अथ भानुमतीकथाऽवतरणिका

तत् दृष्ट्वा राजा मन्त्रिणमुवाच,-भो मन्त्रिन्! एतत् सिंहासनं प्रथमं ममासाध्यमभवत्, परन्तु इदानीं तव बुद्धिप्रभावेण मम हस्तगतमासीत् । अहो !! बुद्धिमतां संसर्गो लाभाय सुखाय च भवति' । ततो मन्त्रिणा भणितं,-भो राजन् । श्रूयतां, यः स्वयं बुद्धिमान् न भवति, अन्येषामपि बुद्धिं न शृणोति, स सर्व्वथा नाशं प्राप्नोति । त्वं तथाविधो न भवसि; बुद्धिमानपि आप्तवचनं ( ग) शृणोषि, अतस्तव सकल- कार्येषु अन्तरायो नास्ति ।

राजा अब्रवीत्,-योऽनर्थ- कार्य्यं निवारयति, आगाम्यर्थं साधयति च, स एव मन्त्री । तथा चोक्तम्,-

स्थितस्य कार्य्यस्य समुद्भवार्थम्

आगामिनोऽर्थस्य च सम्भवार्थम् ।

अनर्थकार्य्यें प्रतिघातनार्थं

यो मन्यतेऽसौ परमो हि मन्त्री ।।३३ ।।

मन्त्रिणोक्तं,-भो राजन्! मन्त्रिणा स्वामिहितकार्य्यं कर्त्तव्यम्; तदुक्तं-

मन्त्रः कार्य्यानुगो येषां कार्य्यं स्वामिहितानुगम् ।

त एव मन्त्रिणो राज्ञां न तु ये गज(?)पुद्गलाः ।। ३४ ।।

यन्मन्त्रिणा विना राज्यं गृहं धान्यादिकं विना ।

सौभाग्यं यौवनमृते विना ज्ञानं विरागता ।। ३५ ।।

दुर्जनानां शान्तिः, पाषण्डिनां मतिः, वेश्यानां प्रीतिः, खलानां मैत्री, पराधीनस्य स्थातव्यं, निर्धनस्य रोषः, सेवकस्य कोपः, स्वामिनः स्नेहः, कृपणस्य गृहं, व्यभिचारिण्याः पुरुषभक्तिः, तस्कराणां युक्तिः, मूर्खाणां सम्मतिः, इत्येतत् सर्वं कार्य्यं निष्फलं ज्ञातव्यम् ।

अन्यच्च,-राज्ञा महतां सेवा कर्त्तव्या, आप्तानां वचः श्रोतव्यं, देवब्राह्मणाः प्रतिपालनीयाः, न्यायमार्गेण वर्त्तितव्यम् । भो राजन्! राजलक्षणोक्ता गुणाः सर्व्वे त्वयि विद्यन्ते, त्वं सकलराजराजोत्तमः ।

मन्त्रिणाऽपि एवंविधगुणगरिष्ठेन भवितव्यं-. कुलक्रियाज्ञः, कामन्दक - चाणक्य पञ्चतन्त्रादिसकलशास्त्रकलाऽभिज्ञश्च । गुणास्तु--स्वामिकार्य्यार्थम् उद्यमः, पापाद्भयं, प्रजानां भङ्गोपनं, (घ) परिचारकाणां संयोजनं, राज्ञः चित्तवृत्त्यनुसरणं, - समयोचितपरिज्ञानञ्च । अपायकार्य्यात् ( ङ) राजा निवारणीयः । एवंविधगुणयुक्तो मन्त्रिपदयोग्यो भवति । यथा नन्द- राजमन्त्रिणा बहुश्रुतेन राज्ञो ब्रह्महत्या निवारिता ।

भोजराजेनोक्तं,- कथमेतत् ?

मन्त्री वदति,-भो राजन्! श्रूयतां कथयामि,-

इति भानुमतीकथाऽवतरणिका । .

अथ भानुमतीकथा

विशालायां नगर्य्यां नन्दो नाम राजा महाशौर्य्यसम्पन्नोऽभूत् । निजभुजबलेन सर्वान् प्रत्यर्थिनृपतीन् ( च) पाद पद्मोपजीविनो ( छ) विधाय एकच्छत्रेण राज्यं करोति स्म ।

तस्य राज्ञः जयपालो नाम पुत्रः, षड्विधदण्डाऽऽयुधसाधना- भिज्ञो ( ज ) मन्त्री बहुश्रुतो नाम, भार्य्या च भानुमती नाम आसीत । सा राज्ञोऽतिप्रिया, भूपतिः सर्व्वदा तस्याम् अनुरक्तः सुरतसुखम् ( ण) अनुभवन् तिष्ठति स्म । यदा सिंहासने उपविशति, तदा अर्द्धाङ्गे (ञ) भानुमतीमुपवेशयति, क्षणमपि तस्या वियोगं न सहते ।

एकदा मन्त्रिणा मनसि विचारितम्, अयं राजा निर्लज्जो भूत्वा, सभामध्ये सिंहासने स्त्रियमुपवेशयति, सर्वोऽपि जनस्तां पश्यति, महदनुचितमेतत्; यः कामी, स उचितानुचितं न जानाति । तथा हि,-

किमु कुवलयनेत्राः सन्ति नो नाकनार्य्य-

स्त्रिदशपतिरहल्यां तापसीं यत् सिषेवे? ।

हृदयतृणकुटीरे दह्यमाने स्मरेण

उचितमनुचितं वा वेत्ति कः पण्डितोऽपि? ।। ३६ ।।

यः स्त्रीणां कटाक्षबाणैर्यावन्न भिद्यते, तावदेव स प्रतिष्ठां धैर्य्यञ्च वहति । तथा चोक्तम्,-

तावद्द(?)त्ते प्रतिष्ठां प्रशमयति मनश्चापलं तावदेव

तावत् सिद्धान्तसूत्रं स्फुरति हृदि परं विश्वलोकैकदीपम् ।

क्षीराब्धेः पारवेलावलयविलसितैर्मानिनीमां कटाक्षैः

यावन्नो हन्यमानं कलयति हृदयं दीर्घलोलायताक्षैः ।। ३७ ।।

अहो! मदनस्य माहात्म्यं कालज्ञमपि विकलयति !! ( ट) उक्तञ्च-

विकलयति कलाकुशलं हसति शुचिं पतितञ्च विशोधयति ।

अधीरयति वै धीरं क्षणेन मकरध्वजो देवः ।। ३८ ।।

तथा च,-

श्रुतं सत्यं तपः शीलं विज्ञानं तत्त्वमुत्तमम् ।

इन्धनीकुरुते मूढः प्रविश्य वनितानले ।। ३९ ।।

इतिवृत्तं बलस्यान्तं स्वकुलस्यापि लाञ्छनम् ।

मरणञ्च समीपस्थं कामी लोको न पश्यति ।। ४० ।।

इति सञ्चिन्त्य एकदावसरं प्राप्य राजानमब्रवीत्,- भो राजन्! किञ्चित् विज्ञाप्यमस्ति।

राज्ञोक्तं-किं तद् ब्रूहि ।

मन्त्रिणोक्तं,-यदेतद् भानुमती सभामध्ये अर्द्धासने उपविशति, तन्महदनुचितं भवति, असूर्य्यम्पश्या राजदाराः (ठ) इति शास्त्रकारवचनम् । यत्र नानाविधो जनः समागत्य तां पश्यति ।

राज्ञोक्तं - सर्व्वमपि जानामि, किं करोमि? मम महती प्रीतिः अस्याम्; इमां विहाय क्षणमपि स्थातुं न शक्नोमि ।

मन्त्रिणोक्तं,-तर्ह्येवं क्रियताम् ।

राज्ञोक्तं- 'किं तन्निरूष्यताम् ।

तेनोक्तं,- चित्रकारमाहूय तेन पटस्योपरि भानुमत्या रूपं लेखयित्वा, पुरःस्थिते भित्तिप्रदेशे सङ्घट्य ( ड) तस्याः स्वरूपं द्रष्टव्यम् ।

तद्वचनं राज्ञः चित्ते लग्नम् ।

ततो राजा चित्रकारमाहूयोक्तवान्-भोः चित्रकार! भानुमत्या रूपं चित्रे लेखनीयम् । चित्रकारेणोक्तं भो देव! तस्या अहं रूपं प्रथमं प्रत्यहं विलोक्य, पश्चाद् यथाऽवयवं विलिखिष्यामि ।

तच्छ्रुत्वा राज्ञा भानुमती आकारिता, तस्मै दर्शिता च । स तु तां विलोक्य, पद्मिनी स्त्री इयमिति विज्ञाय, पद्मिनीलक्षणयुक्तां विलिलेख । पद्मिनीलक्षणं यथा,-

'कमलमुकुलमृद्वी फुल्लराजीवगन्धा

सुरतपयसि यस्याः सौरभं दिव्यमङ्गे ।

चकितमृगसनाभे प्रान्तरक्ते च नेत्रे

स्तनयुगलमनर्घं श्रीफलश्रीविडम्बि ।। ४१ ।।

तिलकुसुमसमानां बिभ्रती नासिकां स्वां

द्विज सुर गुरुपूजाश्रद्दधाना सदैव ।

कुवलयदलकान्तिः काऽपि चाम्पेयगौरी

विकचकमलकोषा कामिनी कान्तपत्रा ।। ४२ ।

व्रजति मृदु सलीलं राजहंसीव तन्वी

त्रिवलिललिततमध्या चारुहासा सुवेषा ।

मृदु लघु शुचि भुङ्क्ते बद्धशीला सुकेशी

धवलकुसुमवामोवल्लभा पद्मिनी स्यात्' ।। ४३ ।।

एवमुक्तलक्षणयुक्तं तस्याः रूपं लिखित्वा, राज्ञो हस्ते समर्पितवान् । राजाऽपि तत्र चित्रलिखितां तां दृष्ट्वा अतिसन्तुष्टस्तस्मै चित्रकाराय उचितं ददौ ।

तदनन्तरं शारदानन्देन राजगुरुणा चित्रपटलिखितां भानुमतीं दृष्ट्वा चित्रकारं प्रति भणितं-भोः चित्रकार! भानुमत्या सर्वं लक्षणं लिखितं, परमेकं विस्मृतं त्वया' ।

तेनोक्तं-भोः स्वामिन्! किं विस्मृतं कथय' ।

शारदानन्देनोक्तं-तस्याः वामजघनस्थले मत्स्याऽऽकारो तिलकः ( ढ) अस्ति. स न लिखितस्त्वया, ।

राजाऽपि शारदानन्दवचनं श्रुत्वा, तत्प्रत्ययनिरीक्षणार्थं (ण) यावत् सुरतसमये तस्याः वामजघनं पश्यति, तावत् मत्स्याऽऽकारो तिलको दृष्टः । तं दृष्ट्वा राजा स्वमनसि अचिन्तयत्, कथमस्याः गुह्यदेशे स्थितं तिलकं दृष्टवान् ? सर्व्वथाऽनया सह अस्य संसर्गो विद्यते ! अन्यथा कथमेतदनेन ज्ञातम्? स्त्रीणां विषये पापसन्देहः कर्त्तव्य एव । तथा च,--

जल्पन्ति सार्द्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।

हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ।। ४४ ।।

नाग्निस्तृप्यति काष्ठौघैर्नापगाभिर्महोदधिः ।

नान्तकः सर्वभूतैश्च न पुंभिर्वामलोचना ।। ४५ ।।

रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता जनः ।

इत्थं नारद! नारीणां पातिव्रत्यं हि जायते ।। ४६।।

यो मोहान्मन्यते मूढो रन्तेयं मयि कामिनी ।

स भवेद् वशगस्तस्या नृत्यक्रीडाशकुन्तवत् ।। ४७ ।।

तासां वाक्यानि स्वल्पानि तथ्यानि सुगुरूण्यपि ।

करोति यः कृती लोके लघुत्वं तस्य निश्चितम् ।। ४८ ।।

अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा ।

अबलाभिर्बलाद्रक्तः पादमूले निपात्यते ।। ४९ ।।

इत्येवं विचार्य्य मन्त्रिणमाहूय पूर्ववृत्तान्तमकथयत् । मन्त्रिणाऽपि तत्समये तच्चित्तानुकूलं यथा, तथा भणितं,- भो भो राजन्! कस्य चेतः कीदृग्विधमस्ति, तत् केन ज्ञायते? सर्वथा सत्यं भवितुमर्हत्ययं वृत्तान्तः' ।

राज्ञा भणितं-भो मन्त्रिन्! यदि मम त्वं प्रियः, तर्हि अमुं शारदानन्दं मारय' । मन्त्रिणाऽपि तथाऽस्तु इति उक्त्वा लोकानां पुरतो धृतः शारदानन्दो बद्धश्च । तस्मिन् अवसरे शारदानन्देन भणितम्-अहो! राज्ञां न कोऽपि प्रियो भवतीति लोकोक्तिः सत्या । तथा हि,-

कोऽर्थान् प्राप्य न गर्वितः?

विषयिणः कस्याऽऽपदोऽस्तं गताः ?

स्त्रीभिः कस्य न खण्डितं भुवि मनः?

को नाम राज्ञां प्रियः? ।

कः कालस्य न गोचरान्तरगतः?

कोऽर्थी गतो गौरवम्?

को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ।। ५० ।।

काके शौचं द्यूतकारे च सत्यं

क्लीबे शौर्य्यं मद्यपे तत्त्वचिन्ता ।

सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः

राजा मित्रं केन दृष्टं श्रुतं वा ? ।। ५१ ।।

राजा यस्मै क्रुध्यति स शुचिरपि अशुचिर्भवति । तथा चोक्तम-

शुचिरशुचिः पटुरपटुः शूरो भीरुश्चिरायुरल्पायुः ।

कुलजः कुलेन हीनो भवति नरो नरपतेः क्रोधात्।। ५२

ततो मन्त्रिणा बध्यस्थानं प्रति नीयमानः स परं श्लोकमपठत्-

वने रणे शत्रुजलाग्निमध्ये

महार्णवे पर्व्वतमस्तकेषु ।

सुप्तं प्रमत्तं विषमस्थितं वा

रक्षन्ति पुण्यानि पुराकृतानि ।। ५३।।

मन्त्रिणा स्वमनसि विचारितम्,-'अहो! एतत् सत्यं वा, मिथ्या वा, किमर्थं ब्राह्मणवधः क्रियते? महदनुचितमेतत्- इति शारदानन्दमन्यैः अज्ञातं ह्यन्तर्भवनं नीत्वा, भूगर्भे निक्षिप्य, राजानं प्रत्यागत्य मन्त्रिणा भणितं,-'भो राजन् । अनुष्ठिता तवाज्ञा । राज्ञा साधु कृतम् इति भणितम् ।

इति भामुनतीकथा ।

अथ राजपुत्र भल्लूककथा

तदनन्तरमेकदा राजकुमारः आखेटार्थं ( त) वनं प्रति निर्गतः । निर्गमनसमये अपशकुनः (थ) समभूत् । स यथा,-

अकालवृष्टिः शवसूतकञ्च निर्घात उल्कापतनं तथैव ।

इत्याद्यनिष्टानि ततो बभूवुर्निवारणार्थं सुहृदो वचश्च ।। ५४ ।।

तस्मिन्नवसरे मन्त्रिपुत्रेण बुद्धिसागरेणोक्तं,--भो जयपाल? अद्य आखेटं मा गच्छ, महानपशकुनो दृश्यते- ।

ततो जयपालेनोक्तम्,-अपशकुनस्य प्रतीतिर्नास्ति।

तेनोक्तं भो राजकुमार! बुद्धिमता पुरुषेणाऽनिष्टोऽपशकुनः प्रत्ययेन (द) द्रष्टव्यः । उक्तञ्च-

अत्र जन्मान्तरकृतं कर्म्म पुंसां शुभाशुभम् ।

यत् तस्य शकुनः पाकं निवेदयति गच्छताम् ।। ५५।।

न निन्देत् योगिनां वृन्दं ब्रह्मद्वेषं न कारयेत् ।

न विषं भक्षयेत् प्राज्ञो न क्रीडेत् पन्नगैः सह ।। ५६ ।।

इति तेन निवारितोऽपि तद्वचनमनादृत्य राजपुत्रो निर्गतः ।

पुनर्निर्गमनसमये तेन भणितं,- भो जयपाल! तव विनाशकालः समायातः, अन्यथा एवं बुद्धिर्नोत्पद्यते । तथा चोक्तम्,-

नीतो न केनापि न दृष्टपूर्ष्वो न श्रूयते हेममयः कुरङ्गः ।

तथाऽपि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ।।५७।।

उपार्जितानां कर्म्मणामुपभोगं विना कथं विनाशः स्यात्? तथा चोक्तम्-

सद्भावो नास्ति वेश्यानां स्थिरता नास्ति सम्पदाम् ।

विवेको नास्ति मूर्खाणां विनाशो नास्ति कर्म्मणाम् ।। ५८ ।।

ततो राजकुमारो वनं गत्वा बहून् श्वापदान् (ध) व्यापाद्य कृष्णसारं दृष्ट्वा तमनुगतः महदरण्यं प्रविष्टो यावत् पश्यति, तावत् सर्वोऽपि सैन्यवर्गः नगरमार्गे लग्नः । कृष्णसारोऽपि तत्रादृश्यो जातः । स्वयमेकाकी तुरगारूढः सरोवरम् अग्रेवणम् ( न) अपश्यत् ।

तत्राश्वादवतीर्णो वृक्षशाखायाम् अश्वं निबध्य जलपानं विधाय यावत् वृक्षाधःस्थक्षमायाम् (प) उपविशति, तावदतिभयङ्करः कश्चित् व्याघ्रः समागतः । तं सहसा दृष्ट्वा अश्वो बन्धनं त्रोटयित्वा ( फ) पलायमानो नगरमार्गमगमत् । राजकुमारोऽपि भयाद्वेपमानः (ब) शाखामालम्ब्य वृक्षमारूढः, तत्र पूर्वारूढं भल्लूकमेकं दृष्ट्वा पुनरत्यन्त भयं प्राप्तः ।

अथ तेन भल्लूकेन भणितं,--भो राजकुमार! त्वं मा भैषीः, अद्य मम शरणागतस्त्वम्, अत एव अहं किमपि अनिष्टं न करिष्यामि । मां विश्वस्य व्याघ्रादपि न भेतव्यम्' ।

राजकुमारेण भणितं-भो ऋक्षराज! ( भ) सत्यमेवाहं तव शरणागतः, विशेषतो भयभीतः, अतः पालनीय एव; यतो हि महत् पुण्यं शरणागतरक्षणात् भवति,-

एकतः क्रतवः सर्वे सहस्रवरदक्षिणाः ।

एकतो भयभीतानां प्राणिनां प्राणरक्षणम्' ।। ५९ ।।

तदा भल्लूकेन समाश्वासितो राजपुत्रः । व्याघ्रोऽपि वृक्षाधः समायातः । ततः सूर्य्योऽप्यस्तं गतः । रात्रौ अतिश्रान्तं राजपुत्रं यावत् निद्रा समायाति, तावत त्वं वृक्षाधः पतिष्यसि, एहि ममाङ्के (म) निद्रां कुरु एवमुक्तवतः भल्लूकस्याङ्के निद्रां गतः राजपुत्रः ।

तदा व्याघ्रो वदति,-भो भल्लूक! अयं ग्रामवासी, पुनरपि मृगययाऽस्मान् निहनिष्यति, शत्रुरयं, किमर्थमङ्के निवेशितः? ( य) यतोऽयं मानुषः । त्वयोपकृतोऽपि अयम् अपकारमेव करिष्यति, तस्मात् अमुम् अधः पातय, अहमेनं भक्षयित्वा सुखेन गमिष्यामि । त्वमपि निजाश्रमं गच्छ ।

भल्लूकेनोक्तम्, - अयं यादृशोऽपि भवतु, परं मम शरणागतः, अमुं न पातयिष्यामि । शरणागतमारणे महत् पापम् । तथा चोक्तम्-

विश्वासघातकाश्चैव शरणागतघातकाः ।

वसन्ति नरके घोरे यावदाभूतसंप्लवम् ।। ६० ।।

तदनन्तरं राजपुत्रो विनिद्रो जातः । भल्लूकेनोक्तं,- भो राजकुमार! अहं क्षणं निद्रां करिष्यामि, त्वमप्रमत्तः (र) तिष्ठ ।

तेनोक्तं,- तथा भवतु । ततो भल्लूको राजपुत्र- समीपे निद्रां गतः । तदा व्याघ्रेणोक्तं,- भो राजकुमार! त्वमस्य विश्वासं मा कुरु, यतोऽयं नखायुधः । उक्तञ्च,-

नखिनाञ्च नदीनाञ्च शृङ्गिणां शस्त्रपाणिनाम् ।

विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ।। ६१ ।।

अयञ्च चलचित्तो (ल) दृश्यते, तस्मादस्य प्रसादोऽपि भयङ्कर(व) एव । तथा चोक्तम्-

क्षणं तुष्टाः क्षणं रुष्टा रुष्टाः तुष्टाः क्षणे क्षणे ।

अव्यवस्थितचित्तानां प्रसादोऽपि भयङ्करः ।। ६२ ।।

अयं त्वां मत्तो ( श) रक्षित्वा स्वयमत्तुम् ( ष) इच्छति, अतस्तममुं भल्लूकमधः पातय, अहमेनं भक्षयित्वा गमिष्यामि, त्वमपि निजनगरं गच्छ

तत् श्रुत्वा राजपुत्रो यावत् तमधः पातयति, तावद्भल्लूको वृक्षात् पतनमन्तरा (स) शाखामन्यामवलम्बितवान् । पुनस्तं दृष्ट्वा राजपुत्रो भयमाप ।

भल्लूको ऽप्यवदत् भोः पापिष्ठ! किमर्थं बिभेषि? यत् पुराऽर्जितं कर्म्म, तत् त्वया भोक्तव्यमस्ति । तर्हि त्वं 'स-से मि रा' इति वदन् पिशाचाविष्टो ( ह) भव' इति शापं ( क) दत्तवान् ।

ततः प्रभातमासीत् । व्याघ्रस्तस्मात् स्थानात् निर्गतः । भल्लूको- ऽपि राजकुमारं शप्त्वा निजस्थानमगात् । राजकुमारोऽपि 'ससेमिरा' इति वदन् पिशाचाविष्टो भूत्वा वनं परिभ्रमति स्म ।

राजपुत्रस्य तुरङ्गो राजपुत्रेण शून्यो नगरमगमत् । जनाः अश्वं शून्यं दृष्ट्वा राज्ञोऽग्रे केवलमागतमश्वमाचख्युः ( ख) । ततो राजा मन्त्रिणमाहूय भणति स्म,-भो मन्त्रिन्! यदा कुमारो मृगयार्थं वनं प्रति निर्गतः, तदा महानपशकुन आसीत, तमुल्लङ्घ्य निर्गतः, तस्य प्रत्ययो ज्ञातः । तेना- ऽऽरूढोऽश्वः शून्यः सन् वनादागतः, अतस्तन्मार्गणार्थं ( ग) वनं प्रति गमिष्यामः । तेनोक्तं-देव! तथा कर्त्तव्यम् ।

ततो राजा मन्त्रिणा, परिवारेण (घ) च सह, येन मार्गेण स गतः, तेनैव मार्गेण वनं गतः । वनमध्ये परिभ्रमन्तं- स से मि रा इति वदन्तं, पिशाचाविष्टं कुमारं दृष्ट्वा महाशोक-- सागरे निमग्नस्तमादाय स्वपुरमगमत् । मणिमन्त्रौषधज्ञान्(ङ) आहूय तैश्चिकित्सितोऽपि स न स्वस्थो(च) वभूव; तस्मिन्नवसरे राजा मन्त्रिणमवदत-भो मन्त्रिन्! अस्मिन्नवसरे शारदा- नन्दश्चेदस्थास्यत्, तर्हि क्षणमात्रेण अमुमचिकित्सिष्यत्; स मया मारितः । पुरुषेण यत् कार्य्यं क्रियते, तद्विचार्य्यैव कर्तव्यम, अन्यथा परमापदः सम्भवन्ति । उक्तञ्च-

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।

वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ।।६३।।

तस्मिन्नवसरे कोऽपि निवारको (छ) नाऽऽसीत् । मन्त्रिणोक्तं - स समयस्तथैव स्थितः । (ज) याहश भवितव्यञ्च, (झ) तादृशी बुद्धिरपि जाता । उक्तञ्च,-

आशा सम्पद्यते बुद्धिः सा मतिः सा च भावना ।

सहायास्तादृशो ज्ञेया यादृशी भवितव्यता ।। ६४ ।।

न हि भवति यन्न भाव्यं, भवति च भाव्यं विना प्रयत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति।।।.

राज्ञोक्तं - तत कर्मानुसारेणाऽभूत् । इदानीमस्य विषये महाप्रयत्नः कर्त्तव्यः ।

मन्त्रिणोक्तं,-कथम् ?

राजाऽब्रवीत् -यः कोऽप्यस्य पुत्रस्य चिकित्सां (अ) करिष्यति, तस्य ( ट) अर्धं राज्यं दीयते, इति मे घोषणा प्रदातव्या ।

मन्त्रिणाऽपि तथा कारयित्त्वा स्वभवनमागत्य, शारदानन्दाग्रे सर्वमपि वृणन्तमकथयत् ।

तत् सर्व्व श्रुत्वा शारदानन्देन भणितं-भो मन्त्रिन्! राज्ञोऽग्रे निरूपय, यत् मम काऽपि कन्या वर्त्तते । तस्या दर्शनम कार्यं, सा कमप्युपायं क्ररिष्यति ।

तच्छ्रुत्वा राज्ञोऽग्रे मन्त्रिणा तथैव कथितम् ।

ततो राजा सर्व्वसभासहितो मन्त्रिमन्दिरम् ( ड) आगत्योपविष्टः ।

तदा राजपुत्रोऽपि ससेमिरा इति वदन्नुपविष्टः ।

तच्छ्रुत्वा जवनिकान्तःस्थितेन ( ढ) शारदानन्देन पद्यान्येतानि भणितानि-

सद्भावप्रतिपन्नानां वञ्चने का विदग्धता? ।

अङ्कमारुह्य सुप्तानां हन्तुः किं नाम पौरुषम्? ।। ६६ ।।

तत्पद्यं श्रुत्वा कुमारेण चतुर्णामक्षराणां मध्ये एकमक्षरं, परित्यक्तम् । पुनर्द्वितीयं पद्यमपठत्,-

सेतुबन्धे समुद्रस्य गङ्गासागरसङ्गमे ।

ब्रह्महा मुच्यते पापात् मित्रद्रोही न मुच्यते ।। ६७।।

तत् पद्यं श्रुत्वा कुमारेण अक्षरद्वयं परित्यक्तम् । ततः तृतीयं पद्यमपठत्-

मित्रद्रोहो कृतघ्नश्च यच्च विश्वासघातकः ।

त्रयस्ते नरकं यान्ति यावदाभूतसंप्लवं ।।६८ ।।

ततः कुमारः एकमेवाक्षरमपठत् ।

तदनन्तरं चतुर्थं पद्यमपठत्-

राजाऽसि राजपुत्रोऽसि यदि कल्याणमिच्छसि ।

देहि दानं द्विजातिभ्यो देवताराधनं कुरु ।। ६९ ।।

एवमुक्तवति शारदानन्दे राजपुत्रः स्वस्थः, सावधानश्च (ण) अभवत्। । ततः पितुरग्रे भल्लूस्य पूर्व्ववृत्तान्तमकथयत् । तच्छुत्वा राजाऽब्रवीत्-.

'ग्रामे वससि कौमारि! अटव्यां नैव गच्छसि ।

ऋक्षव्याघ्रमनुष्याणां कथं जानासि भाषितम् ? ।।७० ।।

तदा जवनिकान्तःस्थितेन शारदानन्देन भणितम्-

देवद्विजप्रसादेन जिह्वाग्रे मे सरस्वती ।

तेनाऽहमवगच्छामि भानुमत्यास्तिलं यथा ।। ७१ ।।

तद्वचनं श्रुत्वा राजा साश्चर्य्यो भूत्वा, यावज्जवनिकां समाकर्षति, तावत शारदानन्दं दृष्टवान् । अथ नरपतिप्रभृतिभिः सर्वेर्नमस्कृतः शारदानन्दः । तदा मन्त्रिणा पूर्व्ववृत्तान्तः कथितः । राजा बहुश्रुतं मन्त्रिणमुवाच,-भो मन्त्रिन्! तव संसर्गेण कीर्त्तिः (त) प्राप्ता, दुर्गतिश्च गता ; अतः पुरुषेण सतां सङ्गो विधेयः; तेनोभयमपि प्रयोजनं भवति । तथा च,-

वारयति वर्त्तमानामापदमागामिनीं हि सत्सेवा ।

तृष्णाश्च गाङ्गमम्भः पीतं नाशयति दुर्गतिकाम् ।। ७२ ।।

मम पुत्रोऽपि त्वद्बुद्धिकौशलेन महद्विपज्जालात् ( थ) रक्षितः । राज्ञा ईदृशानां सतां महाकुलानां सङ्ग्रहः ( द) कर्त्तव्यः । उक्तश्च -

सङ्ग्रहं वा कुलीनस्य सर्पस्येव करोति यः ।

स एव श्लाघ्यते मन्त्री सम्यक् गारुडिको यथा ।। ७३।।

इति नानाप्रकारैः प्रियवचनकदम्बकैः ( ध) मन्त्रिणं सम्मान्य, वस्त्रादिना सम्भाव्य (न) च राज्यमकरोत् ।

इति मन्त्री भोजराजं प्रति कथां ( प) कथयित्वा, पुनरब्रवीत्,-भो राजन्! यो राजा मन्त्रिवाक्यं शृणोति, स दीर्घायुः सुखी च भवति ।

[ इति राजपुत्र भल्लूककथा] ।


अग्रिमपुटम्