देवीशतकम् (आनन्दवर्धनकृतम्)

देवीशतकम्
आनन्दवर्धनः

काव्यमाला। 1श्रीमदानन्दवर्धनाचार्यकृतं देवीशतकम् । श्रीकय्यटकृतथा टीकया सहितम् नमोऽस्तु वागधीशाय हयग्रीवाय विष्णवे। कौमोदकी2चक्रशङ्खकमलाङ्कितपाणये ॥ प्रणम्य परमं धाम यत्प्रसादाज्वलन्त्यमी । महामोहमहिम्नार्ता रविताराधिपानलाः ॥ संचिक्षिप्सुरलं स्वबुद्धिरचितैः पर्यायशब्दैन्यंधा- ट्टीकां वलल्भदेव 3उत्तममतिस्मृत्यै भवानीस्तुतौ । पर्यायैः क्रियया समं कविकृतान्पाठान्पठन्कय्यट- श्चन्द्रादित्यतनूज इत्यमकरोत्तस्यैव नप्ता नवाम् ।। आनन्दवर्धनकविप्रवरप्रणीतकाव्ये किमल्पमतिना क्रियते मयैवम् किंवा पिपीलककुलानि न संश्रयन्ते मत्तेभदन्तपदपक्तिममेयसाराम् ।। विषमेडत्र काव्यमार्गे सुरसे वा स्खलति मामकी धिषणा । 4बालेय निसरणं (2) संप्राप्य शनैः शनैस्तदपि याति । सर्वत्र काव्यारम्भे संबन्धामिधेययोजनानि ज्ञातव्यानि सिद्धिः श्रोतुप्रवृत्तीनां संब- धकथनाधतः । तस्मात्सर्वेषु शाख्नेषु संबन्धः पूर्वमुच्यते ॥ सर्वस्वैव हि शास्त्रस्य कर्मणो १. ध्वन्यानोकाद्यनेकग्रन्थकता श्रीमदानन्दवर्धनाचार्यः कश्मीरेषु खिस्ताब्दीयनवम- शतकोत्तरभाग आदित्यसकृदुक्तम्, अयं देवींशतकटीकाकर्ता कय्यटोऽपि भीमगुप्तनरप- तिराज्ये तत्रैव ४०७८ मितेषु गतकलिवर्षेषु (९७८ खिस्ताब्दे) टीकां प्रणीतवानिति टीकासमाप्तौ विलोकनीयम्. अयं कय्यटश्चन्द्रादित्यसूनुर्वैयाकरणकय्यटस्तु जय्यटात्मज इत्यस्माद्भिन्नः सटीकस्य देवीशतकस्य पुस्तकद्वयमासादितमस्माभिः तत्रैक पुण्यपत्तनस्थ- राजकीयपुस्तकालयस्थं श्रीयुतभाण्डारकरपण्डितैः कृपया प्रहितमासीत् , तत्क-संज्ञकम् अपरं कश्मीरमहाराजाश्रितज्योतिर्विदुपाह्नश्रीदयारामपण्डितैः प्रहितम्, तत्ख-संज्ञकम्, २, 'शङ्खचक्र' ख. ३. "उन्नतमति'ख ४. ख पुस्तके बालेयनिसरणं संप्राप्य' इत्यस्य स्थाने त्रुटिचिह्नमस्ति. काव्यमाला। वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावतत्केन गृह्यते ॥ इह तु देव्याः स्तोत्रेण हाराध्याराधनं संबन्धः। तदीयगुणकर्माणि चेहाभिधेयानि । तदभिधानद्वारकस्य च देव्याः- राधनस्य दृष्टादृष्टफलभूतो भोगापवर्गफलप्राप्तिः प्रयोजनम् ॥ तत्रादौ कविः स्तोत्रं प्रारिप्मुः पञ्चभिः श्लोकैः कुलकं चकार- अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥ १ ॥ नतापनीतक्लेशायाः सुरारिजनतापनी । न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥ २ ॥ वक्रपद्मा विधान्ति यथा यो साक्षाद्या च जनितस्थितिसर्गलयोदया। ३ ।। याश्रिता पावनतया यातनाच्छिदनीचया । याचनीया घिया मायायामायासं स्तुताश्रिया ॥ ४॥ तमांसि ध्वंसमायान्ति यस्याः स्तुत्यादरेण वः । तस्याः सिध्यैः धियां मातुः कल्पन्तां पादरणवः ॥ ५ ॥ (कुलकम्) तस्या धियां मातुः पादरेणवो वः सिध्ध्यै कल्पन्ताम् । तस्मा वर्णयिष्यमाणस्वरूपाया धियां मातः प्राजसंन्याः संबन्धिनः पादरेणबवरणपांसवो वो युष्माकं सिध्ध्यै समाहितसंपर हो पन्ता संयन्तम्- या वेषा न वेद । या देवीं केषा जार में बेदन नेति में जानाति । अधिदात्रामा असले का अमिन वेति कोऽन्यो बराको ज्ञास्यतीति अथा सोधान्तातौ क्षमते न धातुः । धातुः प्रजापतेरपि न क्षमते इत्यर्थः । किं भूतां याम । अनन्तमहिमव्याप्तविश्वाम् । अनन्तो भगवान्विष्णुस्तस्य महिमा माहात्म्यं तेन व्याप्तं पूरितं विश्वं त्रैलोक्यं यया ताम् । हरिमाहात्म्यवशेन हि भगवती जगदापूरय तीत्यागमः। अथवा अनन्तैर्बहुभिरप्रमेयैर्महिममिर्व्योप्तं विश्वं यया ताम् । अथ च या देवी मातेव जननीच प्रणते मानवे प्रह्रे भक्ते नरे दयां धृणां भजते पोषयति । यस्या शर विज्ञेयस्वरूपाया आपि भक्तैर्भक्तिसुलभत्वमुक्तं भवति । या वेघा अपि न वेद सा भक्त्त्या सुलभेति स्तोत्रोद्यमे साफल्यम् ।। १ . अपरम्। यस्यास्तापनी तनुर्भानवी मूर्तिः न न तुल्या। सदशैवेत्यर्थः । तपनस्येयं तापनी । विभूताया देव्याः।नतापनीतक्लेशायाः। नतानां भक्तानामपनीता विनाशिता क्ले "शा रागादयो यया तादृश्या कीदृशी च तापनी तनुः । सुरारिजनतापनी देवशत्रुमर्दनी। 9. अतिसाफल्यम्- क देवीशतकम्। सुरारिजनांस्तापयतीति तच्छीलेति । देव्यप्येवंभूतैवेति तयोस्तुस्यत्वम् । तथा अदीनतामो- र्जित्यमापयति प्रापयत्यसावदीनतापनी । उच्छ्रायप्रदा । इत्युभयोः समानम् ॥ २ ॥ यया देव्या वाग्रूपया विधेर्ब्रह्मणो वक्रपद्ना मुखनलिनानि भान्ति शोभन्ते । कीदृशाः सर्गलयः । ऋच एवालयः [भ्रमऱाः] ऋगालयः वेदखण्डत्रयं सह तेन वर्तत इति । या च देवी साक्षाद्दया । दयामयीत्यर्थः । तथा या च देवी जनितस्थितिसर्गलयोदया जनिता विहिताः स्थितिसर्गलयाः पालनोत्पत्तिविनाशा येनासौ जनितस्थितिसर्गलयो भगवान्वि- ष्णुस्तत उदयो यस्याः सा । भगवच्छक्तिरेव सा देवीति भावः अथवा जनित उत्पादि- तः स्थितिसर्गलयानामुदयः प्रभवो यया ॥ ३ ॥ अन्यदपि या पावनतया पवित्रत्वेनाश्रिता सेविता । पवित्रेत्यर्थः। तथा च या देवी यातनाछित् । यातना प्राग्विहितदुष्टकर्मविपाकः । अन्यच्च अनींचया 1अनूनया धिया प्र ज्ञया मायाया आयामोऽविद्याप्रपञ्चस्तस्यायास उपपातो निवारणं तं याचनीया प्रार्थनीया। तथा श्रिया लक्ष्म्या स्तुता ॥४॥ तथा. यस्या देव्याः स्तुत्यादरेण सरणाभिनिवेशेन तमांसि मोहाबोधादयो ध्वंस विना- शमायान्ति प्राप्नुवन्ति तस्या एतादृश्या धियां मातुर्धिषणानां प्रसविन्याः संबन्धिनः पा. दरेणवश्चरणरजांसि वः सिद्ध्यै कल्पन्तामिति ॥ ५ ॥ ऋषीणां सादयामास या तमांसिं त्रयीमयी। पायाद्वः सा. दयामाधिच्छिदं जगति बिभ्रती ॥ ६ ॥ सा देवी वो युष्मान्पायाद्रक्षतात् । त्रयीमयीं. ऋग्यजुःसामरूपा ऋषीणां मुनीनां तमांस्त्रज्ञानानि सादयामास नारशयांबभूव । त्रय्यामुदितायामृषीणां हि तमांसि नष्टानि । तथा दयां करुणां बिभ्रती दधाना । किंभूतां दशम् । जगति विश्वस्मिन्नाविच्छिदं मनःपी. डाविनाशिनीम् ॥ ६॥ स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया । यां चाच्युतोऽपि तुष्टाव तुष्टाः वः सास्तु पार्वती ॥ ७ ॥ सा पार्वती हिमवत्कन्या वो युष्माकं तुष्टा प्रसन्नास्तु भवतु । या देवी स्मरद्विषा का मशत्रुणा ययाचे प्रार्थिता । यया देव्या हेतुभूतया विधेः प्रजापतेरियं प्रत्यक्षदृश्या सृष्टि- लक्षणा क्रिया सिद्धा । यां चाच्युतोऽपि तुष्टाव। हरिहरहिरण्यगर्भादिमिः स्तुतेत्यर्थः ॥ ७॥ या दमावनयागेन स्वाराधा नयसारया । हरिकैतवहास्यायं सायामा विजिता यया ॥ ८ ॥ प्रतिलोमानुलोमत्त एवायं द्वितीयः श्लोकः यायताजिविमाया सा यस्या हा बत कैरिह या रसायनधारा स्वा न गेयानवमा दया ॥ ९ ॥ "उत्तमया क. २. 'स्मृत्यादरेण खः काव्यमाला । सा बुद्धिरुतमालोकः सतामार्या पुनातु वः यद्भक्तेरुतमा लोकः प्राप्तोत्येष विशुद्धताम् ॥ १० ॥ (विशेषकम् ) सार्या पूज्या वो युष्मान्पुनातु पवित्रीकरोतु । या दमावनयागेन दम उपशान्तचित्त- ता तेनावनं पालनं तदेव योग इष्टिस्तेन स्नाराद्या सुखमाराध्यतेऽभिमुखीक्रियते । यथा नयसारया नीतिपरया हरिकैतवहास्वाय हरेरिन्द्रस्य कैतवहास्याय व्याजोपहास्याय साया- माः सविस्ताराः कृतोद्यमा विजिताः पराभूताः। अभिमानवशेन शक्रमप्युपहास्याय के- चिदाक्रमन्ति तेऽप्यभिभूता ययेति भावः ॥ ८ ॥ या आयत्ताजिविमाया आयते वितते आजौ सङ्ग्रामें विमाया विगतप्रपञ्चा। स्पष्टयुद्धा विविधमायाप्रपञ्चा वा । यस्याञ्च देव्याः सा स्वा दया निजा करुणा अनवमा शोभना हा बत कैर्देवादिमिरिहास्मिन्नगति न गेया न गातव्या। सर्वैरेव स्तुत्यैत्यर्थः । हाबतशब्दौ द्वा- त्रपि विस्मये। यथा 'अहो बतासि स्पृहणीय वीर्य' इति । का च सा. दया, या रसाय- नधारा पीयूषस्रुतिः । आह्लादकत्वात् ॥ ९ ॥ अन्यच्च । सतां साधूनां बुद्धिर्धीः। कीदृशी धीः । उत्तमालोक उत्कृष्टप्रकाशः। प्र- ज्ञाचक्षुर्हि अतरणिशशधरदहनभासोऽपि पश्यति न चर्मचक्षुरिति रजस्तमोरहितप्रकाशरूपा हि या बुद्धिस्तद्देवीखरूपमाहुः । तथा च यद्भक्तेर्यदीयसेवनात् उत्तमा उत्खाततमाः वि- नाशितमोहः सन् उद्गततमा अपि वैष लोकोऽयं जनो विशुद्धतामपगतकल्मषत्वमेति प्रा. प्नोति ॥ इत्यनुलोमोत्पन्नेन श्लोकेन सह श्लोकत्रयेण विशेषकमिदम् ॥ १० ॥ अयुद्ध साधुत्राणाय सामरा या सहारिणा । खङ्गेन दीप्रा देवानां सामरायासहारिणा ॥ ११ ॥ चरणापातनिहतकासरा चरणाजिरे । रराज या जयजयैरराजसजनानता ॥ १२ ॥ सावताद्वोऽम्बिकाभ्यर्च्यनामा न न यशोऽमितः । तनोति प्रणतो यस्या ना मानेनयशोभितः ॥ १३ ॥ (इदमपि विशेषकम् ) साम्बिका जननी' वो युष्मानवताद्रक्षतात् । या सामरा सदेवा संती । अथवा साम सान्त्वं राति ददाति सामरापि सती साधुत्राणाय सज्जनपरिरक्षणायारिणा शत्रुणा समम- युद्ध युद्धमकार्षीत् । कीदृशी देवी । खङ्गेन करवालेन दीप्रा उज्ज्वला । कीदृक्षेण। देवानाममराणां, सामरं सङ्गामभवमायासंक्लेशं हरति तच्छीलस्तेन सामरायासहारिणा । साङ्गामिकक्लेशविनाशिनेत्यर्थः ॥ ११ ॥ नयन' क २. “नयन' क देवीशतकम् । तथा या देवी नयजयैर्नीत्युत्कर्षै रराज शुशुमे । किंभूता । रणाजिरे सङ्गमाङ्गने चर• णापातनिहतकासरा पादाहतिव्यापादितमहिषासुरा । अन्यत् , अराजसजनानता । रजः- प्रतिषेधाद्दूरतरे तमो निषिद्धम् । तत्सात्त्विकजनप्रणतेत्यर्थः । यथा च 1अरजस्काः परं पदम् ॥ १२ ॥ अपरं यस्या देव्या ना मनुष्यः प्रणतः प्रह्णो न नामितः समन्ताद्यशः कीर्तिं तनोति विस्तारयति । अपि तु तनोत्येव । स च नाभ्यर्च्य॑नामा पूज्याभिधानः । देवी चाभ्यर्च्यो नामो नमनं यस्या इति । अन्यच्च स पुमान्माननयशोभितः। माननयाभ्यामलंकृत इत्यर्थः १३ संयतं याचमानेन यस्याः प्रापि द्विषा वधः। संयतं या च मानेन युनक्ति प्रणतं जनम् ॥ १४ ॥ या दमानवमानन्दपदमाननमानदा । दानमानमाक्षमानित्यधनमानवमानिता ॥ १५ ॥ (मुरजबन्ध) सा रक्षतादपारा ते रसकृद्गौरबाधिका। सारक्षतादपारातेरसकृद्गौरवाधिका ॥ १६ ॥ (समुद्गकम्) (इदमपि विशेषकम्) सा देवी ते रक्षतादवतात् । यस्या द्विषा शत्रुणा संयतं सङ्ग्रामं याचमानेन प्रार्थयमानेन वधः प्रापि मरणमलम्भि या च देवी प्रणतं प्रह्णं संयतं जनं यमनियमवन्तं लोकं मानेन युनक्ति पूजया संबध्नाति ॥ १४ ॥ या देवी दमानवमानन्दपदम् । दमेनेन्द्रियजयेनानवमः श्रेष्ठो य आनन्दपद आनन्द- स्थानम् । विद्यया हि शमसुखलामः । किंच, आननमानंदा । आननस्य मुखस्य मानं पूजां श्लाघारूपां ददाति प्रयच्छति । निरपभ्रंशपदभाषणान्मुखं पूज्यं भवति । एवं च पद- द्वयेन प्रकाशरूपं वाग्रूपं च देव्या आगमोक्तं प्रकाशितं भवति । तथा दानमानक्षमानित्य- धनमानवमानिता । दानं सत्पात्रे धनसमर्पणम् । मानं ज्ञानम् । क्षमा रोषोपघातः । ता एवं नित्यमविनश्वरं धनं वित्तं येषां मानवानां पुंसां तैर्मानिता पूजिता । दानादिभिरेव देव्यर्चिता यथा भवति न तथा पुष्पादिभिरित्यर्थः । एष मुरजबन्धः ॥ १५ ॥ सा अपारा अपर्यन्ता गौर्वाक् अबाघ्निका अविघातिनी रक्षतात् । सारक्षतादुत्कर्षक्षतेः असकृत्युनःपुनः । रसकृत् रसं रागं करोति छिनत्ति च सा रसकृत् । अभिमतं निरीहं वा वस्तु रक्षतात् । कीदृशस्य ते । अपारातेनि:शत्रोः किं च, गौरवाधिका गौरवेण पूजयाधि- कोत्कृष्टा । सर्वेषां गुरुरित्यर्थः । एष समुद्गकबन्धः ॥ १६ ॥ "अरजस्क' क.२, 'मानन्द क. काव्यमाला अनुत्तमोहराशयो भवन्ति यामनाश्रिताः अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥ १७ ॥ अनन्तरागतापायास्तारयित्री भवापदः । अनन्तरागतापायाः सा वो. गौरी हियात्क्रियाः॥१८॥ (संदानितकम् ) सा गौरी वो युष्माकमनन्तरागतापायाः अनन्तरमविद्यमानान्तरं कृत्वा आगता. प्राप्ता अपाया 1विघ्ना यासां ताः । 2अनिष्पन्ना एवोत्पन्नविनाशा याः क्रियाश्चेष्टा ह्रियादप- हरतुः । दुष्टक्रिया विनाशयत्वित्यर्थः। या देवीमनाश्रिताः शरणं न प्राप्ता नरा अनुत्तमोह- राशयोऽप्रेरिताज्ञाननिवहा अविनाशिततमसो भवन्ति संपद्यन्ते । यथा गौर्या अनुत्तमो.- ड3विमानप्रधानों हराशयों महादेवचित्तं चिरं बहुकालं रञ्जित आवर्जितः । तथा या देवी भवापदः संसारदुःखात् । भव एवापत् भवस्येति वा । कीदृश्या भवापदः । अनन्तोऽपर्य- न्तो रागत्तापः स्मरार्तिदाहो यस्यास्ततस्तारयित्री उद्धर्त्री । भवापद इति कृद्योगे कर्मणि षष्ठी । अथवा अनन्ता यै रागजनितास्तापातानायस्यति क्षिपतीति देवीविशेषणम्॥ १७॥१८ यामायासजिदासक्तशोकजोलस्य पातिनी । या माता सर्वदा भक्तलोकजालस्य पालनी ॥ १९ ॥ (गोमूत्रिकाबन्धः) सामरागमनायासं त्यक्त्वा साधै सुरारिभिः । सामरा गमनायासन्नुद्यता युधि यद्गणाः ।। २० सामोद्रयाजया शतैः शङ्कः शत्रौ हते यया। सामोदया जयाशा तैगीर्वाणैर्गर्वंतो जहे ॥ २१ ॥ ययायायाय्यया यूयं यो योऽयं येययैय याम् । ययुयायिययेयाय ययेऽयायाय याययुक् ॥ २२ ॥ साव्याद्गौरी सदा युष्मान्सदायुष्मान्समृद्ध्यति । शरणं यां नरोगच्छन्न रोगच्छन्दमेति च ॥ २३ ॥ (पञ्चभिः कुलकम्) सा गौरी गिरितनया युष्मान्भवतः सदा सततमव्यात्पायात् । या भक्तलोकर्जालस्य १. "विघाता'.क. १. अनिष्पन्नविनाशा याः क. ३. विद्याप्रधानो क.४, "उ. दरन्ती ख. ५. 'जातस्य क. ६. 'ययो यो ८'जातस्य क.. देवीशतकम् । प्रणतजनसमूहस्य यामायासजित् । याममन्तककृतमायासमुपतापं जयत्यभिभवति । या माता करुणापरा सती सर्वदा सर्वकालं च भक्तानामेवासक्तंशोकजालस्य पातिनी । आस- क्तानि संलङ्गानि शोकजानि खेदोद्भवानि यान्यालस्यानि तानि पातयति निहन्त्यश्य- मिति । भक्तलोकस्य जालं समूहस्तस्य पालनी गोप्त्री च ! गोमूत्रिकाबन्धः ॥ १९ ॥ तथा यद्गणा यस्याः संबन्धिनः पार्थकिंकराः सुरारिभिः सार्धं दैत्यैः सह युधि सङ्ग्रामें गमनायोद्यताः प्रवेष्टुं साहंकाराः सामराः संदेवाः सन्त आसन्नभूवन् । किं कृत्वा । साम- रागं सान्त्वसक्तिं त्यक्त्वा परित्यज्य । किंभूतम् । अनायासमक्लेशम् ॥ २० ॥ यया चाजया जन्मरहितया सामोदया सहर्षया शत्रौं विपक्षे शातैः शस्त्रैस्तीक्ष्णैरायु- धैर्हते निपातिते सति तैर्गीर्वाणैर्देवैः सामोदया जयाशा सान्त्वोद्भूता विजयाकाङ्क्षा गर्वतो. भिमानाज्जहे त्यक्ता । साम्न उदयो यस्या इति सामोदया ॥ २१॥ यया आयाय अयि अया यूयं यः यः ऽयं येयया एय याम् । ययुयायियया इयाय यये अयायाय या आययुक् ॥ २२ ॥ इति पदानि ।। अयि जनाः, यया देव्या हेतुभूतया यूयं भवन्तः आयायाविर्भूय अया विष्णुशरणा भवत । अं भगवन्तं वासुदेवं यान्त्ययाः संपद्यध्वम् । प्रभवस्य हि हेतुर्देवीति भावः । यथाच-गोविन्दभगिनी देवी तदन्ते तद्गतिप्रदा। भगवती इत्यागमः । यः यः अयं लोक यामेय यां देवीं प्राप्य ययुयायियया इयाय । ययुभिरश्वैर्याति गच्छति तच्छीलो ययुयायी सूर्यः सं ययुयायिन यातीतिि अयुयायियः रविमण्डलभेदी । मुक्त इत्यर्थः । तस्य या गतिः । यानं वा। अन्यत्रापि यतें' इति क्विप् । तया. ययुयायियया सूर्यमण्डलभेदिगत्या किवन्तो धातुत्वं न जहाति' इति परिभाषावचनातू “आतो धातोः' इत्याकारलोपे कृते रूपमेतत् । इयाय, जगामः । किंभूतया गत्या । येयया 'अवश्यप्राप्यया यो यो जनस्तां देवीं शरणमेति स स सूर्यमण्डलभेदिगत्या गच्छति । मुच्यते इति तात्पर्यार्थः। अन्यञ्च या देवी अयायान यये। अयो ज्ञानं दैवमनुकूलं वा कथ्यते तस्यायः अयायः । अयनमायः प्राप्तिः । तदर्थमयायाय ज्ञानप्राप्तये यये शिश्रिये । अस्माद्देवी आययुक् । आयेन ज्ञानेन धनागमनेन वा युनक्ति संबध्नाति । अयनमायः । भावे घञ् । एय इति ईङ् आङ्- पूर्वस्य त्यपि ॥ २२ ॥ तथा यां देवीं शरणं मच्छन्नरः प्रपद्यमानः पुमान् । सदायुष्मान् शोभनचिरजीवी सन् समृध्ध्यति समृद्धिं संपत्ति प्राप्नोति । रोगच्छन्दं च नैति व्याधेरनुवर्तनं च न प्राप्नोति । व्याधिवशादौषधपायी न जातु भवति । यो देवीं शरणमेति स आयुरारोग्यमैश्वर्यं लभत इति वाक्यार्थः ॥२३॥ कृतास्पदा यया संपदघानि सुरवैरिषु । हन्ति या वाङ्मयी दूरादघानि सुरवैरिषुः ॥ २४ ॥ काव्यमाला । जितानया या नताजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥ २५ ॥ (सर्वतोभद्रः) मनोभवारातिमनोमिरामया जरामयापाकरणैकढक्षया । मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया।॥२६॥ (विशेषकम् ) तव भवतस्वया आर्यया गौर्या नयस्यास्था नीत्यवस्थितिः सदा सर्वकालं क्रियता विधीयताम् । यया देव्या सुरवैरिषु देवशत्रुषुः कृतास्पदा लब्धप्रतिष्ठा संपत्समृद्धिरघानि जघ्ने हृता । या च वाड्मयी परापश्यन्तीमध्यमावैखरीरूपा अघानि पापानि व्यसनानि का हन्ति हिनस्ति । केन । सुरवैः साधुशब्दैः । सा च दूरहननादिषुरिवेधुः ॥ २४ ॥ था जितानया अविद्यमानों नयो नीतिर्येषां ते जितायया। तथा या देवी नताजिता रसाततसारता । नताना भक्तानां आजितः सङ्ग्रामात् यस्तारस्तारण: विजयस्तत्र या सातता सविस्तारा । आततनमातत इति । सारता दृढता। बहुतरं दार्ढ्य सा देवीत्यर्थः न सावना न । सहावनेन रक्षणेन वर्तते इति सावना न न सावना किं तु सावनैव, भक्तानां सरक्षणाः । किं च अक्सानयातनारिः अवसाने अन्तकाले या यातना दुष्कृति- विपाकास्तासामरिः शत्रुः विनाशिनी ।इना स्वामिनी । सर्वतोभद्र एषः । बन्धस्तु प्रसिद्ध एव॥२५॥ तया देव्या मनोभवारातिमनोभिरामया चित्तजन्मशत्रुचेतोनुकूलया त्रिनयनचित्तहा- विकी तथा सामाकरणैकदक्षया जरा पलितं आमया व्याधयस्तेषामपाकरणं तिरस्कारः विनाश तन्त्र दक्षया बजुरया । अन्यच्च मदक्षयादहंकारविध विरजस्कत्वं ददानया वितरन्त्या प्रयच्छन्त्या । विशेषकमिदम् ॥ २६ ॥ समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया। सं मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः२७॥ सा भावक्षालवर्या नुतविभक्तिनुर्या वलक्षावभासा जानानस्याशयमा नवनलिनवनप्रायशस्याननाजा सातं वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा पायादक्त्ता रणत्रा मतनमनतमत्राणरक्ता दयापा ॥ २८ ॥ (प्रतिपादं प्रतिलोमानुलोमः) (सदानितकम्) सा देवी अक्ता व्यक्ता पायादव्यात् । येन्द्रहिताय शक्रश्रेयोर्ध रणं सङ्ग्रामं समाययौ समाजगाम । एवं व्यकाव्यक्तस्वरूपिणी देवीत्युक्तं भवति । या समायया सकपटयारि- ) देवीशतकम् । सेनया शत्रुपृतनया न जिता नामिभूता । अपि च मुग्धतया कृशतया युक्तः स. माश्च- न्द्रो हर महादेवमाश्रितः संश्लिष्टः सन् स्फुटं नूनं या देव्या समा तुल्या मनोज्ञता रामणीयकानि यथाचे प्रार्थयामास । तत्समलावण्येच्छश्चन्द्रः स्फुटं हरं याचते ॥ २७ ॥ [यो च देवी] सा भावक्षालवर्या । क्षालनं क्षालः भावस्य चेतसः क्षालो नैर्मल्यं तत्र व या वर्या श्रेष्ठा । तथा नुतविभवितनुः । नुता विभविनी महाप्रभावा तनुर्मूर्तिर्यस्याः । वलक्षावमासा । वलक्षः शुद्धोऽवभासः प्रभा यस्याः । शुद्धप्रकाशरूपेत्यर्थः । किं च जानानस्य ज्ञानिनः आशयप्रा अभिलाषपूरणी । तथा नवनलिनवनप्रायशस्यानना । प्र. त्यग्रकमलखण्डतुल्य स्तुत्यमुखी । तथा अजा जन्मरहिता ? किं चाननस्था मुखगता सतीं सातं वर्म श्रेष्ठः कवचः । सदैव सतां वाग्रूपेण परमं सेनहनं सेत्यर्थः । तथा रहसि विजने रसी रसिको योऽसौ हरः शंभुस्तस्य यानि स्थाने नर्माण अवसरे परिहसितानि तानि अवतंसः कर्णाभरणं यस्याः सा । रणत्रा सङ्ग्रामत्रायिणी । अपरं मतनमनतमत्राणरक्ता । अतिशयेन मतमभिप्रेतं नमनं देवीप्रणामो येषां तेषां त्राणे रक्ता सक्ता यत्तो दयापा दयां करुणा पाति रक्षति आप्नोति वा । प्रणतानां दयापरेति भावः ॥ २८॥ उपासते कृष्टिकृतोदयां यो जना सदाराधनमीहमानाः । शंभोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥२९॥ (अर्थत्रयवाची) सा गौरी मृडानी भवतां युष्माकं हितमनुकूलं विधेयात्कुर्यात् । यां जना लोका उपा- -सते सेवन्ते । यतः कृष्टिकृतोदयाम् । कृष्टीनां सूरीणां कृतो विहित उदय आविर्भावो यया ताम् । कीदृशा जनाः । सदा सततं सच्छोभनं वाराधनं संमुखीकरणं सेवामीहमाना: काङ्क्षन्तः । किंभूता देवी । शंभोः शर्वस्य तनुतां कायत्वं वहन्ती बिभ्राणा । प्रसिद्धा प्र. थिता ॥ अथ च सा गौर्वाणी ईहितमभिमतं विधेयात् । कीदृशी । कृष्ठिनिः सूरिभिः कृत उदयो विकासो यस्याः । शंभोर्ब्रह्मण अंतनुतामकृशतां वहन्ती प्रसिद्धा । तस्मिन्स्त्रीरूपे णापि सुव्यक्ता स्थिता वागिति भावः । 'शंभू बह्मेश्वरौ ज्ञेयौ । यां जना उपासते । कीदृशाः । सतां साधूनामाराधनं चित्तग्रहणमीहमाना अभिलषन्तः ।। अन्यन सा गौर्भू वः ईहितं विधेयात् । यां जना उपासते अधितिष्ठन्ति । कीदृशाः । सदाराः सकलत्राः । धनं वितमीहमानाः प्रार्थयमानाः । कीदृशीं क्ष्माम् । कृष्टिभिः कर्षणैर्हलविलेखनैः कृत सदयः कृत्यागमः । देवी च वाङिमयी (मही) मूर्तिस्पीति वाक्यार्थः ॥ २९ ॥ यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानमोगा । अधानि अस्याः प्रथमता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥ ३० ॥ यस्याः प्रभावो धुसदां विपक्षसेना वधानन्दयित्ताहरस्य मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥ ३१ ॥ (संदानितकम्) मंथ गुरु २ काव्यमाला। ...सा इना ईश्वरी हरस्य गिरीशस्य दयिता वल्लभा वो भवतां श्रिय लक्ष्म्यर्थमवधान प्रयत्नमावहतु विदधातु ! यो पुमांसो नराः सद्य एव प्रणतेः समनन्तरमेव त्रिदर्शदेवैः समास्तुल्या नमस्यन्ति प्रणमन्तिः । किं च सदानभोगाः । सह दानेन त्यागेन भोगैर्विष- यातुभवैश्च वर्तन्ते ये ते। तथा यस्या देव्याः प्रणताः प्रह्नाः नभोगा नभसि गता इति विपक्षैः शत्रुभिः समान सहाघानि पापानि सदा सर्वकालमस्यन्ति क्षिपन्ति ॥ ३०॥ तथा यस्या देव्याः प्रभावो माहात्म्यं द्युसदां सुराणां विपक्षसेना वधानन्दयिता अरि- रूथिनीवधेन हननेनानन्दयिता परितोषयिता । किं चास्य मनोम्बुजस्य चेतःकमलस्य अहरिवाहः । विकासकत्वात् । एतद्देव्याः प्रभावस्यं वा विशेषणम् ॥ ३१ ॥ सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् । स्वापं न वो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥ ३२ ॥ सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् । स्वापन्नबोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥ ३३ ॥ (महायमकम् ) सुरानिति द्वेषिजनैरभिद्रुतानुदाहरद्या स्वयमावोद्यता । शिवोऽद्य तापप्रशमस्तया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥ ३४ ॥ (विशेषकमिदम्) तथा देव्या प्रशस्तया मङ्गलभूतया तव भवतः अद्यास्मिन्नहनि तत्त्वदृशा सारज्ञानेन शिवः श्रेयाननुकूल "मसुख इति यावत् । तापप्रशम आध्यात्मिकाधिदैविकाधि- मौलिक शेषत्रयस्य प्रशमो विनाशों विधीयतां क्रियताम् । या देवी सुरान्देवान्द्वेषिजनैः शत्रुजनैरमितान्पलायितान्स्वममाहबोधता सङ्ग्रामसंनद्धा सती इति वक्ष्यमाणप्रकारेणो- दाहरदवोचत् । कथामित्याह- है जित्ता अभिभूताः सुरो देवाः, रणात्सङ्ग्रामादभीतं निर्भय कृत्वा यात गच्छत ! मा भूद्भवतां सङ्ग्राममयमित्यर्थः । भाविता देवराजद्विपस्य ऐरावणस्य क्षमा अशक्तता यैस्ते । अपरं वो भवतां हितं धाम अनुकूलं स्थानं न न नाम स्वापम् । सुप्रापमेवेत्यर्थः । अन्यच्च या देवसेना सह देवेन इनेन प्रभुणा च सुरा- जिताः सुष्ठु भ्राजिता ऊहितानां तर्कितानां चित्तविषयाणां शत्रूणांमध्ये भवतः संपत्.... "समस्तश्लोक्यमनान्महायमकमिदम् ॥ ३९ ॥ ३३ ॥ ३४ ॥ वक्त्रं बिभ्रत्युपहितचन्द्रायासं या संमोहप्रशमनसूर्याकारा । कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ।। ३५॥ (काञ्चीयमकम्) सा. देवी वो युष्मान्पायाद । या उपहितचन्द्रायासं वक्त्रं बिभ्रती स्वकान्त्यतिशयेनो- पहितोदत्तश्चन्द्रस्य शशाकस्यायासो ग्लानिर्येन तादृशं वक्त्रं मुखं बिभ्रती धारयन्ती । तथा देवीशतकम् । संमोहो हार्द तमस्तत्प्रशमने विनाशने सूर्याकारा भानुतुल्या । सूर्यो यथा तमोविनाशने दक्षस्तद्वद्धार्दतमोनिवृत्तये देवीत्यभिप्रायः। तथा या देवी क्षेपत्यका भर्त्सनरहिता अनिन्द्या रणभुवि आहवभूमौ कारानीतामरं बन्धनस्थापितदेवं अरिं शत्रुं आचिक्षेपाजुहावा समरार्थ- माहूतवतीत्यर्थः । काञ्चीवन्मेखलावत्स्तम्भनात्काञ्चीयमकम् । जलधरमाला नाम वृत्तम् ३५ हितेहितेऽस्तु ते स्तुते जिताजितामितामिता। जयाजया जनोऽजनो यया ययावलं बलम् ॥ ३६॥ (आवलिर्नाम यमकमिदम्) जयाख्या देवी तव हितहितेऽनुकूले चेष्टितेऽस्तु भवतु । हितं च तदीहितमिति । त्वद्धितकार्ये वर्ततामित्यर्थः । कीदृशे । हितेहिते स्तुते प्रशस्त। कीदृशी देवी । जिताजितां लब्धजयसमरतामिता गता। तथा अमिता अपरिच्छन्नस्वरूपा । अन्यत् , मया हेतुभूतया। जनो लोकः अलमत्यर्थं बलं ययौ जगाम लेभे । कीदृश्या यया। अजया जन्मरहितया । कीदृशो जनः । अजनः जन्मरहितः सन् । जननं जन इति कृत्वा नञ्समासः । प्राप्ततत्व- ज्ञान इत्यर्थः । मुमुक्षुर्जनस्स्वत्प्रसादान्मोक्षावाप्तिसामर्थ्यं लभत इत्युक्तं भवति।। ३६ ॥ सक्ति वः सुकृतार्जने विदधती सत्रा यतां त्रायतां दुर्गा दुर्ग्रहदूषितोद्धतधियामायासदा या सदा । साधूत्साहविधानसक्त्तमनसा मुख्या ततां स्याततां संस्मृत्यैव.... "मत्सरभरस्फीतापदां तापदाम् ] || ३७ ॥ '....आयासदा क्लेशदायिनी । तथा साधूत्साहविधाने सज्जनानामुत्साह- करणे सक्तमनसामभिनिविष्टचेतसां लोकपालानां मुख्या प्रधानम् । अन्यच्च संस्मृत्यैव स्मरणेनैव ततां विस्तीर्णा ख्याततां .... । मत्सरत (भ)रो द्वेषबाहुल्यं स एव..स्फीतो विप्रलाप (8) आपद्दौर्भाग्यं येषां तेषां तापदां खेदप्रदाम् ।। ३७ ॥ या मूर्ति किमपि स्मरारिवपुषा धत्ते समायोजितां यां दृष्दैव विनाशमाप सहसा शुम्भः समायोऽजिताम् । या नम्रैः सुरसिद्धकिंनरनरैः खेदं विना शस्यते सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥ ३८ ॥ त्रिलोचनवधूर्हरपत्नी ते भवतः अश्रीविनाशस्यालक्ष्मीप्रतिघातस्य हेतुर्निमित्तं भवता- त्संपद्यताम् । या स्मरारिवपुषा मदनारपुशरीरेण समायोजितां मिश्रितां मूर्ति तनुं किमपि केनापि हेतुना धत्ते धारयति । यो चाजितामपरिभूतां शुम्भाख्यो दैत्यः समायः सप्रपञ्चो- ऽपि सन्दृष्टदैवावलोक्यैव सहसा झटित्येव विनाशं मरणमापः प्राप लेभे । तथा सुरसिद्धकि- नरनरैर्देवसिद्धगन्धर्वपुरुषैः खेदं विना आलस्यं विना शस्यते स्तूयते ॥ ३८ ॥ do१२. काव्यमाला। सायासायास्त्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा स्वैरं स्वैरंशसगैंर्गहनतममहामोहहार्दं हरन्ती । शस्याशस्यादधाना सकलमभिहितं भक्तिभाजः स्मृतैव स्तादस्तादभ्रदोषा द्विषदुपशमनी सर्वतः पार्वती वः ॥ ३९ ॥ पार्वती वो युष्माकं सर्वतः समस्तादिग्देशकाद्विषदुपशमनी शत्रुमर्दिनी स्ताद्भवतात् । अस्ताः क्षिप्ता विनाशिता अदभ्रा महान्तो दोघा मूर्तामूर्तः *तथा सायासायाः सोप-- तापायास्त्रिलोक्या भूर्भुवःस्वर्लक्षणायाः शरणमभयपदस्थानम् । अन्यच्चाकरुणं निर्दय कृत्वा क्षुण्णा विनाशिता दैत्यप्रवीरा असुरप्रधाना यया सा । अपि च स्वैर्निजैरंशसर्गैरव- यवप्रादुर्भावैः स्वरं शनैः शनैः कृत्वा गहनतमो दुर्भेदो योऽसौ महान्हार्दो हृदयभवो मो- होऽविवेकस्तं हरन्ती निवारयन्ती । अन्यत्र भक्तिभाजः सेवासक्तपुंसः शस्याशस्य सम्य- वस्तुत्याभिलाषस्य सतः स्मृतैचध्यातमात्रैव सकलमशेषमभिमतमादधाना पोषयन्ती ३१ सुरसुरचितचितनवनवभवभवनानादरादरायेये । लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥ ४ ॥ (निरन्तरावलियमकम्) हे देवि, सुरैर्देवैः सुरचितेन शोभनरचनया चिता दृष्टाः नवा अनन्यकृता नवाः स्तवा यस्याः सा सुरसुरचितन्वितनवनवा । तथा भवभवाः संसारसंभूतः ये नानादरा बहुप्रकारभयानि तन्निवृत्त्यर्थमादरेणौत्सुक्येन या आयेया आगन्तव्या । या भवभव- मानादरादरायेया यातव्या । प्रथमार्धश्लोकेन (नु) संधानम् । ते तब चरणौ पादौ लयो लीला विलासरतस्य लयश्चरणं गमनं यथोस्तौ चरणौ नतेन नमनेन नमामि न मामि न पर्याप्तो भवामि । तृप्तिं न गच्छामीत्यर्थः ॥ ४० ॥ या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् । विदधे यच्चापस्य न च क्रेंकारोऽपि तानवं नारीणाम् ॥ ४१ ॥ या हन्तां च प्रयाता विहायसा कंसमाह तारातिबलेन । कृष्णस्तव परमाया विहाय साकं समाहतारातिबलेन ।। ४२॥ तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया । ख्याति यया जनतोज्ज्वलविवेकशीभातिभद्रकालीनतया ॥ ४३ ॥ (कलापकम्) तां देवी नमत नमस्कुरुत या स्मरभिदा मदनहस्त्रा भर्त्रा हरेणाङ्कारोपिता उस्त- ङ्गमारोहिंता सती नारीणां स्त्रीणां नवमपूर्व विस्मयमाश्चर्य चक्रे । तथा यच्चापस्य यदेवीशतकम् । दीयधनुषश्च संवन्धी क्रेंकारोऽपि ध्वनिरप्यरीणामरातीनां तानवं क्षयं न न विदधे अपि तु चक्रे। अपरं या तारा प्रकाशरूपिणी विहायसा आकाशेन प्रयाता गता सती. कृष्णो भगवान्वासुदेवस्तव भक्तः हन्तां हिंसतु इत्यनेन प्रकारेण कंसाख्यं दैत्यमाहावो- चत्स्म । कथमित्याह-- परमाया विहाय द्विषत्कुसृतीः परित्यज्य अतिबलेन बाहुना. समा हतारांतिना निहतशत्रुणा बलेन भगवता संकर्षणाख्येन भ्रात्रा साकं सह । तथा या च भद्रकाली कात्यायनी समरेषु युद्धेष्वनेको बहुधा भाति शोभते । यया च देव्या नतया प्रणतया जनता जनसमूह उज्ज्वलविवेकशोमा प्रकृष्टज्ञानप्रभा सती अतिभद्रका- लीनतया अत्यर्थमङ्गल्यसंपृक्ततया हेतुभूतया प्रशस्तया देवी भातीत्यर्थः । ख्याति प्रका- शते व्यक्तीभवतः (१) नमत' इति संबन्धः ॥ ४१.१.४२ ॥ ४३ ।। तां स्मरत या स्मृतैव हि मानवतामरसमानता राति बलात् । यत्प्रणतं श्रीः श्रयते मानवतामरसमानताराति बलात् ।। ४४ ॥ तो देवी स्मरत चिन्तयत.। हि यस्माद्या. मानवता ज्ञानिना स्मृतैव ध्यातैव सती अमरसमानता देवतुल्यत्वानि अमृतवादीनि राति ददाति । तथा यत्प्रणतं यस्याः प्रह्णं मानवतामरसं नरनलिनं आनतारातिबलात् आसमन्तान्नतं बन्धुरकंधरं यदरातिबलं तत्प- रित्यज्य इति ल्यब्लोपे कर्मणि पञ्चमी तस्मादेत्य श्रीः (बलात् ) श्रयते सेवते ।। ४४.५. अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या। अनवरागसमुद्भवदेह तामबनतोऽस्मि जगतंप्रियतां सतीम् ॥ ४५ ॥ तां सती सतीसंज्ञां साध्वीं वा अवनतोऽस्मि अहं प्रणतः । कीदृशीम् । या अनवरः सर्वोत्कृष्टो योऽसावगः पर्वतस्तत्समुद्भवदेहतां तज्जातशरीरत्वमुपगता जगत्प्रियतां चं प्राप्ता सती गिरिशेन महादेवेन इहास्मिज्जगति अनवरागसमुत् अनवेन चिरंतनेन रागेण प्रेम्णा समुत् सहर्षा ददृशे दृष्टा । तथा च कालिदासः--'सती सतीयोगविसृष्टदेहा' इति तथा भवदा भवं संसार द्यति खण्डयति ॥ ४५ ॥ मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना 'नुन्नेनोनमने निमानममुना नो नाम नानानुमे । मौनेनामममाननिम्नमननान्नानामिनानूनिमे मुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ।। ४६ ॥ (व्द्यक्षरः) हे नुन्नेनोनमने देवि, नुन प्रेरितं यदेनः पापं तदेव नमनं प्रणतिर्यस्याः । पापघा- तिनी यस्याः सेवेत्यर्थः । तामाहूय तुभ्यमित्यर्थादभ्यूह्यते तेन हे देवि, तुभ्यं नमः । चयं वां प्रणमाम इति भावः । तथा हे देवि, मेना हिमवन्महिला उन्मना. सोत्कण्ठा सती अनेन तावकेन उमानाम्ना उमेति संज्ञया नूनं निश्चितं माननं पूजनं मेने जज्ञे वुकाव्यमाला। बुधे । नु वित। हे नानानुमे, नानाविधा अनुमाः संज्ञा यस्या इत्लनुमा अनेन च नाम्ना नो नाम निमानं न पर्याप्तिः । नामशब्दोऽभ्युपगमे । एकेनोमानाम्ना कतमा पूजा भवेदित्यर्थः । तथा मौनेन तपसा पूताद्युपलक्षणोऽत्र मौनशब्दः । नियमेत्र भावः । अमम- माननिन्नमननन्नानामिनानूनिमे मममानं ममताज्ञानमहंकारस्तेन निम्नमल्पीभूतं मममान- निम्नम् नञ्समासे कृते अमममाननिम्नं यन्मननं ज्ञानं तदेवान्नं शरीरवृत्तिर्येषां तपसा- नहंकारज्ञानवृत्तीनाम् इनानूनिने ऊनस्थ भाव ऊनिमा न ऊनिमा अनूनिमा । इना- दादित्यादनूनिमा यस्याः । टावन्ताया आह्वानं इनानूनिमे सूर्यसमाने । तथा हे मुन्मि- त्राननमाः मुदा हर्षेण मिन्नः स्निग्ध आननमा मुखचन्द्रो यस्याः । हे आन- न्दमयीत्यर्थः । अन्यच्च हे मुनिमनोमानाननोन्नामः तदस्या अस्ति' शीलं वेति तन्ना- मिनी । मुनिमनसामेषा ज्ञानमाप्याययतीति भावः । तस्य आह्वानमिति संबन्धः ॥४६॥ तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या । सुधीरस्यति धीरस्य महामोहमयी त्वचम् ॥ ४७ ।। तां देवीमहं वन्दे प्रणतोऽस्मि या धीरस्य विषयानपहृतस्य सुधीः शोभनबुद्धिरूपा. संती ज्ञानरूपं बोधमयं नवं प्रत्यग्रं देहं शरीरं विधाय निर्माय महामोहमयीं महदज्ञान रूपां त्वचं कृत्तिमस्यति क्षिपति नाशयति ।। ४७ ॥ यां नुत्वा यान्ति हृद्यार्थसज्जायां गिरि शस्यताम् । नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥ ४८ ॥ तां गिरिशस्य जायां हरस्य पत्नी अहमस्मि भक्तिमास्थाय सेवां पुरस्कृत्य सत् शोभनं कृत्वा वाङ्मनःकायैरिति नौमि स्तोमि । यां देवीं नुत्या प्रणम्य हृद्यार्थसज्जायां मनोहरव- स्तुप्रवृणायां वाचि शस्यतां यान्ति प्रशंसां लभन्ते ।। ४८ ।। यदानतोऽयंदानतो न यात्ययं नयात्ययम् शिवे हितां शिवहितां स्मरामितां स्मरामि ताम् ॥ ४९ ॥ तां देवीं स्मरेण कामेनामितामपरिच्छिन्नामनभिभूतां स्मरामि चिन्तयामि ध्याये । यदानतो यस्याः प्रणतः पुमान् अयदानतोऽयो दैवमनुकूलं तस्य दानं क्षयः । दीङ् आते (धातोः?) रूपम् । अतोऽयदानतो हेतोर्नयात्ययं नीतिविधातं न याति न गच्छति । की- दृशीं देवीम् । शिवे शंकरे हितामनुकूलाम् । तथा शिवं श्रेयःप्रदमीहितं यस्यास्ताम्॥४९॥ सर स्वतिप्रसादं मे स्थितिं चित्तसरस्वति । सरस्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ ५० ॥ हे सरस्वत्याख्ये देवि, स्वतिप्रसाद सुष्टु अतिशयेन च प्रसादं सर गच्छ । स्वतिशब्दो सुतरामर्थे । तथा मे चित्तसरस्वति चित्तमेव सरस्वान्समुद्रस्तत्र मनःसमुद्रे स्थिति पदं कुर निवत्स्व । क्षेत्रं शरीरं तदेव कुरुक्षेत्रसंज्ञं पुण्यस्थानं तत्र नित्यावस्थानात्सरस्वती न दीव सरस्वतीतस्या आमन्त्रणम् । शरीरे नित्योदितवाग्रूपतया स्थितेति भावः ॥५०॥ देवीशतकम् । त्वद्भक्तिभावितधियो जगतामन्त्र ये त्रये । जन्मवत्तामहं मन्ये तेषामेवानृणां नृणाम् ॥ ५१ ॥ (विरोधाभासः) हे देवि, ये नरास्त्वद्भक्तिभावितधियस्त्वत्सेवाधिवासितधिषणा अत्रास्मिञ्जगति ज- गतां विष्टपानां त्रये त्रैलोक्ये ये सन्ति तेषामेव जन्मवत्तां सजन्मलमनृणां विनष्टऋण- त्रयामहं मन्ये । अस्मिजगति ऋषिपितृदेवानां ब्रह्मचर्य प्रजायज्ञैर्र्यदानृण्यं तद्देवीभक्त्या भवतीति भावः । अत्रये त्रये, अनृणां नृणां इति विरोधाभासित्वम् ॥ ५१ ॥ जगतः सातिरेका त्वं गतिरस्य स्थिराधिका । तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥ ५२ ।। (अर्धभ्रमोऽयम्) हे देवि, त्वमस्य जगतस्त्रैलोक्यस्य सतिरेका सातिशया गतिः परायणम् । शरण- मित्यर्थः । कीदृशी । स्थिरानपायिनी । अथाधिका सर्वेषां गरीयसीति भावः । तथात्रा- स्मिञ्जगति असतारा सती अरेर्मोहात्तरति । सह तारेण वर्तत इति सत्तारा । न सतारा असतारा । अनायासेन मोह नाशयसीत्यर्थः । कथम् । अत्रोसरसस्थिति कृत्वा । त्रास- रसे अभिनिवेशे स्थितिः स्थानं न विद्यते यस्मिन् । सर्वतोभद्रापेक्षयार्धभ्रमणादर्ध- भ्रमः कथ्यते ॥५२॥ त्वन्नामस्मरणादेव न लक्ष्मीश्चपलायते सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥ ५३ ।। हे पार्वति गिरिजे, त्वन्नामस्मरणाद्धावत्कसंज्ञाचिन्तनादेव लक्ष्मी श्रीर्न चपलायते चपलत्वं नाचरति । न चलतीत्यर्थः । तथा क्षिप्रं त्वरितं सर्वतो दशदिकं सर्वपदार्थे भ्योऽलक्ष्मीदौर्भाग्यं पलागते दूरीभवति ।। ५३ ॥ जयन्ति भक्ता वित्तेशसमरायस्तवाहवे । तुभ्यं नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥ ५४ ।। हे देवि, तव भवत्याः संबन्धिनो भक्ताः सेवका आहवे सङ्ग्रामे जयन्ति सर्वोत्क- र्षेण वर्तन्ते । परानमिभूयेत्यर्थः । कीदृशा भक्ताः । वित्तेशेन वैश्रवणेन समस्तुल्यो र धनं येषां ते वित्तेशसमरायः । तस्मातुभ्यं भवत्यै नमः । कीदृशे । त्रयाणां लोकानां समाहारत्रिलोकी तदर्थं त्रिलोकीरक्षणार्थं यः समरो ययुद्धं तत्रायस्ता आ समन्तात्स- यत्ना व्यापृता बाहवो भुजा यस्या इति ॥ ५४ ॥ सत्त्वं सम्यक्त्वनन्मील्य हृदि भासि विराजसे द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ।। ५५ ।। (पुनरुक्तवदाभास) काव्यमाला। हैं देवि, विराजसे विगतरजोविकारे हृदि हृदये त्वं भासि शोभसे । किं कृत्वा । स- म्यग्विधिवत्सत्त्वं चेतोगुणमुन्मील्य प्रकटीकृत्य । तथा द्विषां शत्रूणां संबन्धिनीं वाहिनीं चमूमरीणां सारवतीं सेनां सेश्वरां त्वमुदकम्पयः कम्पयांचकार कम्पितवती । भासि वि- राजसे, द्विषामरीणाम् , सेनां वाहिनीम् , उदकं पयः, इति पुनरुक्तभासनात्पुनरुक्तवदा- भासोऽयं न तु पुनरुक्तः ॥ ५५ ॥ दूरागत रसा धन्यः सेवते यस्तव स्तुतीः । दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥ ५६ ।। हे देवि, यो धन्यः पुरुषः पुण्यवास्तव भवत्याः स्तुतीः प्रशंसाः सेवते विदधाति तस्य पुंसः सिद्धयो मनोरथा अणिमाद्या वा कल्पन्ते संपद्यन्ते । किंभूताः सिद्ध्यः । दूरागतरसा दूरसत्यर्थमागतो रसः संक्तिर्यासु ताः। अभिलषणीया इति यावत् । तथा दूरानो दुष्टासक्तितस्तर उत्तरण साधयन्ति संपादयन्ति तच्छीलास्ताः ॥ ५६ ॥ मोह हत्वास्पदं यासि सात्वमम्ब रवासिना । या न, संस्तूयसे केन सा त्वम्बरवासिना ॥ ५७ ।। हे अम्बं मातः, सा त्वं वक्ष्यमाणस्वरूपा केनाम्बरवासिना धुसदा देवेन न स्तूयसे सर्वैरपि देवैः स्तूयंस इति भावः । सा त्वं का । या भवती रवासना अनाहतखङ्गेन भी- हमज्ञानं हत्वा विनाश्य प्रकाशात्मकसत्त्वगुणमयमास्पदं स्वकीयं प्रकाशस्थानं यासीत्यर्थः । तथा चोक्तम्-'अनाहते पात्रकर्णे भग्नशब्दे सरिद्तुते (1) 1 शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति ॥ ५७॥ प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली । प्रज्ञात्मनेन विमला स्थिता दृश्यसि विद्वताम् ॥ ५ ॥ (अपशब्दाभासः) हे देवि, असि त्वम् । विद्वताम् वेदनं वित् ज्ञान विद्यते येषां तेषां संबन्धिन्यां दृशि बुद्धौ प्रज्ञात्मना ज्ञानरूपेण विवेकात्मना प्रकाश्यं प्रकटीकृत्वा इनविमला आदित्यरूपा ति- ष्ठसीत्यर्थः । कीदृशी त्वम् । गृह्यास्वत्सेवोद्यता ये पुमांसस्त एव सस्यं शालिस्तस्य खेद आयासस्तस्य च्छेदे विनाशेऽम्बुदावलीत्यर्थः । गृह्य, प्रज्ञात्मनेन, दृश्यसि, विद्वताम् , इ- त्यपशब्द्वदाभासनादपशब्दाभासः ३ ५८ ॥ भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमोमलालसा भवन्ति नैव तु कचित् ।। ५२ ।। हे भवानि शर्वभार्ये, ये जना निरन्तरमविरतं कृत्वा तव भवत्याः प्रणामलालसाः प्रणतिपरास्ते मनस्तमीमलालसा चित्तमोहकलङ्कनिःशोभा न क्वचिन्न कुत्रचिद्भवन्ति संपद्यन्ते ।। ५९ देवीशतकम् . विभावनाकुला त्वयि क्रमेण देवि भावना । वपुष्पतिस्थिरेतरे नितान्तमेव पुष्यति ॥ ६० ॥ है देवि, त्वयि विभौ व्यापिन्यां त्वद्विषये क्रमेण यथोक्तविधिना अनाकुला स्थिरा नि- श्वला भावना भक्तिः अतिस्थिरेतरे अतिशयेन स्थिरादितरे विनश्वरे वपुषि शरीरे निता- न्तमेवात्यर्थ पुष्यति पुष्टा । प्रकृष्टेत्यर्थः । अस्थिरेऽस्मिन्ससारे त्वद्भक्तिरेव सारमित्यर्थः६० ।। महोऽदयानामवधी रणेन महोदयानामवधीरणेन । महोदयानामव धीरणेनमहोदयानामवधीरणेन ।। ६१ ।। (पादाभ्यासयमकम् ।) न दयन्ते रक्षन्तीत्यदया हिंसास्तेषामदयानां महस्तेजः रणेन संग्रामेण या त्वमहो आश्चर्य दयानामवधीरणेन तिरस्कारेणावधीः निहतवती । निर्दयतया हिंस्रात्वं समरं महोदयानामुत्सवोत्पत्तीनामवधीरणेनादधिक्षपणेन निरवधिसुखोत्पादनेन महोदया म- हान्तो बृहन्त ये उदया अयो ज्ञानं दैवमनुकूलं वा । उद्गतश्चासाच्य उदयः । महान्त उदया येषां तेषां धोरणेनं धीरयतीति धीरणं धैर्यकर्तारमिनमीश्वरं प्रभुभव रक्षस्व । महाज्ञानानां धैर्यकर्तारं प्रभुं पालयेति यावत् ॥६.६।। न मज्जनेन तीर्थानां तदिह प्राप्यते शुभम् नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ॥ १२ ॥ हे अम्बिके मातः, तद भवत्याः संबन्धिनां तीर्थानामागमानां सेवया समाश्रयणेन. अमज्जनेन प्रणतजनेन यच्छुभं फलं श्रेयः प्राप्यते लभ्यते तत्तीर्थानामृषिसे वितजलाना मज्जनेन न प्राप्यते ॥ ६२॥ प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् । त्वत्प्रसादाज्जनः सारभारतीव्रतमेत्ययम् ॥ ६३ ॥ हे देवि, अयं जनो लोकस्त्वत्प्रसादात्वदीयेन कारणेन सारभारतीव्रतं सारा प्रधाना चासौ भारती वाक् तद्गतं तत्परतामेति प्राप्नोति । पश्यन्तीस्वरूपं लभत इत्यर्थः । वा क्त्रित्तये हि प्रधाना पश्यन्ती। तथा चोक्तम्-- अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी । कस्मिन्समये । मोहे ज्ञानेऽत्ययं विनाशं प्रयाति गच्छति सति । कीदृशे मोहे । निःसारभारतीव्रतमे निःसारस्य दुर्बलस्य यथा भार आयास हेतुस्तद्वत्तीव्रतमे दृढतमे । अविषयायासद इत्यर्थः ।। शास्त्रप्रभावहासिताः सतां या निर्मला गिरः शास्त्रप्रभावहसितास्त्वमम्ब तिमिरच्छिदः ।। ६४ ॥ हे अम्ब जननि, याः सतां साधूनां सूरीणां संबन्धिन्यः शास्त्रप्रभावेण पदवाक्यप्रमाकाव्यमाला णानां माहात्म्येन हसिता गिरी वाचो निर्मला अकलङ्का निरपशब्दास्तास्त्वं शास्त्रप्रभा आयुधदीधितयस्तिमिरच्छिदोऽन्धकारन्यो वहसि बिभर्षि धारयसि । निरपशब्दा. वाचो मोहत्र्यस्तवायुधमित्यर्थः ॥ ६४ ॥ शमीह ते समानतो विभावितोऽत्रसन्न यः । विभावितोऽत्र सन्नयः शमीहते स मानतः ।। ६५ ।। हे देवि, ते तव समानतः सम्यक्प्रणतो य. इह संसारेऽत्रसन्नबिभ्यन्सन न बिभौ भगवति वासुदेवाख्ये ब्रह्मणि इतः न गतः । मोक्षं न प्राप्त इति भावः । शमी जिते न्दियः सन् सन्नयो विद्यमाननीतिः । अत्र संसारे विभावितो लक्षितो मानतो ज्ञानाद्धेतो संश्रयत ईहते चेष्टते यः। संसारसक्ततया. भगवन्तं विष्णु न श्रितः सोऽपि त्वां प्रणत. श्वेत्तद्विद्यमाननीतिः शमी च प्राप्तज्ञानो विश्वं प्राप्नोतीति भावः ॥ ६५ ॥ मातरं त्वा पदं सद्य आश्रितास्ते कथं जनाः। मा तरन्त्वापदं सद्य आद्यं श्रेयः समाश्रिताः ।। ६६ ।। हे देवि, त्वां मातरमम्बिकां ये जना लोका आश्रितास्ते कथं केन प्रकारेण सद्यस्त- त्क्षणमेव आपदं दुर्गतिं. मा तरन्तु मा लङ्घयन्तु । दुःखमुत्तीर्य वर्तन्त' इति भावः । त्वां कीदृशीम् । सत्पदं शोभनस्थानम् । जनाः कीदृशा: आद्यमग्रिमं श्रेयः शिवं समा- श्रिता अधितिष्ठन्तः ।। ६६ ।। भाति त्वत्तनुसंश्लेषे सत्यम्ब वपुरनुत्तरम् । संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥ ६७ ।। हे अम्ब मातः, त्वत्तनुसंश्लेषे स्वत्कायसङ्गे सति पुरनुत्रिपुरारातिः शंभुर्भाति शोभते । ते तव संबन्धि च सत्सत्यं ध्रुवं वपुः पश्यन्तीवाभ्रूपं शरीरं संसाराब्धौ जगज्जलधौ स- त्तरं शोभनं प्लवं अनुत्तरमविद्यमानावरमाहुर्ब्रुवते । तत्त्वविद एवं गायन्तीत्यर्थः । अवि- धातोरम्बाशब्दसिद्धेः कथं केवलौष्टयतया भकारः परमवर्णः (१) दन्त्योष्ठयोयोरपीति यमकस्यआभङ्गः । ६.७॥ यच्छ मे नित्यसंसङ्गि यच्छमे तदिदं मनः । स्वच्छलो भक्तियोगस्ते स्वच्छलो कविवेकसूः ॥ ६८ ॥ हे देवि, यत् शमे विषयांणामसङ्गे मनश्वेतो नित्यसंसङ्गि सततानुरक्तं तदिदं तथावि- धमेतन्मे मम यच्छ देहि । यतस्ते तव संबन्धी यो भक्तियोगः सेवासङ्गः स स्वच्छल सुष्ठु अविद्यमानच्छलो निच्छिद्रः सन् स्वच्छं निर्मलं लोकानां जनानां लोकयोर्वा इहामुत्र च विवेकं प्रकृतिपुरुषोत्तमोत्कर्ष सूते जनयति । अत एव इहात्र परत्र च स्वच्छता ॥६॥ के बलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे । केवलं ते वितन्वन्त आसते विमला घियम् ॥ ६९ ॥ देवीशतकम् । हे देवि, त्वत्प्रणतास्त्वत्प्रह्णा जना वितन्वन्तकृतः वितनोरनङ्गस्यान्तकृतो विनाशका- रिणो भवे संसारे के वलन्ते के आविर्भवन्ति । त्वत्प्रणता जितकामा विमुच्यन्त इति भावः । ते केवलमनन्यव्यापाराः सन्तो निर्मलाममोहां धियं बुद्धिं वितन्वन्तो विस्तारयन्त आसते तिष्ठन्ति । यावत्संसारस्तावद्विमोहः । भूयश्च त्वत्प्रणता भवे न निवर्तन्ते ।। ६९ ॥ देवि निर्दग्धकामस्य त्वं निरावरणात्मनः । दरस्य शुधसंतानं तेनासौ भ्राजते तथा ॥ ७० ॥ देवि, त्वं हरस्य गिरिवरतनयाधवस्य शिवस्य निर्दग्धकामस्य भस्मीभावितमीनके- तनस्य तथा निरावरणात्मनः निर्गतमावरणं परिधानमात्मनो अस्य आशाम्बरस्य दिग्वा- ससः शुभसंतानं पुण्यप्रतानं श्रेयोविस्तारस्तेन कारणेनासौ हरस्तथा माहात्म्ययुक्तों भ्रा-- जते शोभते । अत्र च क्रियां प्रत्याकाङ्क्षेव नास्ति : विमृश्यमानश्वार्थो नान्वयः (१) एवं क्रियाया अभावात् शुभसंतानमिति द्वितीयानुपपत्तेस्त्वमिति प्रथमाया असामानाधिकर- ण्याच एतत्प्रतीयमानार्थसंबन्धिनी क्रिया गोपिता भवति । अत्रैव' च व्याख्यानाल्लभ्यते। तदा चान्वयो भवति-~यथा देवि, निर्दग्धकामस्य निरभिलाषस्य तथा निरावरणात्मनः प्रक्षीणक्लेशजालस्वमावस्य यतस्त्वमशुभसंतानमावरणसंततिं हरसि निवास्यसि तेनाशुभ- संतानहरणेनासौ तथा भ्राजते दीप्यते ॥ ७० ॥ द्विषद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः । स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनस्वसः ॥ ७१ ॥ है मधुमथनभगिनि कात्यायनि जननि मातः, अतोऽस्माद्वक्ष्यमाणाद्धेतोः के पुमान् युधि संग्रामे जयाशयारिपरिभवाभिलाषेण स्तवान्स्तुतीर्न करोति न विदधाति । सर्वलोको जिगीषुस्तव स्तुतीर्विरचयतीत्यर्थः । यतो यस्मात्कारणात्तव भक्त्या आनतः प्रह्णः जननि- जया लोकात्मीयया द्विषद्भिया वात्रुभीत्या का शयानकोऽपि निरुद्यमोऽपि सपदि. तत्क्षणमेव प्रणामानन्तरमेव विमुच्यते त्यज्यते ततो हेतोरिति संबन्धः ॥ १ ॥ ज्यायोनिष्ठारिवर्याधिनियमनवरस्वैरदत्तायताज्ञा स्वाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा नानापुण्यागमस्था जननमनमयज्ञाननन्द्या वरा धी- र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ।। ७२ ॥ प्रतिलोमानुलोमत्तयात एवायं द्वितीय शोकः-- स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानतार्या धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना काव्यमाला सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधरास्वा ज्ञातायत्तादरस्वैरवनमयनिधिर्या वरिष्ठानियोज्या ॥ ७३ ।। (अनेन सह संदानितकम् ). हे देवि, स्या समस्तानव । स्येति त्वदो रूपं सत्वे कृते । तेन स्या त्वं सा भवती इहा- स्मिञ्जगति समस्तान्समग्रानव रक्ष । या त्वमित्थंभूता ज्यायसां जगच्छ्रेष्ठानां निष्ठा परा कोटिः । तथारिवर्याणां शत्रुप्रधानानां आधीनां मनःपीडानां च नियमनाय निवारणाय वरस्याङ्गीकारस्य स्वैरं स्वातन्त्र्येण दत्ता वितीर्णा आयता दीर्घा अविनाशिनी आज्ञा शा- सनं यया । अथ वा दत्तं दानं यस्याः सा तथा । यताज्ञेति पृथगुक्तिः । स्वाराधत्वे- स्यादि । स्वाराधत्वेन सुखसेव्यतया समानि स्वप्रतिमानि ध्यानिनां योगिनां यानि यज- नानि यानाः () तानि अनयति या तस्या आमन्त्रणम् । जेथे झातव्येऽर्थे सुस्थो निश्चलो ऽवभाशः प्रकाशो यस्याः सा ज्ञेयसुस्थावभासा तथा नानापुण्यागमस्थानानाविधेषु बहु- प्रकारेषु पुण्यागमेषु धर्मशास्त्रेषु तिष्ठसि त्वम् । तथा जननमनमयज्ञाननन्द्या जनानां नमनमयं प्रणाममयं त्वत्प्रणामादागतं यज्ज्ञानं तेन नन्द्या विद्यारूपा सती नन्दनीयेत्यर्थः। वरा श्रेष्ठा धीश्च त्वम् । तथा नुतसरलमनः नुतेन स्तवेन सरलं मनश्चेतो यस्यास्तादृशि देवि । तम एव तामसम् । प्रशादिय्वात्स्वार्थे णः । तस्य तामसस्य. मोहस्यावहास्ये त्वं विभुखमीशत्वं याता गता नव्या स्तव्या । अपरं हे अमलरसतनु । अविद्यमानो मलरस आवरणं रागस्तनौ शरीरे यस्यः तस्या आहूतिः । त्वं भवती भुवि भूमौ व्यानता विधिव- न्नमस्कृता । अर्यां स्वामिनी । धीरा धैर्ययुक्ता । वन्द्या प्रणम्या । न न ज्ञा अपि तु ज्ञा सर्वदर्शिनी । यमनमननजस्थामगण्या च यमेन अहिंसास्तेयसत्यब्रह्मचर्यापरिग्रहादिवि. धिनी, तथा मननेन ज्ञानेन जातं यत्स्थाम बलं तेन गण्या परिच्छेद्या । तथा पुनाना पवि- त्रीकुर्वाणा च सती हा सुयज्ञे शोभनयजने । तथा खनिनजनजयनि अनीश्वरलोकपरि- भवकारिणि । सा एवंप्रकारा आयत्तादरस्वैः आयत्तो वश्योदरोऽभयः स्व आत्मा येषां तैः भावस्था आशयस्था ज्ञाता बुद्धाः । तथा ध्यामसत्त्वाधरास्वा ध्यामानां धूसराणां त- मोमयानां सत्त्वाधरा' "आत्मीया । अवनमयविधिः पालनमयं विधानम् । तथा वरिया श्रेष्ठा। अनियोज्या न केनचित्प्रेर्यते स्वतन्त्रेति भावः ।। ७२ ॥ ३ ॥ अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ॥ ७४ ।। (भाषाषट्कसमावेशः) हे. देवि चण्डि, पाहि रक्ष । अलोला अचपलापि त्वं कमला लक्ष्मीः अलोलकमला। तादृशि । तथा चित्तमेव ललामकमलं प्रधानपद्मं तदेवालयः कुलायो यस्याः । तथा महामोहस्य जन्मलक्षाव्यन्द्रास अविद्याया भङ्गे विनाशे भीममुग्रं बलं सामर्थ्यं यत्तेना- मलकलङ्के । अमलज्ञानरूपिणी सती अज्ञान निहंसीति भावः । संस्कृतमहाराष्ट्रपिशादेवीशतकम् । त्चमागधसूरसेनापभ्रंशात्मिकाः षडपि भाषा अत्र समाविष्टा यदा ददा भाषाषट्कस- मावेशोऽयम् । षण्णामपि भाषाणां साधारणा (१) न मिद्यन्त इति वाक्यार्थः ।। ७४ ।। दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि । अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ।। ७५ हे देवि । तव भवत्याः संबन्धि चरितमाचारश्चित्रमाश्रयंप्रदम् । यतः हे मातर्जननि, दुर्गापि कात्यायन्यपि अविदितपरमार्थापि भक्त्या सेच्या सुलभासि । तथा भवानुकूलापि हराचरक्तापि भव क्षिणोषि संसारं निहन्ति । अपि च ध्येयापि चिन्तनीयापि सती अध्ये, यतां पठनीयत्वं सदैव सर्वकालं याति गच्छसि । अपिरिह संभावनायाम् । या दुर्गा दु- र्गमा सा सुलभा, या भवानुकूला सा भवघ्नी, या ध्येया सा अध्येयतां यातीत्यपिश- ब्देन विरुद्धवदाभासनाविरोधाभासोऽयम् ॥ ७५ ॥ महदेसुरसंधम्मे तमवसमासङ्गमागमाहरणे । हरबहुसरणं तं चित्तमोहमक्सर उमे सहसा ।। ७६ ॥ (संस्कृतमहाराष्ट्रभाषाश्लेषः ।) प्रकृतत्वात्संस्कृतशब्दार्थस्तावत्--हे देवि, महदे उत्सवदायिनि मे मम सुरसंधं सुरा देवाः संघिरवधिर्यस्य तम् आगमाहरणे शास्त्रार्जने समासङ्गं सम्यगासक्तिश्रद्धामव रक्ष शास्त्रासक्तिर्देवैरपि न परित्यक्तेति भावः । यदुक्तम्---तस्माच्छास्त्रं प्रमाणम ते कार्याका र्यव्यवस्थितौ इति । तथा हे उमे हे अगजे, हसनं हसः सह हसेन वर्तत. इति सहसा सामोदा सती अवसरे प्रसङ्गे बहुसरणमत्यन्तव्यापार तं चित्तमोहं चेतोजाड्यं हर वि- नाशय । कविवैचित्र्यरचितमहाराष्ट्रभाषाशब्दार्थोऽधुना-हे हरबहु शिववधु, धम्मे धर्मे पुण्ये रसं रागं देसु देहि ददस्व विधत्स्य । तथा णे नः अस्माकं गमागमा संसारात् तमवसं तमोवशां अविद्याप्रपञ्चायत्तां आसं आशां हर छिन्धि विनाशय । मोक्षं देही- त्यर्थः । मह मम तं त्वं सरणं शरणं परायणम् । सहसा झगित्येव चित्तमोहं, मानसम- ज्ञानं चित्तमोहं वा चित्रं नानाविधं मोहं मोघं विफलमर्थात्संसारं अवसरउ अपसरतु प्रयातु इतिक्रियात्रितयेन द्वितीयभाषाशब्दार्थः ॥ ७६ ॥ वन्द्या प्रभातसंध्येव सूर्यालोकप्रवर्तिनी । निवर्तयसि देवि त्वं महामोहमयीं निशाम् ॥ ७७ ।। देवि, त्वं वन्द्या प्रणम्या । सूरीणी विदुषामालोकप्रवर्तिनी प्रकाशदायिनी ज्ञानदा. सती महामोहमयीमज्ञानस्वरूपां निशामविद्यां निवर्तयति द्रावयति । अत एव प्रभात- संध्येव उषःप्रत्यूषयोरन्तरं यथा । सा हि संध्या सर्वेषां वन्द्या भवति तथा सूर्यालोक- प्रवर्तिनी महान्धकारां निशां निवर्तयति ॥ ७ ॥ नवगु० SE काव्यमाला संवादिसारसंपत्तीसदागोरिजयेसुदे। तवसत्तीरदे सन्तु संसारे सुसमानदे ॥ ७८ ॥ (संस्कृतसूरसेनभाषाश्लेषः ।। तत्र संस्कृतशब्दार्थस्तावत्-हे देवि, असुदे प्राणदायिनि, तव संबन्धिन्यौ द्वे सत्ते। भावावित्यर्थः । तत्रैका विद्यमानता अपरा उज्ज्वलता ते. सत्ते सद्विद्यमानमागोऽपराधोयेषां तेषां सागसां सापराधानामरीणां शत्रूणां जयेऽमिभवे पराभवाविषये संवादिसारसंपत्ती संवा- दिनी ज्ञायमाना सारस्य बलस्य संपत्तिः समृद्धिर्ययोस्ते सत्ते । सापराधा अरयो यथा जनेन जीयन्ते तथा तव संनिधानमौज्वल्यं च लक्ष्यत इत्यर्थः । तथा ते सत्ते द्वे भवसागरं सत्तीरदे शोभनपारप्रदे। त्वयि सत्यां त्वत्प्रभावेण वा संसारसागरादुत्तीर्यत इति भावः। तथा सुसमा- नमपभ्रंशमानं ददतः । अथवा सुसमं ब्रह्मादिस्तम्बपर्यन्तं चतुर्दशविधे भूतसर्गे नित्योदित- तया समत्वेन साधारणत्वेनावस्थितं शब्दं शब्दब्रह्म ददतः। तच्च संसारसागरसमु- त्तरणप्लवम्॥ तथा च बाहृची श्रुतिः 'ऋचो अक्षरे परमें व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तं न वेद किमृचा करिष्यति य एतद्विदुस्त इमे समासते॥' इति । सूरसेनभाषार्थोऽधुना--हे गोरि हे गौरि, जयेसु जगत्सु त्रैलोक्यं दे ते तदसती तपःप्रभावः सदा सर्वकालं संवादिसारसं- पत्ती शम्बातिसारसंप्राप्तिः शम्बवद्वज्रवदतिसारातिढा संप्राप्तिर्लाभो यस्याः सा शम्बाति- सारसंप्राप्तिः । यदुक्तममरसिंहेन--'ह्रादिनीं वजमस्त्री यात्कुलिशं मिदुरं पविः । शत- कोटिः स्वरूः शम्बो दम्भोलिरशनिर्द्वयोः ।। इति । अनपायिनी त्वत्तपःशक्त्तिरित्यर्थः कीदृशी गौरि । सत्ती रदे सत्त्वे रते चेतोविकारजयासक्ते । कीदृशे सत्त्वे । संसारे श्रेयःप्र- धाने । तथा हे गौरि, सुसमानदे. सुशमानते सुशमैः सुष्टुचित्तोद्रेकजयिभिरानते प्रणते मुमुक्षवस्त्रां प्रणमन्तीति भावः। यतश्चित्तजय एव मोक्षः। यदुक्तम्-चित्तमेव हि सं. सारं रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥' इति ॥ ७८ ॥ आगममणिसुदमहिमसमसंमदकृदपरजस्सु किर सविभयवदितो समय उज्जलभावसहस्तु ॥ ७९ ॥ संस्कृतापभ्रंशश्लेषः । द्विपथकाख्यं वृत्तम् । इहापि- संस्कृतशब्दार्थस्तावत्प्रकृतत्वात-हे. देवि, अपरजःसु अपगतरजस्केषु गलितमोहेषु नृषु इतोऽस्मात्संसारादसमयेऽनवसरे आगममणिसुदमहिः मसमसंमदकृत् आगमाः शास्त्राणि त एव प्रकाशकत्वान्मणय इव मणयः तथा शोभनो यो दमश्चित्तोपशमः सः एव निर्वापकस्वाद्धिमं तत्संबन्धी योऽसौ संमोऽनाकुलः संभदो. हर्षस्तं कृन्तति छिनत्ति यत्तत्किर उत्क्षिप । अज्ञानं विनाशयेति वाक्यार्थः । कथम् सादिभयवत् संवों यज्ञोऽस्यास्तीति सवी यायजूकस्तेषां भयवद्भीतिवत् । यज्वनां यथा व जनता न हाशयेत्यर्थः । तथाकीदृशेषु नृषु । उज्जलभावसहस्सु उद्गतो देवीशतकम् । योऽसौ जलभावो जडभावो जाड्यं तत्र सहो बलं येषां तेषु । लडावेकरूपायित्या. म्नायः । अथ प्राकृतापभ्रंशभाषार्थः । जस्सु पर यस्य परं केवलं आगम मणि आगमाः शास्त्राणि मणि मनसि तथा सुदमाहिम श्रुतमहिमा शास्त्राववोधः, तथा सम शमः विष- यनिग्रहः एते च सर्वे संमद साम्यदाः साम्यमनाकुलत्वं ददाना किर स वि किल सोऽपि भयवदितोसमय उज्जलभावसहस्सु भगवतीतोषमयमुज्ज्वलभावसहस्रम् । सहस्त्र शब्दो बाहुल्यार्थे । तदपि किल देवीपरितोषागतं निर्मलपदार्थसहस्रमित्यर्थः । देवीप्रसा- दविलसितं तत्तस्येति वाक्यार्थः ॥ ७॥ अथ चक्रम्- त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विषः ॥ ८ ॥ (अप्रत्यभिज्ञायमकमिदम् ।) हे देवि वरदेऽभिलषितदायिनि, वादे स्वपक्षपरपक्षपरिग्रहे शास्त्रसङ्गिन्यां शास- ज्जायां वाचि भारत्यां त्वं भवती भासि शोभसे । तथा दिवौकसो लेखा देवास्तव भ. वत्याः संबन्धिन आदेशास्त्रसंस्कारान् आदेश आज्ञा तदेवास्त्रं विनाशायाभिनिर्मितं द्रव्यं तत्संस्कारात्तद्भावनाबलाद्धेतोर्द्विषः शत्रून् जयन्स्यभिभवन्ति । वादे शास्त्रसमिति पञ्चा- क्षरयमनेऽप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकमेतत् ॥ ८ ॥ सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ।। ८१ ।। (गोमूत्रिकाबन्धद्वयेन जालाकारबन्धसंबन्धादयं जालबन्धः ।) हे देवि, अजसमनवरतं शिवताः श्रेयस्खानि ददासि प्रयच्छसि । कीदृशीः शिवताः । सदा सर्वकालमव्याजैर्निर्दम्भैर्वशिभिर्जितेन्द्रियैर्ध्याताश्चिन्तिता तथा सच्छोभनं कृत्वा आत्तजपैर्गृहीतमन्त्रावर्तनैः शिक्षिता अभ्यस्ताः । अन्यच्च सूदात्ताजदिशि स्थिताः सुष्टु उदात्ता ऊर्जिताः प्रधाना या अजदिक् विष्णुस्थानं परं ब्रह्म तत्र स्थिताः । परब्रह्मण आगता इति भावः । अनन्तरप्रक्रान्ताप्रत्यभिज्ञायमकश्लोकेन सहामुना गोमूत्रिकाबन्धेन सह जालबन्धोऽयम् । केचित्वनेन (केवलेन) गोमूत्रिकाबन्धेन केवलेनैव जालाकृतिं विलिखन्ति तत्र यथानुरूपे युक्तायुक्तविचारे जालस्य प्रयोगतत्त्वविदश्चित्रकाव्यकरणकु. शलाः कवयः प्रमाणम् ।।८।। हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः वेत्ति स्वसारं देवित्वा योगेन क्षपिताशुभा ॥ ८२ ॥ हे देवि, जनता जनसमूहस्त्वा त्वां भगवतीं हरैः स्वसारं गोविन्दस्य भगिनीमाश्रित्य संसेव्य तत्त्वतः सत्यतः स्वसारं निजमुत्कर्षं वेति जानाति । कथम् योगेन चेतोवृत्तिनिकाव्यमाला। रोधेन देवित्वा व्यवहत्य क्षपिताशुभा विनाशितकिल्विषा । तथा च मनुः प्राणायामै- र्हरेदोषान्प्रत्याहारेण संगतिम् । ध्यानेनानीश्वरान्भावान्धारणाभिश्च किल्बिषम् ॥ समस्ते. न्द्रियवृत्तिर्हि प्राणो वायुः प्रकीर्तितः । तज्जयादिन्द्रियाण्याशु विजितानि भवन्ति हि। प्राणस्यैव जयो योगः प्राणस्यैव जयस्तपः। प्राणस्यैव जयात्सर्वं प्राप्यते नात्र संशयः।" इति । तथा च छान्दोग्योपनिषदि--'यथा शकुनिः सूत्रे बद्धो दिशं दिशं पतित्यान्यत्रा- यतनमलब्ध्वा बन्धनमेवोपाश्रयवे एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्य- त्रायत्तनमंलब्ध्वा प्राणमेवोपाश्रयते । प्राणनिबन्धनं हि सोम्य मनः । तथा च बा- हृची श्रुतिः--'सप्त युजते रथमेकचक्रमेकोऽश्वो वहति सप्तनामा। निनाभिचक्रमजरम- नवद्यं यत्रेमा विश्वा भुवनाधितस्थुः ॥ इति ॥ ८२ ॥ सदाप्नोति यतिर्ज्योतिस्तादृशं त्वत्प्रभावतः प्रभावतः समो येन कल्पते मोहनुत्तितः ।। ८३ ॥ हे देवि, त्वत्प्रभावतस्त्वन्माहात्म्यात् यतिश्चतुर्थाश्रमी संयमी वा तादृशं. तथाविधं सच्छोभनं ज्योतिःप्रकाशमान्तरं तेज आप्नोति लभते येन ज्योतिषा करणभूतेन हेतुना वा मोहनुत्तितो मोहविनाशाद्धेतोः प्रभा दीप्तिर्विद्यते यस्येति तस्य प्रभावतः सूर्यस्य सम- स्तुल्यः कल्पते समर्थो भवति । संपद्यत इत्यर्थः । एवं देव्या असकृन्नादरूपिणीत्वं प्रति- पाद्यानेन श्लोकेन बिन्दुरूपता प्रदर्शिता । पर ज्योतिर्हि बिन्दुशब्देनोच्यते । यदुक्तम्- यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि माम कम् ॥ तथा चोपनिषत्सु ज्योतिःस्थानमसकृचागमेषु चोक्तम्-'नेत्रयोरुभयोर्मध्ये नासावंशस्य मूलतः । हृदय तद्विजानीयाद्विश्वस्यायतनं महत् ॥ इति ॥ ८३ ।। त्वं सद्गतिः सितापारा परा विद्योत्तितीर्षतः । संसारादव चाम्ब त्वं सत्त्वं पासि विपत्तितः ।। ८४ ॥ (अयं गूढचतुर्थः ।) हे अम्ब हे मातः, संसारादुत्तितीर्षत उत्तर्तुमिच्छोः पुंसस्त्वं सद्गतिः शोभनं परा- यणं शरणम् । कीदृशी । सिता निर्मला । अपारा अपर्यन्ता। परा उत्कृष्टा विद्या तत्त्व- ज्ञानार्थदा । अत्र संसारे सत्त्वं प्राणिनं विपत्तित आपद आर्तेस्त्वं पासि रक्षसि । चतु- र्थोऽयं पादोऽत एव' पादत्रयाल्लभ्यत इत्यस्य गूढचतुर्थता ।। ८४ ॥ परमा या तपोवृत्तिरार्याटास्तां स्मृतिं जनाः । परमायात पोषाय धियां शरणमादृताः।। ८५॥ हे जनाः पुमांसः परमत्यर्थमादृताः सादराः सन्त आर्याया देव्याः संबन्धिनी तां. स्मृतिं तत्स्मरणं शरणमायात आश्रयं श्रयध्वम् । स्मृतिं किंविधाम् । परमा प्रकृष्टा तपो- युधिनियममदावनम् । देव्याः स्मरणमेव परमं तप इत्यर्थः । किमर्थं धिया बुद्धीनां पोदेवीशतकम् । पाय वृद्धये । अष्टप्रकारा वुद्धिरिति बहुवचननिर्देशः । यदुक्तम् -'शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ज्ञानं विज्ञानमूहश्चापोहो बुद्धिः स्मृताष्टधा ॥ इति ॥ ४५ ॥ प्रवादिमतभेदेषु दृश्यस्ते महिमाश्रयः । भान्ति त्वत्रिशिखस्येव शिखानामसमाश्रयः ॥८६॥ हैं देवि, प्रवादिनां वाग्मिनां मतभेदेषु बुद्धिनानात्वेषु ते तव दृश आलोका भान्ति शो भन्ते यान्येव प्रवादिना मित्रानि ज्ञानानि तास्त्वदीया एव दृष्टय इति तात्पर्यार्थः । किं- भूता दृशः । महिमाश्रयो माहात्म्यस्थानम् ! त्वत्रिशिखस्येव भवत्रिशूलस्य यथा शिखाना कोटीनामसमा विषमास्तीक्ष्णा आश्रयो धारा भ्राजन्त एवम् । एतादृशा इत्यर्थः ॥ ८॥ यच्चेष्टया तवे स्फीतमुदारवसुः धामतः । यच्चेतो यात्यवहितमुदा रवसुधामतः ।। ८७ }} (गोमूत्रिकाबन्धः । संदष्टयमकम् ) हे देवि, तव भवत्याश्चेष्टया व्यापारेण श्रवणचिन्तन्नाध्ययनलक्षणेन इन्द्रियादेिनियमेन का। यत एषैव वागीशायाश्चेष्टा । यत उक्तम्-'मनस्युपरतं कुर्यादक्षग्राम बहिः स्थि- तम् । चित्त शुद्धौ विनिक्षिप्य सा बुद्धिर्ज्ञानगोचरे । ज्ञानभावनया, कर्म कुर्याद्वा पारमा. र्थिकम् । इति । अत एव तया चेष्टया स्फीतं विकसितं यच्चेतः अवहितं च सावधानं संयतं मनः अत एवोदारवसु परभनश्वरं धनं तच्चेतो. मुदा हर्षेणोपलक्षितं सत् थामतो ज्योतिःस्थानान्मोक्षलक्षणात्स्थानात रवसुधां शब्दामृतं याति प्राप्नोति । शब्दब्रह्मोदयं लभत इत्यर्थः । यदुक्तम्-'ओमित्येकाक्षरं ब्रह्म । तथा चोपनिषत्सु--एतदेवाक्षर ब्रह्म एतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ गोमूत्रिकाब न्धोऽयं यमकश्च । प्रस्तारस्त्वेकदा दर्शितः ॥ ८ ॥ सुरदेशस्य ते कीर्ति मण्डनत्वं नवन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ॥ ८८ ॥ (अर्धगोमूत्रिकाबन्धयमकम् ) हे देवि वरदे, अनिमतदायिनि, यैर्धीरैरविकृतचित्तैर्भवती त्वं भुवि भूमौ संसारे देवता शरणं शस्यते स्तूयते ते पुमांसः कीर्ति प्रथां सुरदेशस्य देवसदनस्य मण्डनत्वं भूषणत्वं नयन्तिः प्रापयन्ति । ८८ ॥ तत्त्वं वीतावतततुत्तत्त्वं ततवती ततः । वित्तं वित्तवं वित्तत्वं वीतावीतवतां बत ।। ८९ ॥ (व्द्यक्षरः) हे देवि, वित् विद्ये, बत आश्चर्यं वीतावीतवतो सांख्यानाम्। वीतसंज्ञा अवीतसंज्ञा च सांख्यानाम् । प्रधानपुरुषसद्भावावेदकादेशहेतवः ते विद्यन्ते येषाम् । दतो हेतोस्तव भ- वत्या वित्तत्वं धनत्वं वित्तं ज्ञानम् । सारः इत्यर्थः । । हि ज्ञानादेव मोक्षमाचक्षते । यकाव्यमाला। स्मात् तत् त्वं तत्त्वं ततवती तद्भवती तत्त्वं परमार्थं परब्रह्मस्वरूपं ततवती विस्तार- यन्ती । कीदृक्तत्वम् । वातावत्तततुत वीता विगता अवतता विस्तीर्णास्तुदो व्यथा यत्र तत् । सांख्यानां त्वमेव सर्वप्रधानमिति तात्पर्यार्थः ।। ८९॥ तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः ।। त्वं दोषापासिनोदग्रस्वदोषा पासि नोदने ॥ ९०॥ (पादगोमूत्रिकाबन्धद्वयेन तूणबन्धः) हे तारे ताराभिख्ये विमले, त्वं भवती शरणमुद्यन्ती आश्रितत्राणायोत्तिष्ठन्ती उदग्र- स्वदोषा उत्कटनिजबाहुना दोषापासिना दुरितविनाशकेन उद्यमार्व्यापारैर्नोदने प्रेरणे काले सुरेशरणं शक्रसंग्रामं पासि रक्षसि । पालिता देवा भवतीं शरणसेत्य पुनः संग्रामासक्ताः संपद्यन्त इति वाक्यार्थः । प्राक्तनेन 'सुरदेशस्य ते. कीर्तिं' इत्यनेनार्धेन गोमूत्रिकाब न्धेन सहामुना पादेनावृत्तिगोमूत्रिकाबन्धेन तूणबन्धोऽयम् ॥ न्यासः ॥ तत्र प्रकारप- ञ्चकमंत्र1 व्याख्यायते ॥ ९ ॥

सुमातरक्षयालोक रक्षयात्तमहामनाः ।

त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥ ९१ ।। हे सुमातः, शोभनजननि, जनानां लोकानां नीतेर्न॑यस्य गुणानां सच्चरितानां स्थितीः स्थैर्याणि पासि आयसे । विद्याप्रसादाद्धि जनानां नीती गुणेषु च स्थैर्यमुत्पद्यते । शास्त्र- मार्गानुल्लङ्घी व्यापारो नीतिः । गुणाः क्षमादयः । कीदृशी त्वम् । अक्षयालोकरक्षया शाश्वतज्योतिस्त्राणेनात्तं गृहीतं महदुदारं मनश्चेतो यया । अविनाशप्राशरूपिणीत्यर्थः। तथा च धैर्यजनकीं धैर्यस्यानाकुलताया उत्पत्तिः ।। ९१ ॥ ख्यातिकल्पनदक्षैका त्वं सामर्ग्य॑जुषामितः । सदा सरक्षसांमुख्यदानवानामसुस्थितिः ।। १२ ।। (रेफविवर्तितकोऽयम्) हे देवि, त्वं भवती इतोऽस्मिञ्जगति अनवानामकृतानां सामर्ग्य॑जुषां त्रयाणां वेदा- नामसुस्थितिः प्राणरूपा सती । वेदानां हि बागीशी प्राणरूपा जनानां च । तथा च बा- हृची श्रुतिः-चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासों अस्य । त्रिधाबद्धो बृषभो रोरवीति महो देवो मर्त्यानानिवेशः ॥' इति । अतः सदा सततं सरक्षसांमुख्यदा निरपभ्रंशाभिमुख्यदायिनी । ख्यातेः समृद्धेः कल्पने रचने दक्षा चतुरा । एका नापरा । वेदानां विपर्ययदोषरक्षिणी त्वमेवेति भावः। रेफविवर्तनेनायमपरोऽर्थः-सरक्षसां रक्षोभिः सहितानां मुख्यदानवानां सामग्र्यजुषां सामग्र्यं समग्रतां जुषन्ति सेवन्ते ये तेषाम् । स- मग्राणामित्यर्थः । सदा ख्यातिकल्पनदक्षा प्रथाछेदनचतुरा भवसीत्यर्थः । रक्षोदानवयोरत्र १. 'प्रकारपञ्चक म्लिष्टवान्न लिखितम्' इति पुस्तकान्तरे, देवीशतकम् । भेदः । अथवा दासानि भृत्यानि अप्रधानानि यानि रक्षांति तानि दासरक्षांति । सह तैवर्तन्ते ये ते सदासरक्षसः तेषां सदासरक्षसाम् । सपरिवाराणामित्यर्थः । अथवा सह. दासैः रक्षोभिश्च वर्तन्ते ये तेषामिति । अत्र श्लोकेर्ग्यवर्णस्थरेफस्य विपर्ययात् त्र्य इति जायते तेन रेफविवर्तकोऽयम् ॥ १२ ॥ सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैति तस्तेति सूतिः मूतिस्ततोऽसि सा ॥ ९३ ॥ (यक्षरः) हे देवि, सा असि सा त्वं ततो हैतोः सूतिः शोभना ऊतिः रक्षा । अवतेः क्तिन्नि- पातनाद्रूपम् । यस्मात्ते भवत्याः संबन्धिन्याः स्तुतेः नुतेः हेतोः सतः साधोः सततं सदा संसत्सु सभामु सत्ता प्रशस्तता निर्मला आस्ते तिष्ठति । तथा तस्य सतस्तता अस्तिता एति विस्तीर्णा विद्यमानता आयाति । दीर्घमायुरारोग्यमैश्वर्यं च लभते आविर्भवतीति भावः । कीदृशी अस्तिता । तस्तेतिसूतिः तस्ता क्षपिता ईतीनों व्याधीनां सूतिः प्रसवो यस्याम् ।।९३ ।। स्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः । सदा त्वया सगन्धर्वं समिद्धमरिनुत्तितः ॥ ९ ॥ (गोमूत्रिकाबन्धोऽयम्) हे देवि, मलनुत् आवरणनिवारिणि, त्वदाज्ञया भवच्छासनेन जगत्सर्वं त्रैलोक्यं स. मग्रं (त्रैलोक्य) ज्ञानशक्तेरिच्छाशक्त्यात्मकं भवतीति भावः । यतो यस्मात्कारणादरिनु त्तितः शत्रुप्रेरणाद्विपक्षनाशाद्धेतोः त्वया भवत्या समिद्धं संलब्धज्ञानं सगन्धर्वं संदेवकु- शीलवमेतज्जगद्भासितं प्रकाशितम् । मलं हे भासों विपक्षं तं च त्वं तुदसि । प्रस्तारोऽस्य प्राग्वतः। ९४॥ यतो याति ततोऽत्येति यया तां तायतां यतैः । मातामितोत्तमतमा तमोतीतां. भतिं मम ॥ ९५ ।। (श्लोकाध व्यक्षरम्) हे देवि, मतिं बुद्धि सम तायतां मे विस्तार्यताम् । कीदृशीम् । तमोत्तीतां विगतत- मस्काम् । यथा मत्या यतो याति यतो निवर्तते ततोऽत्येति ततो विनश्यत इति भावः कीदृशी मतिः ।. माता जननी । तथा अमिता. अपरिच्छिन्ना । उत्तमत्तमा प्रकृष्टा ज्ञानमयी । एते षोडशश्लोकाश्चक्रे षोडशाराः । एत एव च पुनरनुलोमतो लिखिता अन्ये षोडश एवं द्वात्रिंशदराः ॥ २५ ॥ महत्तां त्वं श्रिता दासजनं मोहच्छिदा बस । यच्छुद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥ ९६ ॥ द्विप्रकारो दासजनः एको निवृत्तपापावरणः अपरः पापावृतः । इत्र मोहच्छित् अज्ञाकाव्यमाला। ननाशिनि देवि, त्वं भवती महत्ता श्रिता माहात्म्यमास्थिता सती यः शुद्धत्वं दासजनो गतः नैर्मल्यं प्राप्तः तमावस अधितिष्ठ। अन्यस्य सपापस्य पापं कल्मषं प्रसभं बला- ज्जय निवर्तय ।। ९६॥ त्वं साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥ २७ ॥ मातस्त्रैलोक्यजननि, सुवर्मसु सन्मार्गविषयास्वाज्ञासु निरूपणासु त्वं भवती मुख्या पधाना प्रज्ञा बुद्धिः स्पष्टं ज्ञाता सुव्यक्तं विदिता तदा तत्पृथुत्वं प्रज्ञापृथुत्वं बुद्धिविस्तार समुद्भासि समुद्भासते यत् तत्प्रदर्शय प्रकटीकुरु ॥ ९७ ॥ अस्मादेव श्लोकादक्षराण्युच्चित्येयमार्या भवति- आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु प्रज्ञा भासि त्वं सा मुख्या समुत्पृथुत्त्वं प्रदर्शय तत् ॥ ९८ ॥ अर्थोऽस्या:-हे देवि, जगन्मातस्त्रिलोकजननि, शोभनं वर्त्मन मार्गों येषां पुंसां तद्वि- षया या आज्ञास्तासु त्वं सां ज्ञाता विदिता मुख्या प्रज्ञा भासि । स्पष्टं समुत् प्रकटमा नन्दरूपं सत्पृथुत्वं महिमानं प्रदर्शय ॥ ९८ ॥ हन्त्र्यों रुषः क्षमा एता सदक्षोमास्तमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ।। ९९ ।। हे देवि, क्षमा एतास्त्वं एताः प्रसिद्धा याः क्षान्तयो दर्पनिहत्तयस्ता भवती इति भावः। कीदृशाः क्षमाः। रुषो हरायः क्रोधविनाशिन्यः। तथा सदक्षोभाः सत्याचाक्षोभाश्च । श्रेष्ठा अधिकाश्वेत्यर्थः । ताः क्षमाः सततमजस्रं य उन्नतः प्रधानपुरुषः सता ईहितः शो- भनेन मार्गेण व्यापारितः सन्सेवते आनयते स ते भक्त्या हितोऽनुकूलः ॥ ९९ ॥ करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं अतिः सुतपसा लभतेऽतः सशुक्लिम ॥ १० ॥ हे देवि, उत्खातमोहस्थाने, उत्खातान्युन्मूलितानि मोहस्थानानि मदादयो यया तस्या आहूतिः । यस्त्वं स्थिरा मतीः मैत्र्यादिका धिषणा अचलाः करोषि संपादयसि । अतो. हेतोः यतिर्मुमुक्षुः सुतपसा शोभनेन निर्दम्भेन व्रतादिनाः सशुक्लिम शुक्लिमा शुक्लगुणत्वं तेन शुक्ल्म्ना सह वर्तते यत्तत्सशुक्लिम सत्त्वगुणसहितं रजस्तमोरहितं पदं स्थानं लभले प्राप्नोति । चत्वार एते नेमिश्लोकाः । एभ्यश्च प्रथमं (प्रथममक्षरं) त्रीणि त्रीण्यक्षराणि लि- खित्वा चतुर्थमक्षरं श्लोकप्रान्ते च भवतीति नेभेर्द्वितीयमर्धं मीलितं भवति । एवमेव चा- न्तलिखित्वा मध्यान्नामिमीलनं भवति । एवं चक्रप्रस्तारः ॥ १० ॥ अत एव द्वात्रिंशतो नेमिस्थानानाभितो वा भ्रमं दत्त्वा तृतीयं तृतीयमेकोनत्रिंशमेकोदेवीशतकम् । नत्रिशं चाक्षरमादाय यथा लिखितदर्शनानुसारमचिह्नानि वीक्ष्य वर्णद्वात्रिंशतः कोऽयमुत्पद्यते-- देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ।। १०१ ।। इत्यङ्कश्लोकोऽयमुत्पद्यते । अर्थोऽस्यायम्--एतामेवमुकप्रकारां नुतिं स्तुतिं नोणसुतो नोणाख्यस्य कस्यचित्पुत्र आनन्दवर्धननामा आधाद्विहितवानकार्षीत् । कीदृशीम् । देव्या. वागीश्वर्या स्वप्नोद्गमे निद्राविर्भावे आदिष्टा निरूपिता देवीशतकमिति संज्ञा तया देशिता- नुपमाम् । तल्लक्षणो देशो निदेश आज्ञा विद्यते यस्याः सा देशिनी तस्या भावों देशिता स्थानविशेषः तथा देशितया अविद्यमानान्य प्रशंसामनुत्तमा । देवीस्तोत्रतया सर्वाति: शायिनीमिति भावः ॥ १०१ ॥ हार्दध्वान्तनियन्तृभास्वरवपुः स्वर्वासिनां सर्वतो दुर्वारारिपरिक्षयं विदधती ध्यातैव निर्वाणसूः । देहार्धे निहिता भवेन भुवनत्राणैकतानात्मना देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥१०२॥ (प्रहेलिकेयम्) हे देवि, त्वमिव जगति कापरा भवतीतुल्या त्रिभुवनै कान्वा विद्यते । त्वतसदृशी त्रै-. लोक्येऽपि नान्या विद्यत इत्यर्थः । हार्दध्वान्तं स्वह्रन्मोहस्तस्य नियन्तृ प्रमाथि भास्वरं दीप्तिमद्वपुः शरीरं यस्याः सा तथाविधा । तथा स्वर्वासिना दिवौकसां सर्वतः समन्तात् दुर्वारारिपरिक्षयमजेयशत्रुशमनं विदधती कुर्वाणा । तथा ध्यातैव निर्वाणसूः चिन्तितैव निवाणं मोक्षं सूते प्रयच्छति । अपरं देहार्धे निहिता भवेन (देवेन द्योतनशीलेन) भवेन शिवेन शरीरार्धे नियोजिता स्वशरीरवामभागे स्थापिता । हरेण प्रभुणा कीदृशेन । भुव- नत्राणैकतानात्मना भुवनानां त्रयाणां लोकानां त्राणे रक्षायामेकतान एकरसः सर्वदा - प्रसूत (प्रवृत्त) आत्मा प्रकृतिः स्वभावो यस्य तेन । त्वं च कीदृशी . सत्केसरीन्द्रस्थितिः शोभनसिंहराजे स्थितिवेरस्थानं यस्याः सा ! अथ च त्वमिवापरा जगति का इति प्रश्ने कृते सत्केसरीन्द्रस्थितिरित्युत्तरम् । त्वत्तुल्या का इति पृच्छायां भगवान्नृसिंहमूर्तिरित्युत्तर- दानात्प्रहेलिकेतीयमुच्यते । व्याख्या तु समाना सर्वत्र । केवलं देहार्धे निहिता भवेनेत्य- त्राकारप्रश्लेषो व्याख्यायते। तथा अभवेनाविद्यमानसंसारेणाजेन: भगवता विष्णुना दे- F.. हार्धे शरीरोपरिभागे निहितेत्येतावान्स्तुतिविशेषः । प्रहेलिकेयम् ॥ १०२ ॥ क्लेशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु- र्माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात् काव्यमाला। दुर्गे न क्वचिदेव सीदति जनस्त्वद्भक्तिपूताशयः स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥ १०३ ।। (चतुरर्थः) इतिशब्दः पूर्वोक्तप्रकारापेक्षायां वर्तते । भर्तुरमिन्नया पत्युः सदृश्या स्तुत्या नुत्या त्वं भवती विवुधैर्देवैर्मनीषिभिर्वा श्रीरिव लक्ष्मीरिव स्तूयसे नूयसे । अर्थवशाद्विभक्तिव- चनलिङ्गविपरिणाम इति लक्ष्मीर्यथा भर्तुरमिन्नया स्तुत्या स्तूयते तथा त्वं स्तूयस इति । एवममूनि स्तुतिपदानि चतुर्णा भवभवानीकमलाकान्तकमलानां योज्यन्ते । तत्रोपमा. नयोः कमलाकान्तकमलयोस्तावत्स्तुतिप्रकारा व्याख्यायन्ते । हे श्रीः, भवहरानन्दैक- हेतोः संसार(निवर्तक)स्य भगवतो विष्णोरानन्दे चित्ताह्लादने एकहेतो. एकनिमित्तभूते, त्वं भवती सती साधूनां क्लेशोन्माथकरी अविद्याविनाशिनी करीति आनुलोम्ये टचि ङीप् । तथा त्वं जगतां त्रयाणां लोकानां गुरुः प्रधानम्। माता जननी । तथा विभवाः सर्वे समृद्धिगुणाः सकलास्तवानुग्रहाद्भवत्प्रसादाद्भवन्ति संपद्यन्ते । अन्यत् , त्वद्भक्तिपू- ताशयो जनः भवत्सेवापवित्रीकृतमनां लोकः दुर्गे दुर्गतौ न क्वचिदेव न कुत्रचिदेव सी- दति मज्जति । भर्तुरभिन्नया स्तुत्येति तद्भर्तुः पक्षे योजना-हे भवहर संसारनिवर्तक विष्णो, तथा आनन्दैकहेतो, त्वं सतां क्लेशोन्माथे अविद्याविनाशने करी हस्ती । आनन्दैकहेतुत्वा- न्मोक्षप्रद इत्यर्थः । तथा त्वं जगतां गुरुः माता मारकच । त्रिभिः क्रमैरिति भावः । भवन्ति विभवाः सायुज्यादयः सर्वे तत्रानुग्रहात् । दुर्गे संसारबन्धन न' क्वचिदेव सी- दति जनस्वद्भक्तिपूताशयः। उपमेययोरधुना संबन्धः । तत्रभवान्यास्तावत्---सतां क्लेशोन्माथकरी भवः। लोण्मध्य-. मपुरुषेकचचनमेतत् । हे दुर्गे विन्ध्यवासिनि, हरस्यानन्दैकहेतो । शिष्टं श्रीस्तुत्या समानम् । एतद्भर्तुर्गिरिशस्याधुना हे भव हे हर हे आनन्दैकहेतो, त्वं जगतां गुरुः माता हिंसिता । त्रैलोक्यसंहतो रुद्र इत्याम्नायः । मीनातेः कृतात्वस्य तृचि मातेति रूपम् । तवानुग्रहात्सर्वे विभवा अणिमाद्या ऋद्धयों भवन्ति । शिष्टं श्रीपतिस्तुत्या समानमिति । एवमर्थचतुष्टयवाची ॥ १०३ ॥ येनानन्दकथायां त्रिदशानन्दे च ललिता वाणी । तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥ १०४ ।। अस्याप्ययमर्थः-तेन कविना नोणतनयेनानन्दवर्धनेन एतदेवमुक्तप्रकार स्तोत्रं नवनं भक्त्वा सेवया आरिरार्विषया कृतं दृब्धं रचितम् । कीदृशं स्तोत्रम् । सुदुष्करं - शोभना दुष्कराश्चक्रबन्धादयो यत्र सुष्ठु वा दुष्करं नान्येन केनचित्कर्तुं शक्यमिति । केन कविनेत्याह--येनानन्दकथायां विषमवाणलीलायां निदशानन्देऽर्जुनचरिते च वाणी भारती लालिता विनोंदिता । विषमबाणलीलार्जुनचरितविरचयितुः कवेः कृतिरेतत्स्तोत्र- मिति वाक्यार्थः ।। ईश्वरशतकम् । वल्लऊदेवायनितश्चन्द्रादित्यावाप्य जन्मेमाम् । कय्यटनामारचयद्विपतिं देवीशतस्तोत्रे॥ एवं वागीश्वर्याः स्वरूपमाख्याय यन्मयावाप्तम् । पुण्यं तेन.जगत्स्यात्प्रतिजन्मावाप्तपरवोधम् ॥ वसुमुनिगगनोदधि(४०७८)समकाले याते कलेस्तथा लोके। द्वापञ्चाशे वर्षे रचितेयं भीमगुप्तनृपे । कर्मस्थानोदिता साहिमकरशमृद्रह्निचक्रान्तरस्थ. क्षेत्रज्ञोद्बोधनाय प्रलयरविकरामाभतेजोविरामा । नित्यं मन्दालिघोषा कचरतपयशालापिनी मध्यवाहा बालानात्सूक्ष्मरूपा त्रिभुवनजननी पातु वागीश्वरी वः ।। एकायनस्याच्युततुल्यमूर्तेराचार्यनारायणगर्तनाम्नः । शिष्येण दृब्धेयमनन्तशास्त्रवेत्तुः सदृक्षेण च कय्यटेन ॥ इति नोणात्मजश्रीमदाचार्यानन्दवर्धनविरचितं कय्यटप्रणीतया 'टीकया समेतं देवीशतकम् ।