिन्नचलद्द्रुमसमाकुलम् ॥ ६३ ॥
 चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम् ।
 रत्‍नप्रभाभिरभितो धगद्धगितदिक्तटम् ॥ ६४ ॥
 वृक्षवातमहागन्धवातवातसुपूरितम् ।
 धूपधूपायितं राजन् मणिदीपायुतोज्ज्वलम् ॥ ६५ ॥
 मणिजालकसच्छिद्रतरलोदरकान्तिभिः ।
 दिङ्‌मोहजनकं चैतद्दर्पणोदरसंयुतम् ॥ ६६ ॥
 ऐश्वर्यस्य समग्रस्य शृङ्‌गारस्याखिलस्य च ।
 सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य वै ॥ ६७ ॥
 पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च ।
 सकलाया दयायाश्च समाप्तिरिह भूपते ॥ ६८ ॥
 राज्ञ आनन्दमारभ्य ब्रह्मलोकान्तभूमिषु ।
 आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ ६९ ॥
 इति ते वर्णितं राजन् मणिद्वीपं महत्तरम् ।
 महादेव्याः परं स्थानं सर्वलोकोत्तमोत्तमम् ॥ ७० ॥
 एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति ।
 प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ ७१ ॥
 अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः ।
 भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि ॥ ७२ ॥
 नवीनगृहनिर्माणे वास्तुयागे तथैव च ।
 पठितव्यं प्रयत्‍नेन कल्याणं तेन जायते ॥ ७३ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां द्वादशस्कन्धे मणिद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥

वर्गःदेवीभागवतपुराणम्