द्वात्रिंशत्पुत्तलिकासिंहासनम्/१०
अथ अनावृष्टिवारणोपायवर्णनं नाम पञ्चविंशोपाख्यानम् ।
अथ पुनरपि राजा यावत् सिंहासनमारोढुम् अचेष्टत, तावदन्यया पुत्तलिकया तं निवार्य्य उक्तं,-भो राजन्! यस्य विक्रमस्येव औदार्य्यादिगुणाः सन्ति, तेनैव अस्मिन् सिंहासने उपवेष्टव्यम् ।
भोजेनोक्तं - भोः पुत्तलिके! कथय विक्रमस्य औदार्य्यादिगुणवृत्तान्तम् ।
सा अब्रवीत्- श्रूयतां राजन्! विक्रमादिर्त्ये राज्यं शासति, एकदा कश्चित् ज्योतिषिकः समागत्य राजानमुद्दिश्य,-
सूर्य्यः शौर्य्यमथेन्दुरिन्द्रपदवीं सम्मङ्गलं मङ्गलः
सद्बुद्धिञ्च बुधो गुरुश्च गुरुतां शुक्रः सुतं शं शनिः ।
राहुर्बाहुबलं करोतु नियतं केतुः कुलस्योन्नतिं
नित्यं प्रीतिकरा भवन्तु भवतां सर्वेऽनुकूला ग्रहाः।।२५४।।
इत्याशिषमुक्त्वा पञ्चाङ्गानि (च) कथयामास ।
अथ भूपतिः ज्योतिषिकमपृच्छत्,- भो दैवज्ञ! अस्मिन् संवत्सरे कीदृक् शुभमशुभं वो भविष्यति ?
दैवज्ञ आह,- अस्मिन् वर्षे राजा रविः, मन्त्री भौमः, ( छ) मेघाधिपोऽपि भौमः एव; शनैश्चरो रोहिणीशकटं भित्त्वा (ज) यास्यति, तस्मात् सर्वथा अनावृष्टिर्भविष्यति । उक्तञ्च संहितायाम्, (झ)--
यदा ह्यर्कसुतो भुङ्क्ते रोहिणोशकटं खलु ।
भित्त्वा न वर्षति तदा मेघो द्वादश वत्सरान् ।। २५५ ।।
तथा च,-
रोहिणीशकटमर्कनन्दनः
चेद्भिनत्ति रुधिरौघभाक् मही ।
किं ब्रवीमि न हि वारि सागरे
सर्वलोक उपयाति संक्षयम् ।। २५६ ।।
मतान्तरे च,-
यदा भिनत्ति मन्दोऽयं रोहिण्याः शकटं तदा ।
वर्षाणि द्वादशानीह वारिवाहो न वर्षति ।। २५७ ।।
एतद्दैवज्ञवचनं श्रुत्वा राजा अब्रवीत् - तस्याऽवर्षस्य कोऽपि प्रतिकारोपायोऽस्ति न वा ?
दैवज्ञेनोक्तं,-कुतो नास्ति? किमपि ग्रहहोमादिकं क्रियते चेत् वृष्टिर्भविष्यति ।
ततो राजा विक्रमः श्रोत्रियान् ( ञ) ब्राह्मणान् आहूय, तेषां पुरतः दैवज्ञमुखात् श्रुतं पूर्ववृत्तान्तम् उक्त्वा, तैर्होमं कारयितुमारब्धवान् । ततस्तैः सर्वाऽपि होमक्रिया सम्पूर्णं सम्पादिता । राज्ञा च द्रव्यान्नवस्त्रादिना ब्राह्मणाः सन्तोषिताः; दश दानानि (ट) च दत्तानि । तदनन्तरं भूरिदानेन दीनान्धबधिरपङ्ग्वनाथादयोऽपि सन्तोषिताः; परं वृष्टिर्नाभूत् । तदभावेन सर्वे लोकाः दुर्भिक्षपीडिताः बुभुक्षिताः (ठ) परं क्लेशमगच्छन् । राजाऽपि तेषां दुःखेन स्वयमतिदुःखितः सन्, एकदा यज्ञशालायां (ड) समुपविष्टो यावच्चिन्तयति, तावत् अशरीरिणी वाग् उदचरत्- भो राजन्! पुरःस्थितदेवालय- निवासिनी देवी ते आशां पूरयिष्यति । अस्या देवतायाः पुरतः द्वात्रिंशल्लक्षणयुक्तस्य पुरुषस्य शिरः छित्त्वा बलिः(ढ) दीयते चेत, वृष्टिर्भविष्यति ।
तदाकर्ण्य राजा आत्मानमेव द्वात्रिंशल्लक्षणयुक्तं पुरुषम् अवधार्य्य देवालयं गत्वा देवीं प्रणम्य यावत् खड्गं स्वशिरश्छेदार्थं दधाति, तावद्देवतया तया खड्गे धृतो भणितश्च,- भो राजन्! तव औदार्य्येण प्रसन्नाऽस्मि, वरं वृणीष्व ।
राजा वदति,- भोः देवि! यदि मयि प्रसन्नाऽसि, तर्हि इमामनावृष्टिं निवारय । देवतयाऽपि तथा भविष्यति इत्युक्त्वा तिरोदधे ( ण) । ततो राजा देवालयात् निर्गत्य यावत् निजपुरीमागन्तुं प्रवृत्तः, तावदेव अम्बरप्रदेशः घनाघनैरावृतः मुहुर्मुहुः श्रवणभीषण- वज्रनिर्घोषैः शिखण्डिनां मोदमुत्पादयन्, दिव्योदकपिपासून् चातकान् उन्मुखयन्, चपलाविकाशैः दिगन्तरालमुद्भासयन्, करिशुण्डाकारस्थूलधारवर्षणैः सरस्तडागादीन् उत्पूरयन्, सर्वप्राणिनां क्लेशमपाकरोत् । ( त) तद्दृष्ट्वा हर्षातिशयो राजा निजसभामागतः ।
इमां कथां कथयित्वा पुत्तलिकया भणितं,- भो राजन् । यदि त्वयि एवं धैर्य्यं परोपचिकीर्षा (थ) च विद्यते, तर्हि अस्मिन् सिंहासने समुपविश । राजा तूष्णीं स्थितः ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे अनावृष्टि-वारणोपायवर्णनं नाम पञ्चविंशोपाख्यानम् ।। २५ ।।
अथ कामधेनुसंवादो नाम षड्विंशोपाख्यानम् ।
पुनरपि राजा यावत् सिंहासनं समुपवेष्टमुपचक्रमे, तावदन्यया पुत्तलिकया प्रतिरुध्य उक्तं,- भो राजन्! अस्मिन् सिंहासने स एव उपवेष्टुं योग्यः ( द ), यस्य विक्रमस्येवौदार्य्यादयो गुणाः सन्ति ।
तदाकर्ण्य भोजेनोक्तं- भोः पु्त्तलिके! कथय तस्य विक्रमस्यौदार्य्यादिगुणवृत्तान्तम् ।
राज्ञैवं पृष्टा सा अब्रवीत्,- भो राजन्! श्रूयताम- औदार्य्य दया विवेक धैर्य्यादिगुणैः ( ध) अन्यो विक्रमसदृशो राजा भूमण्डले नास्ति । अन्यच्च, तेन यदुच्यते तदन्यथा न क्रियते, यच्चित्ते तिष्ठति, वाचा तत्तथैव वदति, यद्वचने प्रकाशयति तत्तथैव करोति, अतोऽतीव सज्जनोऽयम् । उक्तञ्च-
यथा चित्तं तथा वाक्यं, यथा वाक्यं तथा क्रिया ।
चित्ते वाचि क्रियायाञ्च साधूनामेकरूपता ।। २५८ ।।
एकदा सुरनगर्य्याम् (न) इन्द्रः सिंहासने उपविष्ट आसीत । तस्य च सभायामष्टाऽशीतिसहस्राणि ऋषीणाम् आसन् । त्रयस्त्रिंशत्कोट्यः देवता उपविष्टा अभवन् । तथा अष्टौ लोकपालाः, एकोनपञ्चाशम्मरुतः, द्वादशादित्याः, नारदः, तुम्बुरुः,. ( प) उर्वशी मेनेका-रम्भा-तिलोत्तमा मिश्रकेशी घृताची मञ्जुघोषा- प्रियदर्शना प्रभृतिदिव्यस्त्रियश्च (फ) उपविष्टा बभूवुः । सर्वोऽपि गन्धर्वाणां गणः (ब) उपविष्टोऽभूत् । तस्मिन्नवसरे तत्र नारदेन उक्तम्- अभ्रादिभूमण्डले (भ) विक्रमार्कसदृशः कीर्त्तिमान्, परोपकारी, महासत्त्वसम्पन्नो राजा नास्ति । तस्य तद्वचनमाकर्ण्य सर्वे देवसभास्थिताः परं विस्मयं जग्मुः । तदा सुरभिः ( म) अभणत्- कोऽत्र सन्देहः? विस्मयो वा कः ? उक्तञ्च,-
दाने तपसि शौर्ये च विज्ञाने विनये नये ।
विस्मयो न च कर्त्तव्यो बहुरत्ना वसुन्धरा ।। २५९ ।।
तथाच,-
वाजि वारण-लौहानां काष्ठपाषाण वाससाम् ।
नारी पुरुष तोयानाम् अन्तरं महदन्तरम् ।। २६०।।
तत् श्रुत्वा इन्द्रेण सुरभिकन्या कामधेनुः ( य) भणिता,- त्व विक्रमस्य दयापरोपकारादीन् गुणान् निर्णेतुं मर्त्यलोकं गच्छ इति ।
ततः कामधेनुरत्यन्तदुर्बलं गोरूपं धृत्वा मर्त्त्यलोकं गच्छन्ती, यावत् विक्रमार्को मार्गे समायाति, तावत् स्वयम् अत्यन्तदुस्तरे पङ्के निमग्ना स्वसमीपवर्त्तिना च केनचित् व्याघ्रेण सतृष्णमवलोकितेत्येवं स्वमायया ( र) आत्मानमतिविपन्नमदर्शयत्; राजानं दृष्ट्वा च कातरं शब्दं चकार । एवं तत् कातरोक्ति- श्रवणविदलितप्रायहृदये राजनि तां गां पङ्कात् उत्थापयितुं प्रयत्नं कुर्व्वाणे, सूर्य्योऽस्तं गतः । अथ क्रमेणान्धकारमयी रात्रिरप्यागता । सोऽपि अनाथां तां गां रक्षन् तत्रैव स्थितः । एवं निशाऽवसानमभूत् । ततः सूर्य्योदये जाते सा गौः तस्य राज्ञो दयाधैर्य्यादिगुणान् निरीक्ष्य, स्वयमेवोत्थिता राजानमवदत्,- भो राजन्! अहं कामधेनुः; तव दयादिगुणान् परीक्षितुं स्वर्गात् समागता; स्वयमेत्य प्रत्ययश्च ( ल) दृष्टः । त्वत्सदृशो दयापरो राजा भूतले नास्ति । तव अनेन गुणेन अहं प्रसन्नाऽस्मि, वरं वृणीष्व ।
राज्ञा भणितं,- त्वत्प्रसादात् मयि क्वचिदपि न्यूनता नास्ति, तत् किं मया प्रार्थ्यते ?
तयोक्तं,- मम वाक्यं कथमपि निष्फलं न भवति, तस्माद् अहं तव समीपे एव तिष्ठामि इत्युक्त्वा राज्ञा सह निरगच्छत् ।
ततो राजा यावत् तया सह मार्गे गच्छति, तावत् ब्राह्मणः कश्चिदागत्य-
सानन्दं नन्दिहस्ताऽऽहतमुरजरवाऽऽहूतकौमारबर्हि-
त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसङ्कोचभाजि ।
गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे-
र्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ।।२६१।।
इत्याशिषं प्रयुज्याऽब्रवीत्-- भो राजन्! भाग्याद्दरिद्रोऽहम् उदरान्नसंस्थानार्थं दिवानिशमितस्ततो भ्रमामि, पश्यामि च निरन्तरं सर्वान् कातरदर्शनेन, परं दुर्भाग्यात् मां केचन न पश्यन्ति । उक्तञ्च-
दारिद्र्याय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।
पश्याम्यहं जगत् सर्वं न मां पश्यति कश्चन ।। २६२।।
यस्तु दारिद्र्यमुद्रितः, (व) तस्य गृहे सर्वदा सूतकमेव (श) भवति । तथा चोक्तम्,-
स्त्रग्रासं पथिकाय देहि सुभगे! नो नो गिरो निष्फलाः
कस्मात? ब्रूहि, मखे! नु सूतकमिदं, कालावधिर्नास्ति किम्? ।
यावज्जीवमिदं न याति विषमं पुत्रोद्भवं सूतकम्
को जातो मयि सर्ववित्तरहिते ? दारिद्र्यनामा सुतः ।। २६ ३।।
राज्ञोक्तं,- भो ब्राह्मण! किं याचसे ?
ब्राह्मणेन भणितं - भो राजन्! भवान् आश्रितकल्पवृक्षः(ष); यावज्जीवं मम दारिद्र्यविच्छित्तिः ( स) यथा भवति, तथा विधेयम् ।
राज्ञोक्तं,- तर्हि इयं कामधेनुस्तव ईप्सितं दास्यति, इमां गृहाण इत्युक्त्वा तस्मै तां कामधेनुं प्रादात् । ब्राह्मणः स्वर्गसुखं गतः ( ह) इव तां कामधेनुं गृहीत्वा निजस्थानं जगाम; राजाऽपि निजनगरीमगात् ।
इमां कथां कथयित्वा पुत्तलिका भोजराजं जगाद,- भो द्यूतकारसंवादो नाम सप्तविंशोपाख्यानम् । राजन् । त्वयि एवमौदार्य्यं यदि विद्यते, तर्हि अस्मिन् सिंहासने समुपविश । राजा तूष्णीम् (क) अभूत्। ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे कामधेनु- संवादो नाम षड्विंशोपाख्यानम् ।।२६ ।।
अथ द्यूतकारसंवादो नाम सप्तविंशोपाख्यानम् ।
पुनरपि राजा सिंहासने उपवेष्टुं यावत् प्रायतत, तावदन्या पुत्तलिका तं निवार्य्याऽभणत् भो राजन्! यस्य विक्रमस्येव दया दाक्षिण्यौदार्य्यादयो गुणाः सन्ति, सोऽस्मिन् सिंहासने उपवेष्टुं क्षमः ।
राज्ञोक्तं,- भोः पुत्तलिके! कथय तस्य विक्रमस्य दया दाक्षिण्यौदार्य्यादिगुणवृत्तान्तम् ।
सा अब्रवीत्,- श्रूयतां राजन्! विक्रमो राजा कदाचित् पृथिवीं पर्यटन् नगरमेकमगमत् । तत्रत्यो राजा अतीव धार्मिकः, श्रुतिस्मृतिविहितानुष्ठानपरः, तत्र स्थितान् ब्राह्मणादिचतुर्वर्णान् सम्यक् प्रतिपालयति स्म । तत्रत्यः सर्वो लोकः सदाचाररतः, अतिथिप्रियः, ( ख) दयापरश्चासीत् । राजा विक्रमः दिनत्रयं दिनपञ्चकं वा अत्र स्थास्यामि इति कृतनिश्चयः, कञ्चन अतिमनोहरं देवालयं गत्वा, तत्रत्यं देवं नमकृत्य रङ्गमण्डपे ( ग) उपविष्टः । अत्रान्तरे कश्चित् राजकुमार इव अतिमनोहररूपः दुकूल- वस्त्रधारी, ( घ) नानाऽऽभरणालङ्कृतशरीरः, कुङ्कुम- कर्पूर कस्तूरी मिश्रितैः चन्दनैर्विलिप्ततनुः वयस्यैः सह तत्रागत्य, कियत्कालं नानाविधकामकथाप्रस्तावविनोदादिकं (ङ) विधाय, पुनस्तैः सह तस्मात् निर्गतः । राजाऽपि तं दृष्ट्वा -कोऽयम् ? इति मनसि विचारयन् स्थितः ।
ततो द्वितीयदिने,स एव एकाकी, वस्त्रादिरहितः, कौपीनमात्रशेषः (च) सन् समागत्य, देवालयस्य रङ्गमण्डपे पपात । राजा तं दृष्ट्वा भणति,- भोः सदाशय! पूर्वेद्युः (छ) त्वम् अलङ्कृतशरीरो राजकुमार इव वयस्यैः संसेव्यमानोऽत्र समागतः, अद्य कथमीदृशीं कष्टां दशां प्राप्तोऽसि ?
तेनोक्तं,- भोः स्वामिन्! किमुच्यते? अहं पूर्वेद्युस्तथैव आसम्; इदानीं दैवयोगात् एवं जातोऽस्मि । तथा हि,-
ये वर्द्धिताः करिकपोलमदेन भृङ्गाः
प्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः ।
ते साम्प्रतं प्रतिदिनं क्षपयन्ति कालं
निम्बेषु चार्ककुसुमेषु च दैवयोगात् ।।२६४।।
तथा च,-
सरससहकारपालीपरिमलकेलीपरायणओ मधुपः ।
अधुना हतविधिवशादर्कवने शरभसङ्कुले भ्रमति ।।२६५।।
तथा च,.-
ये वर्द्धिताः कनकपङ्कजरेणुमध्ये
मन्दाकिनीविमलनीरतरङ्गभङ्गे ।
ते साम्प्रतं विधिवशात् कलहंसपोताः
शैवालजालजटिलं जलमाश्रयन्ति ।। २६६ ।।
अपि च,-
वातान्दोलितपङ्कजच्युतरजःपुञ्जाङ्गरागोज्ज्वलो
यः शृण्वन् कलकूजितं मधुलिहां सञ्जातहर्षः पुरा ।
कान्ताचञ्चुपुटाञ्चलस्थितविसग्रासग्रहेऽप्यक्षमः
सोऽयं सम्प्रति हंसको विधिवशात् शम्बूकमन्विष्यति ।। २ ६०।
अन्यच्च, - कर्म्मणा नियमितो (ज) जनः किं कष्टं न प्राप्नोति? तथा चोक्तम्,-
दैवे समर्प्य चिरमञ्चितकर्म्मजालं
सुस्थाः सुखं वसत किं परयाचनाभिः? ।
मेरुं प्रदक्षिणयतोऽपि दिवाकरस्य
ते तस्य सप्त तुरगा न कदाचिदष्टौ ।। २६८ ।।
अपि च,-
ब्रह्मा येन कुलालवत् नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटको भिक्षाऽटनं कारितः
सूर्य्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्म्मणे ।।२६९।।
अथवा-
स यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं
तत् प्राप्नोति मरुस्थलेऽपि नियतं मेरौ ततो नाधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः
कूपे पश्य? पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ।।२७०।।
राज्ञा भणितं,- को भवान्?
तेनोक्तम्,- अहं देवदत्तो नाम दयूतकारः ( झ) ।
राज्ञोक्तं - द्यूतक्रीडां जानासि त्वम् ?
तेनोक्तं,-द्यूतविद्याविषये अहं विचक्षणः । अन्यच्च, सारीक्रीडां चतुरङ्गक्रीडाञ्च ( ञ) जानामि, परं सर्व्वमेव तदनर्थकं, दैवमेव बलवदिति । उक्तञ्च,-
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमताञ्च निरीक्ष्य दरिद्रतां
विधिरहो! बलवानिति मे मतिः ।। २७१ ।।
राज्ञोक्तं ,- भो देवदत्त! त्वमेवम् अतिप्राज्ञोऽपि कथम् अतिपापे द्यूतकर्मणि रतोऽसि ?
तेनोक्तं,- प्राज्ञोऽपि पुरुषः कर्म्मणा ( ट) प्रेर्यमाणः किं किं न करोति ?
राज्ञा भणितं - भो देवदत्त! द्यूतं महदापन्मूलम्; सर्वेषां व्यसनानाम् (ठ) आश्रयो द्यूतमेव ।
उक्तञ्च-
भवनमिदमकीर्त्तेश्चोरवेश्याङ्गनानां
व्यसनपतिरुदारः सन्निधिः पापभाजाम् ।
विषमनरकमार्गः प्रज्ञया ह्यत्र को हि
विमलविशदबुद्धिर्द्यूतमङ्गीकरोति? ।। २७२ ।।
तस्मात् कारणात् महापापानि सप्त व्यसनानि ( ड) त्याज्यानि । उक्तञ्च,-
द्यूत-मांस-सुरा-वेश्याऽऽखेट-चौर्य्य पराङ्गनाः ।
महापापानि सप्तैव व्यसनानि त्यजेद् बुधः ।। २७३ ।।
अन्यच्च-
यस्त्वेकव्यसनासक्तो निर्गमे च न पश्यति ।
किं पुनः सप्तभिर्युक्तो व्यसनैः सङ्कुलः पुमान्? ।। २७४ ।।
तथा हि,-
द्यूतात् धर्म्मसुतः पलादिह बको मद्याद् यदोर्नन्दना-
श्चोरः कामवशात् मृगान्तकरणात् स ब्रह्मदत्तो नृपः ।
चौरत्वाच्छिवभूतिरन्यवनितासङ्गाद् दशास्यो हठा-
देकैकव्यसनाहता इति नराः सर्वैर्न को नश्यति? ।। २७५ ।।
अतस्त्वया एतानि परित्याज्यानि ।
द्यूतकारेणोक्तं,- -भोः स्वामिन्! मम तदेव जीवनं, ( ढ) कथं परित्यज्यते ?, यदि त्वं ममोपरि कृपां विधाय, कमपि धनार्ज्जनोपायं कथयि- ष्यसि, तर्हि अहं द्यूतं त्यक्ष्यामि ।
अस्मिन्नवसरे विदेशवासिनौ द्वौ ब्राह्मणावागत्य, देवालयस्य एकदेशे समुपविष्टौ परस्परं मन्त्रयतः ( ण) । तत्र एकेनोक्तं,- मया सर्वोऽपि पिशाचलिपिकल्पः ( त) अवलोकितः । तत्र एवं लिखितमस्ति यत् अस्य देवालयस्य ईशानभागे पञ्चधनुः- प्रमाणे दीनारपूरितं ( थ) घटत्रयं स्थापितमस्ति, तत्समीपे भैरवस्य प्रतिमा ( द) विद्यते, यः कश्चित् भैरवं स्वरक्तेन अभिषेक्ष्यति, तेन तद् ग्राह्यमिति ।
राजा तस्य तद्वचनमाकर्ण्य तत्र गत्वा, स्वदेहरक्तेन भैरवं यावत् अभिषेक्तुं प्रवर्त्तते,तावत प्रसन्नेन भैरवेण भणितं,- भोः राजन्! वरं वृणीष्व ।
राज्ञोक्तम् अस्मै द्यूतकाराय दीनारपूरितं घटत्रयं देहि ।
ततस्तद्वचनाद् भैरवेण तद्धनं द्यूतकाराय दत्तम् । तदधिगम्य च द्यूतकारो राजानं स्तुत्वा स्वनगरं गतः; राजाऽपि निजनगरमागतः ।
इमां कथां कथयित्वा पुत्तलिका राजानमभणत्- भोः राजन् । त्वयि एवं धैर्य्यौदार्य्यपरोपकारादिगुणाः विद्यन्ते चेत्, तर्हि अस्मिन् सिंहासने समुपविश ।
राजा तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे द्यूतकार- संवादो नाम सप्तविंशोपाख्यानम् ।। २७७।।
अथ नरबलिनिवारणं नाम अष्टाविंशोपाख्यानम् ।
पुनरपि राजा यावत् सिंहासने समुपवेष्टुमुपक्रमते, तावदन्या पुत्तलिका सहसा तं निवार्य्य वदति,-भो राजन्! अस्मिन् सिंहासने औदार्य्यधैर्य्यादिगुणयुक्तो विक्रम एव उपवेष्टुं क्षमः, नान्यः ।
तच्छ्रुत्वा भोजेनोक्तं, -भोः पुत्तलिके! बलवती श्रवणवासना मे जायते, तत् कथय तस्य विक्रमस्यौदार्य्यादिगुणवृत्तान्तम् ।
मा कथयति - श्रूयतां राजन्! विक्रमादित्यो राजा पृथिव्यां पर्यटन् कदाचित् नगरमेकमगमत् । तस्य च नगरस्य समीपे विमलोदका काचित् नदी प्रावहत् । नदीतीरे च नानाविधतरुकुसुमफलोपशोभितम एकं वनमासीत् । तन्मध्ये अतिमनोहरः कश्चित् देवालयः अवर्त्तत । राजा तस्याः सरितो विमले जले स्नात्वा, देवालयं प्रविश्य तत्रत्यं देवं नमस्कृत्य च तत्र उपविष्टः ।
अत्रान्तरे (ध) तत्र चत्वारो वैदेशिकाः (न) समागत्य, राज्ञः समीपे उपविष्टाः । ततो राजा ताम् अप्राक्षीत्- भोः भद्राः । यूयं कुतः समागताः ?
तेष्वेकेनोक्तं- वयम् अपूर्व्वदेशात् आगताः।
राज्ञोक्तं-तत्र देशे भवद्भिः किं किम् अपूर्व्वं दृष्टम्?
तेनोक्तं - तत्र देशे वेतालपुरी नाम काचित पुरी वर्त्तते, तत्र शोणितप्रिया काचित् देवताऽस्ति । तत्रत्यो महाजनः ( प) राजा च प्रतिवत्सरं स्वमनोरथपूरणार्थम् अशुभनिवृत्त्यर्थञ्च (फ) तस्यै देवतायै कञ्चित् पुरुषोपहारं ( व) प्रयच्छति । तस्मिन् दिने यदि कोऽपि वैदेशिकः समायाति, तर्हि तमेव देवतायै पशुवत् समर्पयति ( भ) । वयमपि तस्मिन्नेव दिवसे मार्ग- वशात् ( म) तन्नगरं गताः । ततस्तत्रत्या अस्मान् समुद्धर्त्तुं (य) समागताः । तत् श्रुत्वा वयं प्राणभयेन, पलाय्य (र) अत्र समागताः । एतन्महदाश्चर्य्यम् अस्माभिः दृष्टम् । ।
तत् श्रुत्वा राजा विक्रमः कौतूहलपरवशस्तत्र गत्वा भयङ्कराञ्च तां देवतां विलोक्य प्रणम्य च अस्तौषीत्-
ब्रह्माणी कमलेन्दुसौम्यवदना, माहेश्वरी, लीलया
कौमारी रिपुदर्पनाशनकरी, चक्रायुधा वैष्णवी ।
वाराही, नरसिंहशक्तिरमला, शाक्री च वज्रायुधा,
चामुण्डा, गणनाथरुद्रमहिता रक्षन्तु मां मातरः।।२७६।।
एवं स्तुतिं विधाय रङ्गमण्डपे ( ल) उपविष्टः ।
तस्मिन्नवसरे कश्चिद्दीनवदनः ( व) महाजनैः सह वाद्यं पुरस्कृत्य समागमत् । राजाऽपि तं दृष्ट्वा एवं मनसि विचारयति स्म,- अयमेव देवताबलिनिमित्तम् एभिः महाजनैः समानीतः, ततः अत्यन्तक्लान्तवदनः (श) इव दृश्यते । तद् अस्मिन्नेव अवसरे मम शरीरं दत्त्वा एनं मोचयिष्यामि । इदं शरीरं शतवर्षाणि स्थित्वा सर्वथा नाशमेव यास्यति, अतः शरीरिणां स्वदेहव्ययेन(ष) अपि धर्म्मः कीर्त्तिश्चोपार्ज्जनीया । उक्तञ्च.-
चला लक्ष्मीश्चलाः प्राणाश्चलो देहोऽथ यौवनम् ।
चलाचलश्च संसारः कीर्त्तिर्धर्म्मश्च निश्चलः ।। २७७ ।।
अन्यच्च,-
अनित्यानि शरीराणि वैभवं नैव शाश्वतम् ।
नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्म्मसङ्ग्रहः ।।२७८।।
तथा च,-
अर्थाः पादरजोपमाः गिरिणदीवेगोपमं यौवनम्
मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् ।
धर्मं यो न करोति निश्चलमतिः स्त्रर्गार्गलोद्घाटनं
पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ।।२७९।।
एवं विचार्य्य राजा तान् महाजनानुवाच-भो महाजनाः! अयं दीनवदनः कुत्र नीयते ?
तैरुक्तम्,- एनं देवतायै बलि- निमित्तं दास्यामः ।
राज्ञोक्तं - कस्मात् कारणात् ?
तैरुक्तं, - देवता अनेन पुरुषोपहारेण तुष्टा सती अस्माकं मनोरथं पूरयिष्यति ।
राज्ञोक्तं - भो महाजनाः! अयमत्यन्ताल्प- तनुः, ( स) परं भीतश्च, अस्य शरीरोपहारेण देवतायाः का तृप्तिर्भविष्यति? तस्मादमुं मुञ्चत ।, अहमेव तदर्थं मम शरीरं दास्यामि । अहं पुष्टाङ्गः ( ह) अस्मि, मम मांसोपहारेण देवतायाः महती तृप्तिर्भविष्यति । अतो मां मारयत इति भणन् तं मोचयित्वा, राजा स्वयमेव देवतायाः पुरतो गत्वा खड्गं यावत् निजकण्ठे पातयति, तावद्देवतया खड्गं धृत्वा भणितं,- भो महासत्त्व । तव धैर्य्येण परोपकारकरणेन च अहमतीव सन्तुष्टाऽस्मि, वरं वृणीष्व ।
राज्ञोक्तं - भो देवि! यदि मयि प्रसन्नाऽसि, तहि अद्य प्रभृति पुरुषमांसोपहारं परित्यज।
तच्छ्रुत्वा देवतया - तथाऽस्तु इति भणितम् ।
एतत्सर्वमालोक्य ते महाजना राजानं वदन्ति स्म,- भो राजन्! त्वं स्वसुखानभिलाषी (क) सन् द्रुम ( ख) इव- - ?रार्थमेव नियतं खेदं वहसि (ग) । तथा हि,- ।
स्वसुखनिरभिलाषः खिद्यसे लोकहेतीः
प्रतिदिनमथवा ते सृष्टिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं - शमयति परितापं छायया संश्रितानाम् ।। २८० ।।
नास्माभिः कदापि क्वचिदपि भवादृशः परार्थपरो दृष्टः तदनेन व्यवहारेण अतीव भीता वयं भवतः कल्याणमाशास्महे इत्युक्त्वा सर्वे ते निष्क्रान्ताः । अथ राजाऽपि तेषाम् अनुज्ञां गृहीत्वा निजनगरमगमत् ।
इति कथां कथयित्वा पुत्तलिका भोजम् अवदत्,- भोः राजन्! त्वयि एवं धैर्य्यौदार्य्यपरोपकारादिगुणा विद्यन्ते चेत्, तर्हि अस्मिन् सिंहासने समुपविश ।
राजा तूष्णीं स्थितः ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे नरबलिनिवारणं नाम अष्टाविंशोपाख्यानम् ।। २८ ।।