प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ध्वन्यालोकः - बालप्रियालोचनभाष्यसमेतम्
उद्द्योतः १
[[लेखकः :|]]
उद्द्योतः २ →
श्रीमदानन्दवर्धनाचार्यप्रणीतो-

ध्वन्यालोकः ।
–<>≈<>–
श्रीसहृदयतिलकरामशारककृतया बालप्रियाख्यटीकयोद्भासितया गोस्वामिश्रीदामोदर-
शास्त्रिनिर्मितया विषमस्थलदर्शन्या विषमस्थलदर्शिन्या दिव्याञ्जनाख्यटिप्पन्योक्तया च
श्रीमदाचार्याभिनवगुप्तविरचितया लोचनाख्यया व्याख्ययानुगतः ।
प्रथम उद्द्योतः ।


श्रीमदाचार्याभिनवगुप्तकृतं लोचनम्
श्रीभारत्यै नमः
अपूर्वं यद्वस्तु प्रथयति विना कारणकलां
जगद्भावप्रख्यं निजरसभरात्सारयति च ।
क्रमात्प्रख्योपाख्याप्रसरसुभगं भासयति त-
त्सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते ।।
श्रीसहृदयतिलकरामशारककृतबालप्रिया
श्रीगुरवे नमः
श्रीगुरून्पूर्णवेदेशं सङ्गमेशञ्च माधवं ।
शिवं शिवाञ्च नम्रणां कामधेनुम्मुहुर्नुमः ।।
काव्यालोको लोचनञ्च द्वे ग्राह्यग्राहके सतां ।
तद्गन्थकारावाचार्यौ रसिकाग्रेसरौ स्तुमः ।।
लोचनस्यादिमोद्द्योतमात्रस्यात्र पुरा कृता ।
विवृतिर्लभ्यते तत्तां दृष्ट्वा ग्रन्थान्तराणि च ।।
पाठान्केरलविख्यातानालम्ब्य च यथामति ।

कुर्मो बालप्रियां प्रायः प्रौढलोचनटिप्पनीं ।।

     अथ तत्रभवन्तः श्रीमदाचार्याभिनवगुप्तपादाः काव्यालोकव्याख्यानञ्चिकीर्षवस्तस्य निर्विघ्नपरिसमाप्तये विहितं समुचितेष्टदेवतानमस्कारात्मकम्मङ्गलं शिष्यशिङ्क्षायै ग्रन्थतोनिबध्नन्त्यपूर्वमित्यादि ।
यतुकमलमनम्भसि कमलेत्यादिकाव्यात्मकं सरस्वतीतत्त्वम्, कारणकलां वि-

लोचनम्

भट्टेन्दुराजचरणाब्जकृताधिवास-
हृद्यश्रुतोऽभिनवगुप्तपदाभिधोऽहम् ।
यत्किञ्चिदप्यनुरणन्स्फुटयामि काव्या-
लोकं स्वलोचननियोजनया जनस्य ।।

बालप्रिया

     ना-तत्तत्कार्यं प्रति प्रसिद्धं यद्यदुपादानादिकारणन्तस्य कला लेशः तां विना अन्तरेणैव अपूर्वंउलोकप्रसिद्धवस्तुविजातीयमद्भुतञ्च वस्तुनिरुपाख्यशशशृङ्गादिविलक्षणमनम्भोऽधिकरणककमलादिकं पदार्थं प्रथयति सृष्ट्वा विस्तारयति, किञ्च यद्ग्रावप्रख्यंउपाषाणतुल्यं निसर्गतो नीरसं जगतुसर्वं वस्तु निजः स्वीयः काव्यासम्बन्धी यो रसः शृङ्गरादिः तस्य भरादतिशयात्सारयति सारं करोति विभावादित्वयोजनेन रसव्यञ्जकं करोतीति यावद्, वाक्याभ्यामाभ्यां काव्यात्मकसरस्वतीतत्त्वस्य विश्वकर्तुः प्रजापतेरुत्कर्षरूपव्यतिरेको व्यञ्चितः; तमेव स्थिरीकर्तुमाह--क्रमादित्यादि । यज्जगदिति चानुषज्यते, प्रख्याकवेः प्रतिभा; उपाख्या वचनं प्रथमं प्रख्या पश्चादुपाख्येति तयोर्यः क्रमात्प्रसरः तेन सुभगं हृद्यं सद्, भासयति निसर्गेणारमणीयमपि सर्वं वस्तु रसव्यञ्जकत्वसम्पदनेन रसणीयं सत्प्रकाशयतीत्यर्थः, चकारस्यात्र सम्बन्धः, अत्र प्रख्योपाख्याप्रसरस्यापूर्ववस्तुनिर्माणे सरसत्वकरणे च हेतुत्वमार्थिकं बोध्यम्, अत्राद्येन वाक्येनापूर्ववस्तुनो निर्माणन्द्वितीयेन पूर्वं सतो वस्तुनस्सरसत्वकरणं तृतीयेन द्वयोरपि हृद्यतया प्रकाशनञ्जोक्तमित्यप व्याचिक्षते, ततुतथाविधमपूर्ववस्तुप्रथयितृत्वादिधर्मविशिष्टम्, तद्धर्मसम्पत्त्यर्थमाह-कवीति । कविसहृदयावित्याख्या यस्य तत्, कविसहृदयशब्दावत्र निर्माणरूपकविव्यापारविचारात्मकसहृदयव्यापारविषयकाव्यपरौ, यद्वा कविसहृदयैराख्यायतौच्यते इति तदाख्यम्, अथ वा कविसहृदययोराख्या अभीक्ष्ण्येन ख्यानं स्फुरणं यस्य तत्काव्यात्मकमित्यर्थः, तत्त्वमारोपितं बोध्यम्, सरस्वत्याःउशब्दप्रपञ्चाभिमानिन्यादेवतायाः, तत्त्वंउपारमार्थिकं रूपम्, विजयते सर्वस्मादुपरि वर्तते, एनेन तन्नमस्कारो ग्रन्थकर्तुर्गम्यते; अथ च सरस्वत्यास्तत्त्वं ध्वनिकाव्यम्, विजयते; अपूर्वमित्याद्यर्थः पूर्ववद्बोध्य इति प्रतिपाद्यार्थोऽप्यासूत्रित इति दिक् ।
     अथौद्धत्यं परहरन्नात्मनो व्याख्याननैपुणी दर्शयन्कीर्त्त्य नुवृत्तये नामनिर्देशङ्कुर्वंश्च प्रतिजानीते-भट्टेत्यादि । भट्टेन्दुराजस्यौतन्नामकस्य गुरोः चरणाब्जयोःउपझतुल्ययोः पादयोः तत्सन्निधाविति यावद्योऽधिवासस्तेन चरणाब्जशुश्रूषयेति यावद्; हृद्यानि स्वहृदयस्थानि; अथ च श्रोतृजनहृदयप्रियाणि श्रुतानि शास्त्राणि यस्य सः, यथा पद्मेन सुरभीकरणे वस्तुनो हृद्यत्वं तथेत्युपमात्र ध्वन्यते, यत्किञ्चतुस्वल्पम्, अपिरेवार्थे, यद्वानुरणन्नपीति योजना, अपिशब्दः स्वल्पाभिधानेन सह स्फुटीकरणस्यापाततो विरोधं द्योतयति,

लोचनम्

स्वयमव्युच्छिन्नपरमेश्वरनमस्कारसम्पत्तिचरितार्थोऽपि व्याख्यातृश्रोतॄणामविघ्नेनाभीष्टव्याख्याश्रवणलक्षणफलसम्पत्तये

बालप्रिया

     अनुरणनुब्रुवन्घण्टाऽदिनादस्थानीयस्य मूलकृद्वचनस्यानुरणनस्थानीयं व्याख्यानरूपं स्ववचनमित्यनेन प्रकाश्यते, स्वेति । लोज्यते दृश्यतेऽनेनेति लोचनम् स्वस्य लोचनम्मनः तस्य नितरां योजनया मनःप्रणिधानेनेत्यर्थः, काव्यालोकं जनस्य स्फुटयामि विसदीकरोमि, यद्वा स्वस्य लोचनम् ज्ञानं तस्य नियोजनया व्याख्यानरूपानुरणनद्वारा समर्पणेन स्फुटयामि प्रकाशयामि, यथा नेत्रयोजनेन तथेत्युपमाध्वनिरत्रापि बोध्यः ।
     वृत्तिकारकृतस्य स्वेच्छेत्यादिपद्यस्य तात्पर्यार्थमवतारिकया दर्शयति-स्वयमित्यादि । स्वयमिति वृत्तिकारस्य निर्देशः, अव्युच्छिन्नःउमध्ये विच्छेदेन रहितः परमेश्वरस्यौतत्तल्लीलाविग्रहमवलम्बमानस्य परमात्मनः; नमस्कारः तस्य सम्पत्तिःउप्रकर्षः तया चरितःउलब्धः अर्थःउविघ्ननिवृत्त्यादिरूपसाक्षात्प्रयोजनं यस्य सः, तथाभूतस्य मङ्गलाचरण आपाततो विरोधमपिशब्दो द्योतयति, व्याख्यातृश्रोतॄणामिति फलसम्पत्तय इत्यादिना सम्बन्धः, अविघ्नेनौविध्नध्वंसेन, अभीष्टेति । व्याख्यातॄणां व्याख्यानं श्रोतॄणां श्रवणञ्चभीष्टं

दिव्याञजनाख्या टिप्पनी

श्रीश्रीगौरकृष्णः शरणं ।
गौरकृष्णगुरून्नत्वा ध्वन्यालोकस्य लोचनम् ।

अनज्मि दिव्याञ्जनतो दुर्दर्शार्थमवेक्षितुम् ।।

     अथ्.अ ध्वनिप्रस्थापकाचार्यश्रीमदानन्दवर्धनविरचितं ध्वन्यालोकनिबन्धनं व्याख्यातवतो भरतदर्शनसूत्रभाष्यकारप्रधानस्याचार्य्यश्रीमदभिनवगुप्तस्य लोचनाख्ये व्याख्याने विषमस्थलानि मुख्यत्वेन विशदयितुकामस्य दिव्याञ्जननामिकेयं टिप्पनी; प्रासङ्गिकी त्वपरत्रापीति न प्रतिश्रुतिविरोद उद्भावनीयः ।
     यत्त्वत्रोत्तरपदाव्यवहितपूर्वत्वविशिष्टविद्यायोन्यन्यतरसम्बन्धवाचकर्दन्तपदोद्देश्यकानङ्विधायकानङृतो द्वन्द्व इति शास्त्रेण विद्याद्वारकैकयज्ञार्विज्यसम्बन्धेन विद्यासम्बन्धिवाचकहोतापोतृवदिहापि विद्याद्वारकैकप्रतिपाद्यविषयकज्ञानानुकूलव्यापारवत्त्वसम्बन्धेन सम्बन्धिवाचकयोर्व्याख्यातृपदश्रोतृपदयोर्द्वन्द्वेऽपि व्याख्याताश्रोतॄणामित्युचितमिति कश्चिदाक्षिपति तन्मन्दम्--
     "ऋतो विद्यायोनिसम्बन्धेभ्यः" पूर्णैतत्सूत्रानुवृत्तित ऋत्पदानुवृत्त्यैव निर्वाहे प्रकृतसूत्रे पुना ऋद्ग्रहणमानङ्विध्यु द्देश्यतावच्छेदककोटिप्रविष्टसमस्यमानयावत्पदानामृदन्तत्वस्यापेक्षां दर्शयद्विद्ययोन्यन्यतरवाचित्वमपि तदवच्छेदककुक्षौ समाविवेशयिष्यतीति व्याक्यातृशब्दस्य कथं चित्तदन्यतरवाचित्वेऽपि श्रीतृशब्दे तद्वाचित्वनियमादर्शनाद्विशेषणाभावप्रयुक्तविशिष्टाभावमुद्रयोद्देश्यतावच्छेदकत्वानाक्रान्तत्वादानडोऽप्रवृत्तेः साध्वेव व्याख्यातृश्रोतॄणामिति ।


श्रीनृहरये नमः

स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः ।
त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ।।


लोचनम्

समुचिताशीःप्रकटनद्वारेण परमेश्वरसांमुख्यं करोति वृत्तिकारः--स्वेच्छेति ।
     मधुरिपोर्नखाः वो युष्मान्व्याख्यातृश्रोतॄंस्त्रायन्ताम्, तेषामेव सम्बोधनयोग्यत्वात्; सम्बोधनसारो हि युष्मदर्थः, त्राणं चाभीष्टलाभं प्रति साहायकाचरणं, तच्च तत्प्रतिद्वन्द्विविघ्नापसारणादिना भवतीति, इयदत्र त्राणं विविक्षितम्, नित्योद्योगिनश्च भगवतोऽसम्मोहाद्यवसाययोगित्वेनोत्साहप्रतीतेर्वीररसो

बालप्रिया

वणञ्चाभीष्टं फलं तस्य सम्पत्तये निष्पत्तये, तदुभयसम्पत्तौ तदुभयहेतुकग्रन्थप्रतिष्चटारूपं फलं ग्रन्थकारस्य च सिद्ध्यतीति भावः, समुचितंउग्रन्थारम्भे योग्यं यदाशिषः प्रकटनंउवचनन्तद्द्वारेण, परमेश्वरस्य साम्मुख्यंउव्याख्यातृश्रोतॄन्प्रत्याबिमुख्यं त्राणेच्छारूपम्, करोति सम्पादयति, तत्र्राणस्य परमेश्वरसाम्मुख्यायत्तत्वात्र्राणाङ्गभूतं तत्साम्मुख्यमाशीर्वादेन सम्पादयतीत्यर्थः, यद्वा समुचिताया आशिषः प्रकटनंउग्रन्थतो निबन्धनं तद्द्वारेण, परमेश्वरे विषये साम्मुख्यंउव्याक्यातृश्रोतॄणामाभिमुख्यमनुसन्धानात्मकं करोत्युत्पादयति, वृत्तिकार इत्यनेन स्वेच्छेत्यादिकं न कारिकारूपसूत्राद्यपद्यमिति दर्शितम्, व इत्यस्य व्याख्यातृश्रोतॄनिति व्याख्याने हेतुमाह-तेषामिति । कुतोऽत्र सम्बोधनप्रसङ्ग इत्यत आह-सम्बोधनेति । सम्बोधनं सारःउप्राणो युष्मदर्थत्वप्रयोजकोंऽशो यस्य सः, न ह्यसम्बोध्यो युष्मदा व्यपदिश्यते, त्रायन्तामित्यनेनात्र विवक्षितं व्याचष्टे-त्राणञ्चेचि ।
अभीष्टेति व्याख्यानश्रवणरूपेत्यर्थः, सहायस्य कर्म साहायकं तत्प्रतिद्वन्द्वीत; अभीष्टलाभप्रतिबन्धकेत्यर्थः, अपसरणंउनिवर्तनम्, आदिपदेनार्थतत्त्वमनीषासमुन्मेषादेः परिग्रहः, इयदिति । उक्तरूपमित्यर्थः, अथ ध्वनिं काव्यात्मानं
टिप्पनी
     वृत्तिकार इति । स्वकृतानामेव मूलरूपाणां कारिकाणां व्याख्याऽत्मकवृत्तेः कर्त्तेत्यर्थः, अत एव विशिष्टस्येवारिप्सितत्वेन मूले मङ्गलाकरोणेऽपि नाचारविरोधः ।
     के चित्तु मूलेऽपि "काव्यस्यात्मेऽ तिप्रथमकारिकायामाद्यपदस्य काव्येत्यस्यान्यपरत्वेऽपि परार्थोपनीतोदकुम्भदर्शनवत्श्रवणमात्रेणापि; "काव्यालापाश्च ये के चिद्गीतकान्तखिलानि च । शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मन"--
     इत्यादिप्रमाणतो भगवत्स्फोरकत्वेन वस्तुनिर्द्देशरूपमङ्गलं जातमेवेत्यापि वदन्ति, कारिकाकृद्वृत्तिकृतोरभेदस्त्वग्रे दर्शयिष्यते ।
     सम्बोधनसारो हीति । स्वजन्यबोधाश्रयत्वेन वक्त्रभिप्रायविषयत्वावच्छिन्नस्य

लोचनम्

ध्वन्यते, नखानां प्रहरणत्वेन ग्रहरणेन च रक्षणे कर्तव्ये नखानामव्यतिरिक्तत्वेन करणत्वात्सातिशयशक्तिता कर्तृत्वेन सूचिता, ध्वनितश्च परमेश्वरस्य व्यातिरिक्तकलणापेक्षाविरहः, मधुरिपोरित्यने तस्य सदैव जगत्र्रासापसारणोद्यम उक्तः, कीद्दशस्य मधुरिपोः? स्वेच्छया केसरिणः, म तु कर्मपारतन्त्र्येण,

बालप्रिया

प्रतिपादयिष्यता ग्रन्थकृता कृतस्यास्य प्रथमपद्यस्य काव्यरूपत्वादस्मिन्नपि ध्वनिर्योजनीय इति मन्वानो रसादिभेदेन त्रिविधेषु ध्वनिषु प्रधानभूतं रसध्वनिमादौ योजयति-नित्येत्यादि । चशब्दः समुच्चये ध्वन्यते चेति सम्बन्धः; न वाच्यार्थमात्रमनेनोच्यते किन्तु रसो ध्वन्यते चेत्यर्थः, नित्योद्योगिन इति । उद्योगो नामौबाह्यसंनाहात्मकोद्यमनक्रियारूप दर्शितम्, यथोक्तं भरतेन "उत्तमप्रकृतिरुत्साहात्मको वीर इति" असंमोहेनौसम्मोहराहित्येन योऽध्यवसायः एतदेवं कर्तुं शक्यमिति वस्तुतत्त्वनिश्चयः तद्योगित्वेनेति उत्साहहेतुकथनम्, असंमोहश्चध्यवसायश्च तद्योगित्वेनेति के चित्, उत्साहप्रतीतेरिति । स्वेच्छाकेसरिणो मधुरिपोः प्रसन्नार्तिच्छिद इति पदैर्हिरण्यकशिपुप्रभृतिनिवर्हणादिविषयकोत्साहस्य व्यञ्जनया सहृदयानां प्रतीतेरित्यर्थः, मत्यादिव्यभिचारिप्रतीतेरुपलक्षणमिदम्, वस्तुध्वनिं दर्शयति-नखानामित्यादि । प्रहरणत्वेनेति करणत्वे हेतुः सिंहादीनामायुधत्वेनेत्यर्थः, प्रहरणत्व इति पाठे निमित्ते सप्तमी, ननु नखानां प्रहरणत्वेऽपि कथं त्राणक्रियां प्रति करणत्वमित्यतस्तत्सम्भावनान्दर्शयति-प्रहरणेनेति । प्रहरणं हि स्वस्यान्यस्य वा रक्षां कर्तुमुपादीयत इति भावः, अव्यतिरिक्तत्वेन करणत्वादिति, अव्यतिरिक्तत्वमपृथग्भूतत्वमाभ्यन्तरत्वमिति यावत्तद्विशिष्टकरणत्वादित्यर्थः, करणं द्विविधं बाह्यमाभ्यन्तरञ्च, बाह्यं खङ्गादि; आभ्यन्तरंहस्तादि, करणत्वात्कर्तृत्वेनेति समबन्धः, करणत्वमनुक्त्वा कर्तृत्वोक्त्येत्यर्थः, मधुरिपुर्नखैस्त्रायतामिति वक्तव्यमनुक्त्वा मधुरिपोर्नखास्त्रायन्तामित्युक्त्येति यावत्, सातिशया

टिप्पनी

स्वसम्बोध्यस्य युष्मत्पदार्थतयान्यत्र व्यवस्थापितत्वादित्याशयः ।
उत्साहप्रतीतेरिति । विभावादीनां मिथो नान्तरीयकत्वेन
"सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेद् ।
ऊटित्यन्यसमाक्षेपे तदा दोषो न विद्यते" ।।
     इत्युक्तदिश्.आ प्रकृते सपत्नमध्वाद्यसुरालम्बनेन योग्यतयाऽक्षिप्तानां तदीयनिर्भीकत्वादिज्ञानाद्युदीपनतद्विषयावहेलाऽद्यनुभावगर्वादिसंचारिणां पानकरसन्यायेन योगादुत्साहैय प्रतीतेरित्यर्थः ।

लोचनम्

नाप्यन्यदीयेच्छया, अपि तु विशिष्टदानवहननोचिततथाविधेच्छापरिग्रहौचित्यादेव स्वीकृतसिंहरूपस्येत्यर्थः, कीद्दशा नखाः? प्रपन्नानामार्ति ये छिन्दन्ति; नखानां हि छेदकत्वमुचितम्; आर्तेः पुनश्छेद्यत्वं नखान्परत्यसम्भावनीयमपि तदीयानां नखानांस्वेच्छानिर्माणौचित्यात्सम्भाव्यत एवेति भावः, अथ वा त्रिजगत्कण्टको हिरण्यकशिपुर्विश्वस्योत्क्लेशकर इति स एव वस्तुतः प्रपन्नानां भगवदेकशरणानां जनानामार्तिकारित्वान्मूर्तैवार्तिस्तं विनाशयद्भिरार्तिरेवोच्छिन्ना भवतीति परमेश्वरस्य तस्यामप्यवस्थायांपरमकारुणिकत्वमुक्तं, किं च ते नखाः स्वच्छेन स्वच्छतागुणेन नैर्मल्येन; स्वच्छमृदुग्रभृतयो

बालप्रिया

शक्तिःउसामर्थ्यं येषां तेषां भावस्तत्ता, शक्ततेति च पाठः; व्यङ्ग्यान्तरमप्याहध्वनितश्चेति, उक्तव्यङ्गक्येनेति शेषः, व्यतिरिक्तकरणेति । बाह्यखड्गादित्यर्थः, जगत्र्रासेति । तत्तद्दुर्जनेभ्यो जगतो यस्त्रासः तदपसारणे य उद्यमः स इत्यर्थः, उक्त इति । व्यञ्जित इत्यर्थः, इममर्थं मनसिकृत्य पूर्वं नित्योद्योगिन इत्युक्तमिति बोध्यम्, न तु कर्मपारतन्त्र्येणेत्यादेः स्वीकृतेत्यत्र सम्बन्धः, आद्यमिच्छापदेन द्वितीयं स्वपदेन च गम्यमिति बोध्यम्, विशिष्टेति विशिष्टंउदानवान्तरहननापेक्षया विशेषवत्, दानवस्यौहिरण्यकशिपोर्हननं यद्वा विशिष्टःउसुरनरतिर्यगाद्यवध्यत्वरूपविशेषवान्यो दानवस्तस्य हननं तस्मिन्नुचितो यस्तथाविधायाःउनरहरिविग्रहावलम्बनविषयिकाया इच्छायाः परिग्रहः, उचितेतीच्छाविशेषणं वा तस्मिन्यदौचित्यामर्थात्स्वस्य तस्माद्धेतोरित्यर्थः, स्वीकृतसिंहरूपस्येति । सिंहरूपस्य नररहपमिश्रत्वं प्रसिद्दमतो नोक्तम्, ये च्छिन्दन्तीति । तैति शेषः, छेदकत्वामिति ।
छेदनक्रियाकर्तृत्वमित्यर्थः, छद्यत्वंउछेदनकर्मत्वमस्य सम्भाव्यत इत्यनेन सम्बन्धः, असम्भावनीयमिति । आर्तेरमूर्तत्वादिति भावः, तदीयानांउनरहरिसम्बन्धिनाम्, स्वेच्छेति । स्वेच्छया भगवत इच्छया यन्निर्माणंउनखानांनर्माणं तेन हेतुना; औचित्यादिमूर्तस्यापि वस्तुनश्छेदने सामर्थ्यात्, यद्वा स्वेच्छयास्वातन्त्र्येण निर्माणेनमूर्तच्छेदनादेः करणे नकानामौचित्यादित्यर्थः, सम्भाव्यत एवौनिश्चीयत एव, लोकद्दष्ट्यनुरोदेनाह-अथ वेति । अस्मिन्पक्षे आतिंशब्द आतिङ्कारणंलक्षयति तस्याव्यभिटचारेण निखिलार्तिकारित्वञ्च ध्वनतीति बोध्यम्, विनाशयद्भिरिति । नशैरिति शेषः, आर्तिरेवलोच्छिन्ना भवतीति । तथाविधस्य हिरण्यकशिपोः हननमार्तेरेवोच्छेदनं न तु कस्य चित्प्राणिन इति भगवद्बुद्धिरिति भावः, तस्यामप्यवस्थायांउहननावस्थायामपि, उक्तमिति । व्यञ्जितमित्यर्थः, आर्तिमेव छिनत्ति न तु कञ्जित्प्राणिनमित्यर्थप्रतीत्येति भावः, अत्र प्रपन्नेत्यादिविशेषणं त्राणाशीरवादहेतुगर्भस्वच्छेत्यादिप्रशंसापरंप्रशस्यमाना हि देवता प्रसेदुषी प्रेप्सितं प्रयच्छति, तत्र स्वच्छस्वच्छायेत्यत्र कर्मधारयभ्रमं वारयन्व्याचष्टे-स्वच्छेनेत्यादि । स्वच्छतागुणेनेत्यास्यैव विवरणं नैर्मल्येनेति, भाववृत्तयःउस्वच्छताऽदिधर्मवाचकाः, छाययेत्यस्य व्याख्यानं वक्रेत्यादि, अत्र वस्तुध्वनिमाहार्थेति ।

लोचनम्

हि मुख्यातया भाववृत्तय एव; स्वच्छायया च वक्रहृद्यरूपयाऽकृत्याऽयासितिः-खेदित इन्दुर्यैः, अत्रार्थशक्तिमूलेन ध्वनिना बालचन्द्रत्वं ध्वन्यते, आयासनेन तत्सन्निधौ चन्द्रस्य विच्छायत्वप्रतीतिरहृद्यत्वप्रतीतिश्च ध्वन्यते, आयासकारित्वं च नखानां सुप्रसिद्धम्; नरहरिनखानां तच्च लोकोत्तरेण रूपेम प्रतिपादितं किं च तदीयां स्वच्छतां कुटिलिमानं चावलोक्य बालचन्द्रः स्वात्मनि खेदमनुभवति; तुल्येऽपि स्वच्छकुटिलाकारयोगेऽमी प्रपन्नार्तिनिवारमकुशलाः; न त्वहमिति व्यतिरेकालङ्कारोऽपि ध्वनितः, किञ्चाहंपूर्वमेक एवसाधारणवैशद्यहृद्याकारयोगात्समस्तजनाभिलषणीयताभाजनमभवम्, अद्य

बालप्रिया

वक्रहृद्यरूपाकृत्यायासितत्वस्य बालचन्द्र एव सम्भवात्तदर्थसामर्थ्यमूलेनेत्यर्थः, बालचन्द्रत्वं ध्वन्यत इति । इन्दुपदार्थस्य चन्द्रस्य बालत्वं ध्वन्यत इत्यर्थः, आयासित इत्यसाय खेदित इत्यर्थो लक्षणया; तत्फलमाहायासनेनेत्यादि । तत्सन्निधौ नखसन्निधौ, विच्छायत्वेति निश्शोभत्वेत्यर्थः, ध्वन्यत इति । ध्वनिव्यापारेण जायतैत्यर्थः, सुप्रसिद्धमिति । प्रहरणरूपत्वादिति भावः, तच्चौआयासकारित्वञ्च, लोकोत्तरेणेति स्वच्छत्वादिपूर्वोक्तरूपेणेत्यर्थः, प्रतिपादितमित । तधा च विदारणादिनाऽयाकसकारिभ्यो लोकिकनखेभ्यो नरहरिनकानां वायतिरेको व्यज्यत इति भावः, प्रपन्नार्तिच्छिद इति विशेषणसहकारेण व्यातिरेकान्तरस्यालङ्कारान्तरस्य च ध्वनिन्दर्शयति कित्र्चेत्यादि । तदीयांउनखसम्बन्धिनीम्, कुटिलिमानमित्यत्र तदीयमिति विपरिणामेन सम्बन्धः, स्वात्मनीति । परेषामविदितमित्यर्थः, अनुभवप्रकारमाह-तुल्येऽपीत्यादि । न त्वहमितीति । इतिशब्दस्यानुभवतीत्यनेन व्यतिरेकालङ्कार इत्यनेन च सम्बन्धो वोध्यः, ध्वनित इत्युक्तर्थप्रतीत्या सहृदयानां व्यतिरेकव्यक्तिरित्यर्थः, इति व्यतिरेकालङ्कारोऽपि ध्वनित इति पाठः, अपिशब्देन पूर्वोक्तव्यतिरेकस्य समुच्चयः, एवंविधा इति । वैशद्यहृद्याकारयुक्ता इत्यर्थः, सन्तापार्तिच्छेदकुसलाश्चेति । आत्मनो हि सन्तापस्यैव च्छेदने कुशलत्वं न सर्वासामार्तीनामिति भावः, बालेन्दुबहुमानेनेति ।
एते नखाः न किन्तु बालेन्दव इति बहुमत्येत्यर्थः, आयासमित । अयशोहेतुकं दुःखमित्यर्थः, अनुभवतीवेति । इवशब्दरहितश्च पाठः, उत्प्रेक्षापह्नुतिध्वनिरिति उत्परेक्षार्थापह्नुतिरुत्प्रेक्षापह्नुतिः तस्याः ध्वनिः पह्नुत्युत्प्रेक्षयोरङ्गाङ्गितया स्थितत्वात्तत्सङ्करध्वनिरिति यावत्,

टिप्पनी

अत्रोर्थशक्तीति ।
प्रकारतावच्छेदकतावच्छेदकताऽपन्नस्य शक्यस्य स्वपदार्थस्य मधुरिपुनखस्य शक्तिः पदपरिवृत्तिसहत्वरूपसामर्थ्यं मूलं प्रयोजकं यस्य ताद्दशेन स्वतःसम्भविना व्यञ्जनाव्यापारेण । वालचन्द्रत्वमिति । वक्रिमहृद्यत्वनिबन्धनकमनीयत्वकरणकमधुरिपुनखकर्त्तृकायासकर्मत्वं योग्यतावशात्ताद्दसचन्द्र एव पर्यवस्यतीति भावः । आयासनेनेति । अत्राप्यायासपदार्थीयताद्दशशक्तिप्रयुक्तव्यञ्जनेन विच्छायत्वादिकं वस्तु बालचन्द्रगतं व्यज्यते ।

लोचनम्

पुनरेवंविधा नखा दश बालचन्द्राकाराःसन्तापार्तिच्छेदकुशलाश्चेति तानेव लोको बालेन्दुबहुमानेन पश्यति, न तु मामित्याकलयन्बालेन्दुरविरतमायासमनुभवतीवेत्युत्प्रेक्षापह्नुतिध्वनिरपि, एवं वस्त्वलङ्काररसभेदेन त्रिधा ध्वनिरत्र श्लोकेऽस्मद्गुरुभिर्व्याक्यातः ।

बालप्रिया

बालेन्दुरविरतमायासमनुभवतीवेत्युत्प्रेक्षायां हि पूर्वोक्तं तानेव लोकोबालेन्दुं बहुमानेन पश्यति न तु मामित्याकलनं निमित्तं तत्र च स्पष्टापह्नुतिः; न नखा एते किन्तु बालेन्दव इति लोकस्य प्रतीतेः; तथा चात्रोत्प्रेक्षा नखविषयकनखत्वनिषेधपूर्वकबालेन्दुत्वारोपरूपलोकप्रतीतिविषयकबालचन्द्रगतप्रतीतिनिबन्धनेत्यातोऽपह्नुतिबलाद्त्मानं लभत इत्यङ्गाङ्गिभावो बोध्यः, निगमयत्येवमित्यादि । अत्र वीररसध्वनिरङ्गी; उत्साहस्य प्राधान्येन प्रतीयमानत्वादिति ध्येयम्,
     नन्वत्र ग्रन्थकारगतभगवद्विषयकरतेर्व्यङ्ग्यत्वस्य वक्तव्यतया भावध्वनिरेवाङ्गित्वेन वाच्यः, रसस्तु तदङ्गतयेति चेदत्राहुः-प्रतिपन्नभगवत्तन्मयीभावस्य ग्रन्धकर्तुराशीः-कर्तृतया वास्यमिदं न भावपरं भक्तस्य भेदेन भजनीयदेवताविषयकरतेर्व्यङ्ग्यायाः खलुभावत्वम्, ग्रन्थकर्तुर्भगवत्तन्मयीभावशच स्वयं सूत्रकृदवस्थायां मङ्गलाकरमादपूर्वप्रस्थावकर्तृत्वाच्च सिद्धः,

टिप्पनी

     उत्प्रेक्षापह्नुतिध्वनिरपीति । बालचन्द्रकर्त्तृकायासानुभवस्योत्प्रेक्षा हि नखत्वप्रतिषेधपुरस्सरबालचन्द्रत्वविधानप्रत्ययलक्षणविषयापह्नवमात्मनीनमवलम्बतेऽतोऽङ्गाङ्गिभावः सङ्करोऽनयोरिति भावः ।
     यत्त्वायासितरूपैकपदव्यञ्जकानुप्रविष्ट्योरेनयोरेकव्यञ्जकानुप्रवेशात्मा सोऽत्रेति कश्चित्, तन्मन्दम्-मिथोऽनपेक्षत्वरूपपृथग्व्यवस्थितत्व एव ध्वनिगते योग्यतास्त्येकव्यञ्जकानुप्रवेशात्मनः सङ्करस्य, प्रकृते चोक्तदिशोत्प्रेक्षापन्हुत्योः सापेक्षतैवमिथोऽस्ति,
     न च नैरपेक्ष्ये संसृष्टेः प्रसङ्ग इति सङ्क्यम्? पदरूपविषयभेदविशिष्टानपेक्षत्वस्य संसृष्टौ विवक्षितत्वाद्,
     एकव्यञ्जकानुप्रवेशे च विशेष्यसत्त्वेऽपि विशेषणाभावान्न संसृष्टिलक्षणातिव्याप्तिरित्याकूतं ।
     एवं वस्त्वलङ्काररसेति । यद्यपि सर्वमेव वस्तु तथापीह रसालङ्कारभिन्नं वस्तुपदेन विवक्षितम्, अलङ्कारत्वं च रसादिप्रतियोगिकभेदवद्व्यङ्ग्यप्रतियोगिकभेदविशिष्टशब्दार्थान्यतरनिष्टविषयितासम्बन्धावच्छिन्नचमत्कृतिजनकतावच्छेदकतावच्छेदकत्वं रमश्च भग्रावरणचिद्विशिष्टः स्थायी । त्रिधा ध्वनिरत्रेति । यद्यपि प्रकारान्तरेम ध्वनीनांबाहुविध्येऽपि ध्वन्यमानविषयभेदनिबन्धनध्वनिविभागजनकत्वप्रकारकाचार्य्यतात्पर्यविषयीभूतधर्माणां वैविध्येन ध्वनित्रिधात्वमप्यविरुद्धमिति भावः ।


काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व-
स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।
के चिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं
तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ।। १ ।।


लोचनम्

     अथ प्राधान्येनाभिधेयस्वरूपमभिदधदप्रधानतया प्रयोजनप्रयोजनं तत्सम्बद्धं प्रयोजनं च सामर्थ्यात्प्रकटयन्नादिवाक्यमाह-काव्यस्यात्मेति ।
     काव्यात्मशब्दसंनिधानाद्बुधसब्दोऽत्र काव्यात्मावबोधनिमित्तक इत्यभिप्रायेण विवृणोति-काव्यतत्त्वविद्भिरिति ।

बालप्रिया

     अथेत्यारम्भार्थः । अभिधेयस्वरूपमिति । ध्वनिस्वरूपमित्यर्थः । प्रयोजनेति । प्रयोजनस्य ध्वनिरूपाभिदेयज्ञानस्य प्रयोजनं प्रीतिरूपम्, अभिदधदित्यस्यात्रानुषङ्गः । आभिधेयस्वरूपस्य तत्स्वरूपं ब्रूम इति वाक्यार्थत्वं; प्रयोजनप्रयोजनस्य प्रीतय इति पदार्तत्वमतस्तदभिधानयोः प्राधान्याप्रादान्ये । तत्सम्बद्धमिति । तेन प्रयोजनप्रयोजनेन सम्बद्धमित्यर्थः । प्रयोजनमभिधेयज्ञानरूपं । सामर्थ्यातर्थसामर्थ्यदाक्षेपत इति यावत् ।
प्रकटयन्बोधयन् । ध्वनिस्वरूपवचनस्य हि प्रयोजनं ध्वनिस्वरूपज्ञानं सहृदयानां । तस्य हि प्रयोजनं मनःप्रीतिः । एवञ्ज तयोर्हेतुहेतुमद्भावेन प्रयोजनप्रयोजनरूपायाः प्रीतेरभिधानात्तद्धेतुभूतस्य ध्वनिस्वरूपज्ञानस्य प्रकटनं सिद्ध्यतीति भावः ।
     ननु बुधशब्दस्य सामान्यतो ज्ञातृवाचित्वात्वृत्तौऽकाव्यतत्त्वविद्भिरिऽति कुतो व्याख्यातमित्यतस्तदवतारयति-काव्येति । काव्यात्मबोधः निमित्तं प्रयोगनिमित्तं यस्य सः । यद्वा निमित्तं प्रवृत्तिनिमित्तं । तच्च तत्पदजन्यबोधे प्रकारतया भासमानो धर्मः । ननु

टिप्पनी प्राधान्येनेति ।

प्रतिपिपादयिषितत्वान्मुख्यत्वेन । अभिधेयेति । "तेन ब्रूम" इति प्रतिज्ञातत्वाद्ध्वन्यात्मकविषयं । प्रयोजनप्रयोजनमिति । ध्वनिस्वरूपाभिधानस्य ध्वनिस्वरूपज्ञानं प्रयोजनम्, अस्य च सहृदयमनःप्रीतिस्तदिति भवति तदभिधानस्य ताद्दशप्रीतिस्तथा प्रयोजनं ।
     प्रयोजनप्रयोजनतावच्छेदककुक्षौ मनःपदोपादानं च भरतदर्शनाध्वनीनानां प्रक्रियांशे भूम्ना व्याकरमदर्शनानुसारित्वस्फोरणाय, इदमीये हि दर्शने सुखादिविशेषगुणानां मनोनिष्टत्वमेवाभिमतं नात्मनिष्टत्वं ।
     बुधशब्दोऽत्रेति । सामान्यपरशब्दानां विशेषपरत्वे लक्षणैवाश्रयणीयान्यथा शाब्दविषयत्वानुपपत्तिरेव स्यात् ।


     बुधैः काव्यतत्त्वविद्भः, काव्यस्यात्मा ध्वनिरिति संज्ञितः, परम्परया यः समाम्नातपूर्वः सम्यकासमन्ताद्म्नातः प्रकटितः, तस्य सहृदयजनमनःप्रकाशमानस्याप्यभावमन्ये


लोचनम्

आत्मशब्दस्य तत्त्वशब्देनार्थं विवृण्वानः सारत्वमपरशाब्दवैलक्षम्यकारित्वं च दर्शयति । इतिशब्दः स्वरूपपरत्वं ध्वलनिशब्दस्याचष्टे, तदर्थस्य विवादास्पदीभीततया निश्चयाभावेनार्थत्त्वायोगात् । एतद्विवृणोति-संज्ञित इति ।
वस्तुतस्तु न तत्संज्ञामात्रेणोक्तम्, अपि त्वस्त्येव ध्वनिशब्दवाच्यं प्रत्युत समस्तसारभूतं । न ह्यन्यथा बुधास्तद्दशमामनेयुरित्यभिप्रायेण विवृणोति-तस्य सहृदयेन्यादिना ।

बालप्रिया

काव्यात्मविद्भिरित्येव कुतो नोक्तमित्यत आह-आत्मेति । तत्त्वशब्देन अबाधितस्वरूपवाचिना तत्त्वशब्देन । अपरेति । अपरेभ्यःशाब्देभ्यःलौकिकवैदिकशब्दप्रतिपाद्येभ्यः स्वस्य यद्वैलक्षण्यं सहृदयश्लाध्यत्वादिना तत्कारित्वम्, दर्शयति व्यञ्जयति, तदर्थस्येति शेषः । आत्मेवात्मेत्यात्मशब्दोऽत्र गौणः; तेन चाबाधितस्वरूपत्वरूपात्मसाम्येन ध्वनिरूपार्थो लक्ष्यत इति ज्ञापनाय तत्त्वशब्देन तदर्थविविरणं, तेन तस्य सारत्वादिकं व्यङ्ग्यमिति भावः । इतिशब्द इति । ध्वनिरितीत्यत्रेचिशब्द इत्यर्थः । आचष्टे ग्राहयति, सर्वशब्दानां सब्दस्वरूपपरत्वं तत्तत्सङ्केतितार्तपरत्वञ्जास्ति । तत्रेतिशब्दप्रयोगे शब्दस्वरूपपरत्वं, प्रकृते ध्वनिपदोत्तरमितिशब्दकरणाद्ध्वनिशब्दोऽयं संज्ञारूपध्वनिशब्दस्य प्रतिपादक इत्यर्थः । तत्संज्ञाप्रकारेण संज्ञिनो भानञ्जाक्षेपादिना भवति यथा जातिसक्तिपक्षे व्यक्तेर्भानं । यद्वा ध्वनिपदस्य लक्षणया ध्वनिसंज्ञित इत्यर्थ इति भावः । उक्तार्थे हेतुमाह-तदर्थस्येत्यादि । तदर्थस्य ध्वनिशब्दाभिदेयस्य ध्वन्यमानत्वविशिष्टस्य, विवादास्पदीभूततया ध्वनिरस्ति नास्तीति विप्रतिपत्तिविषयतया । निश्चयाभावेनेति । निश्चयाभाव इति पाठे निमित्ते सप्तमी ।
ध्वन्यमानत्वप्रकारेण तद्धर्मिणो मध्यस्थानां निश्चयाभावादित्यर्थः । यद्वा तदर्थस्येत्यस्य निश्चयाभावेनेत्यनेन सम्बन्धः । अर्थत्वायोगादिति ध्वन्यमानत्वविशिष्टरूपार्थवत्त्वासम्भवादित्यर्थः । ध्वनिसब्दस्येत्यस्यानुषङ्गः ।
एतदिति द्वनिशब्दस्य स्वरूपपरत्वमित्यर्थः । नन्वेवं ध्वनिशब्दस्य ध्वनिसंज्ञित इत्यर्थकथने सति तस्यऽसहृदयमनःप्रकाशमानस्यापीऽति समनन्तरग्रन्थविरोधः, सहृदयमनःप्रकाशमानस्येत्यनेन ध्वन्यमानत्वविशिष्टार्थस्य सहृदयप्रतीतिविषयत्वाभिधानादित्याशङ्गं परिहर्तुं तद्ग्रन्थाभिप्रायमाह- वस्तुतस्त्वित्यादि । तदिति । ध्वनिपदमित्यर्थः । यद्वा ध्वनिरूपं वस्त्वित्यर्थः । संज्ञामात्रेणोति । मात्रपदेव ध्वन्यमानत्वरूपप्रवृत्तिनिमित्तस्य व्यवच्छेदः । ध्वनिशब्दवाच्यं ध्वनियमानत्वविशिष्टं । अस्त्येवेत्यत्र हेतुमाह-न ह्यन्यथेत्यादि । विवृणोतीति-कारिकास्थं तस्येति पदं व्याचष्ट इत्यर्थः । सहृदयेत्यादिनेति । सहृदयमनःप्रकाशमानस्येत्यनेनेत्यर्थः ।

लोचनम्

एवं तु युक्ततरम्--इतिशब्दो भिन्नक्रमो वाक्यार्थपरामर्शकः, ध्वनिलक्षणोऽर्थः काव्यस्यात्मेति यः समाम्नात इति । शब्दपदार्थकत्वे हि ध्वनिसंज्ञितोऽर्थ इति का सङ्गतिः? एवं हि ध्वनिशब्दः काव्यस्यात्मेत्युक्तं भवेद्, गवित्ययमाहेति यथा । न च विप्रतिपत्तिस्थानमसदेव, प्रत्युत सत्येव धर्मिणि धर्ममात्रकृता विप्रतिपत्तिरित्यलमप्रस्तुतेन भूयसा सहृदयजनोद्वेजनेन । बुधस्यैकस्य प्रामादिकमपि तथाभिदानं स्यात्, न तु भूयसां तद्युक्तं ।
तेन बुधैरिति वहुवचनं । तदेव व्याचष्टे--परम्परयेति । अविच्छिन्नेन प्रवाहेण तैरेतदुक्तं विनापि विशिष्टपुस्तकेषु विनिवेशनादित्यभिप्रायः । न च बुधा भूयांसोऽनादरणायं

बालप्रिया

यादिदं संज्ञाप्रकारेण ध्वनिलक्षणं वस्तु काव्यात्मत्वेनाभिहितं तदश्रद्धोपहन्यमानमानसजनबुद्ध्यनुरोधेनैव । ध्वन्यमानत्वविशिष्टार्थस्य सहृदयप्रतीतिसिद्धतया तद्बुद्ध्यनुरोधेन च समनन्तरग्रन्थ इति भावः ।
यद्वा नन्वेवं ध्वनिपदस्य ध्वनिसंज्ञित इत्यर्थकत्वे कथमभावादिवादिप्रत्युत्थानम्, तेषां ध्वन्यमानत्व एव विवादेन द्वनिसंज्ञायां विवादाभावादित्यत आह-वस्तुतस्त्वित्यादि । विवृणोतीति । विविच्य वदतीत्यर्थः ।
सहृदयेत्यादिनेति । आदिपदेन सहृदयमनःप्रकाशमानस्याप्यभावमन्ये जगदुरित्यादेस्सङ्ग्रहः । ध्वनिरितीति योजनेन वृत्तिकृद्व्विरणमुपलक्षणमित्यभिप्रायेणाह-एवं त्वितायादि । एवं वक्ष्यमाणं योचजनं व्याक्यानं वेति शेषः ।
युक्ततरमिति । तरपा पूर्वव्याख्यानस्य युक्तत्वमस्तीति ज्ञाप्यते । भिन्नक्रम इति । यस्मादनन्तरं श्रूयते ततोऽन्यत्र योजनीय इत्यर्थः । काव्यस्यात्मेति समाम्नातपूर्व इति योजनेति भावः । वाक्यार्थपरामर्शक इति । समाम्नाने का व्यास्यात्मेति वाक्यार्थप्रतिपादकत्वं बोधयतीत्यर्थः, न तु तद्वाक्याभेदमिति भावः । वाक्यमत्र पदसमुदायः । योजनां दर्शयति-ध्वनीत्यादि । ध्वनिरित्यस्य विवरणं-ध्वनिलक्षणोऽर्थ इति । ध्वन्यमानत्वविशिष्ट इत्यर्थः ।
एवञ्चास्यैवार्थस्य तस्येति तत्पदेन परामर्शः । ध्वनिरितीति योजनापक्षे ध्वनिपदस्य केवलसंज्ञापरत्वे दोषमाह-शब्देत्यादि । शब्दपदार्थकत्वे ध्वनिपदस्य ध्वनिरिति संज्ञामात्रार्थकत्वे सति । कासङ्गतिरिति । असङ्गतं स्यादित्यार्थः । अत्र हेतुमाह-एवं हीत्यादि । ध्वनिपदस्य प्रागुक्तरीत्यार्ऽथपरत्वासङ्गतिशङ्कां परिहरति- न चेत्यादि । विप्रतिपत्तिस्थानं विप्रतिपत्तिविषयो धर्मी । धर्ममात्रकृतेत्यादि । यथा शब्दादौ सत्येव धर्मिणि नित्यत्वानित्यत्वादिधर्मकृता विप्रतिपत्तिः, प्रकृते च ध्वनिसंज्ञिते धर्मिणि गुणालङ्कारान्तर्भूतत्वभाक्तत्वादिधर्मकृता विप्रतिपत्तिरित्भावः । बुधैरिति बहुवचनार्थं व्याचष्टे-बुधस्येत्यादि । तथाभिधानं काव्यात्मत्वेनाभिधानं ।
तत्प्रामादिकाभिधानं । तेनेति । तदभिधानस्य प्रामाणिकत्वेनोपादेयत्वद्योतनार्थमित्यर्थः । तदेवेति । उक्तप्रयोजनकं बहुवचनमेवेत्यर्थः । परम्परयेत्यस्य विवरणमविच्छिन्नेनेत्यादि । एतदिति । ध्वनेः काव्यात्मत्वमित्यर्थः ।
विशिष्टेति । विशिष्टपुस्तकेषु विनिवेशनं लेखनेन स्थापनं, तस्माद्विनाप्युक्तमिति सम्बन्धः । साक्षादुपदेशसिद्धोऽयमर्थ इति भावः ।


जगदुः । तदभावादिनां चामी


लोचनम्

वस्त्वादरेणोपदिशेयुः; एतत्त्वादरेणोपदिष्टं । तदाह--सम्यगाम्नातपूर्व इति । पूर्वग्रहणेनेदम्प्रथमता नात्र सम्भाव्यत इत्याह, व्याचष्टे च --सम्यगासमन्ताद्म्नातः प्रकटित इत्यनेन । तस्येति । यस्याधिगमाय प्रत्युत यतनीयं, का तत्राभावसम्भावना । अतः किं कुर्मः, अपारं मौर्ख्यमभाववादिनामिति भावः । न चास्माभिरभाववादिनां विकल्पाः श्रुताः, कुं तु सम्भाव्य दूषयिष्यन्ते, अतः परोक्षत्वं । न च भविष्यद्वस्तु दूषयितुं युक्तम्, अनुत्पन्नत्वादेव ।
तदपि बुद्ध्यारोपितं दूष्यत इति चेत्; बुद्ध्यारोपितत्वादेव भविष्यत्त्वहानिः । अतो भूतकालोन्मेषात्पारोक्ष्याद्विशिष्टाद्यतनत्वप्रतिभानाभावाच्च लिटा प्रयोगः कृतः-जगदुरिति । तह्याख्यानायेव सम्भाव्य दूषणं प्रकटयिष्यति ।
सम्भावनापिनेयमसम्भवतो युक्ता, अपि तु सम्भवत एव, अन्यथा सम्भावनानामपर्यवसानं

बालप्रिया

इत्यभिप्राय इति । परम्परयेति वचने वृत्तिकाराभिप्राय इत्यर्थः । समाम्नातपूर्व इत्यत्र संशब्दार्थं दर्शयितुमाह-न चेत्यादि । पूर्वग्रहणस्य फलमाह-पूर्वेति । अत्र आख्याने । इत्याह इति व्यञ्जयति । व्याचष्टे चेति । उक्तमर्थं व्याचष्टे चेत्यर्थः । सम्यगित्यादिना पूर्वशब्दार्थोऽपि व्याख्यात इति भावः । बुधसमाम्नातत्वोक्त्या लब्धस्य विवरणं सहदयमनःप्रकाशमानस्यापीति । तेन गम्यमर्थन्दर्शयति-यस्येत्यादिना । जगदुरिति लिटः प्रयोगस्योपपत्तिं वृत्तौ व्याचक्षीरन्नित्यादेस्तद्विवरणरूपत्वादिकञ्च दर्शयितुमाह-न चेत्यादि । अस्माभिः ध्वनिवादिभिः, विरुद्धाः कल्पा विकल्पा विकल्पितार्थाः । यदि न श्रुताः कथन्तर्हि दूषयिष्यन्त इत्यत आह-सम्भाव्येति । के चिदाचक्षीरन्नित्यादिना सम्भावना । यत्रार्थशशब्दो वेत्यत्र व्याख्यानेऽयदप्युक्तऽमित्यानुवादपूर्वकंऽतदप्ययुक्तऽमित्यादिना दूषणञ्चेति बोध्यं । अत इति । अश्रुतत्वादित्यर्थः । भूतत्वं साधयितुमाह-न चेति । अनुत्पन्नत्वादेवेति ।
एवकारः पौनर्वचनिकः, पूर्वोक्ताद्भविंष्यत्वादेवेत्यर्थः । शङ्कते-तदपीति । तत्भविष्यद्वस्तु, बुद्धावारोपितं बुद्ध्यारोपितं बुद्धिविषयीकृतं । समाधत्तेबुद्धीति । आरोपणं करणं । उपसंहरति-अत इति । वास्तवभूतत्वस्यासम्भवममिप्रेत्य उन्मेषादित्युक्तं । प्रातिभासिशं भूतकालावच्छिन्नत्वं लिट्प्रयोगावलम्बनमिति भावः । विशशिष्टेति । कालविशेषरूपेत्यर्थः । एवं लिटः प्रयोगं प्रसाध्याचक्षीरन्नित्यादिलिङ्प्रयोगान्प्रकृतसङ्गतान्दर्शयति-तह्याख्यानायैवेति । लिटो व्याख्यानायैवेत्यर्थः, न तु स्वतन्त्रतयेत्येवकारार्थः. व्याख्यानायेत्यस्य सम्भाव्येत्यनेन सम्बन्धः । नन्वचक्षीरन्नित्यादिभिरेव जगदुरित्यस्य वायख्याने सम्भवति किं मध्ये तदभाववादिनाञ्जामी इत्यादिग्रन्थेनेत्यशाङ्कावारणायावतारयति-सम्भावनापीति । इयं लिट्समर्थकत्वेनोपात्ता । असम्भवतः कथञ्जिदप्यप्रतीतस्य । अपर्यवसानं स्यादिति । पर्यवसानस्थानालाभादिति भावः ।


विकल्पाः संभवन्ति ।


लोचनम्

स्यात्दूषणानां च । अतः सम्भावनामभिधायिष्यमाणां समर्थयितुं पूर्वं सम्भवन्तीत्याह । सम्भाव्यन्त इति तूज्यमानं पुनरुक्तार्थमेव स्यात् । न च सम्भवस्यापि सम्भावना, अपि तु वर्तमानतैव स्फुटेति वर्तमानेनैव निर्देशः । ननु चासम्भवद्वस्तुमूलया सम्भावनया यत्सम्भावितं तद्दूषयितुमशक्यमित्याशङ्क्याह--विकल्पा इति । न तु वस्तु सम्भवति ताद्दक्यत इयं सम्भावना, अपि तु विकल्पा एव । ते च तत्त्वावबोधवन्ध्ततया स्फुरेयुरपि, अत एवऽआचक्षीरन्ऽ इत्यादयोऽत्र सम्भावनाविषया लिङ्प्रयोगा अतीतपरमार्थे पर्यवस्यन्ति । यथा--

यदि नामास्य कायस्य यद्न्तस्तद्बहिर्भवेत् ।

दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ।।

बालप्रिया

अभिधायिष्यमाणां आचक्षीरन्नित्यादिना वक्ष्यमाणां । समर्थयितुमिति । यत्सम्भवति तत्सम्भाव्यत इति व्याप्त्या साधयितुमित्यर्थः । सम्भवन्तीत्याहेति । ऽतदभाववादिनाम्ऽ इत्यादिऽसम्भवन्तीऽत्यान्तमाहेत्यर्थः । ननु सम्भवन्तीत्यस्य स्थाने सम्भाव्यन्त इत्युच्यतां तदाप्रतिज्ञा चादौ कृता स्यादित्यत्राह-सम्भाव्यन्त इतीति । पुनरुक्तार्थमिति । लिङ्भिरित्यर्थः । ननु सम्भावनामूलभूतस्सम्भवोऽपि किं सम्भावनीयः? नेत्याह-न चेति । वर्तमानेनेति । लटेत्यर्थः । विकल्पा इत्युक्तमवतारयति-ननु चेति । सम्भवद्वस्तुमूलमाश्रयो यस्यास्तया, सम्भावितंविषयीकृतमुत्पादितं वा । विकल्पा इत्युक्त्या कथं परिहार इत्यतस्तत्प्रकारं व्याचष्टे-न त्वित्यादि । ताद्दक्सम्भावना सम्भावितं वस्तु परमार्थसन्न सम्भवति । अत्र हेतुर्यत इति । इयमिति । कारमभूतेत्यर्थः । तर्हि किमालम्बना सम्भावनेत्यत आह-अपि त्वित्यादि । प्रमाणयुक्त्याभासाभ्यामधिष्टानभूते काव्यात्मनि ध्वनिस्वरूपे विरुद्धतया कल्प्यन्त इति विकल्पाः पक्षाः । ननु भावे कथमभावकल्पनेत्यत आह-ते चेति । तत्त्वेति । ध्वनिस्वरूपकाव्यात्मसंवित्तिविरहेमेत्यर्थः । स्फुरेयुरपि स्फुरन्त्येव । अत एवेति । यत इंमे पक्षा भ्रान्तिकल्पिताः, तत एवेत्यार्थः. अतीतेति । अतीतो भूतः परमार्थस्तात्पर्यार्थो येषां ते । परमार्थत्व इति च पाठः । पर्यवस्यन्तीति मूले जगदुरिति लिट्योग इव वृत्तावाचक्षीरन्नित्यादिसम्भावनार्थकलिङ्प्रयोगोऽपि क्रियायाः सम्भावनारूपबुद्ध्यारोपितत्वनिमित्त्कभूतत्वे पर्यवस्यतीर्त्थः । उक्तार्थे दृष्टान्तमाह-यथेति । यदि नामेति । वस्तुतत्त्वनिवेदनमुखेन वैराग्यजननार्थमिदं वचनं । कायस्य शरीरस्य । यदिति । मांसादीत्यर्थः । शुनः काकांश्चेति भक्षणाय प्रवृत्तानित्यार्थात्सिद्ध्यति । इत्यत्रेति । भूतप्राणतैवेति सम्बन्धः । एवमिति । बहिर्भूतान्तर्गतमांसादिकत्वेनेत्यर्थः ।

लोचनम्

इत्यत्र । यद्येवं कायस्य दृष्टता स्यात्तदैवमवलोक्येतेति भूतप्राणतैव । यदि न स्यात्ततः किं स्यादित्यत्रापि, किं वृत्तं यदि पूर्ववन्न भवनस्य सम्भावनेत्ययमेवार्थ इत्यलमप्रकृतेन बहुना । तत्र समयापेक्षमेन शब्दोऽर्थप्रतिपादक इति कृत्वा वाच्यव्यातिरिक्तं नास्ति व्यङ्ग्यम्, सदपि वा तदभिधावृत्त्याक्षिप्तं शब्दावगतार्थबलाकृष्टत्वाद्भाक्तम्, तदनाक्षिप्तमपि वा न वक्तुं शक्यं कुमारीष्विव भर्तृसुकमतद्वित्सु इति त्रय एवैते प्रधानविप्रतिपत्तिप्रकाराः । तत्राबावविकल्पस्य त्रयः प्रकाराः-शब्दर्थगुणालङ्काराणामेव शब्दोर्थशोभाकारित्वाल्लोकशास्त्रातिरिक्तसुन्दरशब्दार्थमयस्य

बालप्रिया

कायस्य शरीरस्य । एवमिति । निवार्यमाणश्वकाकत्वेन लोक इत्यर्थः । वाक्याभ्यां श्लोकस्य सारार्थो दर्शितः । भूतप्राणतैवेति । अतीतपरमार्थतैवेत्यर्थः । सम्भावनाविषयतद्बहिर्भवनादिक्रियायाः भूतकालावच्छिन्नत्वमेव प्रतीयत इति यावत् । विधाविव निषेधस्थलेऽप्येवमेवेति दर्शयितुमाह-यदीत्यादि । यदि नामेत्यादिपद्यस्य शेषभूतमिदमेकपादात्मकं वाक्यम्-यदि न स्यादिति । कायस्यान्तर्यत्त्द्बहिर्न स्याद्यदीत्यर्थः । किन्तु यथायथमेव व्यावस्थितान्तर्बहिर्भाग एवायं कायस्स्यादिति भावः । ततः किं स्यादिति । तदापि किं फलं स्यादित्यर्थः. तदाप्यतिजुगुप्सितोऽयं कोयो निष्फल एव फल्गुतरविषयोपभोगमात्रोपयोगित्वादिति भावः । इत्यत्रापीत्यस्य अयमेवार्थ इत्यनेन सम्बन्धः । उक्तं वाक्यं खयं व्याचष्टे-किं वृत्तमित्यादि । यदि न भवनस्य सम्भावना किं वृत्तमिति योजना । ततः किं स्यादि त्यास्य विवरणं-किं वृत्तमिति । तदापि किं फलं जातं न किञ्चिदित्यर्थः । यदि न स्यादित्यस्य विवरणं यदि न भवनस्य सम्भावनेति । पूर्ववदिति वैधर्म्येण दृष्टान्तकथनं, यदि नामेत्यादौ यथा भवनस्य सम्भावनेति । अयमेवार्थ इति निषेधस्थलेऽपि लिङस्सम्भावनैवार्थ इति भावः । अथादौ प्रतिपत्तिसौकर्याय तात्पर्यं दर्शयति-तत्रेत्यादिना । तत्र ध्वनिविषये । समयापेक्षेणोन सङ्केतसहकारेण । इति कृत्वा इत्यतो हेतोः, शब्दस्य सङ्केतितार्थबोधकत्वादिति यावत् । वाच्यव्यतिरिक्तं संङ्केतितार्थव्यतिरिक्तं । व्यङ्ग्यं तत्त्वेनाभिमतम्, नास्ति काव्ये नास्ति, व्यङ्ग्यत्वेनाभिमतङ्काव्यप्रतिपाद्यं न भवति काव्यशब्तदसङ्केतितत्वादित्यर्थः । सदपीति । तद्वाच्यव्यतिरिक्तं व्यङ्ग्यं सदपि भाक्तमिति सम्बन्धः । अत्र हेतुः-अभिधावृत्त्याक्षिप्तमिति । अभिदावृत्त्या अभिधापुच्छभूतया वृत्त्या लक्षणया, आक्षिप्तं बोधितं । अत्र हेतुः-शब्देति । बलं सहकारि । तदनाक्षिप्तं अभिधावृत्त्यनाक्षिप्तं । तत्सदित्यनयोरनुषङ्गः, सदपीति योजना । वक्तुं असाधारणधर्मप्रकारेण प्रतिपादयितुं । न शक्यं शक्तिर्नास्ति बुधेष्विति शेषः । अत्र दृष्टान्तः-कुमारीष्विवेति । वचनशक्त्यधिकरणत्वविवक्षया सप्तमी । अतद्वित्सु भर्तृसुखमजानतीषु । प्रधानविप्रतिपत्तीति । कारिकोक्तत्वादेषां । प्रादान्यं । तानेव प्रकारानाह-शब्देत्यादि । शब्दार्थयोर्ये गुणाः, अलङ्काराश्चतेषामेव । ते ह्युभयवादिसिद्धशोभाहेतुभावाः । शब्देति । काव्यशोभाकारित्वादित्यर्थः । हेतुरयं वक्ष्यमाणे सर्वत्र बोध्यः--यत्र यत्र काव्यशोभाकारित्वं तत्र काव्यशोभाकारित्वं तत्र तत्रशब्दार्थगुणाद्यन्यतमत्वमिति

लोचनम्

काव्यस्य न शोभाहेतुः कश्चिदन्योऽस्ति योऽस्माभिर्न गणित इत्येकः प्रकारः, यो वा न गणितः स शोभाहेतुः कश्चिदन्योऽस्ति योऽस्माभिर्न गणित इत्येकः प्रकारः, यो वा न गणितः स शोभाकार्येव न भवतीति द्वितीयः, अथ शोभाकारी भवति तर्ह्यस्मदुक्त एव गुणे वालङ्कारे वान्तर्भवति, नामान्तरकरणे तु कियदिदं पाण्डित्यं । अथाप्युक्तेषु गुमेष्वलङ्कारेषु वा नान्तर्भावः, तथापि किञ्चिद्विशेषलेशमाश्रित्य नामान्तरकरणमुपमाविच्छित्तिप्रकाराणामसंख्यत्वात् । तथापि गुणालङ्कारव्यतिरिक्तत्वाभाव एव । तावन्मात्रेण च किं कृतम्? अन्यस्यापि वैचित्र्यस्य शक्योत्प्रेक्षत्वात् । चिरन्तनैर्हि भरतमुनिप्रभृतिभिर्यमकोपमे एव शब्दार्थालङ्कारत्वेनेष्टे, तत्प्रपञ्चदिक्प्रदर्शनं त्वन्यैरलङ्कारकारैः कृतं । तद्यया-ऽकर्मण्यण्ऽ इत्यत्र कुम्भकाराद्युदाहरमं श्रुत्वा स्वयं नगरकारादिशब्दा उत्परेक्ष्यन्ते, तावता क आत्मनि बहुमानः । एवंप्रकृतेऽपीति

बालप्रिया

व्याप्तिरनेन दर्शिता । लोकेति । लोकशास्त्रशब्दौ लोकिकवैदिकशब्दपरौ । अन्यः गुणालङ्कारेभ्योऽन्यः, कश्चिन्नास्तीति सम्बन्धः । गुणाद्यतिरिक्तः काव्यशोभाहेतुः कश्चिन्नास्तीति प्रतिज्ञा, प्रमाणाभावादिति हेतुरत्र बोध्यः । नन्वियं प्रतिज्ञा न युक्ता, गुणाद्यतिरिक्तस्य शोभाहेतोस्सिद्धौ तन्निषेधायोगादसिद्धौ निषेधस्याशक्यत्वाच्चेत्यत आह-योऽस्माभिरित्यादि । भवतामभिमत इति चार्थात्सिद्ध्यति, तथा च परमते प्रतियोगिप्रसिद्ध्या तन्निषेध इति भावः । ननु लब्धरूपे क्व चिदित्याद्युक्तनीत्याधर्मिस्वरूपसिद्ध्युपजीवनेन धर्मविशेषविषयतयैव निषेधस्यानुज्ञेयत्वाद्व्यङ्ग्यस्वरूपसत्तानिषेधो न सम्भवतीत्यतो द्वितीयं प्रकारमाह-यो वेत्यादि । न गणित इति । गुणालङ्कारव्यतिरिक्तत्वेनेत्यर्थात् । स इति असमाभिरगणितो व्यङ्ग्यत्वेन भवदभिमतश्चेत्यर्थः । ननु व्यङ्ग्यस्य शोभाकारित्वं स्वसंवेदसाक्षिकं कथमपह्नूयत इत्यतः प्रकारान्तरमाह- अथेत्यादि । स इत्यनुषज्यते । अथ यदि । अन्तर्भवतीति । व्यङ्ग्यत्वेनाभिमतं गुणालङ्कारान्यतरदेव भवितुमर्हति काव्यशोभकारित्वादित्यर्थः । ननु ध्वन्यादिसमाख्यावशात्तद्भेदसिद्धिरित्यत आह-नामान्तरेति । ननु न केवलं नामान्तरकरणमेव, तन्निमित्तञ्चास्त्यतो न गुणाद्यन्तर्भाव इत्याशङ्कगमभ्युपगच्छति-अथापीत्यादि । नान्तर्भाव इति । काव्यजीवितत्वादिविशेषादिति भावः । परिहरति-तथापीत्यादि । नामान्तरकरणमिति । अस्मदुक्तानां गुमादीनां काव्यजीवितत्वादिविशेषमाश्रित्य ध्वन्यादिनामान्तरं भवद्भिः क्रियत इत्यर्थः । अत्र हेतुमाह-उपमेति । विच्छित्तिः वैचित्र्यं । उपमेत्यलङ्कारान्तराणां गुणानाञ्चेपलक्षणं । फलितमाह-तथापीत्यादि । तथापि तथा च । ततः किमिति तदाह-तावदिति । तावन्मात्रेण किञ्चिद्विशेषलेशमाश्रित्य नामान्तरकरणमात्रेण । किं कृतमिति । न किञ्चिदपि पाण्डित्यं सम्पादितमित्यर्थः । अत्र हेतुरन्यस्येति । तदेवोपपादयति-चिरन्तनैरित्यादि । उक्तमर्थं सोपहासद्दष्टान्तं निगमयति-तदित्यादि । तत्तस्मात् । तत्रेति वा पाठः । तथा सतीत्यर्थः ।


तत्र केचिदाचक्षीरन्--शब्दार्थशरीरन्तावत्काव्यं । तत्र च शब्दगताश्चारुत्वहेतवोऽनुप्रासादयः


लोचनम्

तृतीयः प्रकारः । एवमेकस्त्रिधा विकल्पः, अन्यौ च द्वौविति पञ्च विकल्पा इति तात्पर्यर्थः । तानेव क्रमेणाह-शब्दार्थशरीरं तावदित्यादिना । तावद्ग्रहणेन कस्याप्यत्र न विप्रतिपत्तिरिति दर्शयति । तत्र शब्दार्थौ न तावद्ध्वनिः, यतः संज्ञामात्रेण हि को गुणः? अथ शब्दार्थयोश्चारुत्वं स ध्वनिः । तथापि द्विविधं चारुत्वम्--स्वरूपमात्रनिष्टं संघटनाश्रितं च । तत्र शब्दानां स्वरूपमात्रकृतं चारुत्वं शब्दालङ्कारेभ्यः, संघटनाश्रितं तु शब्दगुणेभ्यः । एवमर्थानां चारुत्वं स्वरूपमात्रनिष्टमुपमादिभ्यः । संघटनापर्यवसितं त्वर्थगुणेभ्य इति न गुणालङ्कारव्यतिरिक्तो ध्वनिः कश्चित् । संघटनाधर्मा इति । शब्दार्थयोरिति शेषः । यद्गुणालङ्कारव्यतिरिक्तं तच्चारुत्वकारि न भवति, नित्यानित्यादोषा असाधुदुःश्रवादय इव । चारुत्वहेतुश्च ध्वनिः, तन्न तद्व्यतिरिक्तैति व्यतिरेकी हेतुः । ननु वृत्तयोरीतयश्च यथा गुणालङ्कारव्यतिरिक्ताश्चारुत्वहेतवश्च,


प्रसिद्धा एव । अर्थगताश्चोपमादयः । वर्णसंघटनाधर्माश्च ये माधुर्यादयस्तेऽपि प्रतीयन्ते । तदनतिरिक्तवृत्तयो वृत्तयोऽपि


लोचनम्

तथा ध्वनिरपि तद्व्यतिरिक्तश्च चारुत्वहेतुश्च भविष्यतीत्यसिद्धो व्यतिरेक इत्यनेनाभिप्रायेणाह--तदनतिरिक्तवृत्तय इति । नैव वत्तिरीतीनां तह्यतिरिक्तत्वं सिद्धं । तथा ह्यनुप्रासानामेव दीप्तमसृणमध्यमवर्णनीयोपयोगितया परुषत्वललितत्वमध्यमत्वस्वरूपविवेचनाय वर्गत्र्रयसम्पादनार्थं तिस्त्रोऽनुप्रासजातयो वृत्तय इत्युक्ताः, वर्तन्तेऽनुप्रासभेदा आस्विति । यदाह--

सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु ।
बालप्रिया

रेकीत्यर्थ इति केचित् । ऽशब्दार्थशरीरम्ऽ इत्यादेःऽप्रतीयन्तऽ इत्यन्तस्य वृत्तिग्रन्थस्य सारार्थं व्याख्यायोत्तरग्रन्थं प्रकृतोपयोगं दर्सयन्नवतारयति-नन्वित्यादि । असिद्धोव्यतिरेक इति । यत्गुणालङ्कारव्यातिरिक्तं, तच्चारुत्वकारि नेति व्यतिरेकव्याप्तेर्गुणालङ्कारव्यतिरिक्तासु चारुत्वहेतुत्या सम्प्रतिपन्नासु वृत्तिरीतिषु व्यभिचारादसिद्धिरित्यर्थः । इत्यभिप्रायेणेति । इतिशङ्कायामुत्तराभिप्रायेणेत्यर्थः । तदभिप्रायं विशदयति--नैवेत्यादि । तह्यतिरिक्तत्वं गुणालङ्कारव्यतिरिक्तत्वं । वृत्तीनान्तावदनुप्रासालङ्कारान्तर्भावं दर्शयितुमाह--तथा ह्यनुप्रासानामेवेत्यादि । अनुप्रासानामेवेत्यस्य वर्गत्रयसम्पादनार्थमित्यनेन सम्बन्धः । तदपि किमर्थमित्यात्राह--परुषत्वेत्यादि । परुषत्वादिस्वरूपाणां विशिष्य प्रदर्शनार्थमित्यर्थः । तस्यापि फलमाह--दीप्तेति । दीप्तं रौद्रादौरसे, मसृणं मधुरं शृङ्गरादौ, मध्यमं हास्यादौ, तथाविधं यद्वर्णनीयं विभावादि, तदुपयोगित्या वर्णनीयविशेषोपयोगित्वेनानुप्रसविशेषोपादेयतासिद्ध्यर्थमित्यर्थः । अनुप्रासजातय इति । अनुप्रासानामाश्रयभूता जातय इत्यार्थः । विवरिष्यते चेदमुपरि. वृत्तय इत्युक्ताः वृत्तय इति व्यवहृताः । तत्र व्युत्पत्तिमाह--वर्तन्त इति । अनुप्रासभेदाः अनुप्रासविशेषाः । आस्विति । वृत्तिरित्यत्र वृतिधातोरधिकरणे क्तिन्निति भावः । यदाहेति । भट्टोद्भट इति शेषः । सरूपेति । एतासु

‘‘‘लोचनम्

पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ।। इति ।।
     पृतक्पृथगिति । परुषानुप्रासा नागरिका । मसृमानुप्रासा उपनागरिका, ललिता । नागरिकया विदग्धया उपमितेति कृत्वा । मध्यममकोमलपरुषमित्यर्थः । अत एव वैदग्ध्यविहीनस्वभावसुकुमारापरुषग्राभ्यवनितासाद्दश्यादियं वृत्तिर्ग्राम्येति । तत्र तृतीयः कोमलानुप्रास इति वृत्तयोऽनुप्रासजातय एव । न चेह वैशोषिकवद्वृत्तिर्विवक्षिता, येन

बालप्रिया

तिसृषु वृत्तिषु परुषादिषु । पृथक्पृथक्सरूपाणां सजातीयानां व्यञ्जनानां न्यासः उपनिबन्धः तं । अनुप्रासमुशन्ति इच्छन्ति । "शषाम्यामि" त्यादिकारिकात्रयेम परुषदिवृत्तीनां स्वरूपमुक्तन्तद्भन्थे द्रष्टव्यं ।
     पृथक्वृतागित्यंशं व्याचष्टे-परुषेत्यादि । परुषवर्णारब्धत्वलात्परुषोऽनुप्रासो यस्यां वृत्तौ सा । परुषाया एव नागरिकेति संज्ञा । मसृणेति । मधुरवर्णारब्धत्वान्मसृणोऽनुप्रासो यस्यां सा । अस्या नामद्वयमाह--उपनागरिका ललितेति । उपमिता नागरिकया उपनागरिकेत्यन्वर्था संज्ञेत्याह--नागरिकयेति । परुषानुप्रासः मसृणानुप्रास इति पाठस्तु अनुप्रासवृत्योरैक्याभिप्रायेण योज्यः । वक्ष्यमाणग्राम्यवृत्तावनुप्रासस्य मध्यमत्वं दर्शयितुम्मध्यमशब्दार्थमाह-मध्यममकोमलपरुषमिति । मधुरवर्णभिन्नं परुषवर्णभिन्नञ्चेत्यर्थः । तदारब्धोऽनुप्रासो मध्यमानुप्रास इत्यर्थ । तदनुप्रासाया वृत्तेः ग्राम्यसंज्ञामुपादनपूर्वकमाह--अत एवेत्यादि । अत एव माधुर्यपारुश्यराहित्यादेव । वैदग्ध्येत्यादि । वैदग्ध्यविहीना स्वभावतः असुकुमारा अमधुरा, अपरुषा अनुद्बणस्वभावा च या ग्राम्यवनिता, तत्सादृश्यादित्यर्थः । तत्र तृतीयः कोमलानुप्रास इति । उक्तेष्वनुप्रासेषु मध्यमानुप्रासः कोमलानुप्राससंज्ञकश्चेत्यर्थः । अनेन ग्राम्याया वृत्तेः रूढा कोमलसंज्ञा च भट्टोद्भटोक्ता दर्शिता । उपसंहरति-वृत्तय इत्यादि ।


याः कैश्चिदुपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवणगोचरं ।


लोचनम्

जातौ जातिमतो वर्तमानत्वं न स्यात्, तदनुग्रह एव हि तत्र वर्तमानत्वं । यथाह कश्चित्--
लोकोत्तरे हि गाम्भीर्ये वर्तन्ते पृथिवीभुजः । इति ।
     तस्माद्वृत्तयोऽनुप्रासादिभ्योऽनतिरिक्तवृत्तयो नाभ्यधिकव्यापाराः । अत एव व्यापारभेदाभावान्न पृथगनुमेयस्वरूपा अपीति वृत्तिशब्दस्य व्यापारवाचिनोऽभिप्रायः । अनतिरिक्तत्वादेव वृत्तिव्यवहारो भामहादिभिर्न कृतः । उद्भटादिभिः प्रयुक्तेऽपि तस्मिन्नार्थः कश्चोदधिको हृदयपथमवतीर्ण इत्यभिप्रायेणाह--गताः अवणगोचरमिति ।

बालप्रिया

शषादितत्तद्वर्णरचनारूपाः परुषाद्या वृत्तयो वस्तुतोऽनुप्रासेषु वर्तन्ते । यथा-पृथिवीभुजि गाम्भीर्यं, ताः परुषत्वादिविशिष्टानुप्रासादिभिरभिव्यज्यन्ते च । यथा--गोत्वादिजातया गवादिबिः. अतश्च स्वाश्रयाभिव्यङ्ग्यत्वसाम्याद्वृत्तीनां जातित्वोपचार इति भावः । ननुवृत्तिरूपजातौ तज्जातिमतोऽनुप्रासस्य वर्तनमुक्तमयुक्तं, वैशेषिकमतविरुद्धत्वादित्यत आह--न चेत्यादि । इह अस्मन्मते । वैशोषिकवत्वैशेषिकमत इव । वृत्तिर्न विवक्षितेति । वर्तनमाधेयत्नरूपन्न विवक्षितमित्यार्थः । तर्हि तत्र वर्तनं किन्नामेत्यत आह--तदनुग्रह एवेति । वृत्तिरूपजातिकर्तृकानुग्रह एवेत्यर्थ. स च तत्कर्तृकं भेदकधर्मसमर्पणं रसाभिव्यञ्जनसामर्थ्याधानं वा ।
     उक्तार्थे दृष्टान्तमाह-लोकोत्तर इति । गम्भीर्ये वर्तन्त इति । गाम्भीर्यानुगृहीता भवन्तीत्यर्थः । गाम्भीर्यकर्तृकानुग्रहश्च सकलकार्यनिर्वहणसामर्थ्यदानादिरूपः । वृत्तौऽतदनतिरिक्तवृत्तयऽ इत्यत्र तत्पदार्थन्दर्शयन्नुपसंहरति--तस्मादनुप्रासादिभ्य इत्यादि । नास्त्यतिरिक्ता वृत्तिर्व्यापारो यासां ता इत्यार्थकतया व्याचष्टे-नाभ्यधिकेति । अनुप्रासानां यो व्यापारो रसव्यञ्जनविषयः, स एव वृत्तीनामपीति भावः. तदनतिरिक्ता इत्यनुक्त्वा एवमुक्तेः फलन्दशयति-अत एवेत्यादि । अतः उक्तात्व्यापारभेदाभावादेवेति योजना । न पृथगनुमेयस्वरूपा इति । पृथगनुप्रासावगमं विना नानुमेयस्वरूपाः, किन्तु वृत्तिव्याञ्जकवर्णविशेषरूपानुप्रासलिङ्गगम्या इति भावः । न पृथगभिदेयस्वरूपा इति च पाठः । अनुप्रासाभ्यधिकव्यापारसत्त्वे तु वृत्तीनां स्वरूपं पृथगभिधेयं स्यादिति तद्भावः । उक्तार्थे वृद्धसम्मतिमाह--अनतीति । अनुप्रासानननूद्भटादिभिः कृत एवेत्यत्राह-उद्भटादिभिरिति । प्रयुक्ते कृते । तस्मिन्वृत्तिव्यवहारे । नार्थ इति । अर्थः वृत्तिशब्दार्थः । अधिकः अनुप्रासरूपार्थादधिकः ।


रीतयश्च वैदर्भीप्रभृतयः । तह्यतिरिक्तः कोऽयं ध्वनिर्नामेति ।


लोचनम्

रीतयश्चेति । तदनतिरिक्तवृत्तयोऽपि गताः श्रवणगोचरमिति सम्बन्धः । तच्छब्देनात्र माधुर्यादयो गुणाः, तेषां च समुचितवृत्त्यर्पणे यदन्योन्यमेलनक्षमत्वेन पानक इव गुडमरिचादिरसानां सङ्घातरूपतागमनं दीप्तललितमध्यमवर्णनीयविषयं गौडीयवैदर्भपाञ्चालदेशहेवाकप्राचुर्यद्दशा तदेव त्रिविधं रीतिरित्युक्तं । जातिर्जातिमतो नान्या, समुदायश्च

बालप्रिया

इत्याभेप्रायेणेति । ऽगताऽ इत्यादिग्रन्थ उक्तार्थपर इत्यर्थः । ऽरीतयश्चेऽत्यत्र समुचितपदानुषञ्जनेन पूरयन्नाह--तदित्यादि । तच्छब्दोऽत्र गुणपरामर्शक इत्याह-तच्छब्दनेति । प्रत्यवमृश्यन्त इति शेषः । तथा पाठश्च । कथन्नाम रीतीनां गुणानतिरिक्तत्वमिति तदुपपादयति--तेषाञ्चेत्यादि । तेषां गुणानां । समुचितेति । समुचितादीप्तादिवर्णनीयौचित्यवती या वृत्तिः विशिष्टा वर्णरचना, तस्यां यद्गुणानामर्पणं तस्मिन्नित्यर्थः । समुचिता तत्तद्रसव्यञ्जनोचिता या वृत्तिः व्यापारः, तदर्पणे निमित्ते इति केचित् । अन्योन्येति । प्ररस्परसंश्लेषयोग्यत्वेन हेतुनेत्यर्थः । त्रैविध्योपपादकं-दीप्तेत्यादि । द्वन्द्वगर्भकर्मधारयस्य विषयपदेन बहुव्रीहिः । सङ्घातेति । समूहीभावेन रूपान्तरप्राप्तिरिति यावत् । सङ्घातपरूपत्वेन हृद्यत्वे दृष्टन्तः-पानक इवेति । तथा च माधुर्यादिगुणानां प्रत्येकं प्रातिस्वलिकरूपेण रीतिशब्दवाच्यत्वं नास्ति, परन्तु विशिष्टसङ्घातधर्मवत्तयेति भावः । ननु केनैतदुक्तमिति शङ्कायां वैदर्भ्यादिशब्दप्रवृत्तिनिमित्तन्दर्शयन्नुत्तरमाह-गौडीयेत्यादि । गौडविदर्भपाञ्चालसम्बान्धनो गौडीयादयो ये देसास्तेषां तत्रत्याकवीनामिति यावत् । विशिष्टवर्णनविषये योहेवाकः स्वभावः स्वाच्छन्द्यं वा, तं प्राचुर्येण पश्यतीति तेन । वामनेनेति भावः । हेवाकप्राचुर्यस्य दृशा दर्शनेन हेतुनेतत्यार्थो वा । विदर्भादिषु दृष्टत्वात्ततत्समाख्येति भावः । त्रिविधमित्यनेन रीतिगतमपि गौडीया वैदर्भी पाञ्जालीति त्रेविध्यं सूचितं । यथोक्तं वामनेन--"रीतिरात्मा काव्यस्य । विशिष्टा पादरचना रीतिः । विशेषो गुणात्मा । सा त्रेधा--वैदर्भी गौडीया पाञ्चाली च । वैदर्भीदिषु दृष्टत्वात्तत्समाख्या समग्रगुणा वैदर्भी । ओजःकान्तिमती गौडीया । माधुर्यसौकुमार्योपपन्ना पाञ्चाली" इति ।
     ननुक्तरीत्या वृत्यनुप्रासयोर्जातिजातिमद्भानाद्रीतिगुणयोस्समुदायसमुदायिभावाच्च कथमैक्यमत आह-जातिरित्यादि । समुदायः अवयवी । समुदायिनः अवयवात् ।


     अन्ये ब्रूयुः--नास्त्येव ध्वनिः । प्रसिद्धप्रस्थानव्यतिरेकिणः काव्यप्रकारस्य काव्यत्वहानेः


लोचनम्

समुदायिनो नान्य इति वृत्तिरीतयो न गुमालङ्कारव्यतिरिक्ता इति स्थित एवासौ व्यतिरेकी हेतुः । तदाह--तद्व्यतिरिक्तः कोऽयं ध्वनिरिति । नैष चारुत्वस्थानं शब्दार्थरूपत्वाभावात् । नापि चारुत्वहेतुः, गुणालङ्कारव्यतिरिक्तत्वादिति । तेनाखण्डबुद्धिसमास्वाद्यमपि काव्यमपोद्दारबुद्ध्या यदि विभज्यते, तथाप्यत्र ध्वनिशब्दवाच्यो न कश्चिदतिरिक्तोऽर्थो लभ्यत इति नामशब्देनाह ।
     ननु मा भूदसौ शब्दार्थस्वाभावः, मा च भूत्तच्चारुत्वहेतुः, तेन गुणालङ्कारव्यतिरिक्तोऽसौ स्यादित्याशङ्क्य द्वितीयमभाववादप्रकारमाह--अन्य इति । भवत्वेवम्; तथापि नास्त्येव ध्वनिर्याद्दशस्तव लिलक्षयिषितः । काव्यस्य ह्यसौ कश्चिद्वक्तव्यः । न

बालप्रिया

नान्य इति । तयोस्तादात्म्यस्यैवाङ्गीकारादिति भावः । प्रकृतमुपसंहरति--इतीति । स्थित एव उपपन्न एव । ऽतद्व्यतिरिक्तऽ इत्यादिग्रन्थः उक्तानुमानस्य निगमनरूप इत्यभिप्रायेणावतारयति-तदित्यादि । तदाह तस्मादाह । ऽतद्व्यतिरिक्तऽ इति हेतुगर्बतच्छब्देन शब्दार्थौ तद्गुणालङ्काराश्च परामृश्यन्ते । ऽकोऽयमिऽ त्यत्र किशब्दः किमेष चारुत्वस्थानमुत चारुत्वहेतुरिति विकल्पनिषेधपरश्चेत्याशयेन विवृणोति-नैष इत्यादिना । शब्दार्थतद्गुणालङ्कारव्यतिरिक्तः काव्यचारुताहेतुत्वविशिष्टो ध्वनिर्नास्तीति विशेष्टध्वनिसत्तानिषेधश्चानेनार्थात्सिद्ध्यतीति बोध्यं । एष इति । ध्वनित्वेनाभिमत इत्यर्थः । इतीत्यस्यानन्तरं किंशब्दनाहेति शेषो बोध्यः । किंशब्दे नैवोक्तार्थे लब्धे कि नामशब्देनेत्यत आह--तेनेत्यादि । अपोद्धारबुद्ध्येति । विभागबुद्ध्येत्यार्थः । नामशब्देनाहेति । नामशब्दोऽत्यन्तासत्वद्योतक इति भावः ।
     एतावता शब्दार्थतद्गुमालङ्कारव्यतिरिक्तस्य काव्यशोभाहेतुत्वविशिष्टस्य ध्वनेरभाव एव सिद्धः, न तु स्वरूपेण ध्वनेरभाव इति तत्सिद्ध्ये पक्षान्तरोपक्षेप इत्याशयेनावतारयति-नन्वित्यादि । असौ ध्वनिः । तेनेति तथापीत्यार्थः । यद्वा चारुत्वहेतुत्वाबावेनेत्यर्थः । चारुत्वहेतुत्वाद्धि गुणाद्यन्तर्भाव आपादितः, तदनह्गीकारे तु तद्व्यतिरिक्तध्वनिसद्भावस्सम्भावनार्ह एवेत्यार्थः । गुणालङ्कारेति शब्दार्थयोरुपलक्षणं । इत्यासङ्क्येति । इति ध्वनिवादिशङ्काम्मनसिकृत्येत्यर्थः । भवत्वेवमित्यभ्युपगमे । तर्हिजितमस्माभिरित्यत्राह-तथापीत्यादि । ननूक्तमेव तदस्तित्वमित्यत आह--यादृश इत्यादि । ताद्दस इति पूर्वेम सम्बन्धः । यादृशो लिलक्षयिपितः काव्यसम्बन्धितया लभणयुक्तं कर्तुमभिलषितः । इममर्थन्दर्शयन्नाह-काव्यस्य हीत्यादि । समुदितस्य


सहृदयहृदयाह्लादिशब्दार्थमयत्वमेव काव्यलक्षणं । न चोक्तप्रस्थानातिरेकिणो मार्गस्य तत्सम्भवति । न च तत्समयान्तःपातिनः


लोचनम्

चासौ नृत्तगीतवाद्यादिस्थानीयः काव्यस्य कश्चित् । कवनीयं काव्यं, तस्य भावश्च काव्यत्वं । न च नृत्तगीतादि कवनीयमित्युच्यते ।
     प्रसिद्धेति । प्रसिद्धं प्रस्थानं शब्दार्थौ तद्गुणालङ्काराश्चेति, प्रतिष्टन्ते परम्परया व्यवहरन्ति येन मार्गेण तत्प्रस्थानं । काव्यप्रकारस्येति । काव्यप्रकारत्वेन तव स मार्गोऽभिप्रेतः,ऽकाव्यस्यात्माऽ इत्युक्तत्वात् । ननु कस्मात्तत्काव्यं न भवतीत्याह--यहृदयेति । मार्गस्येति । वृत्तगीताक्षिनिकोचनादिप्रयस्येत्यर्थः । तदिति । सहृदयेत्यादिकाव्यलक्षणमित्यर्थः । ननु ये ताद्दशमपूर्वं कावयरूपतया जानन्ति, त एव सहृदयाः ।

बालप्रिया

काव्यस्य समुदायितया सम्बन्धित्वेन ह्यसौ वक्तव्यः । न च गुणादिभ्यो व्यतिरेके सति काव्यसम्बन्धित्वमस्य शचक्योपपादं, नृत्त्गीतादिवत् । तदयं प्रयोगः--विवादाध्यासितो ध्वनिः, न काव्यं, शब्दार्थातिरिक्तत्वात्; न च काव्यसम्बन्धी, तद्गुणालङ्कारातिरिक्तत्वात्, नृत्तगीतादिवदिति । न च साध्यविकलो दृष्टान्तः, तेषामकवनीयत्वेन काव्यत्वाभावस्य तत्सम्बन्दित्वाभावस्य च प्रसिद्धत्वादित्यर्थः । नृत्तगीतादेर्नाट्यस्थले शोभाकारित्वरूपविशेषं मनसिकृत्य दृष्टान्ततया कथनं ।
     स्वोक्तार्थपरतया प्रसिद्धेत्यादिग्रन्थं व्याचष्टे--प्रसिद्धमित्यादि । प्रतिष्टन्त इत्यस्य व्याख्या--परम्परयेत्यादि । परम्परया अविच्छिन्नप्रवाहेण । व्यवहरन्ति काव्यव्यवहारं कुर्वन्ति । येन मार्गोण मार्गतुल्येन येन । ध्वनेः काव्यप्रकारत्वोक्तिर्ध्वन्यभाववादनो व्याहितेत्याशङ्क्य परप्रसिद्ध्युपजीविनी तदुक्तिरित्याह--काव्येत्यादि । काव्यप्रकारत्वेन काव्यभेदत्वेन । तत्वेनाभिमत इति तदर्थ इति भावः । वृत्तौऽप्रसिद्धेऽत्यादिना पूर्वोक्तो हेतुर्दर्शितः । काव्यत्वहानेरित्यनेन साध्यश्चेति बोध्यं । इत्याहेति । इत्याशङ्कायामाहेत्यर्थः । मार्गपदेन प्रृते विवक्षितं व्याचष्टे-नृत्तेति । अक्षिनिकोचनादीत्यादिपदेनाक्षिसम्भविनां विकारान्तराणां परिग्रहः । प्रायशब्दस्तुल्यार्थकः । सहृदयेत्यादिति । सहृदयहृदयाह्लादिशब्दार्थमयत्वमित्यर्थः । ऽसहृदयहृदयाह्लादीऽत्यनेन गुणालङ्कारसुन्दरत्वमुक्तं । ऽन च तत्समयेऽत्यादिवृत्तिग्रन्थ एक एव शङ्कोत्तरात्मकः । तत्र शङ्काभागं विवृणोति-नन्वित्यादि । तादृशमिति । यत्तत्र भवद्भिर्नृत्तगीतादिप्रायमिति सोपहासमुक्तं ध्वनिस्वरूपन्तदित्यरथः । अपूर्वं पूर्वमनुन्मीलितं । जानन्तीत्यनेनऽतत्समयान्तः पातिनः सहृदयान्कांश्चिदिऽति


सहृदयान्कांश्चित्परिकल्प्य तत्प्रसिद्या ध्वनौ काव्यव्यपदेशः प्रवर्तितोऽपि सकलविद्वन्मनोग्राहितामवलम्बते ।


लोचनम्

तदभिमतत्वं च नाम काव्यलक्षणमुक्तप्रस्थानातिरेकिण एव भविष्यतीत्याशङ्क्याह--न चेति । यथा हि खङ्गलक्षणं करोमीत्युकत्वा आतानवितानात्मा प्राव्रियमाणः सकलदेहाच्छादकः सुकुमारश्चित्रतन्तुविरचितः संवर्तनविवर्तनसहिष्णुरच्छेदकः सुच्छेद्य उत्कृष्टः खङ्ग इति ब्रुवाणाः, परैः पटः खल्वेवंविधो भवति न खङ्ग इत्ययुक्तताय पर्यनुयुज्यमान एवं ब्रूयार्त्--इद्दशा एव खङ्कां सकलशब्देन निराकरोति ।

बालप्रिया

वृत्यर्थो विवृतः । तत्समयः ध्वनिपदसङ्केतः । ऽतत्प्रसिद्ध्येऽत्याद्यंशं व्याचष्टे-तदभीति । नामशब्देन तदभिमतत्वस्येव काव्यलक्षणत्वमिति सूचयति-इत्याशङ्क्याहेति । इत्येकांशेन ध्वनिवादिशङ्कामनूद्य परिहारमाहेत्यर्थ । ऽसकलेऽत्यादि परहारग्रन्थस्याभिप्रायं सद्दष्टान्तं स्पष्टयन्नाह---यथाहीत्यादि । खङ्गलक्षणं खङ्गस्वरूपं । करोमीति । करोतिरत्र वचनक्रियावाची । अत एव इति ब्रुवाण इति वक्ष्यते । आतानेति । आतानः आयामो विस्तारः । वितानः तिर्याग्विस्तारः । आत्मा स्वभावो यस्य सः । प्रव्रियमाणः प्रावरणीक्रियमाणः । प्रावरणस्वरूप इति च पाठः । संवर्तनेति । संवर्तनं सङ्कोचनं । विवर्तनं विकासनं । ते सहिष्णुः तद्योग्यः । इति ब्रुवाण इति । आतानादिविशिष्टः पदार्थः उत्कृष्टखङ्ग इति वदन्नित्यर्थः । पर्यनुयुज्यमानः आक्षिप्यमाणः सन् । कथं बूयादित्यत्राहर्--इदृश इत्यादिर् । इद्दशः पदार्थ एव मम खङ्गत्वेनाभिप्रेत इत्यर्तः । एतदिति । सहृदयान्तरकल्पनयोक्तं काव्यलक्षणमित्यर्थः ।
      नन्वमुया सोपहासोक्त्या किं जातम्? न नः किञ्चिच्छिन्नमित्यत आह--प्रसिद्धमिति । लक्ष्यं लक्षणेन निरूपणीयम्. न कल्पितमिति । लक्ष्यं भवतीत्यनुषज्यते । तदाह उक्ताद्भावादाह । उक्ताभिप्रायं वचनमाहेत्यर्थः । विद्वन्मनसामुचित विषय एव प्रवृत्तिसम्भवाद्विद्वत्पदेन उक्ताबिप्रायस्सूचित इति भावः । ऽसकलेऽत्युक्तेः फलमाह--विद्वांसोऽपीति । तत्समयज्ञाः ध्वनिसमयज्ञाः । ननु माभूत्सकलविद्वन्मनोग्राहिता,


     पूनरपरे तस्याभावमन्यथा कथयेयुः--न सम्भवत्येव ध्वनिर्नामापूर्वः कश्चित् । कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वहेतुष्वन्तर्भावात् ।


लोचनम्

एवं हि कृतेऽपि न किञ्चित्कृतं स्यादुन्मत्तता परं प्रकटितेति भावः ।
     यस्त्वत्राभिप्रायं व्याचष्टे--जीवितभूतो ध्वनिस्तावत्तवाभिमतः, जीवितं च नाम प्रसिद्धप्रस्थानातिरिक्तमलङ्कारकारैरनुक्तत्वात्तच्च न काव्यमिति लोके प्रसिद्धमित । तस्येदं सर्वं स्ववचनविरुद्धं । यदि हि तत्काव्यस्यनुप्राणकं तेनाङ्गीकृतं पूर्वपक्षवादिना तच्चिरन्तनैरनुक्तमिति प्रत्युत लक्षणार्हमेव भवति । तस्मात्प्राक्तन एवात्राभिप्रायः ।
     ननु भवत्वसौ चारुत्वहेतुः शब्दार्थगुणालङ्कारान्तर्भूतश्च, तथापि ध्वनिरित्यमुया भाषया जीवितमित्यसौ न केनचिदुक्त इत्यभिप्रायमाशङ्क्य तृतीयमभाववादमुपन्यस्यति पुनरपर इति । कामनीयकमिति कमनीयस्य कर्म । चारुत्वधीहेतुतेति यावत् ।

बालप्रिया

को दोष इत्यत आह--एवं हीत्यादि । अभिनवपरिकल्पितसहृदयहृदयाह्लादकारित्वात्मकलक्षणे कृते, किञ्चिल्लक्षणं कृतन्न स्यात्, परन्तु उन्मत्ततैव प्रकाशिता स्यान्न तु विद्वत्तेत्यर्थः ।
     व्याख्यानान्तरमनुवदति--यस्त्वित्यादि । अभिप्रायं द्वितीयाभाववाद्यभिप्रायं । जीवितेति । ध्वनिर्जीवितभूतोऽभिमत इति सम्बन्धः । तच्चेति । ध्वन्यात्मकं जीवितञ्चेत्यर्थः । न काव्यमिति । जीवितभूतो ध्वनिर्न काव्यमलङ्कारैरनुक्तत्वादिति प्रयोगः । तद्दूषयति--तस्येत्यादि । स्ववचनविरोधमुपपादयति--यदि हीत्यादि । तत्तर्हि । अनुक्तमिति । अनुक्तत्वाद्धेतोः । लक्षणार्हमेवेति । लक्षयितव्यमेवेत्यर्थः । न निषेधार्हमिति भावः । प्राक्तनः पूर्वोक्तः । अभिप्रायः अभाववाद्यभिप्रायः ।
     तृतीयमवतारयति--नन्वित्यादि । यद्येवं किं भवतः प्रयासेनेत्यत आह-तथापीति । एवमप्यसौ ध्वनिरित्यमुया भाषया जीवितमिति न केनचिदुक्तः ध्वनिः काव्यात्मेति केनापि लक्षणकारेण नोक्तमित्यर्थः । अतो लक्षणपुरस्सरन्तद्वक्तुमस्मत्प्रयास इति भावः । इत्यभिप्रायं ध्वनिवाद्यभिप्रायं । आशङ्क्येत्यनन्तरं प्रवर्तितमिति शेषः । वुञो भावर्थत्वे चारुत्वहेत्वन्तर्भावोक्तिरनुपपन्ना स्यादतो व्यचष्टे-कमनीयस्य कर्मेति । फलितमाह-चारुत्वेति । काव्यस्येत्यर्थात् । वृत्तौऽतस्येऽत्यस्य ध्वनेरित्यर्थः । ऽचारुत्वहेतुष्विऽत्यस्य गुणालङ्कारेष्वित्यर्थः ।


तेषामन्यतमस्यैव वा अपूर्वसमाख्यामात्रकरणे यत्किञ्चन कथनं स्यात् ।
     किञ्च वाग्विकल्पानामानन्त्यात्सम्भवत्यपि वा कस्मिंश्चित्काव्यलक्षमविधायिभिः प्रसिद्धैरप्रदर्शते प्रकारलेशे ध्वनिर्ध्विनिरिति यदेतदलीकसहृदयत्वभावनामुकुलितलोचनैर्नृत्यते,


लोचनम्

     ननुविच्छित्तीनामसंक्यत्वात्कचित्ताद्दशी विच्छित्तिरस्माभिर्द्दष्टा, या नानुप्रसादौ, नापि माधुर्यादावुक्तलक्षणेऽन्तर्भवेदित्याशङ्क्याभ्युपगमपूर्वकं परिहरति---वाग्विकल्पानामिति । वक्तीति वाक्शब्दः । उच्यत इति वागर्थः । उच्यतेऽनयेति वागभिधाव्यापारः । तत्र शब्दार्थवैचिव्यप्रकारौऽनन्तः । अभिधावैचित्र्यप्रकारोऽप्यसंख्येयः । प्रकारलेश इति । स हि चारुत्वहेतुर्गुणो वालङ्कारो वा । स च सामान्यलक्षणेन संगृहीत एव । यदाहुः--ऽकाव्यसोभायाः कर्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलङ्काराःऽ इति । तथाऽवक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिःऽ इति । ध्वनिर्ध्वनिरित्वीप्सया सम्भ्रमं सूचयन्नादरं दर्शयति--नृत्यत इति । तल्लक्षणकृद्भिस्तद्युक्तकाव्यविधायिभिस्तच्छ्रवणोद्भूतचमत्कारैश्च

बालप्रिया

ऽकिञ्च वाग्विकल्पानाम्ऽ इत्यादिग्रन्थं व्याख्यास्यमानं मनसिकृत्यावतारयति लोचनेनन्विति । वच्छित्तीनामिति । विविधं छिद्यन्त इति विच्छित्तयः वैचित्र्याणि, तासां । अनुप्रासादावित्यादिपदेनोपमादेः प्ररिग्रहः । उक्तलक्षण इति द्वयोर्विशेषणं । भवदुक्तलक्षण इत्यर्थः । अभ्युपगमपूर्वकमिति । कित्र्चेत्यनेनाभ्युपगमो दर्शितः । ऽवाग्विकल्पानाम्ऽ इत्यत्र वाक्पदं नानार्थकं विकल्पपदं वेचित्र्यार्थकमिति व्याचष्टे-वक्तीत्यादि । अभिधावेचित्र्येति । एतत्तु कुन्तकादिमताभिप्रायेणोक्तं । भावार्थं विवृणोति-स हीत्यादि । सः प्रकारलेशः । स च चारुत्वहेतुश्च । वामनोक्तन्तल्लक्षणमाह-काव्यशोभाया इत्यादि । तदतिशयेति । काव्यशोभातिशयेत्यर्थः । भामहोक्तञ्चाह-तथा वक्रा विचित्रा चमत्कारकारिणी । अभिधेयशब्दयोः वाटच्यवाचकयोरुक्तिरभिधा । एवञ्च यद्यद्वैचित्र्यान्तरमुल्लिख्यते तस्य तस्य कथितगुणालङ्कारसामान्यलक्षणसङ्गृहीतत्वात्तत्कर्त्रद्दष्टत्वमसम्भाव्यमिति भावः । वीप्सयेति द्विर्वचनेनेत्यर्थः । संम्भ्रममिति । ध्वनिवादिनो ध्वनिप्रस्थानस्थापने त्वरामित्यर्थः । सूचयन्निति । सम्भ्रमे द्योत्ये द्विर्वचनमत्रेति भावः । आदरमिति । ध्वनिवादिनो ध्वनावादरमित्यर्थः । ऽनृत्यतऽ इत्यत्र कर्तृपदमौचित्यात्पूरयति--तदित्यादि । तत्पदं ध्वन्यर्थकं । केचिद्ध्वनिलक्षणकृतः, केचित्तद्युक्तकाव्यविधायिनः, केचित्तत्काव्यश्रवणोद्भूतचमत्काराः


तत्र हेतुं न विद्मः । सहस्त्रशो हि महात्मभिरन्यैरलङ्कारप्रकाराः प्रकाशिताः प्रकाश्यन्ते च । न च तेषामेषा दशा श्रूयते । तस्मात्प्रवादमात्रं ध्वनिः । न त्वस्य क्षोदक्षमं तत्त्वं किञ्चिदपि प्रकाशयितुं शक्यं । तथा चान्येन कृत एवात्र श्लोकः---
यस्मिन्नस्ति न वस्तु किञ्चिन मनःप्रह्लादि सालङ्कृति


लोचनम्

प्रतिपत्तृभिरिति शेषः । ध्वनिशब्दे कोऽत्यादर इति भावः । एषा दर्शति । स्वयं दर्पः परैश्च स्तूयमानतेत्यर्थः. वाग्विकल्पाः वाक्प्रवृत्तिहेतुप्रतिभाव्यापारप्रकारा इति वा । तस्मात्प्रवादमात्रमिति । सर्वेषाम भाववादिनां साधारण उपसंहारः । यतः शोभाहेतुत्वे गुणालङ्कारेभ्यो न व्यतिरिक्त, यतश्च व्यतिरिक्तत्वे न शोभाहेतुः, यतश्च शोबाहेतुत्वेऽपि नादरास्पदं तस्मादित्यर्थः. न चेयमभावसम्भावना निर्मूलैव दूषितेत्याह--तथा चान्येनेति । ग्रन्थकृत्समानकालभाविना

बालप्रिया

प्रतिपत्तारः, तैस्त्रिभिरित्यर्थः । केचित्तु--अनादरन्दर्शयतीति, अतद्युक्तकाव्येति, अतच्छ्रवणेति च पठन्ति । तत्पक्षे अनादरमित्यस्याभाववादिनां ध्वनावनादरमित्यर्थः । अतद्युक्तेत्यादि तल्लक्षणकृद्धिरित्यस्य वक्तुमशक्यत्वाद्ध्वनिशब्दमात्रविषयकः पर्यवस्यति । स चोपहासहेतुरेव सम्पद्यत इति भावः । परैरिति । ध्वनियुक्तकाव्यविधायिभिरित्यर्थः । सिंहावलोकनन्यायेनऽवाग्विकल्पानामानत्यादिऽत्यात्र वाग्विकल्पपदमन्यथा व्याचष्टे--वागित्यादि । अभाववादस्यान्योन्यसम्बद्धतया उपन्यासादैक्यसिद्धेरुपसंहारेणापि तदनुरुपेण भाव्यमित्याशयेनाह--सर्वेषामिति । साधारण्यं स्पष्टयति--यत इत्यादि । नादरास्पदमिति । गुमालङ्कारेष्वेवान्तर्भावेन शब्दमात्रस्यैवापूर्वत्वादिति भावः । ऽतथाचेऽत्यादिग्रन्थः पूर्वोक्ताभाववादसम्भावनामूलप्रदर्शनपर इत्याशयेन तद्ग्रन्थमवतारयति--न चेत्यादि । इयमभावसम्बावना पूर्वोपदर्शता अभाविवादसम्भावना । निर्मूलैव सती न दूपिता, किन्तु समूलैवेति भावः । करिष्यमाणस्याप्यबाववाददूषणस्य बुद्धिस्थत्वेन कृतप्रायत्वाद्दूषितेति भूतनिर्देशः । इत्याहेति । इत्याशयेनाहेत्यर्थः । न चास्यऽयस्मिन्निऽत्यादिश्लोकस्य श्रुतत्वेनऽजगदुऽरिति लिङ्बोध्यस्य पारोक्ष्यस्य समर्थनायऽन चास्माभिरभाववादिनां विकल्पाः श्रुताःऽ इति प्रागुक्तं कथं सङ्गच्छत इति वाच्यं । यथाश्रुतार्थकस्यास्य श्लोकस्य श्रुतत्वेऽपि पूर्वोपदर्शितानां बहूनामभाववादप्रकाराणां विशिष्याश्रुतत्वेन तद्वचनस्य तत्परत्वात् । ग्रन्थकृदित्यादिना मत्सरं तदुक्तेर्हेतुत्वेन


व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् ।
काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो
नो विद्मोऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ।।


लोचनम्

मनोरथनाम्ना कविना । यतो न सालङ्कृति, अतो न मनःप्रह्लादि । अनेनार्थालङ्काराणामभाव उक्तः । व्युत्पन्नै रचितं च नैव वचनैरिति शब्दालङ्काराणां । वक्रोक्तिः उत्कृष्टा संघटना, तच्छून्यमिति शब्दर्थगुणानां । वक्रोक्तिशून्यशब्देन सामान्यलक्षणाभावेन सर्वालङ्काराभावौक्त इति केचित् । तैः पुनरुक्तत्वं न परिहृतमेवेत्यलं । प्रीत्येति । गतानुगतिकानुरागेणेत्यर्थः । सुमतिनेति । जडेन पृष्टो भ्रूभङ्गकटाक्षादिभिरेवोत्तरं ददत्तत्स्वरूपं काममाचक्षीतेति भावः ।
     एवमेतेऽभावविकल्पाः शृङ्खलाक्रमेमागताः, न त्वन्योन्यासम्बद्धा एव । तथा हि तृतीयाभावप्रकारनिरूपणोपक्रमे पुनःशब्दस्यायमेवाबिप्रायः, उपसंहारैक्यं च सङ्गच्छते । अभाववादस्य सम्भावनाप्रामत्वेन भूतत्वमुक्तं । भाक्तवादस्त्वविच्छिन्नः

बालप्रिया

सूचयति--ऽयस्मिन्निऽति । ऽयस्मिन्ऽ काव्ये । ऽसालङ्कृतिऽ अत एवऽमनःप्रह्लादिऽ । ऽकिञ्चन वस्तुऽ वर्ण्यमानः कश्चिदर्थोऽनास्तिऽ । ऽव्युत्पन्नैऽरिति । नैवेति पाठे यदित्यास्यापकर्षः । यन्नेति च पाठः । ऽयत्ऽ काव्यं । व्युत्पन्नैः अनुप्रासादियोगाद्विचित्रतयोत्पन्नैःऽवचनैःऽ शब्दैः । ऽनैव रचितञ्चऽ, तथा यत्ऽवक्रोक्तिशून्यञ्जऽ भवति, तत्तथाविधमर्थालङ्कारादिशून्यंऽकाव्यं ध्वनिना समन्वितमिति प्रीत्या प्रशंसन्जडः ध्वलनेस्स्वरूपं सुमतिना पृष्टस्सन्किमभिदधाति । वयं नो विझऽ इत्यन्वयः । भावार्थ व्याचष्टे--यत इत्यादि । अनेनेति । प्रथमवाक्येनेत्यर्थः । उक्त इति । काव्य इति शेषः । अभाव उक्त इत्यस्य शब्दालङ्काराणां शब्दार्थगुणानामित्यनयोरपि सम्बन्धो बोध्यः । सङ्घटनेति । शब्दार्थयोरिति शेषः । व्याख्यानान्तरमनुवदति-वक्रोक्तीत्यादि । वक्रोक्तिस्सुन्दरतरोक्तिः सौन्दर्यञ्च वैचित्र्यमेव । तत्खलु सामान्यलक्षणमलङ्काराणामिति सर्वालङ्काराभाव उक्तो भवतीत्यर्थः । दूषयति-तैरिति । गतेति । गतस्यानुगतिः गतानुगतिका । कुत्सायां कः । तस्यामनुरागेण । यद्वा-गते अन्यगमने गतमनुगमनं गतानुगतं तदेषामस्तीति गतानुकतिकाः । स्वयं विचारमकृत्वा परोक्तिमेवानुसरन्त इति यावत् । तेषां सम्भवतानुरागेण । ऽसुमतिनेऽति पदस्य प्रयोजनं व्याचष्टे-जडेनेत्त्यादि ।
     किमित्येते विकल्पाः प्ररस्परसम्बद्धा व्याख्याता इति शङ्कायां वृत्तिग्रन्थानुगुण्यादित्याह--एवमित्यादि । शृङ्खलाक्रमेमागताः परस्परसम्बद्धाः । कुत इत्यत्राह--तथाहीति । पुनश्शब्दस्यायमेवाभिप्राय इति । ऽपुनरपरऽ इत्यत्र पुनश्शब्दः


भाक्तमाहुस्तमन्ये । अन्ये तं ध्वनिसंज्ञितं काव्यात्मानं गुणवृत्तिरित्याहुः ।


<centerलोचनम्

पुस्तकेष्वित्यभिप्रायेम भाक्तमाहुरिति नित्याप्रवृत्तवर्तमानापेक्षयाभिधानं । भज्यते सेव्यते तदार्थेन प्रसिद्धतयोत्प्रेक्ष्यत इति भक्तिर्धर्मोऽभिधेयेन सामीप्यादिः, तत आगतो भाक्तो लाक्षणिकोऽर्थः । यदाहुः--
अभिधेयेन सामीप्यात्सारूप्यात्समवायतः ।
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ।। इति ।।

बालप्रिया

उक्तभिप्रायक एवेत्यर्थः । यदि पुनशशब्दस्य विशेषार्थकत्वं, तदा अपरे पुनरिति वक्तव्यं, तदपहाय पुनश्शब्दस्यादौ पाठः । प्रगुक्तप्रकारापेक्षमुत्तरस्यानन्तर्यन्दर्शयन्सम्बन्धमवगमयतीति भावः । सम्बन्धश्चावतारिकया दर्शितपूर्वः । ज्ञापकान्तररञ्चाह-उपेति । अन्योन्यासम्बद्धत्वे सति उपसंहारभेदेन भाव्यमिति भावः । ऽजगदुरित्याहुऽरिति च प्रयुक्तं तद्भावमाह-अभावेत्यादि । उक्तमिति । जगदुरित्यनेनेति शेषः । पुस्तकेषु अलङ्कारग्रन्थेषु । नित्येतिरिश्वरोऽस्तीत्यादिवदत्र नित्यप्रवृत्ते वर्तमाने लडित्यर्थः । ऽनित्यप्रवृत्तऽ इति भोजसूत्रं । भाक्तशब्दस्यर्थं व्याख्यातुम्भक्तिशब्दस्य कर्मव्युत्पत्त्यार्तमाह--भज्यत इत्यादि । भञ्जव्यावृत्तयेऽर्थमाह--सेव्यत इति । केनेत्यत्राह--पदार्थेनेति । गङ्गादिपदलक्ष्यतीराद्यर्थेनेत्यर्थः. नन्वत्र पदार्थकर्तृकं सेवनन्नाम किमित्यत आह-उत्प्रेक्ष्यत इति । पदार्थेन प्रतीक्ष्यत इत्यर्थः । स्वबोधनिमित्तत्वेनाश्रीयत इति यावत् । अत्र हेतुः--प्रसिद्धतयेति । सामीप्यादेर्निमित्तत्वेन प्रसिद्ध्येत्यर्थः । यद्वा-पदार्थेन सेव्यत इत्युपचारेणोक्तं । तेन च वक्तुः प्रतिपत्तुर्वा तीरादेर्गङ्गदिपदेन प्रतिपादने सामीप्यादेर्निमित्तत्वेन पर्यालोचनरूपं यदुत्प्रेक्षणन्तदत्र विवक्षितमित्याह-प्रसिद्धतयोत्प्रेक्ष्यत इति । वक्त्रा प्रतिपत्रा वेति शेषः । अभिधेयेन सामीप्यादिर्धर्म इति सम्बन्धः । तत आगतः सामीप्यादिनिमित्तात्प्रतीतः । स क इत्यत्राह--लाक्षणिक इति । लक्ष्य इत्यर्थः । अत्र संवादमाह-यदाहुरभिधेयेन सामीप्यादित्यादि । अस्यार्थः स्वयमेव वक्ष्यते ।

लोचनम्

गुणसमुदायवृत्तेः शब्दस्यार्थभागस्तैक्ष्ण्यादिर्भक्तिः, तत आगतो गौणोऽर्थो भाक्तः । भक्तिः प्रतिपाद्ये सामीप्यतैक्ष्ण्यादौ श्रद्धातिसयः, तां प्रयोजनत्वेनोद्दिश्य तत

बालप्रिया

     गौणार्थस्याप्युक्तरीत्यैव लाभेऽपि तल्लाभः प्रकारान्तरेणापि वक्तव्य इत्याशयेनाहगुणेति । गुणसमुदाये वृत्तिर्यस्य, तस्य गुणसमुदायं प्रतिपादयत इत्यर्थः । शब्दस्येति । सिंहादिशब्दस्येत्यर्थः । सिंहादिशब्दा हि सिंहत्वादिजातिं तद्विशिष्टव्यक्ति वा अभिदधाना अपि स्वार्थाविनाभूतान्शौर्यादिगुणानप्याक्षेपात्प्रतिपादयन्तीति भावः । अर्थभागः गुणसमुदायात्मकार्थैकदेशः । तैक्ष्ण्यादिः शौर्यादिः । सिंहो माणवकैत्यादौ शौर्यादेर्गुणैकदेशस्यैव प्रतीतिरिति भावः । केचित्तु-गुणसमुदायवृत्तेरित्यास्य गुणाद्वारा समुदाये गुणिनि मामवकादौ वृत्तिर्यस्य तस्येत्यर्थमाहुः । तत इति । तैक्ष्ण्यादेरित्यर्थः । सारूप्यान्निमिततादिति यावत् । अथ भक्तिशब्दस्य भावव्युत्पत्त्याप्यर्थमाह-भक्तिरित्यादि । प्रतिपाद्ये बोधनीये । सामीप्यतैक्ष्ण्यादाविति ।
     ननु गङ्गायां घोष इत्यादिस्तले लक्ष्यतीरादौ गङ्गागतपावनत्वादिकमेव प्रतिपाद्यं, न तु सामीप्यादि । एवं सिंहो माणवक इत्यादौ माणवकादौ सिंहादिताद्रूप्यं पराक्रमातिशयादिकं वा । स्पष्टमिदं काव्यप्रकाशादौ । वक्ष्यते चैवमुपरि लोचने । तथा च सामीप्यतैक्षण्यादावित्युक्तिः कथं सङ्गच्छत इति चेत्; अत्र केचित्-पाठोऽयं लेखकप्रमादागतः पावनत्वादावित्येव पठनीयमिति । परे तु-सामीप्यादेः परम्परया प्रयोजनसाधनत्वत्सामीप्यपदेन पावनत्वादिकं तैक्ष्ण्यपदेन सिंहताद्रूप्यादिकञ्च लक्षणयाविवक्षितमतो नासङ्गतिरित्याहुः । अद्धातिशय इति । श्रद्धा वक्तुर्मनसा भजनमनुसन्धानात्मकं, तस्या अतिशय इत्यर्थः । तामिति । तद्विषयभूतं पावनत्वादिकमित्यार्थः । यद्वा-अद्धातिशयः प्रतिपत्तुः प्रतीतिविशेषः । तामिति । श्रद्धातिशयरूपभक्तेरित्यर्थः । आगतः प्रयुक्तः । लाक्षणिकश्चेति । शब्द इति शेषः । व्युत्पत्तेरभेदेऽपि प्रकृतिभेदेनार्थान्तरमाह मुख्यस्य चेति । भङ्गो भक्तिरिति । भञ्जिदातोः क्तिन्निति भावः । इतीत्यनन्तरं तत आगतो भाक्त इत्यानुषङ्गः । आगतः प्रतीतः । कथितव्याख्याप्रकारस्य फलमाह-एवमित्यादि ।

लोचनम्

आगतो भाक्त इति गौणो लाक्षणिकश्च । मुख्यस्य चार्थस्य भङ्गो भक्तिरित्येवं मुख्यार्थबाधा, निमित्तं, प्रयोजनमिति त्रयसद्भाव उपचारबीजमित्युक्तं भवति । काव्यात्मानं गुणवृत्तिरिति । सामानाधिकरण्यस्यायं भावः--यद्यप्यविवक्षितवाच्ये ध्वनिभेदेऽनिःश्वासान्ध इवादर्शःऽइत्यादावुपचारोऽस्ति, तथापि न तात्मैव ध्वनिः, तह्यतिरेकेणापि भावत्, विवक्षितान्यपरवाच्यप्रभेदादौ अविवक्षितवाच्येऽप्युपचार एव, न ध्वनिरिति वक्ष्यामः । तथा च वक्ष्यति--
भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः ।
अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तथा ।। इति ।।
कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणं । इति च ।

बालप्रिया

भङ्गर्थव्याख्यानस्य मुख्यार्थबाधारूपबीजसिद्धिः, सेवनरूपार्थव्याख्यानस्य निमित्तसिद्धिः, श्रद्धातिशयार्थव्याख्यानस्य प्रयोजनसिद्धिश्च फलमिति भावः । त्रयशब्देन सम्भूयैव बीजत्वमिति दर्शयति-उपचारबीजमिति । उपचारो नाम लक्षणा गौणी च । लक्षणया गौण्या च व्यवहारः । लक्ष्यगौणार्थबोधो वा । उपचारो नामान्यत्र अन्यावाप इति केचित् ।
     ननु ध्वनिर्नाम गुणवृत्तिव्यातिरेकी नास्तीति वक्तव्ये सामानाधिकरण्येन निर्देशस्य कोऽभिप्राय इत्यत आह-सामानाधिकरण्यस्येति । ऽतं भाक्तम्ऽ इति मूलेऽध्वनिसंज्ञितम्ऽ इत्यादिना वृत्तौ च सामानाधिकरण्येन निर्देशस्येत्यर्थः । अस्मिन्पक्षे काव्यात्मानमित्यादिप्रतीकधारणन्नेति बोध्यं । पदयोस्सामानाधिकरण्यन्नामैकधर्मिबोधकत्वं । अयं भाव इति । ध्वनिगुणवृत्त्योस्तादात्मयमेव ध्वनिवादिभिर्न्निरसनीयं, न तु ध्वनेरसर्वथोपचारस्पर्शित्वमपीत्यमुमर्थन्द्योतयितुं सिद्धान्तविरुद्धतादात्म्यपक्षोपक्षेपार्थोऽयं सामानादिकरण्येन निर्देश इति भाव इत्यर्थः । तमेव भावं विवृणोति-यद्यपीत्यादि । उपचार इति । गुणवृत्तिरित्यर्थः । तदात्मा उपचारात्मा । तद्व्यतिरेकेणापि उपचारं विनापि । भावात्ध्वनेस्सत्वात् । कुत्रेत्यत आह-विवक्षितान्यपर वाच्यप्रभेदादाविति । अविवक्षितवाच्य इति । अविवक्षितवाच्यध्वनावित्यर्थः । वक्ष्याम इति । रामोऽस्मीत्यादाविति भावः । वक्ष्यतीति । मूलकार इति शेषः. वृत्तौऽगुमवृत्तिरिऽति भाक्तशब्दस्य व्याख्यानं तत्पदेन प्रकृते विवक्षितानर्थान्विवृणोति--गुणा इत्यादिना । उपायैः निमित्तैः ।


     यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृत्तिरन्यो वा न कश्चित्प्रकारः प्रकाशितः, तथापि अमुख्यवृत्त्या काव्येषु व्यावहारं


लोचनम्

     गुणाः सामीप्यादयो धर्मास्तैक्ष्ण्यादयश्च । तैरुपायैर्वृत्तिरर्थोन्तरे यस्य, तैरुपायेर्वृत्तिर्वा शब्दस्य यत्र स गुणवृत्ति- शब्दोऽर्थो वा । गुमद्वारेम वा वर्तनं गुणवृत्तिरमुख्योऽभिदाव्यापारः । एतदुक्तं भवति--ध्वनतीति वा, ध्वन्यत इति वा, ध्वननमिति वा यदि ध्वनिः, तथाप्युपचरितशब्दार्थव्यापारातिरिक्तो नासौ कश्चित् । मुख्यार्थे ह्यभिधैवेति पारिशेष्यादमुख्य एव ध्वनः, तृतीयराश्यभावात् ।
     ननु केनैतदुक्तं द्वनिर्गुणवृत्तिरित्यासङ्क्याह--यद्यपि चेति । अन्यो वेति ।

बालप्रिया

अर्थान्तरे तीरादौ माणवकादौ च । यस्य गङ्गादिसिंहादिशब्दस्य । यत्रेति । तीराद्यर्थे इत्यर्थः । गुणद्वारेणा सामीप्यतैक्ष्ण्यादिद्वारेण । वर्तनमिति वृत्तिशब्दार्थविवरणं । पर्यवसितमाह--अमुख्य इति । अमुख्य इत्यनेन लक्षणागौण्यर्द्वयोर्ग्रहणं । किं तत इत्यत आह--एतदित्यादि । उपचरितेति । गुणवृत्तिशब्दप्रतिपाद्येभ्यः शब्दार्थव्यापारेभ्योऽतिरिक्त इत्यर्थः । असौ कश्चित्ध्वनिर्नाम कश्चित् । ननु यदि ध्वन्यभावाभिप्रायेण ध्वनेर्गुणवृत्यभेदः साध्यते, तर्ह्यभिधाया अभेदोऽपि साध्यतामित्यात्राह-मुख्यार्थ इति । एवकारेण नात्र ध्वननस्य सम्भावनापीति दर्शयति । फलितमाह-इतीति । पारिशेष्यादिति । शिष्यमाणे संप्रत्ययः परिशेषः, स एव पारिशेष्यम्, तस्मादित्यर्थः । अमुख्य एव गुणवृत्तिरेव । अत्र हेतुः-तृतीयेति । वाचकवाच्याभिधारूपः प्रथमो राशिः, लक्षकलक्ष्यलक्षणारूपो द्वितीयः, व्यञ्जकव्यङ्ग्यव्यञ्जानरूपस्तृतीयो भवदभिमतः, तस्याभावादित्यर्थः । तथा च ध्वनिर्नाम गुणवृत्तिरेव, अमुख्यत्वादिति फलितं ।
     नन्वित्यादि । इति शब्दस्योभयत्र सम्बन्धः । इति केनोक्तं इत्याशङ्क्याहेति । ऽयद्यपीऽत्यादिना शङ्कां कृत्वाऽततापीऽत्यादिना समाधानमाह इत्यर्थः । वृत्तौऽअन्यो वेऽत्यात्र गुणवृत्तेर्न्यो मुख्य इत्यर्थभ्रमः स्यादतो व्याचष्ट-गुणोति । वाशब्दो दृष्टान्तार्थः । यथा अभाववादिभिर्ध्वनिर्गुणालङ्कारप्रकार इति नोक्तं, तथा भाक्तवादिभिरिपि ध्वनिर्गुणवृत्तिरिति कण्ठतो नोक्तमित्यर्थः ।


दर्शयता ध्वनिमार्गौ मनाक्स्पृष्टोऽपि न लक्षित इति परिक्ल्प्यैवमुक्तम्-ऽभाक्तमाहुस्तमन्येऽ इति ।


लोचनम्

गुणालङ्कारप्रकार इति यावत् । दर्शयतेति । भट्टोट्भटवामनादिना । भामहेनोक्तं--ऽशब्दाश्छन्दोभिदानार्थाःऽ इति अभिधानस्य शब्दाद्भेदं व्याख्यातुं भट्टोद्भटो बभाषे--ऽशब्दानाभिधानमभिधाव्यापारो मुख्यो गुणवृतिश्चऽ इति । वामनोऽपिऽसाद्दश्याल्लक्षणा वक्रोक्तिःऽ इति । मनाक्स्पृष्ट इति । तैस्तावद्ध्वनिदिगुन्मीलिता, यथालिशितपाठकैस्तु

बालप्रिया

दर्शयतेऽति मनाक्स्पर्शे हेतुः । अत्रैकवचनं सामान्यामिप्रायकं । अनेन काव्यलक्षणविधायिन एव विवक्षिता इत्याशयेन पूरयति-भट्टेत्यादि । क्रमेण तद्वचने दर्शयति-भामहेनेत्यादि "इतिहासाश्रयाः कथाः । लोकोयुक्तिः कलाश्चेति मन्तव्याः काव्यहेतवः" इति शिष्टं पादत्रयं । इत्युक्तमित्यन्वयः । ततः किमित्यत आह-अभिधानस्येति । अत्रेति शेषः । वामनोऽपीति बभाषे इत्यानुषङ्गः । सादृश्यादिति । वक्रोक्तिः तन्नामालङ्कारः । तथा चाऽभिधानम्ऽ इति वचनेन भामहोऽगुणवृत्तिऽरिति वचनेन भट्टोट्भटोऽलक्षणेऽति वचनेन वामनश्च काव्येषु गुणवृत्या व्यवहारं दर्शितवन्त इति फलितार्थः । ऽध्वनिमार्गो मनाक्स्पृष्टोऽपि न लक्षितःऽइत्यमुं भागं पूर्वंपक्षोपक्षेपानुगुण्येन व्याचष्टे-तैस्तावदित्यादि । सम्प्रतिपत्तौ तावच्छब्दः । ऽध्वनिमार्गो मनाक्स्पृष्टऽ इत्यस्य विवरणं-ध्वनिदिगुन्मीलितेति । गुणवृत्तेः प्रयोजनाविनाभावात्प्रयोजनस्य च वक्ष्यमाणविधया व्यञ्जनव्यापारैकगोचरत्वच्च गुणवृत्या व्यचवहारं दर्शयद्भिरेव भामहभट्टोद्भटादिभिः ध्वनेर्गमकं प्रदर्शितमित्यर्थः । तैर्ध्वनिमार्गस्य स्पर्शेऽपि लक्षणकरणेन पृथक्तत्स्वरूपस्यानिरूपणाद्गुणवृत्तिरेव ध्वनिः, न तदतिरिक्त इति तदुक्तिमर्थसिद्धामुपजीव्येदं भाक्तवादप्रस्थानं प्रवृत्तमित्याह- यथालिखितेत्यादि । तु शब्दः परन्त्वित्यर्थे . न लक्षित इत्यास्य व्याख्यानम्--तत्स्वरूपविवेको न कृत इति ।


      केचित्पुनर्लक्षणकरणशालीनबुद्धयो ध्वनेस्तत्त्वं गिरामगोचरं सहृदयहृदयसंवेद्यमेव समाक्यातवन्तः । तेनेवंविधासु विमतिषु स्थितासु सहृदयमनःप्रीतये


लोचनम्

स्वरूपविवेकं कर्तुमशक्नुवद्भिस्तत्स्वरूपविवेको न कृतः, प्रत्युतोपालभ्यते, अभग्रनारिकेलवत्यथाश्रुततद्ग्रन्थोद्ग्रहणमात्रेणेति । अत एवाह--परिकल्प्यैवमुक्तमिति । यद्येवं न योज्यते तदा ध्वनिमार्गः स्पृष्ट इति पूर्वपक्षाभिधानं विरुध्यते ।
     शालीनबुद्धय इति । अप्रगल्भमतय इत्यर्थः । एते च त्रय उत्तरोत्तरं भव्यबुद्धयः ।

बालप्रिया

अत्र हेतुः-स्वरूपविवेकं कर्तुमसक्नुवद्भिरिति । तैरित्यनुषङ्गः । अशक्तौ हेतुर्यर्थत्यादि । लेखनानतिक्रमेण लक्ष्यभूतानि ध्वनिकाव्ययानि पठितवद्भिरित्यर्थः । यद्वा-यथेत्युपमायां लिखितपाठकैरिवेत्यर्थः । अविशेषज्ञैरित यावत् । न केवलं ध्वनिस्वरूपविवेकाकरणमेव, विवेचनर्हतत्स्वरूपापलापश्चेत्याह-प्रत्युतेत्यादि । उपालभ्यते प्रतिक्षिप्यते । तैरित्यनुषङ्गः । ध्वनिरिति शेषः । उपालम्भोऽयं भामहादीनामनुमेयो, भट्टोटभग्रन्थटीकाकारादीनां तु प्रत्यक्षः । अभग्नानारिकेलवदिति । षष्ट्यन्ताद्वतिः । उद्ग्रहणमित्यनेनास्य सम्बन्धः । उपालम्भे हेतुं दर्शयति-यथाश्रुतेति । यथाश्रुतं विचारं विना यत्तद्ग्रन्थानां लक्ष्यभूतानां ध्नियुक्तकाव्यग्रन्थानामुद्ग्रहणं धारणं तन्मात्रेणेत्यर्थः । ऽअभग्ननारिकेलकल्पयथाश्रुतेऽति च पाठः । अत एवेति । उक्तार्थाभिप्रायादेवेत्यर्थः । वृत्तौऽइतीऽति हेतौ । ऽइति परिकल्प्येऽत्यादेरयमर्थः--यतो भट्टोट्भटादिभिर्ध्वनिमार्गस्पर्शमात्रं कृतं, न तु ध्वनिस्वरूपविवेचनं, प्रत्युत तदुपालम्भश्च, ततो हेतोर्भक्तिरेव ध्वनिर्न तदतिरिक्त इति तदभिप्रायमुक्तिपर्यन्तं कल्पयित्वाऽभाक्तमाहुस्तमन्येऽ इत्युक्तमिति । ननुऽध्वनमार्गऽ इत्यादिग्रन्थः किमर्थमेवं व्याख्यातः? ध्वनेर्मार्गः-मृग्यतेऽन्विष्यते विचार्यते इति मार्गः अविवक्षितवाच्यलक्षणो भेदः स्पृष्टः ज्ञात इति कुतो न व्याख्यात इत्यत आह--यद्येवमित्यादि । विरुध्यत इति । ध्वन्यवान्तरभेदस्य ज्ञाने सति गुणवृत्तिरेव ध्वनिर्न तदतिरिक्त इति वचनमसङ्गतं भवेदित्यर्थः । यद्वा-ननुऽन लक्षितऽ इति ग्रन्थो न दृष्ट इति यथाश्रुतार्थपरतया कुतो न व्याख्यात इत्यत आह--यद्येवमित्यादि । ऽन लक्षितऽ इति ग्रन्थ इति शेषः । विरुध्यत इति । ध्वनेः स्पृष्टत्वस्याद्दष्टत्वस्य च वचनं विरुद्धं स्यादित्यर्थः ।
     विप्रतिपत्तिप्रकाराणामेषामुक्तौ क्रमो विवक्षित इत्याह--एत इत्यादि । अभाववादित्रयमेकीकृत्य त्रय इत्युक्तिः । भव्यबुद्धयः सद्बुद्धयः । भव्यबुद्धित्वं विविच्य दर्शयति--प्राच्या इत्यादि । प्रच्याः अभाववादिनः । सर्वथा प्रकारत्रयेणापि ।


तत्स्वरूपं ब्रूमः ।


लोचनम्

प्राच्या हि विपर्यस्ता एव सर्वथा । मध्यमास्तु तद्रूपं जानाना अपि सन्दहेनापह्नुवते । अन्त्यास्त्वनपह्नुवाना अपि लक्षयितुं न जानत इति क्रमेण विषर्याससन्देहाज्ञानाप्राधान्यमेतेषां । तेनेति । एकैकोऽप्ययं विप्रतिपत्तिरूपो वाक्यार्थो निरूपणे हेतुत्वं प्रतिपद्यत इत्येकवचनं । एवंविधासु विमतिष्विति निर्धारणे सप्तमी । आसु मध्ये एकोऽपि यो विमतिप्रकारस्तेनैव हेतुनातत्स्वरूपंब्रूम इति, ध्वनिस्वरूपमभिधेयम्, अभिदानाभिधेयलक्षणो

बालप्रिया

विपर्यस्ताः देहात्मवादिचार्वाका इव विपर्ययज्ञानयुक्ताः । मध्यमाः भाक्तवादिनः । तुशब्दः पूर्वेभ्यो विशेषं द्योतयति, तमाह--तद्रूपं जानाना अपीति । सम्मुग्धतया यत्किञ्जिदस्ति वाच्यातिरिक्तमिति तद्रूपं जानन्तोऽपीत्यर्थः । सन्दहेन मुख्यगुणवृत्तिव्यतिरिक्तव्यापारस्य अस्तित्वनास्तित्वाभ्यां सन्देहेन अपह्नुवते । ऽनिह्नुवतऽ इति च पाठः । अनपह्नुवाना इति ।तद्रूपमित्यनुषङ्गः । ऽअनिह्नुवानाऽ इति च पाठः । लक्षयितुमिति । ध्वनिमिति शेषः । फलितमाह--इतीति । विपर्यासस्या ध्वनिस्वरूपजिज्ञासां प्रति प्रतिबन्धकत्वं, सन्देहस्य त्वनुकूलत्वलमतस्तद्वतोः पूर्वापेक्षयोत्तरस्योत्कर्षः । अन्त्यस्य तु लक्षणकरणमात्रविषयकाज्ञानं । तस्य सुखोच्छेद्यत्वादुभयापेक्षयाप्युत्कर्ष इति भावः । एकैकोऽपीति । किमुत त्रय इत्यपिशब्दार्थः । इत्येकवचनमिति । ऽतेनेऽत्यत्र तत्पदेन पूर्ववाक्यत्रयार्थाः परामृश्यन्ते । तृतीयया तेषां ध्वनिस्वरूपवचने हेतुत्वमुच्यते । एकवचनेन तु तेषां प्रत्येकं हेतुत्वमस्तीति बोध्यत इति भावः । उक्तर्थानुगुणं वृत्तिं विवृणाति-एवमित्यादि । निर्धारणे सप्तमीति । न तु भावलक्षणे सप्तमीति भावः । निर्धारणं प्रकटयन्नाह-आस्वित्यादि । वृत्तौऽतेनेऽत्यस्य व्याख्यानंऽएवम्ऽ इत्यादिऽस्थितास्विऽत्यन्तं । तत्र एकेनापीति पूरणीयमित्याशयेनाह-एकोऽपीत्यादि । ऽतस्याभावं जगदुःऽऽतेन तत्स्वरूपं ब्रूमःऽभाक्तमाहुःऽ


     तस्यहि ध्वनेः स्वरूपं सकलसत्कविकाव्योपनिषद्भूतमतिरमणीयमणीयसीभिरपि चिरन्तनकाव्यलक्षणविधायिनां बुद्धिभिरनुन्मीलितपूर्वम्,


लोचनम्

ध्वनिशास्त्रयोर्वक्तृश्रोत्रोर्व्युत्पाद्यव्युत्पादकभावः सम्बन्धः, विमितिनिवृत्त्या तत्स्वरूपज्ञानं प्रयोजनम्, शास्त्रप्रयोजनयोः साध्यसाधनभावस्सम्बन्ध इत्युक्तं ।
     अथ श्रोतृगतप्रयोजनप्रयोजनप्रतिपादकंऽसहृदयमनःप्रीतयेऽ इति भागं व्याख्यातुमाह-तस्य हीति । विमतिपदपतितस्येत्यर्थः । ध्वनेः स्वरूपं लक्षयतां सम्बन्धिनि

बालप्रिया

ऽतेन ब्रूमःऽऽकेचिदूचुःऽ तेन ब्रूमःऽ इति पृथक्पृतक्योजना लभ्यत इति भावः । अवतारिकोक्तरीत्याऽतेन तत्स्वरूपं ब्रूमऽ इत्यनेन प्रदर्शितमभिधेयादिकं श्रोतृप्रवृत्त्यङ्गं प्रसङ्गाद्दर्शयति-ध्वनिस्वरूपमित्यादि । अभिधानाभिधेयलक्षण इति । अभिधायकाभिधेयभावस्वरूप इत्यार्थः । अत्र व्युत्क्रमेम निर्देशः । एवमुपर्यपि बोध्यं । प्रतिपाद्यप्रतिपादकभाव इत्यावत् । सम्बन्ध इत्यनेनान्वयः । व्युत्पाद्येति । व्युत्पादकव्युत्पाद्यभाव इत्यर्थः । विमतिनिवृत्त्येति । ध्वनिस्वरूपविषयकविमतिनिवृत्त्या सहितमित्यर्थः । विप्रतिपत्त्युपन्यासपूर्वकंऽतेन ब्रूमऽ इत्युक्त्या विमतिनिवृत्तेः प्रयोजनत्वं लभ्यत इति भावः । प्रयोजनमिति । तत्स्वरूपवचनस्य प्रयोजनमित्यर्थः । साध्येति । साधनसाद्यबाव इत्यर्थः । इत्युक्तमिति । तेनऽतत्स्वरूपं ब्रूमऽ इत्यनेनोक्तार्थाः प्रदर्शिता इत्यार्थः ।
     अथेत्यादि । ओतृगतेति । श्रोतृगतं प्रयोजनं पूर्वेक्तं विमतिनिवृत्त्या सह ध्वनिस्वरूपज्ञानं. तस्य यत्प्रयोजनं प्रीतिरूपं तत्प्रतिपादकमित्यर्थः । ऽलक्षयताऽमित्यादिभागस्यैवऽसहृदयेऽत्याद्यंशव्याख्यारूपत्वादवशिष्टस्य तच्छेषत्वाच्च व्याख्यातुमाहे त्युक्तं, न तु व्याचष्ट इति । तच्छब्दस्य प्रकरणसिद्धमर्थमाह-विमतीति । व्यवहितत्वेनान्वयं दर्शयन्व्याचष्टे-ध्वनेरित्यादि । वृत्तौऽआनन्दऽ इति प्रीतिपदार्थकथनं ।

लोचनम्

मनसि आनन्दो निर्वृत्यात्मा चमत्कारापरपर्यायः, प्रतिष्टां परैर्विपर्यासाद्युपहतैरनुन्मूल्यमानत्वेन स्थेमानं, लभतामिति प्रयोजनं सम्पादयितुं तत्स्वरूपं प्रकाश्यत इति

बालप्रिया

तेनात्र विवक्षितमाह--निर्वृत्त्यात्मेति । ननु हेत्वन्तरप्रापिताप्रतिष्टत्व एवऽप्रतिष्टां लभताम्ऽ इत्युक्तेः प्रसक्तिरित्यत आह-परैरित्यादि । परैः अभाववाद्यादिभिः । विपर्यासादीत्यादिपदेन सन्देहलक्षणकरणाज्ञानयोः सङ्ग्रहः । अनुन्मल्यमानत्वेन अनुच्छिद्यमानत्वेन । यथा परैरुच्छिद्यमानो न भवति तथेत्यर्थः । प्रतिष्टापदविवरणम्--स्थेमानमिति । स्थिरतया वर्तमानमित्यर्थः । ऽलभतामितीऽति वृत्तिस्थेनेतिपदेन गम्यमानमर्थमाग--इति प्रयोजनं सम्पादयितुमिति । कारिकायांऽप्रीतयेऽ इत्यत्रप्रीतिं सम्पादयितुमित्यर्थेऽक्रियार्थेऽ त्यादिसूत्रेण चतुर्थीति भावः । ऽध्वनेः स्वरूपऽमित्यस्यऽलक्षयताऽमित्येतत्कर्मतया,ऽप्रकाश्यतऽ इत्यत्र प्रथमान्ततया तदनुषङ्गं दर्शयन्नाह--तत्स्वरूपमिति । सङ्गतिरिति । सम्बन्ध इत्यर्थः । अत्रऽतेन तत्त्वरूपं ब्रूमऽ इत्युक्त्या विमितिनिवृत्तेस्तत्स्वरूपवचनप्रयोजनत्वं यद्यपि लभ्यते, तथापि तस्याः न मुख्यप्रयोजनत्वम्, किन्तु प्रीतेरेव । सा तु प्रीतेरङ्गमित्येतत्परऽस्तेनेऽत्यादिचतुर्थपाद

लोचनम्

सङ्गतिः । प्रयोजनं च नाम तत्सम्पादकवस्तुप्रयोक्तृतापाराणतयैव तथा भवतीत्याशयेनऽप्रीतये तत्स्वरूपं ब्रूमऽ इत्येकवाक्यतया व्याख्येयं । तत्स्वरूपशब्दं व्याचक्षाणः संक्षेपेण तावत्पूर्वोदीरितविकल्पपञ्चकोद्धरणं सूचयति-सकलेत्यादिना । सकलशब्देन सत्कविशब्देन च प्रकारलेसे कस्मिंश्चिदिति निराकरोति । अतिरमणीयमिति भाक्ताद्व्यतिरेकमाह । न हिऽसिंहो बटुःऽऽगङ्गायां घोषःऽ इत्यत्र रम्यता काचित् । उपनिषद्भूतशब्देन तु अपूर्वसमाख्यामात्रकरण इत्यादि निराकृतं । अणीयसीभिरित्यादिना गुणालङ्कारानन्तर्भूतत्वं सूचयति । अथ चेत्यादिनाऽतत्समयान्तःपातिनऽ

बालप्रिया

इत्यमुमर्थ प्रयोजनपदार्थनिर्वचनपूर्वकं प्रदर्शयति-प्रयोजनञ्चेत्यादि । तदिति । तस्य प्रयोजनस्य सम्पादकं यद्वस्तु तस्य, तत्प्रतीति यावत् । या प्रयोक्तृता प्रयोजकता, सा प्राणो यस्य तद्भावेनैव तत्प्रेरकत्वस्वभावशालितयैवेति यावत् । तथा प्रयोजनं । भवतीति । ऽभातीऽति च पाठः । नामेति प्रसिद्धौ । अनेन प्रयुङ्क्ते प्रेरयतीति प्रयोजनपदव्युत्पत्तिर्दर्शिता । इत्याशयेनेति । अत्र विमतिनिवृत्तेः न ध्वनिस्वरूपवचनप्रयोजकता, तज्ज्ञानवत्तस्याः स्वयमपुरुषार्थत्वात् । किन्तु प्रीतेरेवेति सैव तस्य मुख्यं प्रयोजनं । विमतिनिवृत्तिस्तु तदङ्गमेवेत्यभिप्रायेणेत्यर्थः । इत्येकवक्यतयेति । इत्येवंविधविशिष्टैकार्थप्रतिपादकतयेत्यर्थः । व्याख्येयमिति । व्याख्यातव्यमित्यर्थः । अतस्तथा तन्मूलं वृत्तिकृता व्याख्यातमिति विमतिनिवृत्तेरपि मुख्यप्रयोजनत्वसम्भवेऽतेन तत्स्वरूपं ब्रूमःऽऽसहृदयमनःप्रीतये ततत्स्वरूपं मूःऽ इति च व्याख्येयतया वाक्यभेदः स्यादिति च भावः । यद्वा-व्याख्येयमित्यत्र व्याख्या इयमिति छेदः । इयं व्याख्या वृत्तिकृतो व्याख्या । इत्येकवाक्यतया इत्यस्य या एकवाक्यता तत्प्रदर्शिकेत्यर्थः ।। ऽसकलेऽत्यादिध्वनिस्वरूपविशेषणप्रयोजन.ं दर्शयति--तत्स्वरूपशब्दमित्यादिना । संक्षेपेणेति । उत्तरत्र विस्तरेण करिष्यति । संक्षेपेण विस्तरेण च प्रतिक्षेपं । इति निराकरोतीति । यतः सकलशब्देन निखिलविषयव्याप्तत्वं सत्कविशब्देन प्रमाणसिद्धत्वात्प्राधान्यं चोक्तं, तस्मादखिलकाव्यविषयव्याप्त्यमावकृतमप्राधान्यकृतं वा प्रकारलेशत्वं निराकृतमित्यर्थ । व्यतिरेकं वैलक्षण्यं । नहीति । पराक्रमातिशयादिव्यङ्ग्यसद्भावेऽपि तयोर्वाक्ययोर्गुणालङ्कारोपस्कृतशब्दार्थत्मककाव्यत्वाभावान्नात्यन्तरमणीयतेत्यर्थः । उपनिषद्भूतेति । काव्यतत्त्वानभिज्ञैर्दुर्ज्ञेयत्वादतिरहस्यभूतेत्यर्थः । अनेन सर्वोत्कृष्टत्वप्रदर्शनात्समाख्यामात्रत्वस्य निरासः सूचित इत्यह--उपनिषदित्यादि । सूचयतीति । वृत्तौऽअणीयसीभिरपीऽति । सूक्ष्मतराभिरतिनिशिताभिरपीत्यर्थः । ताद्दशीभिर्बुद्धिभिरप्रकाशितपूर्वस्य कथं स्थूलबुद्धिसंवेद्यगुणाद्यन्तर्भूतत्वमिति भावः ।


अथ च रामायणमहाभारतप्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्धव्यवहारं लक्षयतां
सहृदयानामानन्दो मनसि लभतां प्रतिष्ठामिति प्रकाश्यते ।। १ ।।


लोचनम्

इत्यादिना यस्सामयिकत्वं शङ्कितं तन्निरवकाशीकरोति । रामायणमहाभारतशब्देनादिकवेः प्रभृति सर्वैरेव सूरिभिरस्यादरः कृत इति दर्शयति । लक्षयतामित्यनेन वाचां स्थितमविषय इति परास्यति । लक्ष्यतेऽनेनेति लक्षो लक्षणं । लक्षेम विरूपयन्ति लक्षयन्ति, तेषां लक्षणद्वारेण निरूपयतामितयर्थः । सहृदयानामिति । येषां काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता ते स्वहृदयसंवादभाजः

बालप्रिया

अनेनाद्याभाववादो निराकृतः । इति परास्यतीति । ऽतत्स्वरूपं ब्रूमऽ इत्यस्य लक्षणप्रदर्शनेन ध्वनिस्वरूपं प्रकाशयाम इति स्वल्वर्थः ।। ततश्चेह प्रदर्शितलक्षणद्वारा सहृदयानां ध्वनेर्निरूपणं भवति । एवं चोक्तनिरासः सिध्यतीति भावः । निर्वचनपूर्वकमुक्तभूपपादयति-लक्ष्यत इत्यादि । इति लक्षो लक्षणमिति । लक्षशब्दः करणघञन्त इति भावः । लक्षेणेति । लक्षशब्दात्"प्रातिपदिकाद्धात्वर्थऽ इत्यनेन निरूपणार्थे णिजिति भावः । अप्रसिद्धार्थकत्वात्सहृदयपदं व्याचष्टे-येषामित्यादि । काव्यानामुनुशीलनं शब्दपाठोऽर्थानुसन्धानं च । तस्य अभ्यासः पौनःपुन्यं तद्वशात् । विशादीति । विशदीभावो रसावेशैन्मुख्यं । मनसौ मुकुररूपणेन स्वतो वैशद्येऽपि संस्कारवशादतिरेकः प्रकाश्यते । वर्णनीयेति । वर्णनीयं नायकादिविभावादि । तन्मयीभवनस्य तत्तादात्म्यापत्तिरूपस्य योग्यता सामर्थ्यमित्यरथः । ऽते सहृदयाऽ इति सम्बन्धः । उच्यन्त इति शेषः । अनेन रूढिर्दर्सिता । योगमप्याह-स्वेति । स्वहृदयमेव संवादः संवादकप्रमाणं, तद्भाजः विमलतरेण हृदयेन सहवर्तन्त इत्यवयवार्थः । यद्वा-स्वस्मिन्कविहृदयं संवादकत्वेन भजन्तीति तथा । अस्मन्पक्षे समानं हृदयं येषामिति बहुव्रीहिरिति भावः ।

लोचनम्

सहृदयाः । यथोक्तम्--
योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः ।
शरीरं व्याप्यते तेन शुष्कं काष्टमिवाग्रिना ।। इति ।।
     आनन्द इति । रसचर्वणात्मनः प्राधान्यं दर्सयन्रसध्वनेरेव सर्वत्र मुख्यभूतमात्मत्वमिति दर्शयति । तेन यदुक्तम्---
धनिर्नामापरो योऽपि व्यापारो व्यञ्जनात्मकः ।
तस्य सिद्धेऽपि भेदे स्यात्कर्व्येऽशतेवं न रूपता ।।
     इति पदपहस्तितं भवति । तथा ह्यभिधाभावनारसचर्वणात्मकेऽपि त्र्यंशे काव्ये रसचर्वणा तावज्जीवितभूतेति भवतोऽप्यविवादोऽस्ति । यथोक्तं त्वयैव--
काव्ये रसयिता सर्वो न बोद्धा न नियोगभाक्त् । इति ।

बालप्रिया

उक्तार्थे प्रमाणमाह-यथोक्तमिति । योऽर्थ इति । यः हृदयसंवादी स्वहृदयेन तन्मयीभवनलक्षणसंवादशीलः, तद्विषयः सहृदयश्लाध्यो विभावादिलक्षणोऽर्थः । तस्य भावः । भावना निरन्तरचर्वणा । रसोद्भवः चर्वणाप्राणस्य रकस्याभिव्यक्तिहेतुः । शरीरमित्यादि । तेनार्थेन हृदयव्याप्तिपूर्वकं सहृदयशरीरमपि व्याप्यते । अत एव पुलकाद्याविर्भावः । शुष्कं काष्टं न शिलादि । अनेन दृष्टान्तेन दार्ष्टान्तिके रत्यादिवासनासत्वमप्यासूत्रितं । शुष्कमित्यनेन काव्यानुशीलनकृतमनोवैशद्यञ्च । आनन्दपदोपादानफलमाह-रसेत्यादि । रसचर्वणैवात्मा स्वरूपं यस्य स आनन्दः तस्य । प्राधान्यं वस्त्वलङ्कारध्वनिभ्यां प्रधान्यं । दर्सयतीति । वस्त्वलङ्काररसेषु रसध्वनेरेव प्राधान्यमितरयोस्तु तत्पर्यवसायितया गैंणमिति दर्शयितुमेतदुक्तमित्यर्थः । एतत्परदर्शनेन परपक्षोऽपि निराकृत इत्याह-तेनेत्यादि । तेन रसध्वनेर्मुख्यत्वप्रदर्शनेन । यदुक्तमिति । भट्टनायकेनेति शेषः । तदपहस्तितं निराकृतमिति सम्बन्धः । ध्वनिरिति । नामेत्यनेन पारोक्ष्यं दर्शयन्स्वानभिमतत्वं सूचयति । अपरः अभिधाभावनाभ्यां भिन्नः । योऽपीति । अयुक्तस्याङ्गीकारद्येतकोऽपिशब्दः । तस्येति । तस्य अभिधाभावनाभ्यां भेदे सिद्धेऽपि । वस्तुतो निरूप्यमाणे भेदो न सिध्यतीति भावः । स्यादिति । तस्य काव्ये अंशत्वं स्यात्रूपता आत्मत्वरूपमंशित्वं । न स्यादित्यर्थः । ध्वनिः काव्यांशभूतः शब्दवायापारत्वादभिधावदिति प्रयोगः । रसध्वनेरात्मत्वप्रदर्शनमात्रेम कश्चमेतदपहस्ति तमित्यत उपपादयति-तथाहीत्यादि । अभिधा मुख्या अमुख्या च । भावना भावकत्वं । रसचर्वणा भोगकृत्वं । एतदुपरि वक्ष्यते । त्र्यंशेऽपीत्यन्वयः । त्वयेति भट्टनायकेनेत्यर्थः ।
     काव्य इति । रसयिता रसचर्वणाशीलः । सर्वः काव्ये अधिकारीति शेषः । न बोद्धा इतिहासादाविव बोद्धा सर्वो न, तथा न नियोगभाक्वेदादाविव नियोज्यः

लोचनम्

     तद्वस्त्वलङ्कारध्वन्यभिप्रायेणांशमात्रत्वमिति सिद्धसाधनं । रसध्वन्यभिप्रायेण तु स्वाभ्युपगमप्रसिद्धिसंवेदनविरुद्धमिति । तत्र कवेस्तावत्कीर्त्यापि प्रीतिरेव सम्पाद्या । यदाह-ऽकीर्ति स्वर्गफलामाहुःऽ इत्यादि । श्रोतॄणां च व्युत्पत्तिप्रीती यद्यपि स्तः,यथोक्तम्--
धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ।। इति ।।
     तथापि तत्र प्रीतिरेव प्रधानं । अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्त्रसंमितेभ्यश्चेतिहासादिभ्यो व्युत्पत्तिहेतुभ्य- कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमितित्वलक्षणो

बालप्रिया

सर्वः न अधिकारीति शेषः । किन्तु रसयितैवेत्यर्थः । अनेन रसचर्वणाया अधिकारसम्पादकत्ववचनेन तस्याः प्राधान्येम जीवितत्वमुक्तमेवेति भावः । केचित्तु काव्येसर्वः सर्वो व्यापारः । रसयिता कान्तेव रसचर्वणाहृत् । न बोद्धा बन्धुरिव न बोधयिता । न नियोगभाक्प्रभुरिव न नियोगकर्तेत्यर्थ इति व्याचक्षते ।
     तदिति । तस्मादित्यर्थः । यद्वा-त्वदुक्तमित्यर्थः । अंशमात्रत्वमित्येतद्वस्त्वलङ्कारध्वन्यभिप्रायेण चेत्तदा सिद्धसाधनं । रसध्वनेरेवांशित्वेनेतरध्वन्योरंशत्वस्य ध्वनिवादिनः सिद्धस्य साधनमित्यर्थः । रसेति । अंशमात्रत्वमितीत्यनुषज्यते । स्वाभ्युपगमेति । स्वसिद्धान्तलक्ष्यप्रसिद्धिसहृदयानुभवैर्विरुद्धमित्यर्थः । ननु कीर्त्यादिफलान्तराणामपि सत्त्वात्ऽसहृदयमनःप्रीतयेऽ इत्यस्योपलक्षणत्वमभ्युपेत्य तान्यपि कुतो नोक्तानीत्यत्राह--तेत्रेत्यादि । तत्र इति प्राधान्येनानन्द एवोक्त इति सम्बन्धः । तत्र काव्ये । स्वर्गेति । स्वर्गः निरतिशयानन्दः फलं यस्यास्तां । शङ्कते-श्रोतॄणामिति । व्युत्पत्तिं । काव्यनिषेवणमितिऽनिबन्धनम्ऽ इति च पाठः । समाधत्तेतथापि तत्रेति । तत्र व्युत्पत्तिप्रीत्योर्मध्ये । प्रधानं प्रधानफलं । विपक्षे बाधकप्रदर्शननेनोक्तं द्रढयति--अन्यथेत्यादि । अन्यथा प्रीतिरूप्रधानफलकत्वाभावे । अस्य काव्यरूपस्य वेदादिभ्यः इतिहासादिभ्यश्च को विशेषः? व्युत्पत्तिहेतुत्वस्य समानत्वेन विशेषो व स्यादित्यर्थः । व्युत्पत्तिहेतुत्वं त्रिष्वपि साधारणमिति दर्शयितुमुभयत्रोक्तिः ।

लोचनम्

वेशेषः इति प्राधान्येनानन्द एवोक्तः । चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं मुख्यं फलं ।
     आनन्द इति च ग्रन्थृतो नाम । तेन स आनन्दवर्धनाचार्य एतच्छास्त्रद्वारेम सहृदयहृदयेषु प्रतिष्टां देवतायतनादिवदनश्वरीं स्थितिं गच्छत्विति भावः । यथोक्तम्-
उपेयुषामपि दिवं सन्निबन्धविधायिनाम ।
आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ।। इति ।।
     यथा मनसि प्रतिष्टा एवंविधमस्य मनः, सहृदयचक्रवर्ती खत्वयं ग्रन्थकृदिति यावत् । यथा--ऽयुद्धे प्रतिष्टा परमार्जुनस्यऽ इति । स्वनामप्रकजीकरणं श्रोतॄणां प्रवृत्त्यङ्गमेव

बालप्रिया

वदादिप्रभृतीनां प्रभ्वदिसम्मितत्वं काव्यप्रदीपादौ विवृतं । उक्त इति । कारिकायां फलत्वेनोक्त इत्यर्थः । भामहवनचनं तु धर्मादिव्युत्पत्तेः कीर्तेश्चाङ्गतया फलत्वाभिप्रायकं, न तु मुख्यतयेत्याह-चतुर्वर्गेति । चतुर्वर्गव्युत्पत्तेरपि च पार्यन्तिकं फलमानन्द एवेति सम्बन्धः । अपि चेत्यनेन कीर्तेः समुच्चयः ।
     ऽसहृदयानामानन्दऽ इत्यदिग्रन्थमन्यथापि व्याचष्टे-आनन्द इति । ऽनाम चेऽति सम्बन्धः । यथा भीमसेनादेः भीमादिनाम, तथेति भावः । तेनेति । नामत्वेन हेतुनेत्यर्थः । इति भाव इत्यनेनास्य सम्बन्धः । सः मूलग्रन्थकारः । एतच्छास्त्रं ध्वनिग्रन्थः । हितशासनरूपत्वादेतस्य शास्त्रत्वं । प्रतिष्टाशब्दो हि देवतानां तत्समुचितायतने स्थितौ प्रसिद्ध इत्यतो देवतेत्यादिद्दष्टान्तकथनं । देवतायतनादिवत्देवः देवतायतनादिष्विव । आदिपदेन भक्तजनहृदयपरिग्रहः । ऽप्रतिष्टां लभताऽमित्यस्य विवरणम्-अनश्वरीं स्थितिं गच्छत्विति । शास्त्रद्वारेण वर्तनं नाम शास्त्रस्यैव वर्तनमित्यभिप्रायेण भामहवचनं संवादयति-यथोक्तमिति । अनश्वरीं स्थितिं गच्छत्विति प्रार्थिता स्थितिरवश्यंभाविनीत्यभिप्रायेणाह-यथेति । यथा मनसि सहृदयमनसि प्रतिष्टा भवति, एवंविधं तथाविधं । अस्य आचार्यस्य मनः वैदुष्यमेतच्छास्त्रं वा । उक्तमुपपादयति-सहृदयेति । खल्विति प्रसिद्धौ । यावदित्यवधारणे । प्रार्थितेऽस्मिन्नर्थे न संशय इत्यर्थः । अनेन ग्रन्थकृतोऽपि कीर्तिद्वारा प्रीतिरूपं फलं भवतीति दर्शतं । प्रतिष्टाशब्दस्योक्तार्थकत्वे प्रयोगं संवादयति--यथेति । प्रतिष्टा बहुमानात्मिका स्थितिः ।


     तत्र ध्वनेरेव लक्षयितुमारब्धस्य भूमिकां रचयितुमिदमुच्यते--
योऽर्थः सहृदयश्लाध्यः काव्यात्मेति व्यवस्थितः ।


लोचनम्

सम्भावनाप्रत्ययोत्पादनमुखेनेति ग्रन्थान्ते वक्ष्यामः । एवं ग्रन्थकृतः कवेः श्रोतुश्च मुख्यं प्रयोजनमुक्तम् ।। १ ।।
     ननुऽध्वनिस्वरूपं ब्रूमऽ इति प्रतिज्ञाय वाच्यप्रतीयमानाख्यौ द्वौ भेदावर्थस्येति वाच्याभिधाने का सङ्गतिः कारकाया इत्याशङ्क्य सङ्गतिं कर्तुमवतरणिकां करोति--तत्रेति । एवंविधेऽभिधेये प्रयोजने च स्थित इत्यर्थः । भूमिरिव भूमिका । यथा अपूर्वनिर्माणे चिकीर्षिते पूर्वं भूमिर्विरच्यते, तथा ध्वनिस्वरूपे प्रतीयमानाख्ये निरूपयितव्ये निर्विवादसिद्धवाच्याभिधानं भूमिः । तत्पृष्टेऽधिकप्रतीयमानांशोल्लिङ्गनात् । वाच्येन

बालप्रिया

किमर्थमेवं स्वनामप्रकटीकरणत्वेन व्याख्यानमित्यत आह--स्वेति । प्रवृत्त्यङ्गमेवेति । न ख्यात्यादिलाभायेत्येवकारार्थः । सम्भावनाप्रत्ययोत्पादनमुखेनेति । सम्भावना बहुमानः, प्रत्ययः तद्धेतुराप्तत्वबुद्धिः, तदुभयोत्पादनद्वारेणेत्यर्थः । किमेतत्ग्रन्थकाराभिप्रेतमित्यत्राह-इतीति । ग्रन्थान्ते वक्ष्यामः "आनन्दवर्धन इति प्रथिताभिधान" इत्यस्य व्याख्यावसरे प्रकाशयिष्यामः । उपसंहरति--एवमिति । ग्रन्थकृतः ध्वनिग्रन्थकृतः । मुख्यं प्रयोजनं प्रीतिरूपं । मुख्यम्ऽ इत्यनेन धनादीन्यवान्तरप्रयोजनानि दर्शतानीत्यलम् ।। १ ।।
     ऽतत्र ध्वनेरेव लक्षयितुम्ऽ इत्यादिग्रन्थमवतारयति-निन्वित्यादि । वाच्याभिधाने का सङ्गतिरिति । अप्रकृतत्वात्तभिधानमसङ्गतमित्यर्थः । ऽतत्रेऽति भावलक्षणसप्तमीद्विवचनान्तात्त्रल् । तत्पदेनाभिधेयप्रयोजनयोः पूर्वोक्तयोः परामर्शः । स्थितयोरिति शेषश्चेत्याशयेन व्याचष्टे-एवंभूत इत्यादि । ऽएवंविधऽ इति च पाठः । ध्वनिस्वरूपे प्रीतिरूपे चेति तदर्थः । यद्वा-अभिधेयमात्रविशेषणमिदं । विमतिपदपतित इति तदर्थः । भूमिरिव भूमिकेति । अवतरणमिवावतरणिका, पीठमिव पीठिका । इमानि पदानि "इवेप्रतिकृतावि"ति कन्प्रत्ययान्तानि । यथापूर्वेति । अपूर्वं यन्निर्मीयत इति अपूर्वनिर्माणं प्रासादादि तस्मिन् । निर्विवादसिद्धेति । ध्वनिवादिनां तत्प्रतिक्षेपकाणां च सम्प्रतिपन्नेत्यर्थः । भूमिः अधिष्टानं उपाय इति यावत् । वाच्यस्य भूमित्वे तदभिधानस्यापि भूमित्वम्, वाच्यप्रतीयमानार्थयोरधिष्टानाधिष्टेयभावेन प्रतीतेः । प्रतीयमानार्थेपयोगितया इह वाच्यार्थाभिधानं सङ्गतमेवेति भावः । कथं तस्य भूमिसाद्दश्यमित्यत आह--तदिति । तस्य वाच्यस्य पृष्टे पश्चात् । वाच्यप्रतीत्युत्तरकाल इति यावत् । अधिकस्यध


वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ।। २ ।।


लोचनम्

समशीर्षिकया गणनं तस्याप्यनपह्नवनीयत्वं प्रतिपादयितुं । स्मृतावित्यनेनऽयः समाम्नातपूर्वऽ इति द्रढयति । ऽशब्दर्थशरीरं काव्यम्ऽ इति यदुक्तं, तत्र शरीरग्रहमादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव । तत्र शब्दस्तावच्छरीरभाग एव सन्निविशते सर्वजनसंवेद्यधर्मत्वात्स्थूलकृसादिवत् । अर्थः पुनः सकलजनसंवेद्यो न भवति । न

बालप्रिया

वाच्यव्यतिरिक्तस्य । प्रतीयमानस्य व्यङ्ग्यस्य । अल्लिङ्गनादुल्लेखनात् । ऽतत्पृष्टोत्थितेऽति पठित्वा, तत्पृष्टे पक्षभूते तस्मिन्नुत्थिततया व्यतिरिक्ततया प्रतीयमानांशस्य उल्लिङ्गनादनुमानादिति केचित् । समशीर्षिकया समप्रधानतया । गणनंऽवाच्यप्रतीयमानाक्याविऽति निर्देशः । तस्यापि प्रतीयमानस्यापि । अपिर्दृष्टान्तार्थः । अनेन प्रतीयमानमस्ति अर्थांशत्वात्, वाच्यवदिति प्रमाणमरि सूचितमित्युक्तम्, प्रमाणोक्त्यैवान पह्नवनीयत्वसिद्धेः । स्थिताविति वक्तव्येऽस्मुताऽवित्युक्तेः फलं व्याचष्टे-स्मृतावितीत्यादि । यद्बुधैः समाम्नातं तत्स्मृतिरूपं च, यथा मन्वादिभिर्धर्मादिसमाम्नानं तच्च प्रमाणान्तरमूलं, तद्वदिदमपीति द्रढयितुं स्मृतावित्युक्तमिति भावः । ऽयोऽर्थः सहृदयश्लाध्यः काव्यात्मेति व्यवस्थितऽ इत्यनेन कारिकापूर्वार्धेनोक्तं सहृदयश्लाध्यत्वविशिष्टार्थस्य काव्यात्मत्वं सोपपत्तिकं दर्सयन्वृत्त्यनुसारेम तदर्धं विवृणोति--शब्दत्यादिना । शब्दार्थावेव शरीरं यस्य तत् । उक्तमिति । पूर्वपक्षवादिभिरुक्तमित्यर्थ । तत्र शरीरग्रहणादेव शब्दार्थयोः काव्यशरीरत्वखीकारादेव । यद्वा--तत्र तस्मिन्नुक्ते सति । शरीरेति । काव्यस्य शरीरखीकारादेवेत्यर्थः । एवकारेण प्रमाणान्तरानपेक्ष्त्वं सूचितं । केनचित्शब्दार्थयोरन्यतरेण । किमर्थमिति चेदाह--तदिति । तत्काव्यमनुप्राणयति जीवयति सहृदयाह्लादकं करोतीति तदनुप्राणवं, तेन । भाव्यमेवेत्येवकारेणान्यथाशरीराभासत्वप्रसक्तिं दर्शयति । विमतं शरीरमात्मवत्, शरीरत्वादस्मदाद्शरीरवदिति प्रयोगः । तत्रेत्यादि । तत्र आत्मावश्यंभावित्वे सति । यद्वा-शब्दार्थयोर्मध्ये शरीरभाग एवेत्येवकारेण आत्मकोजिनिवेशे योग्यता निरस्यते । सर्वोति । सर्वजनसंवेद्या धर्माः तीव्रत्वमन्दत्वादयो मधुरत्वपरुषत्वादयो वा यस्य तत्त्वात् । द्दष्टान्ते तु स्थूलत्वादयो धर्माः तीव्रत्वमन्दत्वादयो मधुरत्वपरुषत्वादयो वा यस्य तत्त्वात् । द्दष्टान्ते तु स्थूलत्वादयो धर्माः । यद्वा--संवेद्यशब्दो भाववचनः सर्वजनसंवेद्यत्वरूपधर्मकत्वादित्यर्थः । विमतश्शब्दो नात्मा, सर्वजनसंवेद्यधर्मत्वात्, स्थूलादिशरीरवदिति प्रयोगः । सर्वेत्यादिना बाह्येन्द्रियग्राह्यत्वरूपो हेतुर्दर्शित इति केचित् । तर्ह्यर्थस्यात्मत्वमस्त्वत आह-अर्थः पुनरित्यादि । पुनश्शब्दोऽर्थस्यात्मत्वयोग्यतारूपविशेषद्योतकः । सकलेति । काव्यार्थस्य सहृदयैकवेद्यत्वात्तदितरवाक्यार्थस्य व्युत्पन्नजनमात्रवेद्यत्वाच्चार्थत्वावच्छिन्नस्सर्वजनवेद्यो न भवतीत्यर्थः ।

लोचनम्

ह्यर्थमात्रेण काव्यव्यपदेशः, लौकिकवैदिकवाक्येषु तदभावात् । तदाह-सहृदयश्लाध्य इति । स एक एवार्थो द्विशाखतया विवेकिभिर्विभागबुद्ध्या विभज्यते ।
     तथाहि-तुल्येऽर्थरूपत्वे किमिति कस्मैचिदेव सहृदयाः श्लाघन्ते । तद्भवितव्यं तत्र केनचिद्विशेषेण । यो विशेषः, स प्रतीयमानभागो विवेकिभिर्विशेषहेतुत्वादात्मेति व्यवस्थाप्यते ।

बालप्रिया

अनेन शब्दस्यानात्मत्वसाधकं यदुक्तं, तदत्र नास्तीति दर्शितं । तर्हि किमर्थसामान्यस्य काव्यात्मत्वम्? नेत्याह--न हीत्यादि । अर्थमात्रेण व्युत्पन्नजनवेद्येन कृत्स्नेनार्थेन व्यवहारं प्रति व्यवहर्तव्यस्य हेतुत्वाभिप्रायेण, हेतौ तृतीया । काव्यव्यपदेशः काव्यव्यवहारः । वाक्येष्विति । वाक्यविषयक इत्यर्थः । तदभावात्काव्यव्यपदेशाभावात् । अन्यथा तद्वाक्येष्वपि काव्यव्यपदेशः स्यादिति भावः । तदाहेत्यादि । शब्दस्य काव्येतरवाक्यार्थस्य च काव्यात्मत्वाभावात्तह्यावृत्यर्थंऽअर्थस्सहृदयश्लाध्यऽ इत्याहेत्यर्थः । अथ सहृदयश्लाध्यत्वरूपविशेषणगम्यार्थप्रदर्शनेन काव्यार्थस्यात्मत्वमुपपादयन्नुत्तरार्धस्य भावं विवृणोति--स एक इत्यादि । एक एव एकत्वेनैव भासमानः । सः अर्थः सहृदयश्लाध्योऽर्थः । द्विशाखतया द्व्यंशत्वेन । विवेकिभिः विवेचनशीलैः । विभागबुद्ध्या विरुद्धावन्योन्यव्यावृत्तधर्माणौ भागावंशावस्येति विभागः, तद्बुद्ध्या हेतुना ।
     उक्तमुपपादयति---तथाहीत्यादि । तुल्येऽर्थरूपत्व इति । काव्यार्थस्य लौकिकाद्यर्थस्य चार्थरूपत्वे तुल्ये सतीत्यर्थः । द्वयोरर्थयोररथत्वेन साम्येऽपीति यावत् । किमिति । कस्मात्कारणात् । अस्मद्विवक्षितान्नान्यस्मादिति भावः । कस्मैचिदेव काव्यार्थायैव । तत्तस्मात् । तत्र काव्यार्थे । विशेषेण श्लाघाहेतुभूतेन विशेषेण । अतिशयाधायको धर्मो विशेषः । काव्यार्थो विशेषवान्, सहृदयश्लाध्यत्वात्, यन्नैवं तन्नैवम्, यथा लौकिकादिवाक्यार्थ इति प्रयोगः । य इत्यादि । विशेषः विशेषाधायकः । स प्रतीयमानभाग इति । इत्युच्यत इति शेषः । अनेनान्यो भागो वाच्य इति दर्शितं । विवेकिभिरित्यादि । स इत्यनुषज्यते । यथा ह्यात्मा स्वसान्निध्यविशेषमात्रेण जडात्मकघटादिविलक्षणतया सशिरस्कदेहपिण्डे स्वचैतन्यारोपणमुखेनात्मभावप्रतीतिहेतुः, अत एव तच्छ्लाध्यतासम्पादकश्च, तथा प्रतीयमानभागोऽपि इतरवाक्यार्थापेक्षया सहृदयश्लाघालक्षणं कमप्यतिशयं काव्यार्थं सम्पादयतीति तस्य विशेषहेतुत्वरूपात्मगुणयोगादात्मत्वं


काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरस्येवात्मा साररूपतया


लोचनम्

वाच्यसंवलनाविमोहितहृदयैस्तु तत्पृथग्भावेविप्रतिपद्यते, चार्वाकैरिवात्मपृथग्भावे । अत एव अर्थ इत्येकतयोपक्रस्य सहृदयश्लाध्य इति विशेषणद्वारा हेतुमभिधायापोद्धारद्दशा तस्य द्वौ भेदावंशावित्युक्तम्, न तु द्वावप्यात्मानौ काव्यस्येति ।
     कारिकाभागगतं काव्यशब्दं व्याकर्तुमाह---काव्यस्य हीति । ललितशब्देन गुणालङ्कारानुग्रहमाह । अचितशब्देन रसविषयमेवौचित्यं भवतीति दर्शयन्रसध्वनेर्जीवितत्वं सूचयति । तदभावे हि किमपेक्षयेदमौचित्यं नाम सर्वत्रौद्धोष्यत इति भावः ।

बालप्रिया

विवेकिभिरुपपत्त्या निर्धार्यत इत्यर्थः । कुतस्तर्हि सर्वोषां तथा न प्रतीतिः, प्रत्युत विमतिश्चेत्यत आह--वाच्येत्यादि । प्रतीयमानस्य या वाच्यसवलना वाच्यार्थमिश्रमा, तया निरूढनिबिडतरताद्रूप्यभावनावासनाधिरूढया विमोहितं विवेकसामर्थ्यरहितं कृतं हृदयं योषा- तैः । तत्पृथग्भावे तस्य प्रतीयमानस्य वाच्याच्छरीरभूतात्पृथग्भावे । द्दष्टान्तमाह--चार्वाकैरिति । शरीरादिति शेषः । व्याख्यातमर्थं कारिकारूढं करोति--अत एवेत्यादि काव्यस्येत्यनेतन । अत एव यतो देहात्मन्यायेन वाच्यव्यङ्ग्ययोरवस्थानं विवेचकाविवेचकद्दष्टिद्वयानुरोधिनी चतत्पृथग्भावापृथग्भावपरिच्छित्तिस्तत एव । एकतयेति । एकवचनान्ततयेत्यर्थः । उपक्रम्य वचनोपक्रमं कृत्वा । अविवेचकद्दष्ट्यनुरोध्यविभागबुद्ध्योपस्थापितं यद्वाच्यव्यङ्ग्ययोरर्थयोरेकत्वं, तद्बोधकैकवचनान्तत्वेनार्थ इत्यनुवादभागे निर्दिश्येत्यर्थः । विशेषणद्वारा विशेषणनुखेन । हेतुमिति । सहृदयश्लाघाहेतुभूतो द्व्यंशत्वसाधकश्च योऽर्थविशेषस्तमित्यार्थः । तद्भवितव्यं तत्र केनचिद्विसेषेणेत्युक्तं प्राक् । अभिधायेति । प्रदर्श्येत्यर्थः । अपोद्धारदृशा विभागबुद्ध्या । भेदावित्यस्य व्याख्यानं--अंशाविति । श्लाघनक्रियायाः कर्मभूत एकों । आशो वाच्यो यस्तस्या हेतुभूतः, स प्रतीयमानांश इत्यर्थः । न त्वित्यादि । किन्तु प्रतीयमान एवात्मा, वाच्यस्त्वंशः शरीरभूत इति भावः । अत्राविभागबुद्धिगम्याकारेणार्थस्य पूर्वार्धे काव्यात्मत्वनिर्देशः, उत्तरार्धे तु विभागबुद्धिगम्याकारेण द्व्यंशत्वविधानमिति सारार्थः । ऽअर्थस्सहृदयश्लाध्यः काव्यात्मा यो व्यवस्थितऽ इति च कारिकापाठः ।
     काव्यशब्दमिति । ऽकाव्यात्मेऽत्यत्र काव्यशब्दमित्यर्थः । ऽललितोचितऽ शब्दाभ्यां काव्यसम्बन्धिनस्सर्वे सङ्गृहीता इत्याह-ललितेत्यादि । गुणालङ्कारानुग्रहमाहेति । गुणालङ्कारकर्तृकमनुग्रहं साहायकं चारुत्वकरणमिति यावत् । रसविषयमेवेति । इतिवृत्तादीनामुपादेयानां रसशेषत्वात्तद्विषयमपि रसविषयमेवेति भावः । सूचयतीति ।


स्थितः सहृदयश्लाध्यो योऽर्थस्तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ ।


लोचनम्

योऽर्थ इति यदानुवदन्परेणाप्येतत्तावदभ्युपगतमिति दर्शयति । तस्येत्यादिना तदभ्युपगम एव द्व्यंशत्वे सत्युपपद्यत इति दर्शयति । तेन यदुक्तम्-ऽचारुत्वहेतुत्वाद्गुमालङ्कारव्यतिरिक्तो न ध्वनिःऽ इति, तत्र ध्वनेरात्मस्वरूपत्वाद्धेतुरसिद्ध इति दर्शितं । न ह्यात्मा चारुत्वहेतुर्देहस्येति भवति । अथाप्येवं स्यात्तथापि वाच्येऽनैकान्तिको

बालप्रिया

रसविषयमौचित्यं रसस्य प्राधान्यं विना न घटते, तस्मिंश्च सति तस्यात्मत्वं सिद्धमिति भावः । एतदेव विपक्षे बाधकमुखेन साधयति-तदभाव इत्यादि । तस्य जीवितभूतस्य रसस्याभावे । उद्धाप्यत इति । अबाववादिभिरपीति शेषः । वृत्तौऽसन्निवेशेऽ त्यस्य शब्दार्थयोः संस्थानेत्यर्थः । ऽयऽ इत्यादिनिर्देशस्य फलमाह--योऽर्थ इत्यादि । यदा यच्छब्देन । यच्छब्द वटितवाक्येनेति यावत् । परेणापि पूर्वपक्षिणापि । एतत्प्रतीयमानं वस्तु । तावतादौ संप्रतिपत्तौ वा । अभ्युपगतमिति । प्रतीयमानस्य काव्यार्थान्तर्भावादिति भावः । तदित्यादि । तदभ्युपगमः प्रतीयमानाभ्युपगमः । ह्यंशत्वे सति उपपद्यत एवेति सम्बन्धः । एकांशाङ्गीकारे अंशान्तरस्यावारणीयत्वादिति भावः । तदभ्युपगम एवोपपद्यते, नानभ्युपगम इति वा । यद्वा--एतत्काव्यार्थस्य सहृदयश्लाध्यत्वं । तदभ्युपगमः सहृद्यश्लाध्यत्वाभ्युपगम इति । एवञ्च पूर्वपक्षोक्तानुमानमपि परास्तमित्याह--तेनेत्यादि । तेन उक्तभङ्ग्या ध्वनेरात्मत्वप्रतिपादनेन । इति दर्शितमित्यनेनान्वयः । तत्रेति । तदनुमान इत्यर्थः । असिद्ध इति । स्वरूपासिद्ध इत्यर्थः । ननु ध्वनेरात्मत्वेऽपि चारुत्वहेतुत्वं किं न स्यादत्यतो दृष्टान्तगर्भंमाह-न हीति । ऽइति न भवति हीऽति सम्बन्धः । लोक इति शेषः ।
     ननु प्रतीयमानस्य वाच्यार्थश्लाघालक्षणातिशयहेतुत्वेन चारुत्वहेतुत्वमस्त्येवेति कथमसिद्धः । लोकेऽप्यात्मा चारुत्वहेतुः, शवशरीरे सर्वाभरणभूषितेऽपि चारुत्वादर्शनादित्यत्राह--अथाप्येवमिति । अथापि यद्यपि । एवमिति । आत्मनश्चारुत्वहेतुत्वमित्यर्थः । स्यादित्यभ्युपगमे । तथापीति । तथापीह दोषोऽस्तीत्यर्थः । तमाह--वाच्य इति । अनैकान्तिकः व्यभिचारी । प्रतीयमानसंवलनोपाधिकस्य चारुत्वहेतुत्वस्य वाच्यार्तेऽपि सत्त्वात्तस्य गुणालङ्कारव्यतिरिक्तत्वच्च तत्र व्यभिचार इत्यर्थः ।


तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः ।
बहुधा व्याकृतः सोऽन्यैः
काव्यलक्ष्मविधायिभिः ।
ततो नेह प्रतन्यते ।। ३ ।।
केवलमनूद्यते पुनर्यथोपयोगमिति ।। ३ ।।
---

लोचनम्

हेतुः । न ह्यलङ्कार्य एवालङ्कारः, गुणी एव गुणः । एतदर्थमपि वाच्यांशोपक्षेपः । अत एव वक्ष्यति--ऽवाच्यः प्रसिद्धःऽ इति ।। २ ।।
तत्रेति । ह्यंशत्वे सत्यपीत्यर्थः । प्रसिद्ध इति । वनितावदनोद्यानेन्दूदयादर्लौकिक एवेत्यर्थः । ऽउपमादिभिः प्रकारैः स व्याकृतो बहुधेऽति सङ्गतिः । अन्यैरिति कारिकाभागं काव्येत्यादिना व्याचष्टे । ऽततो नेह प्रतन्यतऽ इति विशेषप्रतिषेधेन शेषाभ्यनुज्ञेति दर्शयति--केवलमित्यादिना ।। ३ ।।

बालप्रिया

तह्यतिरिक्तत्वं दर्शयति-न हीत्यादिना । एतदर्थमपीति । न केवलं भूमिकार्थम्, अनैकान्तिकत्वप्रदर्शनार्थमपीत्यर्थः । उत्तरकारिकायां वाच्यस्य प्रसिद्धत्वकथनमप्येतदभिप्रायकमित्याह--अत एवेति । प्रसिद्धे हि वस्तुनि व्यभिचारोद्भावनम् ।। २ ।।
     कारिकायां तत्रेति भावलक्षणसप्तमी । तत्पदेन वाच्यप्रतीयमानयोः परामर्शः । द्विवचनान्तात्त्रल् । अपिशब्दश्चाध्याहार्य इत्याशयेन व्याचष्टे--द्व्यंशत्वे सत्यपीति । अर्थस्येति शेषः । द्वयोर्भेदयोः सतोरपीत्यर्थः । अपिशब्देनैकस्यैव बहुधा व्याकरणे विरोधं दर्शयतान्येषामपारं मौर्ख्यं द्योत्यते । प्रसिद्धपदं व्याचष्टे--वनितेत्यादि । विदितः । ऽकाव्यलक्ष्मविधायिभिऽरित्यस्य कारिकाचतुर्तपादत्वशङ्कां परिहर्तुमाह---अन्यैरित्यादि । इति विशेषप्रतिषेधेनेत्यादि । अज्ञातज्ञापनलक्षणं प्रतिपादनं हि प्रतननं, तस्य विशेषरूपस्य प्रतिषेधेन तत्प्रतिद्वन्द्वितया परिशिष्टमनुवदनं गम्यत इति भावः ।। ३ ।।


     प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकविनां ।


लोचनम्

अन्यदेव वस्त्विति । पुन्श्शब्दो वाच्याद्विशेषद्योतकः । तद्व्यतिरिक्तं सारभूतं चेत्यर्थः । महाकवीनामिति बहुवचनमशेषविषयव्यापकत्वमाह । एतदभिधास्यमानप्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशे भवतीति भावः । यदेवंविधमस्ति तद्भाति । नह्यत्यन्तासतो भानमुपपन्नम्; रजताद्यपि नात्यन्तमसद्भाति । अनेन सत्वप्रयुक्तं तावद्भानमिति भानात्सत्वमवगम्यते । तेन यद्भाति तदस्ति तथेत्युक्तं भवति । तेनायं प्रयोगार्थः--प्रसिद्धं वाच्यं धर्मि,

बालप्रिया

ऽप्रतीयमानम्ऽ इत्यादिकारिकाव्याख्यानेनैवऽसह्यर्थऽ इत्यतः प्राक्तनो वृत्तिग्रन्थोऽपि व्याख्यातो भवतीत्याशयेन कारिकां व्याचष्टे--पुनश्शब्द इत्यादि । वाच्यादिति । ऽवाच्यांशादिऽति च पाठः । अन्यपदं व्याचष्टे---तदिति । वाच्यव्यतिरिक्तमित्यर्थः । वस्तुपदं व्याचष्टे--सारेति । इति बहुवचनमिति । ऽविणीष्विऽति बहुवचनस्याप्युपलक्षणमिदं । अशेषविषयव्यापकत्वमिति । प्रतीयमानस्येति शेषः । एतदिति । एतस्मिन्नेतद्ग्रन्थे अभिधास्यमानेन प्रतीयमानेन । एतदिति प्रतीयमानविशेषणं वा । इति भाव इति । ऽमहाकवीनाम्ऽ इति प्रकृत्यंशेनायमर्थो गम्यतैत्यर्थः । कारिकायाः प्रतीयमानसत्त्वसाधकानुमानपरतां दर्शयितुमुपक्रमते--यदित्यादि । यत्यस्मात् । एवंविधं व्यतिरिक्तं सारभूतं च प्रतीयमानं अस्ति । तत्तस्मात् । भातीति । हेतुहेतुमद्भावोऽयमार्थिको बोध्यः । अनेन सत्त्वभासमानत्वयोर्हेतुहेतुमद्भावरूपानुकूलतर्कश्च प्रकाशितः । न्यायमतानुसारेणाह--न हीति । भानं प्रतीतिः । उपपन्नं युक्तिसिद्धं । रजताद्यपीति । अत्यन्तमसन्न भाति, किन्तु आपणादौ सदेव रजतादि शुक्तिकादौ भातीति भावः । अनेनेति । अत्यन्तासतोऽभानेनेत्यर्थः । यद्वा--ऽअस्तिऽ विभातीऽतिकारिकाभागेनेत्यर्थः । अस्मिन्पक्षे इत्युक्तं भवतीत्यनेनास्य सम्बन्धः । तावदिति सम्प्रतिपत्तौ । यदिति । यद्यदित्यर्थः । भातीति । यथेति शेषः । इत्युक्तमिति । इति व्याप्तिः कारिकायां वृत्तो च प्रदर्शितेत्यर्थः । तेनेति । भानसत्वयोः व्याप्तिदर्शनेनेत्यर्थः । अयं वक्ष्यमाणः प्रयुज्यत इति प्रयोगस्तद्रूपार्थः । परार्थानुमानरूपन्यायप्रयोग इति यावत् ।


यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ।। ४ ।।
     प्रतीयमानं पुनरन्यदेव वाच्याद्वस्त्वस्ति वाणीषु महाकवीनां । यत्तत्सहृदयसुप्रसिद्धं प्रसिद्धेभ्योऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यभिवाङ्गनासु । यथा ह्यङ्गनासु लावण्ये पृथङ्निर्वर्ण्यमानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः ।


लोचनम्

प्रतीयमानेन व्यतिरिक्तेन तद्वत्, तथा भासमानत्वात्लावण्योपेताङ्गनाङ्गवत् । प्रसिद्धशब्दस्य सर्वप्रतीतत्वमलङ्ककृतत्वं चार्थः । यत्तदिति सर्वनामसमुदायश्चमत्कारसारताप्रकटीकरणार्थमव्यपदेश्यत्वमन्योन्यसंवलनाकृतं चाव्यतिरेकभ्रमं दृष्टान्तदार्ष्टान्तिकयोर्दर्शयति । एतच्च किमपीत्यादिना व्याचष्टे । लावण्यं हि नामानयवसंस्थानाभिव्यङ्ग्यमवयवव्यतिरिक्तं धर्मान्तरमेव ।

बालप्रिया

प्रसिद्धमित्यादि धर्मीत्यन्तेन पक्षनिर्देशः । ऽसिद्धं धर्मिणमुद्दिश्य साध्यधर्मेऽभिधीयतऽ इति वचनानुरोधेन प्रसिद्धं धर्मीति चोक्तं, न त्वनयोः पक्षकोटिप्रवेशः । प्रतीयमानेन व्यतिरिक्तेन तद्वदिति साध्यनिर्देशः । स्वव्यतिरिक्तप्रतीयमानसम्बद्धमित्यर्थः । वाच्यस्यैव प्रतीयमानत्वमभ्युपगच्छतां मते स्वात्मकप्रतीयमानवत्वं सिद्धमिति सिद्धसाधनवारणाय स्वव्यतिरिक्तत्वनिवेशः । तथा भासमानत्वादिति हेतुनिर्देशः । स्वव्यतिरिक्तप्रतीयमानवत्वेन प्रमीयमाणत्वादित्यर्थः । अत्र दृष्टान्तः--अङ्गनाङ्गवदिति । अत्र स्वव्यतिरिक्तप्रतीयमानपदार्थत्वेन लावण्यं ग्राह्यमिति प्रदर्शयितुं लावण्योपेतेत्युक्तं । अङ्ग्वदित्यन्तरं इतीति शेषः । वृत्तौऽअलङ्कृतेभ्यः प्रतीतेभ्यो वाऽ इत्यत्र वाशब्दः समुच्चयार्थक इति प्रदर्शयितुं व्याचष्टे--प्रसिद्धशब्दस्येत्यादि । लावण्यस्य भूषणशोभातो व्यतिरेकं दर्शयितुमलङ्कृतत्वरूपार्थस्यापि कथनं । कारिकायांऽयत्तदिऽत्यत्र यच्छब्दः पूर्वोक्तप्रतीयमानवस्तुवाची । ऽतदिऽ ति तच्छब्दस्तु प्रसिद्धार्थक इत्याशयेनऽसहृदयसुप्रसिद्धम्ऽ इति वृत्तौ व्याख्यातम्, आभ्यां गम्यमानमर्थं व्याचष्टे--यत्तदित्यादि । समुदाय इति । यच्छब्दसहितस्तच्छब्द इत्यर्थः । चमत्कारः सारः प्राणो यत्र तत् । चमत्कारसारं प्रतीयमानं लावण्यं च तस्य भावस्तत्ता तस्याः । प्रकटीकरणार्थं द्योतनार्थं । अव्यपदश्यत्वं व्यपदेष्टुमशक्यत्वं । रसध्वन्यभिप्रायेण चेदमुक्तं । अन्योन्येति । वाच्यव्यङ्ग्ययोरङ्गलावण्ययोश्चेत्यर्थात्सिध्यति । ऽअव्यतिरेकभ्रमं चेऽति योजना । दृष्टान्तेत्यादि । यत्तदित्यस्य दृष्टान्तेऽपि सम्बन्धोऽस्तीति भावः । दर्शयति


स ह्यर्थो वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रमलङ्काराःरसादयश्चेत्यनेकप्रभेदप्रभिन्नो दर्शयिष्यते । सर्वोषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वं ।


लोचनम्

न चावयवानामेव निर्देषता वा भूषणयेगो वा लावण्यम्, पृथङ्निर्वर्ण्यमानकाणादिदोषशून्यशरीरावयवयोगिन्यामप्यलङ्कृतायामपि लावण्यशून्येयमिति, अतथाभूतायामपि कस्याञ्चिल्लावण्यामृतचन्द्रिकेयमिति सहृदयानां व्यवहारात् ।
     ननु लावण्यं तावद्व्यतिरिक्तं प्रथितं । प्रतीयमानं किं तदित्येव न जानीमः, दूरे तु व्यतिरेकप्रथेति । तथा भासमानत्वमसिद्धो हेतुरित्याशङ्क्य स ह्यर्थ इत्यादिना स्वरूपं तस्याभिधत्ते । सर्वेषु चेत्यादिना च व्यतिरेकप्रथां साधायिष्यति । तत्र प्रतीयमानस्य तावद्द्वौ भेदौ--लौकिकः, काव्यव्यापारैकगोचरश्चेति । लौकिको यः स्वशब्दवाच्यतां कदाचिदधिशेते, स च विधिनिषेधाद्यनेकप्रकारो वस्तुशब्देनोच्यते । सोऽपिद्विविधः--यः पूर्वं क्वापि वाक्यार्थेऽलङ्कारभावमुपमादिरूपतयान्वभूत्, इदानीं त्वनलङ्काररूप

बालप्रिया

सूचयति । किमपीत्यादिना व्याचष्ट इति । वृत्तौऽकिमपीऽत्यादेः दार्ष्टान्तिकेऽपि सम्बन्धो बोध्य इति भावः । द्दष्टान्तस्य साध्यवैकल्यशङ्कां परिहर्तुमाह-लावण्यं हीत्यादि । धर्मान्तरं धर्मविशेषः । उक्तमुपपादयति--न चेति । पृथगिति । पृथङ्निर्वर्ण्यमाना दृश्यमानाः काणादिदोषशून्याश्च ये शरीराक्यवास्तद्योगिन्यामपि । काणशब्दः काणत्वपरः । अतथाभूतायामिति । काणत्वादिदोषसहितायामनलङ्कृतायां चेत्यर्थः । चन्द्रिकेत्यारोपेणोक्तिः । वृत्तौऽपृथगिऽत्यादि । पृथङ्निर्वण्यमानेभ्यो निखिलावयवेभ्यो व्यतिरेकीत्यर्थः ।
     ऽस ह्यर्थऽ इत्यादिवृत्तिग्रन्थमवतारयति-नन्वित्यादि । तदिति । भवदुच्यमानमित्यर्थः । ऽकिमित्येव न जानीमऽ इत्येवकारसूचितं कैमुतिकन्यायं स्पष्टीकरोति-दूर इति । तस्येति शेषः । व्यतिरेकस्य वाच्याद्भेदस्य, प्रथा प्रसिद्धः । धर्मसिद्धेः धर्मिसिध्यधीनत्वात्प्रतीयमानस्यासिद्धौ तत्र वाच्यभेदस्याप्यसिद्धिरित्यर्थः । इतीति हेतौ । तथेत्यादि । तथाभासमानत्वरूपो हेतुः हेत्वप्रसिद्धिरूपदोषविशिष्ट इत्यर्थः । ऽवस्तुमात्रऽ मित्यादिवृत्युक्तमुपपादयति-तत्र प्रतीयमानस्येत्यादि । तत्र प्रतीयमानस्य अस्तित्वे सति । तावदादौ । लौकिकः लोकविदितः । काव्येति । काव्यं शब्दार्थमयं तस्य शब्दस्यार्थस्य च यो व्यापारः व्यञ्जनारूपः तदैकगोचरः नान्यगोचरः । ततश्चालौकिक इति भावः । लौकिको य इति । स इति शेषः । कदाचित् । वाच्यत्वावस्थायां । वस्तुशब्देनेति । वस्तुध्वनिशब्देनेत्यर्थः । वस्तुशब्दं व्याख्यायऽवस्तुमात्रऽ मिति मात्रशब्दव्याख्यासौकर्यायादावलङ्कारध्वनिं व्याख्यातुमाह---सोऽपीत्यादि । पूर्व वाच्यत्वावस्थायां । इदानीं व्यङ्ग्यत्वावस्थायां । अन्यत्र वाच्यार्थे यो

लोचनम्

एवान्यत्र गुणीभावाभावात्, स पूर्वप्रत्यभिज्ञानवलादलङ्कारध्वनिरिति व्यपदिश्यते ब्राह्मणश्रमणन्यायेन । तद्रूपताभावेन तूपलक्षितं वस्तुमात्रमुच्यते । मात्रग्रहणेन हि रूपान्तरं निराकृतं । यस्तु स्वप्नेऽपि न स्वश्ब्दवाच्यो न लौकिकव्यवहारपतितः, किं तु शब्दसमर्प्यमाणहृदयसंवादसुन्दरविभावानुभावसमुचितप्राग्विनिविष्टरत्यादिवासनानुरागसुकुमारस्वसंविदानन्दचर्वणाव्यापाररसनीयरूपो रसः, स काव्यव्यापारैकगोचरो
बालप्रिया

गुणीभावः तस्याभावात् । नन्वनलङ्कारस्वरूपत्वे कथमलङ्कार ध्वनिरिति व्यवहार इत्यत अहा--पूर्वेति । ऽन्यायेन व्यपदिश्यतऽ इति सम्बन्धः । श्रमणः आर्हतसमयप्रविष्टः । तद्रूपताभावेन अलङ्काररूपत्वाभावेन । मात्रग्रहणेनेति । ऽवस्तुमात्रम्ऽ इति वृत्तिस्थमात्रशब्देनेत्यर्थः । रूपान्तरं अलङ्काररूपत्वं ।
     स्वप्नेऽपीति । स्वप्ने ह्यघटमानमपि घटते । न लौकिकव्यवहारपतित इति । न पुत्रजन्मादिहर्षतुल्यरूप इति भावः । शब्देति । शब्दैः गुणालङ्कारसुन्दरकाव्यशब्दैः । समर्प्यमाणाः सम्यक्तया रसाभिव्यञ्जनसमुचिततया अर्प्यमाणाः सहृदयहृदयमुकुरोदरे संक्रामिताः । अनेन विभावादेर्वास्तवसत्वमप्रयोजकमिति दर्सितं । स्वष्टमिदं दशरूपकादौ । अत एव शकुन्तलादीनामिव मालत्यादीनामपि विभावत्वादिकमुपपन्नं । न केवलं काव्यशब्दसमर्पमकृतमेव विभावत्वादिकं, किन्तु सहृदयहृदयसंवादकृतमपीत्याह--हृदयेति । शब्दसमर्प्यमाणाः हृदयसंवादसुन्दराश्च ये विभावानुभावाः तेषां समुचिताः प्राक्जन्मनः आरभ्य "न ह्येतच्चित्तवृत्तिशून्यः प्राणी भवती"त्युक्तदिशा आत्मनि विशेषतो निविष्टाः याः रत्यदीनां वासनाः सूक्ष्मरूपाः, तासामनुरागेण उद्बोधद्वारकेण रूषणेन । सुकुमारा रसचर्वणयोग्यतां गता या स्वस्य चर्वयितुः सहृदयस्य संवित्सम्यग्वेत्त्यनयेति संविन्मनः, तस्या य आनन्दमयः चर्वणारूपो व्यापारः तेन, रसनीयमास्वादनीयं रूपं यस्य सः । यथोक्तं मुनिना--"आस्वादयन्ति मनसे"त्यादि । यद्वा--सुकुमारः नित्यमनोहरः । स्वसंवित्स्वानुभवसिद्धः, आनन्दमयश्च यः चर्वणाव्यापारः तेनेत्यर्थः । रसध्वनिरितीत्यनन्तरमुच्यत इति शेषः ।


तथा ह्याद्यस्तावत्प्रभेदो वाच्याद्दूरं विभेदवान् । स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः । यथा--
भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण ।
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ।।


लोचनम्

रसध्वनिरिति, स च ध्वनिरेवेति, स एव मुख्यतयात्मेति ।
     यदूचे भट्टनायकेन--ऽअंशत्वं न रूपताऽ इति, तद्वस्त्वलङ्कारध्वन्योरेव यदि नामोपालम्भः, रसध्वनिस्तु तेनैवात्मतयाङ्गीकृतः, रसचर्वणात्मनस्तृतीयस्यांशस्याभिधाभावनांशद्वयोत्तीर्णत्वेन निर्णयात्, वस्त्वलङ्कारध्वन्यो रसध्वनिपर्यन्तत्वमेवेति वयमेव वक्ष्यामस्तत्र तत्रेत्यास्तां तावत् । वाच्यसामर्थ्याक्षिप्तमिति भेदत्रयव्यापकं

बालप्रिया

वस्त्वादिध्वनितो विशेषमाह---स चेति । चस्त्वर्थे । ध्वनिरेव व्यङ्घ्य एव, न वाच्य इत्येवकारार्थः । इतीति हेतौ । स एव रसध्वनिरेव । एवकारेण वस्त्वादिध्वनेर्व्यवच्छेदः । मुख्यतया आत्मेति । वस्त्वादिध्वनेरौपचारिकमेवात्मत्वं, न मुख्यमिति भावः । इतीत्यनन्तरमुच्यत इति शेषः ।
     तदिति । तद्वचनमित्यर्थः । यदि नामेति निश्चये सत्यनिश्चयवचनं । उपालंभः प्रतिक्षेपः, आत्मत्वनिषेध इति यावत् । भवेदिति शेषः । तद्वचनं वस्त्वलङ्कारध्वन्योरेवात्मत्वप्रतिषेधरूपं स्यान्न रसध्वनेरित्यर्थः । कुत इत्यत्राह--रसेति । कथमिदमवगतमित्यत्राह--रसचर्वणेत्यादि निर्णयादित्यन्तं । वस्त्वलङ्कारध्वन्योरात्मत्वप्रतिषेधोऽस्मदभिमत एवेति तत्सिद्धसाधनमित्याह--वस्त्विति । रसध्वनिपर्यन्तत्वमेवेति । वाच्ययोर्वस्त्वलङ्कारयोरिव ध्वन्यमानयोरपि तयोः विभावादिरूपत्वेन कस्यचिद्रसस्य व्यञ्जकतया पर्यवसानाद्रसध्वनिविश्रान्तत्वमेवेत्यर्थः । विश्रान्तधामत्वकृतं हि मुख्यमात्मत्वं, तच्च रसध्वनेरेव । वस्त्वलङ्कारध्वन्योस्तु ध्वन्यमानत्वकृतो वाच्यादुत्कर्ष इत्यमुख्यमात्मत्वं । तदपेक्षया चऽध्वनिः काव्यात्मेऽति सामान्येनोक्तिरिति भावः । ऽवाच्यसामर्थ्यक्षिप्तम्ऽ इति क्लीबैकवचनान्तत्वेन निर्देशाद्वस्तुमात्रमित्यस्यैव विशेषणमिति भ्रमः स्थादतस्तन्निवृत्तये व्याचष्टे---वाय्यसामर्थ्यक्षिप्तमिति । भेदत्रयेति । वाच्यसामर्थ्याक्षिप्तमित्यस्य लिङ्गवचनयोर्विपरिणामेमनालङ्कारा

लोचनम्

सामान्यलक्षणं । यद्यपि हि ध्वननं शब्दस्यैव व्यापारः, तथाप्यर्थसामर्थ्यस्य सहकारिणः सर्वत्रानपायाद्वाच्यसामर्थ्यक्षिप्तत्वं । शब्दशक्तिमूलानुरणनव्यङ्ग्येऽप्यर्थसामर्थ्यदेव प्रतीयमानावगतिः, शब्दसक्तिः केवलमवान्तरसहकारिणीति वक्ष्यामः । दूरं विभेदवानिति । विधिनिषेधौ विरुद्धाविति न कस्यचिदपि विमतिः । एतदर्थं प्रथमं तावेवोदाहरति---
ऽभ्रम धार्मिक विस्रब्धः स शुनकोऽद्य मारितस्तेन ।
गोदावरीनदीकूललतागहनवासिना दृप्तसंहेन ।।

बालप्रिया्

रसादय इत्यनयोरपि योजना कार्थेति भावः । ऽवाच्यसामर्थ्यक्षिप्तऽ इति पठि तु अर्थ इत्यस्य विशेषणं । सामान्यलक्षणमिति । वाच्यसामर्थ्याक्षिप्तत्वं वस्तुध्वन्यादिभेदत्रयानुगतो धर्म इत्यर्थः । नन्वभिधादिव्यापारवत्ध्वननव्यापारस्य शब्दाश्रयत्वाद्वस्त्वादिध्वनेरुक्तलक्षणमसम्भवीति शङ्कते--यद्यपीति । समाधत्ते--तथापीत्यादि । ननु शब्दशक्तिमूले ध्वनौ शब्दशक्तिरेव सहकारिणी नेतरेत्य आह--शब्देत्यादि । तर्हि मा भूच्छब्दशक्तिरित्यत्राह--शब्दशक्तिरिति । अवान्तरसहकारिणी अर्थसामर्थ्योपकारिणी । वक्ष्याम इति । शब्दशक्तिमूलप्रभेदनिरूपण इति शेषः । वृत्तौऽआद्यःप्रभेदऽ इति । विधिनिषेधादिरूपवस्तुमात्ररूपो भेद इत्यर्थः । दूरं विभेदवानिति । अत्यर्थं भिन्न इत्यर्थः । आत्यन्तिकं भेदमुपपादयति लोचने--विधीत्यादि । विधिनिषेधौ एकस्याः क्रियायाः विधिर्निषेधश्च । विरुद्धाविति । विरोधो नाम युगपदेकत्र वृत्तित्वाभावो, भिन्नत्वं वा । इतीति प्रकारे, इत्यत्रेत्यर्थः । विपरीता मतिर्विमतिः । एतदर्थे अविमत्यर्थं । विमत्यभावाद्धेतोरिति यावत् । यद्वा--एतदर्थे आत्यन्तिकभेदप्रदर्शनार्थं । तावेव वाच्यव्यङ्ग्यभूतौ विधिनिषेधावेव । यथेत्यस्य व्याख्यानं-उदाहरतीति । अन्यत उद्धृत्य तत्प्रतिपादकवाक्यानि आहरति प्रबन्धमिमं प्रापयतीत्यर्थः ।
     छायां पठति--भ्रमेत्यादि । वस्तब्धमिति च पाठः । ऽगोदानदीकच्छनिकुञ्जवासिनेऽति छाया । तत्र गोदापदस्य गोदावरीति, कच्छादिपदयोः कूललतागहनेति च विवरणं

लोचनम्

कस्याश्चित्सङ्केतस्थानं जीवितसर्वस्वायमानं धर्मिकसञ्चरणान्तरायदोषात्तदवलुप्यमानपल्लवकुसुमादिविच्छायीकरणाच्च परित्रातुमियमुक्तिः । तत्र स्वतःसिद्धमपि भ्रमणंश्वभयेनापोदितमिति प्रतिप्रसवात्मको निषेधाभावरूपः, न तु नियोगः प्रैषादिरूपोऽत्र विधिः; अतिसर्गप्राप्तकालयोर्ह्ययं लोट् । तत्र भावतदभावयोर्विरोधाद्द्वयोस्तावन्न युगपद्वाच्यता,

बालप्रिया

वक्तृविशेषानुक्तौ व्यङ्ग्यप्रतीत्यनुदयमाशङ्क्यावतारिकामाह---कस्याश्चिदित्यादि । परित्राणे हेतुः--जीवितसर्वस्वायमानमिति । अतिप्रियात्वादिति भावः । सञ्चरणेन योऽन्तरायः चौर्यसुरतस्य खल्पकालविच्छेदरूपो विघ्नः तद्रूपो दाषस्तस्मात् । दोषान्तरमप्याह---तदवेति । तेन धार्मिकेण अवलुप्यमानमपह्लियमाणं पल्लवकुसुमादि, तेन यद्विच्छायीकरणं निश्शेभतापादनं, तस्मात् । तत्रेति । तथा सतीत्यर्थः । स्वत इत्यादि । अत्र भ्रममरूपे वाक्यार्थेऽविधिर्निषेधाभावरूपः न तु प्रैषादिरूपो नियोगऽ इति सम्बन्धः । ननु किमिति मुख्य एव न स्यादित्यत्राह--प्रतिप्रसवात्मक इति । अत्र हेतुमाह--स्वत इत्यादि । श्वभयेन कर्त्रा । अपोदितं प्रतिषिद्धं । इतीति हेतौ । यथोक्तंऽप्राप्ते तु प्रतिषेधे हि प्रतिप्रसवयोगिताऽ इति । निषेधाभावरूपो विधिरित्यत्र हेतुत्वेन लोडर्थमाह--अतिसर्गेति ।
     अयमर्थः--स्वतस्सिद्धं भ्रमणं श्वभीतिर्निषेधति स्म । प्रतिषिद्धस्य भ्रमणस्य प्रतिषेधकाभावः सम्प्रति कथ्यते । अतोऽयं प्रतिप्रसवः । प्रतिषेधनिवर्तनं हि सः । अतो भ्रमणस्येदानीं न कश्चित्प्रतिबन्ध इति निषेधाभावोऽत्र विधेः, नतु नियोगः । न खल्वेषा स्वैरिणी राजेव भ्रमणविधिं करोति, श्वभयमिव भ्रमणनिषेधं वा । किं तर्हि? भ्रमणप्रतिषेधकाभावं कथयति । ततो भ्रमणं विधीयमानताकोटिं निविशते । तस्मादयं लोट्कामचारभ्यनुज्ञारूपातिसर्गे, प्राप्तकालार्थश्चायं लोडिति । अथ भ्रमणनिषेधस्य व्यङ्ग्यत्वं व्यवस्थापयिष्यन्वाच्यत्वादिकं निराकरोति--तेत्रेत्यादिना । तत्र तथाविधवचने । द्वयोः भ्रम, मा भ्रमीरिति विधिनिषेधरूपयोरर्थयोः । युगपतेकदा ।

लोचनम्

न क्रमेण, विरम्य व्यापारभावात् । ऽविशेष्यं नाभिधा गच्छेत्ऽ इत्यादिनाभिधाव्यापारस्य विरम्य व्यपारासंभवाभिधानात् ।
     ननु तात्पर्यशक्तिरपर्यवसिता विवक्षया दृप्तधार्मिकतदादिपदार्थानन्वयरूपमुख्यार्थबाधबलेन विरोधनिमित्तया विपरीतलक्षणया च वाक्यार्थीभूतनिषेधप्रतीतिमभिहितान्वयद्दशा करोतीति शब्दशक्तिमूल एव सोऽर्थः । एवमनेनोक्तमिति हि व्यवहारः, तन्न

बालप्रिया

न वाच्यता न अभिधेयता । अत्र हेतुः--भावेति । घटतदभावयोरिव तयोर्विरोधादित्यर्थः । विरुद्धयोस्तयोर्युगपद्बुद्धिपथानारोहित्वादिति । यावत् । न क्रमेणेति । वाच्यतेत्यनुषज्यते । अत्र हेतुमाह--विरम्य व्यापाराभावादिति । अभिधाया विरम्य पुनः सम्भवाभावादित्यर्थः । एकश्शब्द एकमर्थमभिधया बोधयित्वा पुनस्तया अर्थान्तरं न बोधयति यतः, तस्मादिति यावत् । अत्र प्रमाणमाह--विशेष्यमित्यादि । आदिपदेनऽक्षीणशक्तिर्विशेषणऽ इत्यस्य संग्रहः । अभिधा गवादिपदाभिधा । विशेषणो गोत्वादावर्थे । क्षीणा विरता । शक्तिः बोधजननसामर्थ्यं यस्याः सा तथा सती । विशेष्यं गवादिव्यक्तिरूपं । न गच्छेत्न बोधयेदिति तदर्थः । अतश्च विधिनिषेधयोरेक एवाभिधेय इति भावः ।
      यद्येवं तर्हि निषेधस्यैवात्र बोधो भवत्विति शङ्कते---नन्वित्यादि । यत्र तात्पर्यं तद्धि वाक्यार्थः । तात्पर्यविषयश्चात्र भ्रमणनिषेधः । अतः स एव वाक्यार्थः । तेन तस्य विवक्षया विवक्षितत्वाद्धेतोः । अपर्यवसिता भ्रमणविधौ पर्यवसानमनाप्नुवती । तात्पर्यशक्तिः पदनिष्ठा विवक्षितार्थप्रतीतिजननसामर्थ्यरूपतात्पर्यात्मिका शक्तिः । वाक्यार्थीभूतस्य निषेधस्य प्रतीतिं करोति । केन व्यापारेणेत्यत्राह--लक्षणयेति । लक्षणानिमित्तमाह--विरोधेति । विरोधरूपसम्बन्धनिमित्तयेत्यर्थः । ऽवाच्यार्थस्य च वाक्यार्थे सम्बन्धानुपपत्तितःऽ इत्युक्तं मुख्यार्थबाधं दर्शयति--दृप्तेत्यादि । भ्रमेत्यस्य मुख्यार्थकत्वे दृप्तत्वाद्यभिधानस्य वैयर्थ्यापत्त्या दृप्तादिपदार्थघटितवाक्यार्थे भ्रमणविधिरूपमुख्यार्थस्य योऽनन्वयः अन्वयोपपत्त्यभावः, तद्रूपो यो मुख्यार्तबाधस्तस्य बलेन सहकारेणेत्यर्थः । अभिहितान्वयदृशेति । अभिहितान्वयदर्शनेनेत्यर्थः । अभिहितान्वयवादिमतानुरोधेनेति यावतत् । फलितमाह--इतीत्यादि । शब्दशक्तिरभिधा तन्मूलः । तात्पर्यशक्तिलक्षणासक्त्योरभिधाश्रयत्वेनावस्थानादिति भावः । वक्ष्यते चऽअभिधापुच्छभूता लक्षणेऽति । सोऽर्थ इति । भ्रमणनिषेध इत्यर्थः । अत्र प्रमाण

लोचनम्

वाच्यातिरिक्तोऽन्योऽर्थ इति ।
     नैतत्; त्रयो ह्यत्र व्यापाराः संवेद्यन्ते--पदार्थेषु सामान्यात्मस्वभिधाव्यापारः, समयापेक्षयार्थावगमनशक्तिर्ह्यभिधा । समयश्च तावत्येव, न विशेषांशे, आनन्त्या द्व्यभिचाराच्चैकस्य । ततो विशेषरूपे वाक्यार्थे तात्पर्यशक्तिः परस्परान्विते,ऽसामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हिऽ इति न्यायात् ।

बालप्रिया

माह---एवमित्यादि । उक्तमिति हि व्यवहार इति । न तु व्यञ्जितमिति व्यवहार इति भावः । उपसंहरति---तन्नेति । वाच्यातिरिक्तः अभिधेयातिरिक्तः ।
     विपरीतलक्षणयात्र निषेधप्रतीतिर्न सम्भवति, तस्या अनवकासादित्याशयेन मतमेतत्प्रत्याचष्टे--नैतदित्यादि । एतन्न एतन्मतं युक्तं नेत्यार्थः । कुत इत्यत्राह--त्रय इत्यादि । अत्र लोकव्यवहारे । त्रयो व्यापाराः अभिधातात्पर्यलक्षणाः । शब्दस्येति । शेषः । संवेद्यन्तेज्ञायन्ते । आद्यस्य व्यापारस्य विषयमाह--पदार्थेष्विति । सामान्यात्मसु गोत्वादिसामान्यरूपेषु । अभिदाव्यापार इति । गवादिपदानामिति शेषः । स्वरूपमाह-समयेत्यादि । समयापेक्षया सङ्केतग्रहणसहकारेण । ऽसमयापेक्षेऽति च पाठः । समयं सङ्केतग्रहणमपेक्षत इति तदर्तः । अर्थावगमनशक्तिः अर्थबोधनसामर्थ्यं । तावत्येव सामान्यात्मकपदार्थ एव । एवकारव्यवच्छेद्यमाह--नेत्यादि । विशेषांशे व्यक्त्यात्मनि । कुत इत्यत्राह-आनन्त्यादिति । विशेषांशानामनन्तत्वादित्यर्थः । तथा च सर्वस्मिन्विशेषे समयः कर्तुं न शक्यः । अनन्तश्च स्यादिति भावः । हेत्वन्तरमप्याह-व्यभिचाराच्चैकस्येति । एकैकस्य विशेषांशस्य मिथो व्यभिचाराच्चेत्यर्थः । गोपदेन यस्य गोव्यक्तिविशेषस्य बोधो जायते, तस्मिन्नितरगोव्यक्तिगतसमयो नास्तीति रीत्या व्यभिचारो बोध्यः । यद्वा--समयश्चेत्यत्र समयशब्दस्य सङ्केतग्रह इत्यर्थः । सर्वस्मिन्विशेषे सङ्केतग्रहस्य व्यवहाराङ्गत्वे दोषमाह--आनन्त्यादिति । विशेषाणामनन्तत्वात्सर्वस्मिन्विशेषे सङ्केतग्रहो न सम्भवतीत्यर्थः । तर्ह्येकस्मिन्नेव विशेषे तद्ग्रहो व्यवहाराङ्गमस्त्वित्यत्राह--व्यभिचाराच्चैकस्येति । अगृहीतसङ्केतकस्यापि गवादिव्यक्तिविशेषस्य गवादिव्यक्तिविशेषस्य गवादिपदेन बोधोदयात्तत्र सङ्केतग्रहस्य व्यभिचाराच्चेत्यर्थः । अथ द्वितीयं व्यापारं सविषयं दर्शयति--तत इत्यादि । ततः उक्ताद्धेतोः । परस्परान्विते आकाङ्क्षावशाद्गुणप्रधानभावेन मिथस्संबद्धे । विशेषरूपे सामान्यात्मकततत्पदार्थाक्षिप्तत्तह्यक्तिरूपविशेषघटिते । वाक्यार्थे विषये । तात्पर्यशाक्तिः स वाक्यार्थः परःप्रधानतया प्रतिपाद्यः येषां तानि तत्पराणि तेषां भावस्तात्पर्य तद्रूपा शक्तिः, पदानामिति शेषः । आक्षेपं बोधयन्नाह--सामान्यानीत्यादि । सामान्यानि पदैरभिहिताः सामान्यरूपा अर्थाः अन्यथा विशेषाणामनवगमने । असिद्धेः क्रियाद्यन्वयासिद्धेः । विशेषं स्वाश्रयव्यक्तिरूपं गमयन्ति । स्वाविनाभावाद्बोधयन्ति । ऽसामान्यानन्यथेऽति पाठे तु

लोचनम्

तत्र च द्वितीयकक्ष्यायांऽभ्रमेऽति विध्यतिरिक्तं न किञ्चित्प्रतीयते, अन्वयमात्रस्यैव प्रतिपन्नत्वात् । न हिऽगङ्गायां घोषःऽऽसिंहो बटुःऽ इत्यत्र यथान्वय एव बुभूषन्प्रतिहन्यते, योग्यताविरहात्; तथा तव भ्रममनिषेद्धा स श्वा सिंहेन हतः । तदिदानीं भ्रमणनिषेधकारमवैकल्याद्भ्रमणं तववोचितमित्यन्वयस्य काचित्क्षतिः । अत एव मुख्यार्थबाधा नात्र शङ्क्येति न विपरीतलक्षणाया अवसरः ।
     भवतु वासौ । तथापि द्वितीयस्थानसंक्रान्ता तावदसौ न भवति । तथा हि-मुख्यार्थबाधायां लक्षणायाः प्रक्लॄप्तिः । बाधा च विरोधप्रतीतिरेव । न चात्र पदार्थानां स्वात्मनि विरोधः । परस्परं विरोध इति चेत्--सोऽयं तर्ह्यन्वये विरोधः प्रत्येयः ।

बालप्रिया

पदानीति शेषः । सामान्यानां स्वाभिहितसामान्यरूपाणामर्थानामन्यथासिद्धेरविनाभावादित्यर्थः । एवमुपनिबद्धपीठिको लक्षणां निराकर्तुमारभते--तत्र चेत्यादि । तत्र तात्पर्यशक्तिविषयभूतायां । द्वितीयकत्त्यायां अभिधाव्यापारविषयापेक्षया द्वितीयस्यां कक्ष्यायां । भ्रमेत्यादिवाच्यो भ्रमणविधेरेव प्रतीयते, नान्यन्निषेधरूपं किञ्चिदित्यर्थः । अन्वयमात्रस्येति । वाक्यार्थमात्रस्येत्यर्थः । एवकारो मात्रशब्दार्थस्फुटीकरणार्थः । एतह्यवच्छेद्यं विध्यतिरिक्तमित्यादि पूर्वोक्तं बोध्यं । प्रतिपन्नत्वादिति । ज्ञातत्वादित्यर्थः । उक्तमुपपादयति---न हीत्यादि । ऽइत्यन्वयस्य न हि काचित्क्षतिऽरिति सम्बन्धः । गङ्गायामितायदि वैधर्म्येणोदाहरणं । अन्वय इति वाच्यवर्मिणोरन्वय इत्यर्थः । बुभूषन्नेव भवितुमारब्धवानेव । प्रतिहन्यते वाधितो भवति । योग्यताविरहादिति । गङ्गादिपदवाच्यधर्मिणः स्रोतोविशेषादेः घोषादिना सहाघाराधेयभावसम्बन्धादेरभावादित्यर्थः । क्षतिः बाधा । फलितमाह-अत एवेत्यादि । अत एव अन्वयक्षतेरभावादेव ।
     अथ लक्षणाप्रयोजनविषये ध्वनिव्यापारं प्रदर्शयिष्यन्नभ्युपगम्यापि लक्षणान्तस्याः पूर्वपक्ष्यभिमततात्पर्यशक्तिविषयकक्ष्यानिवेशं निराकुर्वन्नाह--भवतु वेत्यादि । असौ लक्षणा । द्वितीयस्थानसङ्कान्तेति । तात्पर्यकक्ष्यानिविष्टेत्यर्थः । तावदिति सम्प्रतिपत्तौ, वाक्यालङ्कारे वा । एतदेवोपपादयति-तथाहीत्यादिना । लक्षणायाः प्रक्लॄप्तिरिति । लक्ष्यार्थोपस्थितिकल्पनेत्यर्थः । बाधा चेति । बाधापदार्थश्चेत्यर्थः । ऽसा चेऽति क्वचित्पाठः । विरोधप्रतीतिरेवेति । मुक्यार्थबाधा नाम मुख्यार्थस्य यो विरोधस्तत्प्रतीतिरेवेत्यर्थः । एककारेण नात्र विवाद इति दर्शयति । उक्ती विरोधः पदार्थानां स्वात्मन्युत परस्परमिति विकल्पं हृदि निधायाद्यं निराचष्टे-न चेत्यादि । चस्त्वर्थः । अत्र लक्षणस्थले । ऽअत्र विरोधस्तु पदार्थानां स्वात्मनि नऽति सम्बन्धः । स्वात्मनि स्वेन सह । द्वितीयमाशङ्कते-परस्परमिति । पदार्यानामित्यनुषङ्गः । समाधत्ते-तोऽयमित्यादि

लोचनम्

न चाप्रतिपन्नेऽन्वये विरोधप्रतीतिः, प्रतिपत्तिश्चान्वयस्य नाभिधाशक्त्या, तस्याः पदार्थप्रतिपत्त्युपक्षीणाया विरम्याव्यापारातिति तात्पर्यशक्त्यैवान्वयप्रतिपत्तिः ।
     नन्वेवंऽअङ्गुल्यग्रे करिवरशतम्ऽ किन्तु प्रमाणान्तरेण सोऽन्वयः प्रत्यक्षादिना बाधितः प्रतिपन्नेऽपि शुक्तिकायां रजतमिवेति तदवगमकारिणो वाक्यस्याप्रामाण्यं । ऽसिंहोमाणवकःऽ इत्यत्र द्वितीयकक्ष्यानिविष्टतात्पर्यशक्तिसमर्पितान्वयबाधकोल्लासानन्तरमभिधातात्पर्यशक्तिद्वयव्यतिरिक्त

बालप्रिया

तर्हि सः लक्षणमूलत्वेन प्रसिद्धः । अयं भवद्भिरभ्युपगतो विरोधः । अन्वेये पदार्थानां परस्परान्वये प्रत्येयः ज्ञातव्यः । न चेत्यादि । अप्रतिपन्ने अज्ञाते । ऽविरोधप्रतीतिर्न चेऽत्यन्वयः । धर्मिण्यप्रतीते धर्मरूपस्य विरोधस्य तत्र प्रतीत्ययोगादिति भावः । तर्हि प्रतिपन्नेऽस्त्वित्यत्राह--प्रतिपत्तिश्चेत्यादि । अव्यापारादिति । व्यापारास्भवादित्यर्थः । मुख्यार्थबाधा नाम लक्षणास्थलेऽसिहो माणवकऽ इत्यादौ सिंहादिपदमुख्यार्थस्य माणवकपदार्थेन सहाकाङ्क्षातात्पर्यवशाद्भासमानस्तादात्म्यादिसंसर्गरूपो योऽन्वयस्तस्मिन्वरुद्धत्वस्य प्रतीतिः । विरुद्धत्वं च तस्मिन्नन्वये सिंहादिप्रतियोगिकत्वस्य माणवकाद्यनुयोगिकत्वस्य च द्वयोरभावेन तद्रूपं बाधितत्वं । अत एव वक्तृविवक्षितत्वाभावस्तदित्यपि केचित् । भवति च सत्यपि बाधनिश्चये वाक्यजन्यो बोध इति भावः ।
     प्रसङ्गादाशङ्कते-नन्वेवमित्यादि । एवं बाधितस्याप्यन्वयस्य वाक्यात्प्रतीत्यङ्गीकरि । इष्टापत्या समाधत्ते-किन्नेत्यादि । किं न भवति भवत्येव । वैधर्म्येण दृष्टान्तमाह-दशेत्यादि । "दशदाडिमानि षडपूपा" इत्यादि महाभाष्योदाहृतवाक्यसमुदायस्थल इवेत्यर्थः । तत्र भवतिक्रियाध्याहारेण प्रत्येकं दशदाडिमानीत्यादि तत्तद्वाक्यादन्वयबोधे सत्यपि सर्ववाक्यार्थानां मिथः संसर्गावगाह्येकविशिष्टार्थबोधात्मकान्वयप्रतीतिराकाङ्क्षादिकारणाभावान्न भवति, प्रकृते च तत्सत्वादन्वयप्रतीतिर्भवत्येवेत्यर्थः । विशेषमाह-किन्विति । ऽप्रतिपन्नोऽपि सोऽन्वयः शुक्तिकायां रजतमिंव प्रत्यक्षादिना प्रमाणान्तरेण बाधितऽ इति सम्बन्धः । इतीति हेतौ । अन्वयस्य बाधितत्वादित्यर्थः । तत्यज्ञानस्य । ननु तर्हिऽसिंहो माणवकऽ इत्यादेरप्यप्रामाण्यं स्यादित्यत्राह--सिंह इत्यादि । शक्त्या समर्पिते बोदिते अन्वये, बाधरकस्य विरोधस्य उल्लासः प्रतीतिः तदनन्तरं । तद्वाधकविधुरीति । तद्वाधकस्य अन्वयबाधकस्य विधुरीकरणे

लोचनम्

तावत्तृतीयैव शक्तिस्तद्बाधकविधुरीकरणनिपुणा लक्षणाभिधाना समुल्लसति ।
     नन्वेवंऽसिंहो वटुःऽ इत्यत्रापि काव्यरूपता स्यात्; ध्वननलक्षणस्यात्मनोऽत्रापि समनन्तरं वक्ष्यमाणतया भावात् । ननु घटेऽपि जीवव्यवहारः स्यात्; आत्मनो विभुत्वेन तत्रापि भावात् । शरीरस्य खलु विशिष्टाधिष्टानयुक्तस्य सत्यात्मनि जीवव्यवहारः, न यस्य कस्यचिदिति चेत्-गुणालङ्कारौचित्यसुन्दरशब्दार्थशरीरस्य सति ध्वननाख्यात्मनि काव्यरूपताव्यवहारः । न चात्मनोऽसारता काचिदिति च समानं । न चैवं भक्तिरेव ध्वनिः, भक्तिर्हि लक्षणाव्यापारस्तृतीयकक्ष्यानिवेशी । चतुर्थ्या तु कक्ष्यायां ध्वननव्यापारः । तथा हि-त्रितयसन्निधौ लक्षणा प्रवर्तत इति तावद्भवन्त एव वदन्ति । तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमामान्तरमूला । निमित्तं च यदबिधीयते सामीप्यादि तदपि प्रमाणान्तरावगम्यमेव ।

बालप्रिया

बाधने निपुणा समर्था । समुल्लसति प्रवर्तते । तथा च तत्र लक्ष्यार्थस्य न बाधितत्वमिति भावः ।
     लक्षणाङ्गीकारेऽतिप्रसङ्गमाशङ्कते--नन्वेवमिति । ऽआत्मनः अत्रापि भावात्ऽ सत्वादिति सम्बन्धः । प्रतिबन्द्या उत्तरयति---ननु घटेऽपीति । तत्परिहारमाह--शरीरस्येति । विशिष्टेति । करचरणाद्यवयवैर्विशिष्टं यदधिष्टानं संस्थानं तेन युक्तस्य । तुल्यमुत्तरमस्माकमित्याह---गुणेति । गुणालङ्काराणामौचित्येन रसविषयकेण सुन्दरौ शब्दार्थावेव शरीलं तस्य । न चेत्यादि । इति च समानमिति । यथाऽत्मनो निस्सारघटादिसम्बन्धित्वेऽपि नासारता काचित्, तता ध्वननाख्यात्मनो लौकिकवाक्ये सत्त्वेऽपि नासारता कापीत्यर्थ । नन्वेवं भक्तिरेव ध्वनिःस्यादित्याशङ्क्य परिहरति--न चेवमित्यादि । एवं लक्षणास्थले ध्वननसद्भावे सति । ऽध्वनिर्न चेऽत्यान्वयः । अत्र हेतुमाह-भक्तिर्हिति । भिन्नकक्ष्यानिविष्टत्वादुभयोर्विषयभेदो यतः, तस्मादित्यर्थः । त्रितयसन्निधाविति । मुख्यार्थबाधादित्रये सतीत्यर्थः । भवन्त एव वदन्तीति । लक्षणाध्वननयोरभेदं वदन्तो भवन्त एवाहुरित्यार्थः । ऽभवतां मतम्ऽ इति च पाठः । मुख्यार्थबाधादिषु त्रिष्वन्त्यस्य ध्वनिव्यापारमात्रगम्यत्वं साधयिष्यन्नादावाद्ययोरन्यसिद्धत्वमाह--तत्रेत्यादिना । अभिधीयत इति । "अभिधेयेन सामीप्यादि" त्यादिवचनेनोच्यत इत्यर्थः ।
     एवं बाधानिमित्तयोरन्यविषयत्वमुक्त्वा प्रयोजनस्यानन्यविषयत्वं स्वरूपकथनेनाह--यत्त्वित्यादि ।

लोचनम्

     यत्त्विदं घोषस्यातिपवित्रत्वशीतलत्वसेव्यत्वादिकं प्रयोजनमशब्दान्तरवाच्यं प्रमाणान्तराप्रतिपन्नम्, वटोर्वा पराक्रमातिशयशालित्वं, तत्र शब्दस्य न तावन्न व्यापारः । तथाहि--तत्सामीप्यत्तद्धर्मत्वानुमानमनैकान्तिकम्, सिंहशब्दवाच्यत्वं च वटोरसिद्धं । अथ यत्र यत्रैवंशब्दप्रयोगस्तत्र तत्र तद्धर्मयोग इत्यनुमानम्, तस्यापि व्याप्तिग्रहणकाले मौलिकं प्रमामान्तरं वाच्यम्, न चास्ति । न च स्मृतिरियम्, अननुभूते तदयोगात्,

बालप्रिया

ऽयत्तु अतिपवित्रत्वादिकं पराक्रमातिशयशालित्वं वा तत्रेऽति सम्बन्धः । घोषस्येति । इदं चातिपवित्रत्वादेः तीरे प्रत्यायानद्वारा घोषऽपि तत्प्रत्यायनमस्ति तस्यैव परमतात्पर्यविषयत्वादित्याशयेनोक्तं । यद्वा--घोषाधिकरमस्येति तदर्थः । अशब्दान्तरवाच्यं लाक्षणिकशब्दातिरिक्तशचब्दाबोध्यं । प्रमाणान्तरेति । शब्तातिरिक्तप्रमाणेत्यर्थः । वटोर्वेति । प्रयोजनमित्यादित्रयमनुषज्यते । ननु तर्हि शब्देनापि न तत्प्रतीतिरित्यलं तह्यापारान्तरगवेषणयेत्यत आह--तत्रेत्यादि । तत्र पूर्वोक्ते प्रयोजने । शब्दस्य न तावन्न व्यापार इत्युक्तं द्रढयति--तथां हीत्यादिना । तत्सामीप्यादिति । तीरं गङ्गतातिपवित्रत्वादिधर्मवत्, गङ्गासामीप्यात् । मुनिजनादिवदित्यनुमानंमित्यर्थः । अनैकान्तिकं गङ्गातटादिगतशिरः--कपालादौ व्यभिचारि । सिंहेति । वटुः सिंहधर्मवान्सिंहशब्दवाच्यत्वात्, सम्प्रतिपन्नसिंहवदित्यत्र सिंहशब्दवाच्यत्वरूपो हेतुः स्वरूपासिद्ध इत्यरथः । अनुमानान्तरमाशङ्क्य निराचष्टे-अथेत्यादि । एवमिति । लक्षणयेत्यर्थः । इत्यनुमानमिति । तटः गङ्गशब्दवाच्यवृत्तिधर्मवान्लक्षणया गङ्गशब्दप्रयोगविषयत्वात्; वटुः सिंहशब्दवाच्यवृत्तिधर्मवान, लक्षणया सिंहशब्दप्रयोगविषयत्वात्; यो लक्षणया यत्पदप्रयोगविषयः, स तत्पदवाच्यवृत्तिधर्मवानित्यादिरत्र प्रयोगो बोध्यः । यद्वा-इत्यनुमानमिति । एवं व्याप्तिविशिष्टो हेतुरित्यर्थः । तस्यापीत्यादि । तस्मिन्यद्व्याप्तिग्रहणं तत्काले । मौलिकमिति । मूले अनुमानाङ्गव्याप्तिग्रहणरूपे साधनतया भवमित्यर्थः । प्रामामान्तरं प्रत्यक्षादि । न चास्तीति । प्रमाणान्तरमित्यनुषज्यते । सामान्यमुखव्याप्त्यधीनानमितिस्थले प्रकृतसाध्यहेत्वोः तत्सजातीययोर्वा प्रत्यक्षादिना व्याप्तिग्रहणं वाच्यं । तच्च लक्षणास्थले व्यभिचारशङ्क्या उत्पत्तुन्नार्हतीत्यर्थः । न चेति । इयं पावनत्वादिप्रयोजनज्ञानं

लोचनम्

नियमाप्रतिपत्तेर्वक्तुरेतद्विवक्षितमित्यध्यवसायाभावप्रसङ्गाच्चत्यस्ति तावदत्र शब्दस्यैव व्यापारः । व्यापारश्च नाभिधात्मा, समयाभावात् । न तात्पर्यात्मा, तस्यान्वयप्रतीतावेव परक्षयात् । न लक्षणात्मा, उक्तादेव हेतोः स्खलद्गतित्वाभावात् । तत्रापि हि स्खलद्गतित्वे पुनर्मुक्यार्थबादा निमित्तं प्रयोजनमित्यनवस्था स्यात् । अत एव यत्केनचिल्लक्षितलक्षणेति नाम कृतं तह्यसनमात्रं । तस्मादभिघातात्पर्यलक्षणाव्यतिरिक्तश्चतुर्थोऽसौ

बालप्रिया

ऽस्मृतिर्न चेऽत्यन्वयः । न च स्मृतिप्रतिपन्नमेतदित्यर्थः । अत्र हेतुमाह--अननुभूते तदयोगादिति । ननु तत्स्मृतिः कथञ्चित्सम्पाद्येत्यतो हेत्वन्तरमाह---नियमेत्यादि । नियामकस्य कस्यचिदनुपलंभादेतदेव प्रयोजनमत्र विवक्षितमित्यनिश्चयप्रसंगाच्चेत्यर्थः । व्यञ्जनव्यापारोपगमे तु सहकारिविशेषान्नियमः सेत्स्यतीति भावः । निगमयति--इतीत्यादि । इतीति हेतौ । यत एवं नान्यगम्यं प्रयोजनं तत इत्यर्थः । अत्रेति । पावनत्वादौ प्रयोजन इत्यर्थः । अथ व्यञ्जनव्यापारस्य पारिशेष्यात्सिद्धिं दर्शयितुमाह-व्यापारश्चेत्यादि । अत्रेत्यस्यानुषङ्गः । समयाभावात्गङ्गादिशब्दस्य पावनत्वादौ सङ्केताभावात् । अन्वयप्रतीताविति । प्राथमिकवाच्यार्थान्वयबोध इत्यर्थः । उक्तादेवेत्यादि । पूर्वोक्तो हेतुर्मुख्यार्थबाधादिः, तस्माद्यत्स्खलद्गतित्वं स्कलन्ती प्रतिहन्यमाना गतिरवबोधनव्यापारो यस्य शब्दस्य तस्य भावस्तत्त्वं । स्वार्थाद्भ्रंश इति यावत् । तस्याभावादित्यर्थः । गङ्गादिशब्दानां हि मुख्यार्थबाधादिवसात्तीरादववगमयितव्ये स्वार्थात्स्रोतोविशेषादेर्यथा भ्रंशः, तथा प्रयोजने पावनत्वादाववगमयितव्ये स्वार्थात्तीरादेर्भ्रंशो नास्ति, यतस्तस्मादित्यर्थः । यद्वा--उक्तादेव हेतोरिति । न्यिमाप्रतिपत्तेरित्यादिपूर्वोक्ताद्धेतोरित्यर्थः । हेत्वन्तरं चाह-स्खलद्गतित्वाभावादिति । अस्यार्थः पूर्ववद्बोध्यः । अभ्युपगम्यापि दोषमाह--तत्रापीत्यादि । प्रयोजनं निमित्तीकृत्यापि लक्ष्यार्थात्स्खलद्गतित्वेऽङ्गीक्रियमाणे पुनः पुनरपि लक्षणामूलपरिकल्पनयालक्षणानवस्था स्यादित्यर्थः । व्यापारश्च नाभिधात्मेत्याद्येतदन्तग्रन्थस्य विवरणरूपः-"नाभिधा, समयाभावादि"त्यादिकाव्यप्रकाशग्रन्थ इति द्रष्टव्यं । गङ्गादिशब्देन तीरादौ लक्षिते पुनः पावनत्वादिप्रयोजनमपि लक्ष्येत । अत एव तल्लक्षणायाः लक्षितलक्षणेति नामेति केचित् । तन्मतं निराकरोति-अत एवेत्यादि । अत एव अनवस्थादिदोषादेव । नाम कृतमिति । प्रयोजनविषयवल्यापारस्येति शेषः । व्यसनमात्रं ध्वनिनिराकरणनिर्बन्धमात्रं तद्धेतुकमिति यावत् । वक्ष्यते च "तेनायं लक्षतलक्षणाया न विषयः" इति । तस्मादित्यादि । ध्वननेति । ध्वननादिरूपाः

लोचनम्

व्यापारो ध्वननद्योतनव्यञ्जनप्रत्यायनावगमनादिसोदरव्यपदेसनिरूपितोऽभ्युपगन्तव्यः । यद्वक्ष्यति--
ऽमुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनं ।
यदुद्दिस्य फलं तत्र शब्दो नैव स्खलद्गतिः ।। इति ।।
     तेन समयापेक्षा वाच्यावगमनशक्तिरिभिधाशक्तिः । तदन्यथानुपपत्तिसहायार्थावबोधनशक्तिस्तात्पर्यशक्तिः । मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणाशक्तिः । तच्छक्तित्रयोपजनितार्थावगममूलजाततत्प्रतिभासपवित्रितप्रतिपत्तृप्रतिभासहायार्थद्योतनशक्तिर्ध्वननव्यापारः;

बालप्रिया

सोदराः पर्यायाश्च ये व्यपदेशाः शब्दाः तैः निरूपितो निश्चित इत्यर्थः । ध्वननादिव्यपदेशः प्रसिद्धः । व्यपदेशश्च व्यपदेश्यं विना न तिष्टतीति तच्छ्रवणान्यथानुपपत्तिनिरूपणीयोऽयमिति यावत् । अभ्युपगन्तव्यः अनिच्छद्भरपीति शेषः । प्रयोजनांशे न लक्षणेत्यत्र मूलसम्मतिमाह---यद्वत्त्यतीति ।

     एवं प्रयोजनविषयकं ध्वननव्यापारं प्रसाध्य तमेवेतरव्यापारत्रयाद्भेदेन स्पष्टयितुं व्यापाराणां स्वरूपं दर्शयति--तेनेत्यादि । समयापेक्षेति । तदर्थसङ्केतग्रहणसहकारेण तदर्थबोधनसामर्थ्य पदनिष्टमभिधा नाम शक्तिरित्यर्थः । सामर्थ्यं नाम शक्त्यपरपर्यायं पदार्थान्तरमिति बोध्यं । तदन्यथेति । तस्या अभिधायाः, अन्यथा आत्मानं विना अनुपपत्तिरसम्भवः प्रयोजनाभावादिना सहायो यस्याः सा । केचित्तु तस्य विशेषरूपस्यान्वितार्थस्य अन्यथा तात्पर्याभावे या अनुपपत्तिः, तत्सहायेति व्याचक्षते । अर्थेति । संसृष्टार्थेत्यर्थः । मुख्येति । मुख्यार्थबाधादित्रयं यत्सहकारि तदपेक्षत इति तथा । तच्छक्तीति । तत्पूर्वोक्तं यत्शक्तित्रयमभिधादिकं तेन, उपजनितः यदर्थानां पदार्थवाक्यार्थलक्ष्यार्थानामवगमः बोधः, तस्मादेव मूलाज्जाता, तत्प्रतिभासेन अभिधेयाद्यर्थानां निरन्तरप्रतीत्या पवित्रितस्य संस्कारलक्षणातिशयवत्तया
लोचनम्

स च प्राग्वृत्तं व्यापारत्रयं न्यक्कुर्वन्प्रधानभूतः काव्यात्मेत्याशयेन निषेधप्रमुखतया च प्रयोजनविषयोऽपि निषेधविषय इत्युक्तं । अभ्युपगममात्रेण चैतदुक्तम्; न त्वत्र लक्षणा, अत्यन्ततिरस्कारान्यसंक्रमणयोरभावात् । न ह्यर्थशक्तमूलेऽस्या व्यापारः । सहकारिभेदाच्च शक्तिभेदः स्पष्ट एव, यथा तस्यैव शब्दस्य व्याप्तिस्मृत्यादिसहकृतस्य विवक्षावगतावनुमापकत्वव्यापारः । अक्षादिसहकृतस्य वा विक्ल्पकत्वव्यापारः ।

बालप्रिया

सम्पादितस्य प्रतिपत्तुर्या प्रतिभा तत्सहाया । अर्थद्योतनशक्तिः प्रयोजनादिलक्षणस्यार्थस्य व्यञ्जने सामर्थ्यं । इत्युक्तं भवतीति शेषः । अस्त्वेवंभूतोऽसौ; कथमस्यैव काव्यात्मत्वमित्यत आह--स चेति । चकारोऽवधारणे । ऽस च काव्यात्मेऽति सम्बन्धः । अत्र हेतुः--प्रधानभूत इति । तत्र हेतुः--प्राग्वृत्तमित्यादि । अभिधादित्रयमपेक्ष्य स्वयं प्रवृत्तोऽपि तदुपसर्जनीकुर्वन्नित्यर्थः । व्यङ्ग्यस्य काव्यात्मत्वाद्व्यञ्जनस्यापि तत्त्वं बोध्यं । नन्वेतावताऽभ्रम धार्मिकेऽत्यादौ भ्रमणनिषेधो लक्षणाविषयः, तदन्यप्रयोजनविषयकश्च व्यञ्जनाव्यापार इत्यायातं । तथाच कथं वृत्तिकृताऽप्रतिषेधरूपऽ इति वदता व्यञ्जनाव्यापारस्य निषेधविषयकत्वमुक्तमित्यत आह-इत्याशयेनेत्यादि । इत्याशयेन उक्तभिप्रायेणऽप्रयोजनविषयोऽपि सः निषेधप्रमुखतया निषेधविषय इत्युक्तम्ऽ इति सम्बन्धः । प्रयोजनं विषयो यस्य सः । प्रयोजनं चात्र स्वैरिण्याः सङ्केतस्थानपरित्राणस्वच्छन्दविहरणादिकं । निषेधप्रमुखतया निषेधप्रतीतिद्वारकत्वेन । इत्युक्तमिति । कदाचिदावाच्ये विधिरूपे प्रतिषेधरूप इत्यनेन प्रदर्सितमित्यर्थः । भ्रमणनिषेधोऽत्र लक्ष्य एव । प्रयोजनस्योक्तस्य निषेधप्रतीतिपूर्वकप्रतीतिविषयत्वान्निषेधरूपतया उक्तिरित्यर्थः । वस्तुतोऽत्र लक्षणा न प्रवर्तत इति वृत्तिग्रन्थानुगुण्येनाह--अभ्युपगमेत्यादि । अभ्युपगममात्रेण प्रौढिवादमात्रेण । इदं विपरीतलक्षणया । निषेधबोधनं । अत्र लक्षणाया अप्रवृत्तौ हेतुमाह--अत्यन्तेति । यत्र वाच्यस्यात्यन्ततिरस्कारोऽन्यसङ्क्रमणं वा तत्र हि लक्षणा । न चात्र भ्रमणविधिरूपस्य वाच्यस्योभयं तस्मादित्यर्थः । नन्वत्रार्थशक्तिमूलो ध्वनिरेवास्तु; तत्रापि किं न लक्षणेत्यत आह--न हीति । अर्थशक्तिमूल इति । हेतुगर्भं । ध्वनाविति शेषः । अस्या व्यापारः लक्षणायाः प्रवृत्तिः । किञ्चार्थशक्तिमूलध्वननव्यापारस्य वक्तृबोद्धव्यवैशिष्ट्यादिकं सहकारि, लक्षणायास्तु मुख्यार्थबाधादिकमतोऽप्यनयोर्भेद इत्यह-सहकारीति । उक्तमर्थं दृष्टान्तेन विशदयति-यथेत्यादि । तस्यैव अर्थबोधनाय प्रयुक्तस्यैव । शब्दस्य गामानयेत्यादिशब्दस्य । स्मृत्यादीत्यादिपदेन पक्षधर्मताज्ञानपरिग्रहः । अनुमापकत्वव्यापारः अनुमापकत्वशक्तिः । अयं वक्ता एद्विबक्षुः एतच्छब्दप्रयोगातित्यादिः प्रयोगोऽत्र बोध्यः । उक्तं चैतत्तृतीयोद्योते अक्षादीति । अक्षं चक्षुरादीन्द्रियं । आदिपदेन तत्सन्निकर्षादिपरिग्रहः ।

लोचनम्

एवमभिहितान्वयवादिनामियदनपह्नवनीयं ।
     योप्यन्विताभिधानवादीऽयत्परः शब्दः स शब्दार्थःऽ इति हृदये ग्रहूत्वा शरवदभिधाव्यापारमेव दीर्घदीर्घमिच्छति, तस्य यदि दीर्घो व्यापारस्तदेकोऽसाविति कुतः? भिन्नविषयत्वात् । अथानेकोऽसौ? तद्विषयसहकारिभेदादसजातीय एव युक्तः । सजातीये च कार्ये विरम्यव्यापारः शब्दकर्मबुद्ध्यादीनां पदार्थविद्भिर्निषिद्धः । असजातीये चास्मन्नय एव ।

बालप्रिया

विकल्पकत्वव्यापारः सविकल्पकज्ञानजनकत्वशक्तिः । शब्दो हि श्रोत्रादिसहकारेण स्वप्रत्यक्षं जनयति । अथ च ज्ञायमानः संज्ञाशब्दः संज्ञिनि चक्षुस्सन्निकर्षादिकाले स्वविशेषणकं संज्ञिप्रत्यक्षं जनयति इति मतविशेषः । इयदिति । अभिधादित्रयोतीर्णध्वनिव्यापारोऽस्तीत्येतावदित्यर्थः । अनपह्नवनीयमनिराकरणीयं, प्रत्युताभ्युपगन्तव्यमिति भावः ।
      योऽपीत्यादि । अपिशब्दस्तुशब्दार्थे । ऽय इच्छति तस्येऽति सम्बन्धः । गामानयेत्यादिकस्य तत्तद्वाक्यस्य तत्तद्वाक्यार्थे प्रथमं सङ्गतिग्रहः, पश्चादावापोद्वापाभ्यामन्वितस्वार्थे गवादिपदानां सङ्गतिग्रह इत्यादिरन्विताबिधानवादिमतप्रक्रियान्यतोऽवधेया । यत्पर इति । योऽर्थः परः प्रधानप्रतिपाद्यः तात्पर्यविषयो यस्य सः शब्दार्थः शब्दाभिधेयः । शरव्त्शरव्यापारतुल्यं । इच्छतीति । यथोक्तम्-"सोऽयमिषोरिवदीर्घदीर्धो व्यापार" इति । यथा धनुर्धरेण प्रेरितश्शरो वेगाख्येनैकेनेव व्यापारेम परस्य वर्मच्छेदनगात्रभेदनादिका अनेकक्रियाः करोति, तथा सुकविना प्रयुक्तः शब्दोऽभिधाख्येनैकेनैव व्यापारेण पदार्थवाक्यार्थयोलङ्क्ष्यत्वेन व्यङ्ग्यत्वेनाभिमतयोश्च प्रतीतीर्जनयतीत्यर्थः । इत्थं तन्मतमुपन्यस्य तेनापि ध्वननमङ्गीकारयितुं स दीर्घोऽभिधाव्यापारः किमेकः प्रतिविषयमनेको वेति विकल्प्याद्यं प्रत्याचष्टे-तस्येत्यादि । अभिमत इति शेषः । ऽव्यापारो दीर्घस्तस्याभिमतो यदीऽति सम्बन्धः । तत्तर्हि । असौ एक इति कुतः? एको भवितुं नार्हतीत्यर्थः । अत्र हेतुः--भिन्नेति । भिन्नाः विषयाः वाच्याद्यर्थाः यस्य तत्त्वात् । विषयबेदे सति तत्सम्बन्धिव्यापारभेदोऽप्यावश्यक इति भावः । दिवितीयमनूद्यावद्यति-अथेत्यादि । अथेति यदीत्यर्थे । तत्तर्हि । विषयेति । विषयाः वाच्यलक्ष्यव्यङ्ग्यत्वेनाभिमता अर्थाः ।

लोचनम्

     अथ योऽसौ चतुर्थकक्षानिविष्टोऽर्थः, स एव झटिति वाक्येनाभिधीयत इत्येवंविधं दीर्घदीर्घत्वं विवक्षितम्, तर्हि तत्र सङ्केताकरणात्कथं साक्षात्प्रतिपत्तिः । निमित्तेषु सङ्केतः, नैमित्तिकस्त्वसावर्थस्संकेतानपेक्ष एवेति चेत्-पश्यत श्रोत्रियस्योक्तिकौशलं । यो ह्यसौ पर्यन्तकक्षाभाग्यर्थः प्रथमं प्रतीतिपथमवतीर्णः, तस्य पश्चात्तनाः पदार्थावगमाः

बालप्रिया

सहकारिणः समयमुक्यार्थबाधादिवक्तृवैशिष्ट्यादयः । तेषां भेदात् । असजातीयः भिन्नजातीयः । सजातीयत्वेदोषप्रदर्सनेनोक्तमेव साधयति-सजातीय इत्यादि । अनेकोऽसावित्यस्य विपरिमामेनानुषङ्गः । अनेकेऽस्मिन्व्यापारे सजातीये अङ्गीक्रियमाणे सतीत्यर्थः । स पुनर्न प्रवर्तत इति शेषः । अत्र हेतुमाह--कार्य इत्याद । कार्ये कार्यं प्रति । पदार्थविद्भिः नैयायिकादिभिः । नन्वसजातीयोऽस्त्वित्यत्राह--असजातीय इत्यादि । अनेकेऽस्मिन्नसजातीये अङ्गीक्रियमाणे च सतीत्यर्थः । अस्मन्नय एवेति । व्यापारभेदसिद्ध्या ध्वननव्यापारसिद्धेरिति भावः । यद्वासजातीय इत्यादेरयमर्थः--किञ्च व्यापारस्य यत्कार्यमनेकार्थज्ञानं तततत्सजातीयमन्यद्वेति विकल्पं मनसि निधायाह--सजातीय इत्यादि । सजातीये कार्ये तत्प्रति । व्यापारः अभिधादिः । निषिद्ध इति । अतो व्यापारान्तरस्वीकारे चास्मन्नय एवेति भावः । असजातीय इति । कार्ये इत्यनुषज्यते । अस्मन्नय एवेति । कार्यस्य विजातीयत्वे तत्कारणभूतव्यापारवैजात्यस्यावश्यकत्वात्ध्वननव्यापारसिद्धिरिति भावः ।
     अथ व्यापारस्य दीर्घत्वं नाम नैकत्वमेकजातीयत्वं वा; किन्तु प्रतिपिपादयिषितार्थप्रतिपादनझाटित्यविशेष एव । अतो व्यङ्घ्यस्याभिधाविषयत्वमस्त्येवेत्याशङ्कते--अथेत्यादि । अथ यदि । ऽविवक्षितमथेऽति सम्बन्धः । चतुर्थेति । अन्त्येत्यर्थः । स एव सोऽपि । समाधत्ते--तर्हित्यादि । तत्र अन्त्यकक्ष्यानिविष्टार्थे । साक्षादिति । अभिधयेत्यर्थः । कथमिति । भवतीति शेषः । न भवतीत्यर्थः । अथ पदार्थवाक्यार्थयोर्निमित्तनैमित्तिकभावाभ्युपगमान्निमित्तभूतेषु पदार्थेषु सङ्केतग्रहणात्तन्मात्रेणैव पृथगन्त्यवाक्यार्थविषयकसङ्केतानपेक्षया तद्वाक्यार्थप्रतीतिरभिधाव्यापारेण भवतीत्याशङ्कामुद्भाव्य व्युदस्यति--निमित्तेष्वित्यादि । निमित्तेषु पदार्थेषु । असावर्थः अन्त्यवाक्यार्थः । पश्यतेत्यादि परिहासवचनं । ऽइत्युक्तिकौशलम्ऽ इति सम्बन्धः । पर्यन्तकक्ष्यायाः भागी भजनशीलः । पश्चात्तनाः वाक्यार्थप्रतीत्युत्तरकालभाविनः ।

लोचनम्

निमित्तभावं गच्छन्तीति नूनं मीमांसकस्य प्रपौत्रं प्रति नैमित्तिकत्वमभिमतं ।
     अथोच्यते--पूर्वं तत्र सङ्केतग्रहणसंस्कृतस्य तथा प्रतिपत्तिर्भवतीत्यमुया वस्तुस्थितया निमित्तत्वं पदार्तानाम्, तर्हि तदनुसरणोपयोगि न किञ्चिदप्युक्तं स्यात् । न चापि प्रक्पदार्थेषु सङ्केतग्रहणं वृत्तम्, अन्वितानामेव सर्वदा प्रयोगात् । आवापोद्वापाभ्यं तथाभाव इति चेत्-सङ्केतः पदार्थमात्र एवेत्यभ्युपगमे पास्चात्यैव विशेषप्रतीतिः ।
     अथोच्यते--द्दष्टेव झटिति तात्पर्यप्रतिपत्तिः किमत्र कुर्म इति । तदिदं वयमपि न नाङ्गीकुर्मः । यद्वक्ष्यामः--
तद्वत्सचेतसां सोऽर्थो वाक्यार्थविमुखात्मनां ।
बुद्धौ तत्त्वावभासिन्यां झटित्येवावभासते ।। इति ।।
     किं तु सातिसयानुशीलनाभ्यासात्तत्र सम्भाव्यमानीऽपि क्रमः सजातीयतद्विकल्पपरम्परानुदयादभ्यस्तविषयव्याप्तिसमयस्मृतिक्रमवन्न संवेद्यत इति ।

बालप्रिया

पदार्थावगमाः पदार्थप्रतीतयः । प्रपौत्रं प्रतीत्यादि । प्रपौत्रं निमित्तमपेक्षयात्मनो नैमित्तिकत्वमभिमतं स्यादित्यर्थः ।
     अथ पदार्तप्रतीतेः पश्चात्तनत्वेऽपि तद्विषयकसङ्केतग्रहणस्य पूर्वं जातत्वात्तद्द्वारकः पदार्थानां निमित्तत्वव्यपदेसो न विरुध्यते । उपलभ्यते हि गृहूतसङ्केतस्य प्रतिपत्तुर्ऽगङ्गायां धोषऽ इत्यादियाक्यश्चवणानन्तरमेव झटिति शैत्यपावनत्वादिरूपपार्यन्तिकार्थप्रतीतिरित्याशङ्कामुद्भाव्य परिहरति--अथोच्यत इत्यादिना । तदनुसरणेति । तस्याः पार्यन्तिकार्थप्रतीतेः अनुसरणे स्वमतेन निर्वहणे यदुपयोगि । यद्वा-तदनुसरणे पदार्तानां पार्यन्तिकार्थस्यासङ्केतितस्य कथमवगमो भवेदिति भावः । किञ्च पूर्वं पदार्थेषु सङ्केतग्रहमपि न घटत इत्याह--न चापीति । अन्वितानामेव अन्वितार्थबोधकानामेव । वाक्यत्वमापन्नानामेवेति । यावत् । शङ्ते-आवापेत्यादि । तथाभावः पृथक्पृथक्पदार्थेषु सङ्केतग्रहणस्य भवनं । परिहरति---सङ्केत इत्यादि । विशेषप्रतीतिः पाश्चात्यैवेति । वाक्यार्थप्रतीतिः पश्चात्तन्येव भवति, न पूर्वकालभवेत्यर्थः । तथा च भवत्सिद्धान्तो विरुध्येतेति भावः ।
     अथेत्यादि । तात्पर्यप्रतिपत्तिः पार्यन्तिकार्थप्रतीतिः । किमत्र कुर्म इति । पदार्थेषु सङ्केतग्रहणस्य निमित्तता भवतु मा वेति भावः । यद्येवं तर्हि सिद्धं नः समीहितमित्याह--तदित्यादि । विशेषमाह-किन्त्वित्यादि । तत्रेति । पार्यन्तिकार्थरूपव्यङ्ग्यार्थतप्रतीतावित्यर्थः । सम्भाव्यमानोऽपि प्रमाणेन ज्ञायमानोऽपि । क्रमः पदार्थप्रतीतेः पौर्वापर्यं । ऽसंवेद्यतऽ इति सम्बन्धः । अत्र हेतुमाह-सजातीयेत्यादि । सजातीयाः वाक्यार्थप्रतीत्यङ्गत्वेन सजातीयाः ये तद्विकल्पाः पदार्थविषयकप्रत्ययाः । तेषां

लोचनम्

निमित्तनैमित्तिकभावश्चावश्यश्रयणीयः, अन्यथा गौणलाक्षणिकयोर्मुख्याद्भेदःऽश्रुतिलिङ्गादिप्रमाणषट्कस्य पारदौर्बल्यम्ऽ इत्यादिप्रक्रियाविघातः, निमित्ततावैचित्र्येणैवास्याः समर्थितत्वात् । निमित्ततावैचित्र्ये चाभ्युपगते किमपरमस्मास्वसूयया । येऽप्यविभक्तंस्फोटं वाक्यं तदर्थं चाहुः, तैरप्यविद्यापदपतितैः सर्वेयमनुसरणीया प्रक्रिया । तदुत्तीर्णत्वे तु सर्वं परमेश्वराद्वयं ब्रह्योत्यस्मच्छास्त्रकारेण न न विदितं तत्वालोकग्रन्थं विरचयतेत्यास्तां ।

बालप्रिया

परम्पराया अनुदयादनुल्लेखादित्यर्थः । क्रमो हि हेतुहेतुमद्भावेनावस्थितयोर्धर्मः, तस्य ज्ञाने तयोर्ज्ञानमपेक्षितमिति भावः । अनुदये हेतुमाह-सातिशयेति । सातिशयं यदनुशीलनं पर्यालोचनं तस्याभ्यासात्पौनःपुन्यादित्यर्थः । क्रमस्य सत्त्वेऽप्यप्रतिपत्तौ दृष्टान्तमाह-अभ्यस्तेति । अभ्यस्तः भूयो भूयः पर्यालोचितो विषयो ययोस्ते । यद्वा-अभ्यस्ते विषये धूमादिहेतौ गवाद्यर्थे च यो व्याप्तिसमययोः वह्न्यादिसाध्यव्याप्तिगवादिपदसङ्केतयोः स्मृती, तयोरनुमितिशाब्दबोधयोर्यः क्रमस्तद्वदित्यर्थः । इतीत्यादि । इतीति हेतौ । अतो हेतोरित्यर्थः । क्रमस्य निमित्तनैमित्तिकभावोपजीव्यत्वत्तस्य च साधितत्वादिति यावत् । निमित्तनेमित्तिकभावाश्रयणस्यावश्यकत्वं विपक्षे बाधकमुखेनाह--अन्यथेत्यादि । ऽअन्यथा इत्यादि प्रक्रियाविघातऽ इति सम्बन्धः । गौणेति । गौणलाक्षणिकार्थप्रतीतौ हि मुख्यार्थबाधानिमित्तं, ततश्च मुख्यार्थे मौलिकं निमित्तमित्यापतति । तदन्तरेण बाधाया मुख्यामुख्यनियमस्य चासिद्धेरित्यर्थः । लौकिकीं प्रक्रियामुक्त्वा वैदिकीमाह-श्रुतीत्यादि । श्रुत्यादिपदार्थास्तदुदाहरणानि चापोदेवीयादौ काव्यप्रदीपादौ च ग्रन्ते प्रपञ्चितानि । निमित्तनेमित्तिकभावानाश्रयणेकथमुक्तप्रक्रियाविघात इत्यत आह--निमित्ततेति । निमित्ततायाः वेचित्र्यण बेदेन । अस्याः प्रक्रियायाः । समर्थितत्वादिति । एतन्निमित्ततावैचित्र्यञ्च अभिधाया दीर्घदीर्घत्वाङ्गीकारे नोपपद्य इति भावः । ननु तर्हि निमित्तनैमित्तिकभावोऽस्तु विचित्रो, येनायं प्रक्रियाविघातो न स्यादित्यत्राह--निमित्ततेति । निमित्ततावैचित्र्याङ्गीकारे व्यापारभेदस्याप्यङ्गीकर्तव्यतया किमस्मदुक्तावमर्ष इत्यर्थः । येऽपीति । स्फोटवादिनो वैयाकरणादय इत्यर्तः । स अविद्येति । अविद्यापदं व्यवहारमार्गः । अस्मच्छास्त्रकारेण आनन्दवर्धनाचार्येण । न न विदितं विदितमेव । अत्र हेतुः--तत्तवालोग्रन्थं विरचयतेति ।

लोचनम्

यत्तु भट्टनायकेनोक्तम्--इह दृप्तसिंहादिपदप्रयोगे च धार्मिकपदप्रयोगे च भयानकरसावेशकृतैव निषेदावगतिः तदीयभीरुवीरत्वप्रकृतिनियमावगममन्तरेणैकान्ततो निषेधावगत्यभावादिति तन्न केवलार्थसामर्थ्यनिषेधावगतेर्निमित्तमिति । तत्रोच्यतेकेनोक्तमेतत्ऽवक्तृप्रतिपत्तृविशेषावगमविरहेण शब्दगतध्वननव्यापारविरहेण च निषेधावगतिःऽ इति । प्रतिपत्तृपिरतिभासहकारित्वं ह्यस्माभिर्द्येतनस्य प्राणत्वेनोक्तं । भयानकरसावेशश्च न निवार्यते, तस्य भयमात्रोत्पत्त्यभ्युपगमात् । प्रतिपत्तुश्च रसावेशो रसाभिव्यकत्यैव । रसश्च व्यङ्ग्य एव, तस्य च शब्दवाच्यत्वं तेनापि नोपगतमिति

बालप्रिया

     यत्वित्यादि । उक्तिप्रकारमाह--इहेत्यादि । इहऽभ्रमेऽत्यादौ । भयानकरसावेशकृतैव निषेधावगतिरिति सम्बन्धः । कुत इत्यत आह--दृप्तेत्यादि । निमित्तरूपार्थे सप्तम्यौ । श्वमारणनिमित्तभ्रमणविधिसिद्धं धार्मिकभीरुत्वं विना निषेधार्थो न सिध्यतीति धार्मिकेत्याद्युक्तं । तावन्मात्रेणापि गृहभ्रमणविधिरेवानुगृहीतो भवति, न प्रकृतनिषेध इत्यतो दृप्तसिंहादीतिच । एवकारो भयानकरसावेशस्य निषेधावगतिजनने प्राधान्यं दर्सयति । ध्वननव्यापारेणैवास्तु निषेधावगतिः, किमित्येवं कल्प्यत इत्यत्राह--तदीयेत्यदि । तदीययोः धार्मिकसिंहसम्बन्धिनोः । भीरुत्ववीरत्वरूपयोः प्रकृत्योः स्वभावयोः नियमस्याविनाभावस्यावगमं ज्ञानं । अन्तरेण विना । एकान्ततः कारणान्तरेम तन्नियमात् । ध्वननव्यापारमात्रेणेति यावत् । य निषेधेति । भ्रमणनिषेधेत्यर्थः । फलितमाह--इतीत्यादि । इति तदिति । इत्युक्ताद्धेतोरित्यर्थः । अर्थसामर्थ्यस्यापि सहकारितया हेतुत्वलानपायं केवलपदेन दर्शयति । ऽइति यत्तु उक्तम्ऽ इति सम्बन्धः । ऽतन्न केवलेऽत्यादिकं श्रुत्वा तदसहमानो ध्वनिवाद्याहकेनेत्यादि । ऽइत्येतत्केनोक्तम्ऽ इति सम्बन्धः. यद्वा---एतदिति वक्तृप्रतीत्यादिसमासघटकं । एतस्य वाक्यस्य सम्बन्धिनौ एतौ वा यौ वक्तृप्रतिपत्तृविशेषौ सङ्केतस्थानपरिरक्षणोत्सुककामिनीभीरुधार्मिकौ, तयोरवगमस्य विरहेण अभावेन । विशेषपदेन वक्तृगतस्वैरिणीत्वादिकं प्रतिपत्तृगतप्रतिभादिकं च विवक्षितं । ननु त्वयैवोक्तमित्यात्राह--प्रतिपत्र्रिति । तदुक्तं कञ्चिदंशमनुजानन्विरुद्धमंशं निराकरोति---भयानकेत्यादि । न निवार्यत इति । तस्यास्तित्वमात्रं न निषेधावगतिं प्रति हेतुत्वमिति भावः । कथं बोद्धव्ये धार्मिके भयानकरसावेश इत्यत आह--तस्येत्यादि । तस्य भयानकरसावेशस्य । भयमात्रोत्पत्त्येति । प्रकृत्यादित्वात्तृतीया । तद्रूपस्य पस्येत्यर्थः । मात्रपदेन रस्त्वं व्युदस्यते । अभ्युपगमात्बोद्धव्ये स्वीकारात् । तथैक किं सहृदयस्य नेत्याह--प्रतिपत्तुरित्यादि । प्रतिपत्तुः सहृदयस्य तु रसोऽभिव्यज्यते, नोत्पद्यते । तदभिव्यक्त्या तदावेशश्च भवतीत्यर्थः । बोद्धव्यस्य भयमिव,सहृदयस्य रसोऽप्युत्पद्यतां किं तदभिव्यक्तिकल्पनयेत्यत आह--रसश्चेत्यादि ।

लोचनम्

व्यङ्ग्यत्वमेव । प्रतिपत्तुरपि रसावेशो न नियतः, न ह्यसौ नियमेन भीरुधार्मिसब्रह्मचारी सहृदयः ।
     अथ तद्विशेषोऽपि सहकारी कल्प्यते, तर्हि वक्तृप्रतिपत्तृप्रतिभाप्राणितो ध्वननव्यापारः किं न सह्यते । किं च वस्तुध्वनिं दूषयता रसध्वनिस्तदनुग्राहकः समर्थ्यत इति सुष्ठुतरां ध्वनिध्वंसोऽयं । यदाह--ऽक्रोधोऽपि देवस्य वरेण तुल्यःऽ इति । अथ रसस्यैवेयता प्राधान्यमुक्तम्; तत्को न सहते । अथ वस्तुमात्रध्वनेरेतदुदाहरणं न युक्तमित्युच्यते तथापि काव्योदाहरणत्वाद्द्वावप्यत्र ध्वनी स्तः, को दोषः ।
     यदि तु रसानुवेधेन विना न तुष्यति, तत्भयानकरसानुवेधो नात्र सहृदयहृययदर्पणमध्यास्ते; अपि तु उक्तनीत्या सम्भोगाभिलाषविभावसङ्केतस्थानोचिताविशिष्टकाक्वाद्यनुभावशबलनोदितशृङ्गररसानुवेधः ।

बालप्रिया

फलितमाह--इतीति । यद्यस्ति प्रतिपत्तू रसाभिव्यक्तिः, तर्हि तयैवास्तु निषेदावगतिरित्यत्राह--प्रतिपत्तुरपीत्यादि । प्रतित्तुरपि सहृदयस्यापि । नियतः अविनाभूतः । उक्तमुपपादयति--न हीत्यादि । सब्रह्यचारी सद्दशः । कस्यचिद्भयानकरसास्वादसम्भवेऽपि वीरादिप्रकृतेः प्रतिपत्तुस्तदसम्भवात्, भयानकरसाभिव्यक्त्या निषेषप्रतीतिर्न भवतीति भावः ।
     शङ्कते--अथेति । तद्विशेषोऽपि प्रतिपत्तृविशेषोऽपि । विशेषो भीरुस्वभावत्वं । सहकारीति । भयानकरसाभिव्यक्ताविति शेषः । परिहरति--तर्हीत्यादि । उक्तनयेनापसिद्धान्तापातादपि रसावेशकृता निषेधावगतिरिति वक्तुं न शक्यमित्युपहासमुखेनाह--किञ्चेत्यादि । दूषयतेति । भयानकविभावादीनभिदधत्या तद्रसावेशशक्तिसहकारिण्या अभिधया अर्थादभिहित एवायं निषेध इत्यभिप्रायेण दूषयतेत्यर्थः । क्रोधोऽपीत्यादि । तदिहायातमिति शेषः । क्रोधो हि शापेन तुल्यः । अत्र तु वरेणेति भावः । शङ्कते--अथेति । रसस्य प्राधान्यमेव दर्शितं न तु वस्तुध्वनेर्दूषणमित्यर्थः । परिहरति--तदिति । तत्तर्हि । को न सहत इति । वस्तुध्वने रसध्वन्यङ्गत्वमिष्टमिति भावः । पुनरपि शङ्कते--अथेति । परिहरति-तथापीति । ध्वनी स्तामिति । कामचाराभ्यनुज्ञाने लोट् । अत्र हेतुः--काव्येति ।
     ननु कामचारभ्यनुज्ञानं न युक्तं, रसस्यैव सहृदयाह्लादकारित्वादित्यत आह--यदि त्वित्यादि । अनुवेधः आवेशः । तुष्यतीति । सहृदय इति शेषः । तुष्यते इति पाठे सहृदयेनेति शेषः । उक्तनीत्येति । कस्याश्चित्सङ्केतस्थानं जीवितसर्वस्वायमानमिति पूर्वोक्तरीत्येत्यर्थः । सम्भोगेति । सम्भोगाभिलाषस्य विभावः उद्दीपनविभावभूतं यत्सङ्केतस्थानं तस्य । तथा तस्यैवाभिलाषस्य उचिताः सम्भोगानुगुण्याद्विशिष्टाश्च ये काक्वादयः अनुभावाः, आदिपदेन तात्कालिक्योऽन्याश्चेष्टा ग्राह्याः । तेषाञ्च शबलनात्संवलनादुदितोऽभिव्यक्तो यः शृङ्गाररसः, तस्यानुवेध

लोचनम्

रसस्यालौकिकत्वात्तावन्मात्रादेव चानवगमात्प्रथमं निर्विवादसिद्धविविक्तविधिनिषेधप्रदर्शनाभिप्रायेण चैतद्वस्तुध्वनेरुदाहरणंदत्तं । यस्तु ध्वनिव्याक्यानोद्यतस्तात्पर्यशक्तिमेव विवक्षासूचकत्वमेव वा ध्वननमवोचत्, स नास्माकं हृदयमावर्जयति । यदाहुः--ऽभिन्नरुचिर्हि लोकःऽ इति । तदेतदग्रे यथायथं प्रतनिष्याम इत्यास्तां तावत् । भ्रमेति । अतिसृष्टोऽसि प्राप्तस्ते भ्रमणकालः । धार्मिकेति । कुसुमाद्यूपकरणार्थं युक्तं ते भ्रमणं । विस्रब्ध इति शङ्कारणवैकल्यात् । स इति पुनरस्यानुत्थानं । तेनेति । यः पूर्वं कर्णोपकर्णिकया त्वयाप्याकर्णितो गोदावरीकच्छगहने प्रतिवसतीति । पूर्वमेव हि तद्रक्षायै तत्तयोपश्रावितोऽसौ; स चाधुना तु

बालप्रिया

इत्यर्थः । सहृदयहृदयदर्पणमध्यास्त इत्यनुषङ्गः । विवेचनदशायामत्र भयानकविभावादयो न प्रतीयन्ते, अपि तु शृङ्गरसम्बन्धिन एवेति भावः । ननु यदि शृङ्गारध्वनिरत्राङ्गी, तर्हि कुतस्तदुदाहरणत्वेनेयं गाथा नोक्ता? वस्तुध्वन्युदाहरमतयोक्ता चेत्यत आह--रसस्येत्यादि । तावन्मात्रादेव उदाहरणमात्रादेव । अनवगमातवगमासम्भवात् । वक्ष्यमाणयुक्तिभिरेव रसस्वरूपज्ञानसम्भवादिति भावः । तावन्मात्रादेवेत्यस्य लोकमात्रादेवेत्यर्थ इति केचित् । निर्विवादेति । निर्विवादसिद्धं विविक्तं विवेको भेदो ययोर्विधिनिषेधयोः । एतदुक्तं भवति--रसध्वनिर्हि काव्यात्मत्वेन प्रतिपिपादयिषितः । स च प्रमाणेन केनापि न सिद्धो लोके, नाद्यापि काव्यव्यापारविषयतया च । अतस्तत्प्रतिपादनार्थमारभमाणेन तदुपोद्धाततया प्रथमं वस्तुध्वन्यादिकमन्यदेव वाच्याद्भिन्नत्वेन प्रदर्शनीयं, पश्चादविवादसिद्धे ध्वनिसामान्ये साक्षाल्लक्षणीयो रसध्वनिरुदाहरणीय इति ।
     यस्त्वित्यादि । विवक्षायाः विवक्षितार्थस्य । सूचकत्वमनुमापकत्वं । नावर्जयतीति । निर्युक्तिकत्वादिति भावः । नन्वेतद्द्वयातिरिक्तं नाद्यपि हृदयपथमवतरतीत्यत्राह--तदेतदिति । यदुक्तमतिसर्गप्राप्तकालयोर्ह्ययं लोडिति, तदनुरोधेन व्याचष्टे--भ्रमेत्यादि । स इत्यनुभूतार्थकमित्याह--यस्त इति । ऽअद्येऽति पदं पूर्वं बिधिः प्रतिकूलोऽभूदिदानीं तु भवद्भाग्यमहिम्नानुकूलो जात इत्यर्थं द्योतयतीत्यह--दिष्ट्यति । ऽमारितऽ इत्यादेर्व्यङ्ग्यं दर्शयति--मारित इतीत्यादिना । ऽतेनेऽति पदमप्यनुभूतार्थकमित्याह--यः पूर्वमिति । ऽवसतीत्याकर्णितऽ इति सम्बन्धः । ननु स्वैरिण्या गोदावरीतीरे सिंहसद्भावस्स्वयमारोपितः । तत्कथमेवमुक्तमित्यतो व्याख्याता तदूपपादयति--पूर्वमेवेत्यादि । तद्रज्ञायै सङ्केतस्थानरक्षणार्थं । तत्तयोपश्रावितोऽसाविति । तत्सिंहनिवासवृत्तं । असौ धार्मिकः । सङ्केतस्थानरक्षणार्तमन्यापदेशेन


ववचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा--
अत्ता एत्थ णिमज्जै एत्य अहं दिअसां पलोएहि ।
मा पहिअ रत्तिअन्धा सेज्जाए मह णिमज्जहिसि ।।


लोचनम्

दृप्तत्वात्ततो गहनान्निस्सरतीति प्रसिद्धगोदावरीतीरपरिसरानुसरणमपि तावत्कथाशेषीभूतं का कथा तल्लतागहनप्रवेशशङ्कयेति भावः ।
     अत्ता इति ।
श्वश्रूरत्र शेते अथवा निमज्जति अत्राहं दिवसकं प्रलोकय ।
मा पथिक रात्र्यन्ध शय्यायामावयोः शयिष्टाः ।।
     मह इति निपातोऽनेकार्तवृत्तिरत्रावयोरित्यर्थे न तु ममेति । एवं हि विशेषवचनमेव शङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् । काञ्चित्प्रोषितपतिकां तरुणीमवलोक्य प्रवृद्धमदनाङ्कुरः संपन्नः पान्थोऽनेन निषेधद्वारेण तयाभ्युपगत इति निषेधाभावोऽत्र

बालप्रिया

पूर्वं स्वैरिण्यै वृत्तान्तोऽयं सख्यादिद्वारा धर्मिकस्य कर्णगोचरीकृत इत्यर्थः । नन्वेवं किमिति स्वयमुक्तमित्यत आह--स चाधुना त्विति । सः सिंहः । गहनान्निस्सरतीति । इतीत्यनन्तरं तयासावुपश्राव्यत इति शेषः । धर्मिकस्य शङ्गा मा भूदितिऽगौदेऽत्याद्यनुवादपूर्वकंसिंहस्य दृप्तत्वादिविशेषो बोध्यत इति भावः । विशेषबोधनस्य फलमाह--प्रसिद्धेत्यादि । इति भाव इति । बोध्यत इति शेषः । एते चार्थाः भ्रमणनिषेधव्यञ्जने सहकारिभूताः । एवमुपर्यपि बोध्यं ।
     "णिमज्जै" इत्यस्य छायां द्वेधा दर्शयति---शेत इत्यादि । अनेकार्थवृत्तिरिति । बगुलटनान्च इत्यर्थः । एवं हि प्रच्छन्नाभ्युपगमो न स्यादिति सम्बन्धः । अत्र हेतुमाह--विशेषेति । शङ्केति । श्वश्र्वादिशङ्केत्यर्थः । प्रच्छन्नेति । प्रच्छन्नत्वाभावेऽभ्युपगमस्य न सहृदयचमत्कारकारितेति भावः । काञ्चिदित्यादि । तरुणीमाकारैः प्रोषितपतिकां चालोक्येत्यर्थः । ऽसम्पन्नऽ इत्यनेनास्य सम्बन्धः । प्रवृद्धेति । दर्शनक्षणे मदनाङ्कुरो जातस्तदीयसौन्दर्यादेर्मुहुरवलोकनादिना स प्रवृद्धः । अनेन मा शयिष्टा इत्युक्तेन । निषेध एव द्वारमुपायस्तेन । तया प्रोषितपतिकया ।

लोचनम्

विधिः । न तु निमन्त्रणरूपोऽप्रवृत्तप्रवर्तनास्वभावः सौभाग्याभिमानखण्डनाप्रसङ्गात् । अत एव रात्र्यन्धेति समुचितसमयसंभाव्यमानविकाराकुलितत्वं ध्वनितं । भावतदभावयोश्च साक्षाद्विरोधाद्वाच्याद्व्यस्य स्फुटमेवान्यत्वं ।
     यत्त्वाह भट्टनायकः--ऽअहमित्यभिनयविशेषेणात्मदशावेदनाच्छाब्दमेतदपीऽति । तत्राहमिति शब्दस्य तावन्नायं साक्षादर्थः; काक्वादिसहायस्य च तावति ध्वननमेव व्यापार इति ध्वनेर्भूषणमेतत् । अत्तेति प्रयत्नेनानिभृतसंभोगपरिहारः । अथ यद्यपि भवान्मदनशरासारदीर्यमाणहृदय उपेक्षितुं न युक्तः, तथापि किं करोमि पापो दिवसकोऽयमनुचितत्वात्कुत्सितोऽयमित्यर्थः । प्राकृते पुंनपुंसकयोरनियमः । न च सर्वथा त्वामुपेक्षे, यतोऽत्रैवाहं तत्प्रलोकय नान्यतोऽहं गच्छमि, तदन्योन्यवदनावलोकनविनोदेनोदेन

बालप्रिया

अभ्युपगतः शयनाभ्युपगमः कृतः । फलितमाह--इतीत्यादि । विधिरिति । स च पान्थगतनिषेधशङ्कानिवृत्त्यर्थः । न त्वित्यत्र हेतुमाह--सौभाग्येति । विधेर्निमन्त्रणरूपत्वे स्वानुरागप्रकाशनादिति भावः । व्याख्यातेऽर्थे प्रमाणत्वेन पदान्तरमवतारयति--अत एवेत्यादि । अत एव यतो विधिर्निषेधाभावरूपस्तत एव । समुचितेति । समुचिते सम्भोगयोग्ये समये रात्रौ भविष्यतीत्यात्मना सम्भाव्यमानो योऽर्थः तन्निमित्तका ये विकराः । यद्वा-भविष्यन्तीति सम्भाव्यमाना ये विकाराः तैराकुलितत्वमित्यर्थः । तद्व्वननेनात्मनः सौभाग्याभिमानः ख्यापित इति भावः । भावेति । व्यङ्ग्यशयनक्रियाविधिलक्षणस्य भावस्य वाच्यतदभावस्य चेत्यर्थः । अहमित्यादि । अभिनयविशेषसहितेनाहमिति पदेनेत्यर्थः । आत्मदशेति । स्वीयकामावस्थेत्यर्थः । एतदपि निषेधद्वारा अभ्युपगमनमपि । अपिशब्दोऽर्थान्तरसमुच्चये । शाब्दं शब्दाभिधेयं । प्रतिवक्ति---तत्रेत्यादि । अयमिति । उक्त इत्यर्थः । काक्वादीति । आदिपदेनाभिनयो गृह्यते । तावति उक्तार्थे । वाच्यार्थं सिद्धवत्कृत्योक्तव्यङ्ग्यशेषतयावान्तरवाक्याभिप्रायं विवृणोति--प्रयत्नेनेत्यादि । विधेय इति शेषः । अनुरागातिरेकेण सम्भावितो य आवयोरनिभृतः सम्भोगः तस्य परिहारः । पूर्वव्याख्यातरात्र्यन्दपदार्थाभिप्रायेणाह---भवानिति । उपेक्षितुं न युक्त इत्यनेन स्वस्याभिलाषोऽपि प्रदर्शितः । अनुचितत्वादिति । सम्भोगायोग्यत्वादित्यर्थः । ऽदिअसाम्ऽ इत्यस्य कथं प्रथमान्ततया व्याख्यानमित्यत आह---प्रकृत इति । न चोपेक्षे


क्वचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा---
वच्च मह व्विअ एक्केइ होन्तु णीसासरोइअव्वाइं ।
मा तुज्ज वि तीअ विणा दक्खिण्णहास्स जाअन्तु ।।


लोचनम्

दिनं तावदतिवाहयाव इत्यर्थः । प्रतिपन्नमात्रायां च रात्रावन्धीभूतो मदीयायां शय्यायां मां श्लिषः, अपि तु निभृतनिभृतमेवात्ताभिधाननिकटकंण्टकनिद्रान्वेषणपूर्वकमितीयदत्र ध्वन्यते ।
व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि ।
मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ।।
     अत्र व्रजेति विधिः । न प्रमादादेन वायिकान्तरसंगमनं तव, अपि तु गाढानुरागात्, येनान्याद्दङ्मुखरागः गोत्रस्खलनादि च, केवलं पूर्वकृतानुपालनात्मना दाक्षिण्येनैकरूपत्वाभिमानेनैव

बालप्रिया

इति सम्बन्धः । प्रतिपन्नमात्रायामितिर् । इषदर्थे मात्राशब्दः । अन्धीभूतो मा शिलष इति । अन्धीभूतत्वेन श्लेषणं निषिध्यते, न तु श्लेषणमात्रं । अत्तेति । अत्त इत्यभिधानं यस्य सः । ऽदत्तावधानेऽति पाठे स्वभावत एव सावधान इत्यर्थः । कण्टक श्वश्रूरूपः । स्वाभिमतविरोधित्वेनानिष्टकारित्वात्कण्टकत्वेनोक्तिः । पूर्वकमिति । शय्यं प्रप्नुहीति शेषः । इयदिति । उक्तमित्यर्थः ।
     विधिरिति । वाच्य इति शेषः । व्यङ्ग्यमाह---न प्रमादादित्यादि । त्वमेकरूपताभिमानेन अहमेकरूप इत्यभिमानेन । अत्र मद्विषये । ऽस्थित इति यत्तत्केवलं दाक्षिण्येनैवेऽति सम्बन्धः । केवलैवकाराभ्यामनुरागरूपहेतोर्व्यवच्छेदः । अत एवाह-पूर्वेति । पूर्वकृतेन पूर्वकर्मणा अद्दष्टेन हेतुना यदनुपालनं मत्पालनं । यद्वा-पूर्वकृतं यद्दाक्षिण्यं तस्यानुपालनमविच्छेदेन पालनं तदात्मना दाक्षिण्येन । फलितमाह--तदित्यादि ।


     क्वचिद्वाच्ये प्रतिषेधरूपेऽनुभयरूपो यथा----
दे आ पसिअ णिवत्तसु मुहससिजोह्लाविलुत्ततमणिवहे ।
अहिसारिआणं विग्धं करोसि अणणाणं वि हऽसे ।।


लोचनम्

त्वमत्र स्थितः, तत्सर्वथा शठोऽसीति गाढमन्युरूपोऽयं खण्डितनायिकाभिप्रायोऽत्र प्रतीयते । न चासौ व्रज्याभावरूपो निषेधः, नापि विध्यन्तरमेवान्यनिषेधाभावः ।
     दे इति निपातः प्रार्थनायां । आ इति तावच्छब्दार्थे । तेनायमर्तः--
प्रार्थये तावत्प्रसीद निवर्तस्य मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ।
अभिसारिकाणां विध्नं करोष्यन्यासामपि हताशे ।।
     अत्र व्यवसिताद्गमनान्निवर्तस्वेति प्रतीतेर्निषेधो वाच्यः । गृहागता नायिका गोत्रस्खलिताद्यपराधिनि

बालप्रिया

सर्वथेति । तत्रैवासक्तत्वेन, उभयत्रापि वेत्यर्थः । अनुभयरूपत्वं विवृणोति--न चेत्यादि । व्रज्याभावरूप इति । व्रज्या गमनं । अन्यनिषेधा भाव इति । व्रज्यापेक्षया अन्यो निषेधाभाव इत्यर्थः । तदात्मकं विध्यन्तरमिति सम्बन्धः । अभिप्रायरूपव्यङ्ग्यस्य तदुभयरूपत्वाभावादिति भावः ।।
     ऽप्रार्थयऽ इत्यादौ निषेधवाचकस्य नञादेरप्रयोगादसङ्गतिमाशङ्क्याह---अत्रेत्यादिना । निवर्तस्वेत्यनेन मागम इत्यर्थस्योक्ततया गमननिषेधो वाच्य इति भावः । व्यङ्ग्यबोधाङ्गतया वक्त्रादिविशेषं दर्शयति---गृहागतेत्यादि । ऽअन्यासामपीऽत्यापिशब्दार्थमाह--न केवलमित्यादि ।

लोचनम्

नायके सत ततः प्रतिगन्तुं प्रवृत्ता, नायकेन चाटूपक्रमपूर्वकं निवर्त्यते । न केवलं स्वात्मनो मम च निर्वृतिविध्नं करोषि, यावदन्यासामपि; ततस्तव न कदाचन सुखलवलाभोऽपि भविष्यतीत्यत एव हताशासीति वल्लभाभिप्रायरुपश्चाटुविशेषो व्यङ्ग्यः ।
     यदि वा सख्योपदिश्यमानापि तदवधीरणया गच्छन्ती सख्योच्यते-न केवलमात्मनो विध्नं करोषि, लाघवादबहुमानास्पदमात्मानं कुर्वती, अत एव हताशा, यावद्वदनचन्द्रिकाप्रकाशितमार्गतयान्यासामप्यभिसारिकाणां विध्नंकरोषीतिसख्यभिप्रायरूपश्चादुविशेषो व्यङ्ग्यः । अत्र तु व्याख्यानद्वयेऽपि व्यवसितात्प्रतीपगमनात्प्रियतमगृहगमनाच्च निवर्तस्वेति पुनरपि वाच्य एव विश्रान्तेर्गुणीभूतव्यङ्ग्यभेदस्य प्रेयोरसवदलङ्कारस्योदाहरणमिदं स्यात्, न ध्वनेः । तेनायमत्र भावः--काचिद्रभसात्प्रियतममभिसरन्ती तद्गृहाभिमुखमागच्छता तेनैव हृदयवल्लभेनैवमुपश्लोक्यतेऽप्रत्यभिज्ञानच्छलेन, अत एवात्मप्रत्यभिज्ञापनार्थमेव नर्मवचनं

बालप्रिया

निर्वृतिविघ्नमिति । विघ्नपदेनात्र निर्वृतिविध्नो विवक्षित इति भावः । फलितमाह--तत इत्यादि । ततः सर्वेषामपि सुखविघ्नकरणात् । अत एवेति. सुखलेशस्याप्यलाभादेवेत्यर्तः । हतेति । हता विषयालाभाद्भग्ना आशा यस्याः सा । एवं वाच्यार्थं व्याख्याय व्यङ्ग्यं दर्शयति--इतीत्यादि । इतीति हेतौ । उक्तेन वाच्यर्थेन हेतुनेत्यर्थः । वल्लभेति । त्वत्सद्दशी नान्य काचिदित्येवंरूपो यो वल्लभाभिप्रायः, तद्रूप इत्यर्थः ।
     प्रकारान्तरेण व्याचष्टे---यदि वेत्यादि । ऽन केवलमात्मनो विध्नं करोषि, यावदन्यासामपीऽति सम्बन्धः । आत्मनो विध्नं करोषीत्यस्य विवरणम्---लाघवादित्यादि । अत एव अबहुमानास्पदत्वकरणादेव । सख्यभिप्राय इति । स च पूर्ववद्वोध्यः । प्रतीपगमनादिति । स्वगृहं प्रति गमनादित्यर्थः । विश्रान्तेरिति । उक्तव्यङ्ग्यस्येति शेषः । प्रेयोरसवदिति । प्रेयश्च रसवच्चानयोस्समाहारः प्रेयोरसवत्तदात्मकालङ्कारस्येत्यर्थः । भावस्य पराङ्गत्वे प्रेयोऽलङ्कारः । रसस्य तत्त्वे रसवदलङ्कारः । सखीवचनपक्षे सखीगताया नायिकाविषयकरतेर्भावरूपाया व्यङ्ग्यत्वात्तस्याश्चानुभावरूपतदुक्तार्थद्वारेमऽनिवर्तस्वेऽति वाक्यार्थं प्रत्यङ्गत्वात्प्रेयोऽलङ्कारत्वं । नायकोक्तिपक्षे तूक्तरीत्या रसवदलङ्कारत्वमित्यर्थः । न ध्वनेरिति । तथा च प्रक्रमविरोध इति भावः ।
     तेनायमिति । अयं वक्ष्यमाणप्रकारः । उपश्लोक्यत इति । मुखेन्दुकान्तिवर्णनादिरूपोपश्लोकनमात्राभिप्रायकमेतदित्यर्थः । ननु गूढाभिसरणे नायिकायाः साक्षान्नायकेनोपश्लोकनमनुचितमित्यत्राह--अप्रतियबिज्ञानच्छलेनेति । अप्रत्यभिज्ञानं


क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा--
     कस्स वण होइ रोसो दट्ठूण पिआएं सव्वणं अहरं ।


लोचनम्

हताश इति । अन्यासाञ्च विध्नं करोषि तव चेप्सितलाभो भविष्यतीति का प्रत्याशा । अत एव मदीयं वा गृहमागच्छ, त्वदीयं वा गच्छावेत्युभयत्रापि तात्पर्यादनुभयरूपो वल्लभाबिपारायस्चाट्वात्मा व्यङ्ग्य इत्यतेयेव व्यवतिष्टते । अन्ये तु---ऽतटस्थानां सहृदयानामभिसारिकां प्रतीयमुक्तिःऽ इत्याहुः । तत्र हताशे इत्यामन्त्रणादि युक्तमयुक्तं वेति सहृदया एव प्रमाणं ।
     एवं वाच्यव्यङ्ग्ययोर्धार्मिकपान्थप्रियतमाभिसारिकाविषयैक्येऽपि स्वरूपभेदाद्भेद इति प्रतिपादितं । अधुना तु विषयभेदादपि व्यङ्ग्यस्य वाच्याद्भेद इत्याह--क्वचिद्वाच्यादिति । व्यवस्थापिति इति । विषयभेदोऽपि विचित्ररूपो व्यवतिष्टमानः सहृदयैर्व्यवस्थापयितुं शक्यत इत्यर्थः ।
कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरं ।
सभ्रमरपझाघ्राणशीले वारितवामे सहस्वेदानीम् ।।
     कस्य्.अ वेति । अनीर्ष्यालोरपि भवति रोषो दृष्ट्वैव; अकृत्वापि कुतश्चिदेवापूर्वतया

बालप्रिया

तद्विषयकप्रत्यभिज्ञानाभावः, तस्य छलेन तदप्रत्यभिज्ञानं स्वस्मिन्नारोप्येत्यर्थः । अत एव उपश्लोकनरूपत्वादेव । आत्मेति । स्वस्य बोधनायेत्यर्थः । प्रियडजनेनैव नर्मवचनस्य प्रयोक्तव्यत्वादिति भावः । ऽहताश इति नर्मवचनम्ऽ इति सम्बन्धः । तत्पदस्योक्तार्थानुगुणमर्थमाह---अन्यासां चेत्यादि । अन्यासां च त्वद्गृहगमनोत्सुकस्य मम चेति चकारार्थः । व्यङ्ग्यमाह--अत एवेत्यादि । अत एव यत एवंरूपो वाच्यार्थः, तत एव । ऽमदीयं गृहमागच्छ त्वदीयं वा गृहङ्गच्छावेति चाटवात्मा वल्लभाभिप्रायो व्यङ्ग्यऽ इति सम्बन्धः । इयत्येवेति । उक्तरूपव्यङ्ग्यः व्यवतिष्टत एव, न तु पश्चाद्वाच्योपस्काराय धावतीत्यर्थः । अत्र पक्षेऽनिवर्तस्वेऽ त्यस्य तवाध्ववसायान्निवर्तस्वेति वाच्यार्थे बोध्यः । अन्ये त्विति । पक्षेऽस्मिन्तटस्थानां नायिकाप्रेमाबावात्तेषां वचनं न प्रवर्तकं , न वा निवर्तकमतः पूर्वोक्तव्यङ्ग्यस्य वाच्याङ्गत्वं नेति बोध्यं । आमन्त्रणादीत्यादिपदेन अभिसारिकाविघ्नकरणवचनादेर्ग्रहणं ।
     ननु वृत्तौऽव्यवस्थापितऽ इत्युक्तिः कथं सङ्गच्छते व्यवस्थापनस्यानिष्पन्नत्वादित्यतो व्याचष्टे--विषयभेदोऽपीत्यादि । विचित्ररूपः नानाविधः । ऽकस्येऽ त्यस्य भावार्थविवरममनीर्ष्यालोरपीत्यादि । ऽकस्य वेऽति वाकारोऽवधारणार्थङ्को दृष्ट्वेत्युत्तरं थोज्य इत्याशयेन व्याचष्टे---दृष्ट्वैवेत्यादि । एवकारार्थमाह--अकृत्वापीति ।


सभमरपौमग्घाइणि वारिअवामे सहसु एह्णिं ।।
     अन्ये चैवंप्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः प्रतीयमानभेदाः सम्भवन्ति । तेषां दिङ्मात्रमेतत्प्रदर्शितं । द्वितीयोऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्चमग्रे दर्शायिष्यते ।


लोचनम्

प्रियायाःसव्रणमधरमवलोक्य । सभ्रमरपझाघ्रामशीले शीलं हि कथञ्चिदपि वारयितुं न शक्यं । वारिते वारणायां, वामे तदनङ्गीकारिमि । सहस्वेदानीमुपालम्भपरम्परामित्यर्थः । अत्रायं भावः---काचिदविनीता कुतश्चित्खण्डिताधरा निश्चिततत्सविधसंनिधाने तद्भर्तरि तमनवलोकमानयेव कयाचिद्विदग्धसख्या तद्वाच्यतापरिहारायैवमुच्यते । सहस्वेदानीमिति वाच्यमविनयवतीविषयं । भर्तृविषयं तु-अपराधो नास्तीत्यावेद्यमानं व्यङ्ग्यं । सहस्वेत्यपि च तद्विषयं व्यङ्ग्यं । तस्यां च प्रियतमेन गाढमुपारब्यमानायां तह्यलीकशङ्कितप्रातिवेशकलोकविषयं सौभाग्यातिशयख्यापनं प्रियाया इति शब्दबलादिति सपत्नीविषयं व्यङ्ग्यं । सपत्नीमध्ये इयता खलीकृतास्मीति

बालप्रिया

वस्तुतस्सव्रणत्वाभावेऽपीत्यर्थः । तर्हि कथं तदवलोक्नमित्यत आह--कुतश्चिदित्यादि । केनापि कारणेन प्रगद्दष्टविशेषवत्तया प्रमुखतः सव्रणतया विलोक्येत्यर्थः । कृत्वापीति पाठे कुतश्चिल्लाक्षारसादिना केनचिदेव कृत्वापि स्वयं कृत्वापीत्यर्थः । ऽवामेऽ इत्यस्य तदनङ्गीकारिणीति विवरणं । अत्रायं भाव इति । उक्ते वाच्यार्थे स्थिते वक्ष्यमाणो व्यङ्ग्यार्थ इत्यर्थः । कुतश्चिदिति । जारादिनेत्यर्थः । तद्वाच्यतेति । भर्तुरुपालम्भविषयतेत्यर्थः । तस्याः वाच्यतेति वा । वाच्यतापरिहारप्रसङ्गः क इत्यत उक्तं निश्चितेति । सख्या निश्चितेत्यर्थः । सविधः पुरोभागातिरिक्तः प्रदेशः । वाच्यव्यङ्ग्ययोर्विषयभेदं दर्शयति-सहस्वेत्यादिना । इत्यावेद्यमानमिति । निरपराधत्वमित्यर्थः । सहस्वेति । अधरव्रणावलोकनजनितकोपभरं सहस्वेत्यर्थः । इयमेवङ्खण्डिताधरा तदन्यहेतुकत्वशङ्कयामा कुप्येत्यर्थः । तस्यां नायिकायां । उपालब्यमानायामिति । प्रियातमागमनसमय इति शेषः । तह्यलीकमिति । तस्य भर्तुर्व्यलीकमप्रियमनया कृतमिति शङ्कितो यः प्रातिवेशिकलोकस्तद्विषयमित्यर्थः । प्रत्यायनं निरपराधत्वबोधनं । तत्सपत्न्यामिति । विषयभेदकथनप्रकरणत्वात्सप्तमी, तस्यै इत्यर्थः । तदित्यादि । तत्पदे नायिकार्थके । सौभाग्येति । नायिकासौभाग्येत्यर्थः । ख्यापनमिति । व्यङ्ग्यमिति शेषः । इति शब्दबलादिति । श्रुतप्रियाशब्दायाः प्रियतमकृतोपालम्भप्रतीत्यनन्तरमियमेव मत्तोऽधिकतरं सुभगेति प्रतीतिसम्भवादिति भावः । इयतेति । अविनयस्फुटोट्भावनेनेत्यर्थः । खलीकृता लघुःकृता । प्रत्युतेति । सखीमध्य इत्यनुषज्यते । बहुमान इति । अविनयस्यात्यन्तप्रच्छादनादिति भावः ।


तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्याक्षिप्तः


लोचनम्

लाघवमात्मनि ग्रहीतुं न युक्तं; प्रत्युतायं बहुमानः, सहस्व शोभस्वेदानीमिति सखीविषयं सौभाग्यप्रख्यापनं व्यङ्ग्यं । अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लभेत्थं रक्षिता, पुनः प्रकटरदनदंशनविधिर्न विधेय इति तच्चौर्यकामुकविषयसम्बोधनं व्यङ्ग्यं । इत्थं मयैतदपह्नुतमिति स्ववैदग्ध्यख्यापनं तटस्थविदग्धलोकविषयं व्यङ्ग्यमिति । तदेतदुक्तं व्यवस्थापितशब्देन । अग्र इति । द्वितीयोद्द्योतेऽअसंलक्ष्यक्रमव्यङ्ग्यः क्रमेणोद्द्योतितः परःऽ इति विवक्षितान्यपरवाच्यस्य द्वितीयप्रभेदवर्णनावसरे । यथा हि विधिनिषेधतदनुभयात्मना रूपेण संकलय्य वस्तुध्वनिः संक्षेपेण सुवचः, तथा नालङ्कारध्वनिः, अलङ्काराणां भूयस्त्वात् । तत एवोक्तम्-सप्रपञ्चं इति । तृतीयस्त्विति । तुशब्दो व्यतिरेके । वस्त्वलङ्कारावपि शब्दाभिधेयत्वमध्यासाते तावत् । रसभावतदाभासतत्प्रशमाः पुनर्न कदाचिदभिधियन्ते, अथ चास्वाद्यमानताप्राणतया भान्ति । तत्र ध्वननव्यापाराद्दते नास्तिकल्पनान्तरं । स्खलद्गतित्वाभावे मुख्यार्थबाधादेर्लक्षणानिबन्धनस्यानाशङ्कनीयत्वात् । औचित्येन प्रवृत्तौ चित्तवृत्तेरास्वाद्यत्वे स्थायिन्या रसो, व्यभिचारिण्या भावः, अनौचित्येन तदाभासः, रावणस्येव सीतायां रतेः । यद्यपि तत्र हास्यरसरूपतैव,ऽशृङ्गाराद्धि भवेद्धास्यःऽ इति वचनात् । तथापि पाश्चात्येयं सामाजिकानां

बालप्रिया

सखीति । नायिकेत्यर्थः । सम्बोधनमिति । उपदेश इत्यर्थः । न ह्येतत्सर्वं स्वोत्प्रेक्षामात्रेणोक्तमपि तु विधिधमवस्थापितोऽव्यवस्थापितऽ इति वृत्तिग्रन्थानुरोधेनेत्याह---तदेतदित्यादि । ननु वस्तुध्वनिवदलङ्कारध्वनेरप्यत्रैव प्रदर्शनीयत्वे किमित्यग्रे दर्शयिष्यत इत्युक्तमित्यतस्तात्पर्यमाह-यथा हीत्यादि । व्यतिरेकमेव दर्शयति---वस्त्वित्यादि । ऽशब्दाभिधेयत्वमपीऽति योजना । किं रसादयोऽपि तथेत्यत्राह-रसभावेति । भावादिग्रहणेन वृत्तिस्थादिशब्दो व्याख्यातः । अथ चेति । तथापीत्यर्थः । तत्रेति । रसादिभान इत्यर्थः । कल्पनान्तरं व्यापारान्तरं । नास्तीत्यत्र हेतुमाह---रखलदिति । रसादीनां स्वरूपमाह--औचित्येनेति । ऽऔचित्येन प्रवृत्ताविऽति रसभावयोः सम्बध्नाति । स्थाथिन्याश्चित्तवृत्तेरास्वाद्यत्वे रसः, व्यभिचारिण्याश्चित्तवृत्तेरास्वद्यत्वे भाव इति योजना । अनौचित्येनेति । स्थायिन्याश्चित्तवृत्तेरनौचित्येन प्रवृत्तावित्यर्थः । तदाभासः रसाभासः । रसाभासानां हास्याद्भेदं दर्शयिष्यन्प्राधान्याच्छृङ्गाराभासविषयमाह--रावणस्येति । हास्यविषय एवायमित्याशङ्क्य परिहरिति--यद्यपीत्यादि । तत्र सीताविषयकरावणरतौ । शृङ्गारादिति । शृङ्गाराभासद्वारेणेत्यर्थः । पाश्चात्या तन्मयीभवनकालोत्तरकालभवा । पूर्वापरविवेकदशायां

लोचनम्

स्थितिः, तन्मयीभवनदशायां तु रतेरेवास्वाद्यतेति शृङ्गारतैव भाति पौर्वापर्यविवेकावधारणेनऽदूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते शुतिम्ऽ इत्यादौ । तदसौ शृङ्गाराभास एव । तदङ्गं भावाभासश्चित्तवृत्तेः प्रशम एव प्रकान्तया हृदयमाह्लादयति यतो विशेषेण, तत एव तत्सङ्गृहीतोऽपि पृथग्गणितोऽसौ । यथा--
एकस्मिन्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो-
रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवं ।
दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषोर्-
भग्रो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ।।
     इत्यत्रेर्ष्यारोषात्मन्.ओ मानस्य प्रशमः । न चायं रसादिरर्थःऽपुत्रस्ते जातःऽ इत्यतो यथा हर्षो जायते तथा । नापि लक्षणया । अपि तु सहृदयस्य हृदयसंवादबलाद्विभावानुभावप्रतीतौ

बालप्रिया

विभावाभासज्ञानद्वारा स्थाय्याभासनिश्चयेनेत्यर्थः । इयं स्थितिः रतेर्हास्यरूपत्वाध्यवसायः । कुत इत्यत्राह---तन्मयीत्यादि । पौर्वापर्येति । विभावरत्याद्योर्यत्पौर्वापर्य तद्विवेकस्यावधीरणेनाभावेन । ऽइत्यादौ भतीऽत्यन्वयः । श्लोकोऽयं द्वितीयोद्योते वक्ष्यते । अत्रादौ सहृदयानां सीताविषयकरावणरतेस्तन्मयीभावेनास्वाद्यतेति शृङ्कारचर्वणैव, पश्चात्तद्रतेरनुचितालम्बनकत्वज्ञानेन तद्विषयकहासौद्बोधाद्धास्यचर्वणा शृङ्गारचर्वणा च तदाभासचर्वणैवेत्याशयेनोपसंहरति---तदिति । तदङ्गं भावाभास इति । शृङ्गारादिरसाभासस्याङ्गभूतो भावो भावाभास इत्यर्थः । भावशब्देनैव भावप्रशमस्यापि ग्रहणसम्भवात्किमिति पृथक्तद्ग्रहणमित्यत आह-चित्तवृत्तेरित्यादि । प्रक्रान्तायाः रसं व्यञ्जयितुमारब्धायाः । ऽप्रशम एव यतो विशेषेंणाह्लादयति । ततोऽसौ पृथग्गणितऽ इत्यन्वयः । तत्संगृहीतोऽपि भावशब्देन बोधितोऽपि । असौ भावप्रशमः ।
     एकस्सिन्नति । एकस्मिन्शयने सख्या कथञ्चिदेकशयनं नीतयोः । मानस्यानुवृत्या या पराङ्मुखता तया । वीतमपगतमुत्तरं शयनानन्तरकृत्यं यत्र, तत्तथा । ताम्यतोः सन्तप्यतोः । अन्योन्यस्येति । गौरवभङ्गभयेन हृदि स्थितमप्यनुनयमकुर्वतोः । अपाङ्गयोर्वलनाद्विवर्तनात् । मानकलिः प्रणंयरोषकलहः । हासेन रभसेन वेगेन, यद्व्यावृत्तं व्यावर्तनं तेन च सहितः कण्ठग्रहो यत्र, तत्तथा । योजयति-इत्यत्रेति । रिर्ष्यारूपो रोषस्तदात्मनः । क्रोधेति च पाठः । प्रशम इति । प्रतीयत इति शेषः । ऽवाच्यसामर्थ्यक्षिप्तः प्रकाशतऽ इत्यनेन दर्शितं विभावादिव्यङ्ग्यत्वं रसादेः साधयिष्यनादौ तस्य तात्पर्यशक्तिगम्यत्वं निषेधति---न चेत्यादि तथेत्यन्तेन । अत्र काव्यादिति शेषः । यथाऽपुत्रस्ते जातऽ इत्यादिवाक्यं प्रियरूपार्थप्रतिपादनमुखेन श्रोतुर्हर्षमुत्पादयति,


प्रकाशते, न तु साक्षाच्छब्दव्यापारविषय इति वाच्याद्विभिन्न एव । तथा हि वाच्यत्वं तस्य स्वशब्दनिवेदितत्वेन वा स्यात्विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन्पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः ।


लोचनम्

तन्मयीभावेनास्वाद्यमान एव रस्यमानतैकप्राणः सिद्धस्वभावसुखादिविलक्षणः परिस्फुरति । तदाह-प्रकाशत इति । तेन तत्र शब्दस्य ध्वननमेव व्यापारोऽर्थसहकृतस्येति । विभावाद्यर्थेऽपि न पुत्रजन्महर्षन्यायेन तां चित्तवृत्तिं जनयतीति जननातिरिक्तोऽर्थस्यापि व्यापारो ध्वननमेवोच्यते । स्वशब्देति । शृङ्गारादिना शब्देनाभिदाव्यापारवशादेव निवेदितत्वेन । विभावादीति । तात्पर्यशक्त्येत्यर्थः । तत्र स्वशब्दस्यान्वयव्यतिरेकौ रस्यमानतासारं रसं प्रति निराकुर्वन्ध्वननस्यैव ताविति

बालप्रिया

तथा काव्यं विभावाद्यर्थप्रतिपादनद्वारा तात्पर्यशक्त्या रसचर्वणां न जनयतीत्यर्थः । नापीति । रसादिरर्थ इत्यनुषज्यते । परिस्फुरतीत्यपपकृष्यते । आपत्वित्यादि । हृदयस्य संवादः सम्प्रतिपत्तिः, स एव बलं सहकारि तस्मात् । प्रतीतावित्यनेन सामग्री दर्शिता । आस्वाद्यमान एव सन् । रसपदलभ्यार्थकथनं---रस्यमानतेति । सुकादिवत्साध्यत्वं व्यावर्तयति--सिद्धेत्यादि । आत्मानतिरेकेण सिद्धस्वभावः । सुखादि तु तदतिरेकेण साध्यस्वभावमिति सुखादिविलक्षणश्चेत्यर्थः । यद्वा--स्थाय्येव विभावादिप्रत्ययारभ्यत्वाद्रस इति मतमपाकर्तुमाह---सिद्धेति । सिद्धस्वभावा ये सुखादयो भावाः सुखपदेन रतिर्विवक्षिता । तद्विलक्षण इत्यर्थः । तदाह तदेतदाह । फलितमाह---तेनेत्यादि । तेन कारकत्वलक्षकत्वयोरभावेन । इतीति । उक्तमिति शैषः । अथार्थस्यापि ध्वननमेव व्यापार इति जनकत्वनिषेधपूर्वकं दर्शयति-विभावाद्यर्थोऽपीत्यादि । ऽस्वशब्दनिवेदित्त्वेन वेऽत्यादिना यत्कल्पद्वयमुक्तं तदभिधातात्पर्यशक्तिद्वयाभिप्रायकमिति दर्शयति--शृङ्गारादिनेत्यादि । तत्रेति । आद्यपक्ष इत्यर्थः । अन्वयेति । यत्र यत्र रसादिप्रतीतिः, तत्र तत्र नेति व्यतिरेकः, तावित्यर्थः । यद्वा---स्वशब्दसत्वे रसादिप्रतीतिस्तदभावे रसादिप्रतीत्यभाव इत्यन्वयव्यतिरेकावित्यर्थः । रस्यमानतासारमिति हेतुगर्भं ।


न च सर्वत्र तेषां स्वशब्धनिवेदितत्वं । यत्राप्यस्ति तत्, तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः । स्वशब्देन सा केवलमनूद्यते, न तु तत्कृता । विषयान्तरे तथा तस्या अदर्शनात् । न हि केवलशृङ्गरादिब्दमात्रभाजि


लोचनम्

दर्शयति--न च सर्वत्रेति । यथा भट्टेन्दुराजस्य---
यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने
यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।
दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः
कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ।।
     इत्यत्रानुभावविभावबोधनोत्तरमेव्.अ तन्मयीभवनयुक्त्या तद्विभावानुभावोचितचित्तवृत्तिवासनानुरञ्जितस्वसंविदानन्दचर्वणागोचरोऽर्थो रसात्मा स्फुरत्येवाभिलाषचिन्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादिशब्दाभावेऽपि । एवं व्यतिरेकाभावं प्रदर्श्यान्वयाभावं दर्शयति-यत्रापीति । तदिति स्वशब्दनिवेदितत्वं । प्रतिपादनमुखेनेति । शब्दप्रयुक्तया विभावादिप्रतिपत्त्येत्यर्थः । सा केवलमिति । तथा हियाते द्वारवतीं तदा मधुरिपौ तद्दत्तझम्पानतां

बालप्रिया

     व्यभिचारविषयमुदाहरति---यदिति । विश्रम्य मध्ये मध्ये विरम्य । निस्थेमनी स्थैर्यरहिते अतिव्याकुले । आद्यपादेन अलसा नाम दृष्टिरुक्ता । व्रीडौत्सुक्यै च द्योत्येते । दरिद्रति कृशीभवन्ति शुष्यन्ति च । लूनेत्याद्युपमया म्लानच्छायत्वादिकं द्योत्यते । निविडः घनःवर्णान्तरानुप्रवेशरहितः । पादत्रयेणानुभावव्यभिचारिवर्गो दर्शितः । यूनि आरब्धयौवने । कृष्ण इत्यनेन विभावश्च । वनितासुगोपीषु । एषैव उक्तालसविलोकनादिरूपैव । वेषस्थितिः वेषरचना । तदिति । तन्मयीभवनस्य युक्तिर्योगस्तया । तदिति । तेषां रसादीनां त एव वा ये विभावानुभावाः,तेषामुचिता याश्चित्तवृत्तयः स्थायिव्यभिचारिरूपास्तासां वासनाभिरनुरञ्जिताया रूषितायास्स्वसंविदो या आनन्दमयी चर्वणा तस्याः, गोचरो विषय इत्यर्थः । ऽरसात्मा अर्थः इत्यादिशब्दाभावेऽपिस्फुरत्येवेऽति सम्बन्धः । अभिलाषः अभिलाषविप्रलम्भः । अत्राभिलाषो महावाक्येन चिन्तादयस्त्ववान्रवाक्येन व्यज्यन्त इति बोध्यं । अन्वयाभावमिति । यदि लक्ष्ये स्वशब्देन रसादिप्रतीतिस्तर्ह्यन्वयः स्यान्न तु स्वशब्देनातोऽन्वयाभाव इति भावः । वृत्तौऽयत्रापीऽ त्यपिशब्दस्तुशब्दार्थे । यात इति । द्वारवर्ति यात इत्यनेन प्रत्यागमनप्रत्याशाविरहः सूच्यते । मधुरिपावित्यनेन दुष्टनिग्रहव्यग्रताद्योतनेन स एवोपोद्बलितः । तदा मगधराजे मधुरामुपरुन्द्दति सति । आलिङ्गने हेतुमाह--तद्दत्तेति । तेन मधुरिपुणा

लोचनम्

कालिन्दीतटरूढवञ्जुललतामालिङ्ग्य सोत्कण्ठया ।
तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितं ।।
इत्यत्र विभावानुभावावम्लानतया प्रतीयेते । उत्कण्ठा च चर्वणागोचरं प्रतिपद्यत एव । सोत्कण्ठाशब्दः केवलं सिद्धं साधयति, उत्कमित्यनेन तूक्तानुभावानुकर्षणं कतुं सोत्कण्ठाशब्दः प्रयुक्त इत्यनुवादोऽपि नानर्थकः, पुनरनुभावप्रतिपादने हि पुनरुक्तिरतन्मयीभावो वा न तु तत्कृतेत्यत्र हेतुमाह---विषायान्तर इति । ऽयद्विश्रम्यऽ

बालप्रिया

दत्ता या झम्पा वेगेनोर्ध्वादिदेशादास्फालनपूर्वकपतनक्रिया विहरणकालभवा तया । झम्पाशब्दः पुल्लिङ्गो वा । आनतां दाने हि प्रतिग्रहीतुरानतिरुचिता । ऽसम्पन्नतेऽति पाठे तेन दत्ता सम्पादिता सम्पन्नता पुष्पपल्लवादिसमृद्धिर्यस्यास्तामित्यर्थः । कालिन्दीतटरूढेति वल्लभविहरणस्थानरूढत्वेन सौभाग्यातिशयं सूचयति, तद्देशत्योत्कण्ठाकारित्वं च । तत्तथाविधं । गातमिति भावे क्तः । गुर्विति । गुरुणा प्रभूतेन बाष्पेण रुद्धकण्ठतया गद्गदं यथा तथा गलन्प्रसरन्तार उच्चैस्तश्च स्वरो यत्र तत्तथा । येन गीतेन । यदाकर्णनेनेति यावत् । अन्तर्जलचारिभिः सारसादिमिरपि, न केवलं जलबहिर्भागसञ्चारिभिर्हसादिभिः । उत्कं सोत्कण्ठं । उत्कूजितं उच्चैःकूजितं तन्मयीभवनयुक्त्या रुदितमित्यर्थः । विभावानुभावाविति । मधुरिपुविरहो, वियुक्तो मधुरिपुर्वा आलम्बनविभावः, कालिन्दीतटादय उद्दीपनविभावाः, लतालिङ्गनादयोऽनुभावाः । ऽविभानुभावम्ऽ इति च पाठः । अम्लानतया अक्लेशेन वाच्यतयैवेति यावत् । प्रतीयेते प्तीयत इति च पाठः । ततः किमत आह---उत्कण्ठा चेति । चर्वणाया गोचरं विषयत्वं प्रतिपद्यत एव, नात्र स्वशब्दापेक्षामूलकस्संशयः कार्य इत्यर्थः । ननु सा स्वशब्दावेदितैवेत्यत आह--सोत्कराठाशब्ग इति । सिद्धं साधयतीति । ज्ञातं ज्ञापयतीत्यर्थः । अतश्चानुवादक इति भावः । केवलशब्दनात्र विभावानुभावौ प्रति सहकारित्वमपि नेति दर्शयति । अनुवादोऽप्ययं नानर्थक इत्याह--उत्कमित्यादि । अयमर्थः---जलचारिणां कूजितेऽपि गुरुबाष्पेत्याद्युक्तानुभावानां संयोजन एव तन्मयीभवनयुकत्या तदुत्कण्ठायाश्चर्वणागोचरत्वं भवति । उत्कमित्यनेन च तदनुभावसाहित्यं प्रतिपिपादयिषितं । न च केवलेनोत्कशब्देन तत्प्रतिपादनं भवति, तस्य तावत्यपर्याप्तत्वात् । सति च पूर्ववाक्ये सोत्कण्ठाशब्दे तत्संगृहीतानामनुभावानां सोत्कण्ठासमानार्थकोत्कशब्देन प्रतिपादनं भवतीति सोत्कण्ठाशब्दस्सप्रयोजन इत्यर्थः । ननु पुनरप्यनुभावप्रदर्शनमस्त्वित्यत आहपुनरिति । न केवलं पुनरुक्तिरेव, तथाविधस्यानुभवजातस्य तन्मयीभवनोपयोगितापि न स्यादनौचित्यप्रतिपत्तिग्रस्तसौभाग्यत्वादित्याह--अतन्मयीति । ऽविषयान्तरऽ


विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति । यतश्च स्वाभिधानमन्तरेण केवलेभ्योऽपि विभावादिभ्यो विशिष्टेभ्यो रसादीनां प्रतीतिः । केवलाच्च स्वाभिधानादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनां । न स्वभिधेयत्वं कथञ्चित्,


लोचनम्

इत्यादौ । न हि यदभावेऽपि यद्भवति तत्कृतं तदिति भावः । अदर्शनमेव द्रढयतिन हीति । केवलशब्दार्थ स्फुटयति---विभावादीति । काव्य इति । तव मते काव्यरूपतया प्रसज्यमान इत्यर्थः । मनागपीति ।
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ।।
     इत्यत्र. । एवं स्वशब्देन सह रसादेर्व्यतिरेकान्वयाभावमुपपत्या प्रदर्श्य तथैवोपसंहरति-यतश्चेत्यादिना कथञ्चिदित्यन्तेन । अभिधेयमेव सामर्थ्यं सहकारिशक्तिरूपं विभावादिकं रसध्वनने शब्दस्य कर्तव्ये, अभिधेयस्य च पुत्रजन्महर्षभिन्नयोगक्षेमतया जननव्यतिरिक्ते दिवाभोजनाभावविशिष्टपीनत्वानुमितरात्रिभोजनविलक्षणतया चानुमानव्यतिरिक्ते ध्वनने कर्तव्ये सामर्थ्यं शक्तिः विशिष्टसमुचितो वाचकसाकल्यमिति

बालप्रिया

इत्यस्य विवरणं यद्विश्रम्येत्यादाविति । भावमाह-न हीति । ऽतत्तत्कृतं न हीऽति सम्बन्धः । ननु विभावादिप्रतिपादकत्वाभावे कथं काव्यत्वं, येन सिद्धवन्निर्देश इत्याशङ्कां परिहरन्पराभिमतस्यैव काव्यरूपत्वप्रसञ्जनाभिप्रायेयमुक्तिरित्याह---तव मत इत्यादि । स्वशब्दकृता रसादिप्रतीतिः न विभावादिकृतेत्यस्मिन्मते काव्यत्वेनानभिमतमपि काव्यमापद्येतेत्यर्थः । तथाविधमेवोदाहरणमाह--शृङ्गारेति । ऽयतश्चेऽत्यादिवृत्तिग्रन्थस्यानर्थक्यशङ्कामुपसंहारत्वोक्त्या शमयन्नाह--एवमित्यादि । वृत्तावभिधेयसामर्थ्याक्षिप्तत्वमुपसंहृतं, तत्तु शब्दार्थोभयगतध्वननव्यापारगम्यत्वरूपमिति व्याचष्टे---अभिधेयमेवेत्यादि । सामर्थ्यपदस्य विवरणम्--सहेत्यादि । सहकारि एव शाक्तिः शक्नोत्यनयेति शक्तिस्तद्रूपं । तत्किमित्यत्राह--विभावादिकमिति । ध्वनन इत्याक्षेपपदव्याख्यानं । कर्मधारयाश्रयणेन शब्दे योजयित्वा षष्टीतत्पुरुषाश्रयेणार्थे योजयति---अभिधेयस्य येत्यादि । अभिधेयस्येत्यस्य ध्वनन इत्यनेन सम्बन्धः । भिन्नयोगक्षेमतया भिन्नस्वभावतया । पुत्रजन्म खलु हर्ष जनयति, न तथा विभावाद्यर्थो रसं जनयतीति तद्विलक्ष्णत्वमर्थगतध्वननस्य । अनुमानपक्षमपि पराकरोति--दिवेति । सामर्थ्यमैत्यस्य व्याख्यानम्--शक्तिरिति । शक्तिमेव विवृणोति--विशिष्टेति । गुणालङ्कारादिविशिष्टेन समुचितेन रसानुगुणेन च वाचकेन


इति तृतीयोऽपि प्रभेदो वाच्याद्भिन्न एवेति स्थितं । वाच्येन त्वस्य सहेव प्रतीतिरित्यग्रे दर्शयिष्यते ।
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।


लोचनम्

द्वयोरपि शब्दार्थयोर्ध्वननं व्यापारः । एवं द्वौ पक्षावुपक्रम्याद्यो दूषितः, द्वितीयस्तु कथञ्चिद्दूषितः कथञ्चिदङ्गीकृतः, जननानुमानव्यापाराभिप्रायेण दूषितः; ध्वननाभिप्रायेणाङ्गीकृतः ।
     यस्त्वत्रापि तात्पर्यशक्तिमेव ध्वननं मन्यते, स न वस्तुतत्त्ववेदी । विभावानुभावप्रतिपादके हि वाक्ये तात्पर्यशक्तिर्भेदे संसर्गे वा पर्यवस्येत्; न तु रस्यमानतासारे रसे इत्यलं बहुना । इतिशब्दो हेत्वर्थे । ऽइत्यपि हेतोस्तृतीयोऽपि प्रकारो वाच्याद्भिन्न एवेऽति सम्बन्धः । सहेवेति । इवशब्देन विद्यमानोऽपि क्रमो न संलक्ष्यत इति तद्दर्शयति--अग्र इति । द्वितीयोद्द्योते ।। ४ ।।
     एवंऽप्रतीयमानं पुनरन्यदेवऽ इतीयता ध्वनिस्वरूपं व्याख्यातं । अधुना काव्यात्मत्वमितिहासव्याजेन च दर्शयति---काव्यास्यात्मेति । स एवेति प्रतीयमानमात्रेऽपि प्रक्रान्ते तृतीय एव रसध्वनिरिति मन्तव्यं, इतिहासबलात्प्रक्रान्तवृत्तिग्रन्थार्थबलाच्च ।

बालप्रिया

साकल्यं परिपूर्णत्वमित्यर्थः । इतीति हेतौ । आद्य इति । ऽस्वशब्दनिवेदितत्वेन वेऽति पक्ष इत्यर्थः । द्वितीय इति । ऽविभावादिप्रतिपादनमुखेन वेऽति पक्ष इत्यर्थः ।
     रसादीनामभिधेयसामर्थ्याक्षिप्तत्वमेवेति वदतो वृत्तिकृतस्तात्पर्यशाक्तिरेव ध्वननव्यापारोऽभिमतः, न तु तद्व्यतिरिक्तश्चतुर्थकक्ष्यानिवेशी अभिधेयान्यथानुपपत्तिसहायार्थबोधनशक्तेरेव तात्पर्यशक्तित्वादिति कश्चिदाह, तन्मतमनूद्य दूषयति--यस्त्वित्यादि । भेदे संसर्गे वेति । गामानयेत्यादौ कर्मान्तरेभ्यः क्रियान्तरेभ्यश्च भेदो वाक्यार्थः, संसर्गस्त्वार्थ इति केचित् । कर्मविशेषादेः क्रियाविशेषेण सम्बन्धरूपसंसर्गो वाक्यार्थः, भेदस्त्वार्थ इत्यपरे ।। ४ ।।
     ननु ध्वनिस्वरूपे वाच्याद्भेदेन समर्थिते, लक्षणनुक्त्वा तस्यात्मत्वप्रतिपादिकायाः कारिकायाः का सङ्गतिरित्यतो वृत्तानुवादपुरस्सरं तां दर्शयति--एवमित्यादिना । व्याख्यातमिति । ध्वनिस्वरूपं तस्य काव्यात्मत्वञ्चेति प्रकृतयोर्द्वयोराद्यं प्रतिपादितमित्यर्थः । इतिहासव्याजेनेति । व्याजशब्देन ध्वनेरात्मत्वप्रतिपादन एव तात्पर्यं, नेतिहासोपक्षेप इति दर्शितं । प्रकृतानुगुण्येन व्याचष्टे---स एवेत्यादि । स एवेतीत्यस्यानन्तरं


क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ।। ५ ।।


लोचनम्

तेन रस एव वस्तुत आत्मा, वस्त्वलङ्कारध्वनी तु सर्वथा रसं प्रतिपर्यवस्येते इति वाच्यादुत्कृष्टौ तावित्यभिप्रायेणऽध्वनिः काव्यस्यात्मेऽति सामान्येनोक्तं । शोक इति । क्रौञ्चस्य द्वन्द्ववियोगेन सहचरीहननोद्भूतेन साहचर्यध्वंसनेनोत्थितो यः शोकः स्थायिभावो निरपेक्षभावत्वाद्विप्रलम्भशृङ्गारोचितरतिस्थायिभावादन्य एव, स एव तथाभूतविभावतदुत्थाक्रन्दाद्यनुभावचर्वणया हृदयसंवादतन्मयीभवनक्रमादास्वाद्यमानतां

बालप्रिया

तच्छब्देनेति, रसध्वनिरित्यस्यानन्तरं परामृष्ट इति च शेषः । मन्तव्यमिति । युक्त्या निश्चेतव्यभित्यर्थः । तामाह--इतिहासेत्यादि । इतिहासवलादिति । कारिकाशेषबलादित्यर्थः । प्रक्रान्तेति । ऽतृतीयस्त्विऽत्यादिना पूर्वोक्तेत्यर्थः । ऽप्रतीयमानस्य चेऽत्यादि समनन्तरवृत्तिग्रन्थस्याप्युपलक्षणमिदं । तेनेति । यस्माद्रस ध्वनिरेव स एवेति परामर्शनीयस्तस्मादित्यर्थः । ऽतेन इत्यभिप्रायेण सामान्येनोक्तम्ऽ इति सम्बन्धः । इतिशब्दपरामृष्टमभिप्रायमाह--रस एवेत्यादि । सर्वथेति । अङ्गित्वेऽङ्गत्वे चेत्यर्थः । इतीति हेतौ । अन्यथा प्रतिपत्तिनिरासाय विवक्षितं व्याचष्टे---क्रौञ्चस्येत्यादि । द्वन्द्ववियोगकाणमाह---सहचरीत्यादि । द्वन्द्ववियोगेनेत्यस्य व्याक्यानम्---साहचर्यध्वंसनेनेति । उत्थितः उत्पन्नः । क्रौञ्ज इति शेषः । साहचर्यध्वंसोत्थत्वेन प्राप्तं शृङ्गारस्थायित्वं प्रतिषेधति--निरपेक्षेत्यादि । उपेक्षायाः सङ्गमप्रत्याशायाः निष्क्रान्तो निरपेक्षो भावस्तत्वात् । क्रौञ्चेत्यादिकं व्याख्याय शोकस्य श्लोकताप्राप्तिं विवृणोति---स एवेत्यादि । क्रौञ्चे तातस्य शोकस्य वासनारूपेणादिकवौ स्थितस्य शोकस्य चाभेदबुद्धिकृतमैक्यं विवक्षित्वा स एवेत्युक्तं । ऽस एवेति श्लोकरूपतां प्राप्तऽ इति सम्बन्धः । अत्र हेतुः--करुणरसरूपतां प्रतिपन्न इति । तत्र चास्वाद्यमानतां प्रतिपन्न इति । रत्यादिचित्तवृत्तिरास्वाद्यमाना हि शृङ्गारादिव्यपदेशगोचर इति भावः । आस्वाद्यमानताप्राप्तौ हेतुः---हृदयेत्यादि । सहृदयस्यादौ हृदयसंवादः, ततस्तन्मयीभावलाभस्तदुत्तरमास्वाद इति क्रमः । अत्रापि हेतुः---तथाभूतेत्यादि । तथाभूतो ध्वस्तसाहचर्यो विभावः क्रौञ्चरूपः ।

लोचनम्

प्रतिपन्नः करुणरसरूपतां लौकिकशोकव्यतिरिक्तां स्वचित्तद्गुतिसमास्वाद्यसारां प्रतिपन्नो रसपरिपूर्णकुम्भोच्चलनवच्चित्तवृत्तिनिःष्यन्दस्वभाववाग्विलापादिवच्य समयानपेक्षत्वेऽपि चित्तवृत्तिव्यञ्जकत्वादिति नयेनाकृतकतयैवावेशवशात्समुचितशब्दच्छन्दोवृत्तादिनियन्त्रितश्लोकरूपतां प्राप्तः--
मा निषाद प्रतिष्टां त्वंमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।। इति ।।
     न तु मुनेः शोक इति मन्तव्यं । एवं हि सति तद्दुःखेन सोऽपि दुःखित इति कृत्वा रसस्यात्मतेति निरवकाशं भवेत् । न च दुःखसन्तप्तस्यैषा दशेति । एवं चर्वणोचितशोकस्थायिभावात्मककरुणरसमुच्चलनस्वभावत्वात्स

बालप्रिया

आक्रान्दनादीत्यादिपदेनावनितलपरिलुण्ठनादिर्ग्राह्यः । करुणरसरूपताप्राप्तेः फलमाहलौकिकेति । स्वरूपसामग्रीभेदादिति भावः । स्वसंवेदनप्रमाणसिद्धत्वमलौकिकरसस्य दर्शयितुमाह---स्वेत्यादि । स्वस्य चर्वयितुश्चित्तस्य या द्गुतिस्तन्मयीभावजनिता पुलकादिभिर्लक्ष्यमाणा तया समास्वाद्यो मनसानुभाव्यः सारः प्राणो यस्यास्तां । कथमात्मभूतस्य रसस्य बहिःश्लोकतया परिणाम इति शङ्कायां दृष्टान्तेनोत्तरमाह---रसेत्यादि । यथा जलपरिपूर्णमौलिस्थकुम्भोच्चलने तद्गतजलं बहिः प्रस्रवति, तथेत्यर्थः । मूर्तत्वामूर्तत्वाभ्यां वैषम्याशङ्कायां दृष्टान्तान्तरमाह--चित्तवृत्तीत्यादि । यथा दुःखादि चित्तवृत्तिपरिणामरूपा वाङ्मया विलापादयः, आदिपदेन प्रशंसादयो ग्राह्याः, तथेत्यर्थः । चकारो विकल्पे । ननु रसस्य काव्यात्मत्वं तद्विषयत्वेनैव वक्तव्यं । न च समयसव्यपेक्षप्रवृत्तिकस्य शब्दस्य तद्विषयत्वं सम्भवतीत्याशङ्कामनुवदन्व्यङ्ग्यत्वेन तद्विषयत्वं दर्शयति--समयानपेक्षत्वेऽपीत्यादि । इति नयेनेति । लोके हि विलापप्रशंसादयो वचनप्रकाराः शोकबहुमानरूपां चित्तवृत्तिं व्यञ्जयन्तीत्युक्तरीत्येत्यर्थः । अकृतकतयैवेति । अमुमर्थमनेन प्रकाशयामीति बुद्धिपूर्वकत्वमन्तरेणैवेत्यर्थः । तर्हि कथमित्यत आह--आवेशवशादिति । आवेशः आत्मव्याप्तिः । समुचितेति । समुचिता एव शब्दादयो रसादीन्व्यञ्जयन्तीति भावः । आदिकवेः श्लोकत्वमागत इत्येवं व्याख्यायादिकवेः शोक इत्यन्वयभ्रमं निरस्यति---न त्वित्यादि । मुनिशब्देन दुःखप्रसङ्गं निरस्यति । तथान्वये दोषमाह--एवमित्यादि । तद्दुःखेन ज्ञातेन क्रौञ्जटुःखेन । सोऽपि आदिकविरपि । इति कृत्वा इत्यर्थाद्धेतोः । इतीति । इति वचनमित्यर्थः । दोषान्तरमप्याह--न चेति । एषा दशेति । शापवचनकर्तृत्वरूपा श्लोकरचनारूपा वा दर्शत्यर्थः । उपसंहरति--एवमित्यादि । एवमुक्तप्रकारेण चर्वणोचितः शोकस्थायिभाव एवात्मा यस्य तथा भूतो यः करुणरसस्तस्य


विविधवाच्यवाचकरचनाप्रपञ्जचारुणः काव्यस्य स एवार्थः सारभूतः ।


लोचनम्

एव काव्यस्यात्मा सारभूतस्वभावोऽपरशाव्दवैलक्षण्यकारकः एतदेवोक्तं हृदयदर्पणे--ऽयावत्पूर्णो न चैतेन तावन्नैव वमत्यमुम्ऽ इति । अगम इति च्छान्दसेनाडागमेन । स एवेत्यावकारेणेदमाह--नान्य आत्मेति । तेन यदाह भट्टनायकः--
शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।
अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ।।
द्वयोर्गुणत्व्.ए व्यापारप्राधान्ये काव्यधीर्भवेत् ।।
     इति तदपास्तं । व्यापारो हि यदि ध्वननात्मा रसनास्वभावस्तन्नापूर्वमुक्तं । अथाभिधैव व्यापारस्तथाप्यस्याः प्रधान्यं नेत्यावेदितं प्राक् ।
     श्लोकं व्याचष्टे-विविधेति । विविधं तत्तदभिव्यञ्जनीयरसानुगुण्येन विचित्रं कृत्वा

बालप्रिया

समुच्चलनं बहिः प्रसरणं स्वभावः स्वरूपं यस्यऽमा निषादेऽत्यादिश्लोकस्य तस्य भावस्तत्वं तस्मात् । स एव करुणरस एव । काव्यस्यात्मेति । यतोऽमा निषादेऽत्यादिकाव्यं करुणरससमुच्चलनस्वरूपमतः काव्यस्य रस एवात्मेति भावः । आत्मेत्यस्य व्याख्या सारभूतस्वभाव इति । तदुपपादकम्---अपरेत्यादि ।
     काव्यस्य रससमुच्चलनस्वभावत्वे भट्टनायकवचनं संवादयति---यावदिति । कविरिति शेषः । एतेन रसेन । यावन्न पूर्णाः विभावादितन्मयीभवनक्रमेण, तावतमुं रसं । नैव वमति बहिर्भावमापाद्य परास्वादनीयं नैव करोति । रसेन पूर्ण एव कविः, काव्यरूपेण रसमुद्गिरतीति रसवमनरूपस्य काव्यस्य रसरूपत्वमेवेति भावः । स्वेन विलिखितेऽमा निषादेऽत्यादौऽअगमऽ इत्यडागमस्य "नमाङ्योगऽ इति निषेधशङ्कायामुपपत्तिमाह--अगम इत्यादि । तेनेति । रसस्यात्मत्वसमर्थनेनेत्यर्थः । ऽतदपास्तम्ऽ इत्यानेनास्य सम्बन्धः । शब्देति । आश्रित्येति । प्रवृत्तमिति शेषः । शास्त्रं वेदादि । अर्थतत्वेन अर्थप्राधान्येन । युक्तमितिहासादि । ऽयुक्तेऽ इति च पाठः । एतयोर्द्वयोः शब्दार्तयोः । काव्यधीः काव्यव्यवहारः । तद्वति प्रबन्ध इति शेषः । व्यापार इति । व्यापारप्राधान्य इत्यत्र व्यापारपदार्थ इत्यर्थः । अथेति शङ्कायां ।
     विविधं वाच्यवाचकरचनासु प्रपञ्जेन चारु इति विग्रहमभिप्रेत्य व्याचष्टे---तत्तदित्यादि । तैस्तैर्वाच्यादिभिरिभिव्यञ्जनीयो यो रसः, तं प्रत्यानुगुण्येन । विचित्रं कृत्वेति ।


तथा चादिकर्वर्वाल्मीकेः निहतसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः ।


लोचनम्

वाच्ये वाचके रचनायां च प्रपञ्चेन यच्चारु शब्दार्थालङ्कारगुणयुक्तमित्यर्थः । तेन सर्वत्रापि ध्वननसद्भावेऽपि न तथा व्यवहारः । आत्मसद्भावेऽपि क्वचिदेव जीवव्यवहार इत्युक्तं प्रगेव । तेनैतन्निरवकाशम्; यदुक्तं हृदयदर्पणे---ऽसर्वत्र तर्हि काव्यव्यवहारः स्यात्ऽ इति । निहतसहचरीति विभाव उक्तः । आक्रन्दितशब्दनानुभावः ।

बालप्रिया

वाच्यादीति शेषः । कृत्वेत्यस्य प्रपञ्चेनेत्यनेन, वाच्य इत्यादित्रयस्य चार्वित्यनेन च सम्बन्धः । प्रपञ्चेन प्रपञ्चनेन । चारु सुन्दरं । अनेन विवक्षितमाह---शब्देत्यादि । तेनेति । विविधेत्याद्युक्तस्य काव्यत्वेनेत्यर्थः । सर्वत्रापि सिंहो देवदत्त इत्यादावपि । तथाव्यवहारः काव्यव्यवहारः । ऽइति यदुक्तमेतन्निरवकाशम्ऽ इति सम्बन्धः । विभाव इति । ध्वस्तसाहचर्यः क्रौञ्च आलम्बनविभावः, निहननमुद्दीपनविभावः । ननु निहतेत्यादियथाश्रुतग्रन्थेन तदाक्रन्दजनितो मुनेश्शोक इत्यर्थ इव पग्रतीयते । तत्कथं


     शोको हि करुणस्थायिभावः । प्रतीयमानस्य चान्यभेददर्शनेऽपि


लोचनम्

जनित इति । चर्वणागोचरत्वेनेति शेषः ।
     ननु शोकचर्वणातो यदि श्लोक उद्भूतस्तत्प्रतीयमानं वस्तु काव्यस्यात्मेति कुत इत्याशङ्क्याह---शोको हीति । करुणस्य तच्चर्वणागोचरात्मनः स्थायिभावः । शोके हि स्थायिभावे ये विभावानुभावास्तत्समुचिता चित्तवृत्तिश्चर्व्यमाणात्मा रस इत्यौचित्यात्स्थायिनो रसतापत्तिरित्युच्यते । प्राक्स्वसंविदितं परत्रानुमितं च चित्तवृत्तिजातं

बालप्रिया

पूर्वं तन्निषेध इत्यतो व्याचष्टे---चर्वणेत्यादि । तदाक्रन्देन जनितश्चर्वणागोचरीकृत इत्यर्थः । शोक इत्यस्य वासनारूपेण स्थितो मुनेः शोक इत्यर्थश्चेति भावः ।
     ननुऽशोको हीऽत्यादिग्रन्थेन शोकस्य करुणरसस्थायित्वानुवादोऽत्र निरर्थक इत्यतस्तद्ग्रन्थमवतारयति---नन्वित्यादि । तदिति । तर्हित्यर्थः । प्रतीयमानं वस्त्विति । रस इत्यर्थः । प्रकृताविस्मरणार्थमेवमुक्तं । समाधानसिद्ध्यनुगुणं व्याचष्टे---करुणस्येत्यादि । तच्चर्वणेति । शोकचर्वणेत्यर्थः । ऽशोकः श्लोक्त्वमागतःऽ इति शोकचर्वणातः श्लोकोत्पत्तिवचनेनैव रसस्यात्मवं प्रकाशितमेव शोकचर्वणागोचरात्मत्वात्करुणरसस्येति भावः । ननु कथमन्यचर्वणाया अन्यो विषयः स्यादित्यत उपपादयतिशोके हीत्यादि । शोके स्थायिभावे क्रौञ्चादिवर्ण्यमानगते शोकादौ स्थायिभावे । निमित्ते सप्तमी । ये विभावानुभावा । इति । शोकादेर्निमित्तभूता ये विभावाः कार्यभूता ये अनुभवाश्चेत्यर्थः । तत्समुचिता चर्व्यमामानां तेषां विभावानुभावानां समुचिता । वर्ण्यमानतत्तद्गतस्थायिसजातीयेति यावत् । चित्तवृत्तिः चर्वयितरि वासनारूपेण स्थिता शोकादिचित्तवृत्तिः । चर्व्यमाणात्मा रस्यमानात्मा । रसः रसपदार्थः । औचित्यादिति । उपयोगित्वनिबन्धनादुपचारादित्यर्थः, न मुख्यत्वेनेति भावः । रसतापत्तिः रसत्वप्राप्तिः । उच्यते "स्थायिभावो रस" इत्यादिना उच्यते । उपयोगित्वं दर्शयति-प्रागित्यादि । सहृदयेनेति शेषः । स्वसंविदितं स्वस्मिन्ननुभूतं । परत्र क्रौञ्चादौ । अनुमितमाक्रन्दनादिनेत्यर्थात् । चित्तवृत्तीति । स्थायीत्यर्थः । संस्कारेत्यादि । स्वानुभवसंस्कारं स्वानुमानसंस्कारं चाधाय ताभ्यां हृदयसंवादमादधानं सदित्यर्थः । ऽयत उपयुज्यते तत औचित्यादिऽति सम्बन्धः ।


रसभावमुखेनैवोपलक्षणं प्राधान्यात् ।


लोचनम्

संस्कारक्रमेण हृदयसंवादमाद धानं चर्वणायामुपयुज्यते यतः । ननु प्रतीयमानरूपमात्मा तत्र त्रिभेदं प्रतिपादितं न तु रसैकरूपम्, अनेन चितिहासेन रसस्यैवात्मभूतत्वमुक्तं भवतीत्याशङ्क्याभ्युपगमेनैवोत्तरमाह-प्रतीयमानस्य चेति । अन्यो भेदो वस्त्वलङ्कारात्मा । भावग्रहणेन व्यभिचारिणोऽपि चर्व्यमाणस्य तावन्मात्राविश्रान्तावपि स्थायिचर्वणापर्यवसानोचितरसप्रतिष्टामनवाप्यापि प्राणत्वं भवतीत्युक्तं । यथा---
नखं नखाग्रेम विघट्टयन्ती विवर्तयन्ती वलयं विलोलं ।
आमन्द्रमाशिञ्जितनूपुरेण पादेन मन्दं भुवमालिखन्ती ।।
     इत्यत्र्.अ लज्जायाः । रसभावशब्देन च तदाभासतत्प्रशमावपि संगृहीतावेव; अवान्तरवैचित्र्येऽपि तदेकरूपत्वात् । प्राधान्यादिति । रसपर्यवसानादित्यर्थः । तावन्मात्राविश्रान्तावपि चान्यशाब्दवैलक्षण्यकारित्वेन वस्त्वलङ्कारध्वनेरपि जीवितत्वमौचित्यादुक्तमिति भावः ।। ५ ।।

बालप्रिया

प्रतीयमानरूपमात्मेति । "काव्यस्यात्मा ध्वनि"रिति प्रतीयमानसामान्यस्यात्मत्वाभिधानादिति भावः । वृत्तौऽरसेऽत्यादि । रसमुखेनैव भावमुखेनैव चेत्यर्थः । ऽउपलक्षणम्ऽ इति । प्रतीयमानस्येत्यनुषज्यते । केनापि सम्बन्धेनान्योन्यसम्बन्धिषु प्रधानस्य यदन्यज्ञापनं तदुपलक्षणं; यथा राजासौ गच्छतीत्यत्र राजा परिवारस्योपलक्षकः । अत्र भावग्रहणस्य फलमाह--भावेत्यादि । ऽभावग्रहणेन इत्युक्तम्ऽ इति सम्बन्धः । तावदिति । तावन्मात्रे स्वरूपमात्रे । अविश्रान्तिः विश्रान्त्यभावस्तस्यामपीत्यर्थः । अपिशब्देनामुख्यत्वं सूचितं । तर्हि रसप्रतिष्टया भाव्यमित्यत आह---स्थायीत्यादि । स्तायिचर्वणायां यत्पर्यवसानं तत्पूर्णताकरणलक्षणं तदेव उचितरसप्रतिष्टा तामप्राप्यापीत्यर्थः । प्राणत्वं काव्यजीवितत्वं । भवतीति । तच्चर्वणयैव चमत्कारोदयादिति भावः ।
     नखमिति । अत्र वलयविवर्तनोक्त्या प्रियतमादर्शनजनितं कार्श्यं व्यज्यते । अत्रोक्तर्नखविघट्टनादिभिरनुभावैर्गम्येन प्रियतमवार्ताश्रवणादिना विभावेन चाभिव्यज्यमानाया लज्जायाः शृङ्गारनिष्टामनवाप्य चर्वणागोचरीभवन्त्याः प्राणत्वमित्याह--अत्र लज्जाया इति । प्राणत्वमित्यनुषङ्गः । रसेत्यादि । रसशब्देन रसाभासस्य, भावशब्देन भावाभासतत्प्रशमयोश्च ग्रहणमित्यर्थः । वृत्तौऽप्राधान्यादिऽत्यास्य रसस्य प्राधान्यादित्यर्थः । तत्र हेतुमाह---रसपर्यवसानादिति । अन्येषामिति शेषः । प्रसङ्गादाह---तावदित्यादि । तावन्मात्राविश्रान्तौ वस्त्वलङ्कारस्वरूपमात्रे विश्रान्त्यभावे । अपि चेति निपातोऽपीत्यर्थे । ऽअन्यशाब्दवैलक्षण्यकारित्वेनौचित्यादिऽति सम्बन्धः ।


सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् ।
अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ।। ६ ।।
     तत्वस्तुतत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोकसामान्यं


लोचनम्

     एवमितिहासमुखेन प्रतीयमानस्य काव्यत्मतां प्रदर्श्य स्वसंवित्सिद्धमप्येतदिति दर्शयति---सरस्वतीति । वाग्रूपा भगवतीत्यर्थः । वस्तुशब्देनार्थशब्दं तत्वशब्देन च वस्तुशब्दं व्याचष्टे--निःष्यन्दमानेति । दिव्यमानन्दरसं स्वयमेव प्रस्नुवानेत्यर्थः । यदाह भट्टनायकः--
वाग्धेनुर्दुग्ध एतं हि रसं यद्बालतृष्णाया ।

बालप्रिया

      अथेदमालोचनीयं सहृदयैः---श्रीवाल्मीकिना "मा निषादे"त्यादिश्लोकेन श्लोकान्तरैश्च सहचरस्य पुंस एव क्रौञ्चस्य निहननं निर्दिष्टम्, अत्र तुऽनिहतेऽत्यादियथाश्रतग्रन्थेन वृत्तिकृता, सहचरीहननोद्भूतेनेऽतिऽनिहतसहचरीति विभाव उक्तऽ इति च व्याख्यानेन लोचनकृता,ऽनिषादनिहतसहचरीकं क्रौञ्चयुवानम्ऽ इत्यादिवचनेन काव्यमीमांसाकारेण च सहचरीहननं प्रतिपादितामित्येतेषां ग्रन्थकृतां रामायणवचनविरुद्धार्थप्रतिपादने निमित्तं किमिति । अत्र केचित्--ऽनिहतेऽत्यादिवृत्तिग्रन्थस्यऽनिहतः सहचरीविरहकातरः स्वत एव सहचरीविरहासहिष्णुश्च यः क्रौञ्चस्तदुद्देश्यको य आक्रन्दस्तज्जनितिऽ इत्यर्थः । लोचनेऽसहचरोहननेऽत्यत्रऽसहचरेऽति पाठेन भाव्यं । ऽनिहतसहचरीति विभाव उक्तऽ इत्यस्य "निहतसहचरी"त्यादिग्रन्थेन विभावः प्रदर्शित इत्यर्थश्चेति न रामायणवचनविरोधः । काव्यमीमांसाकृद्वचनं च यथाश्रुतवृत्तिग्रन्थार्थावबोधमूलकमश्रद्धेयमेवेति वदन्ति ।। ५ ।।
     एवमित्यादि । स्वसंवित्सिद्धं सहृदयानुभवसिद्धं । एतदिति । प्रतीयमानस्य काव्यात्मत्वमित्यर्थः । दर्शयतीति । पूर्वकारिकयेतिहासः प्रतीयमानस्य काव्यात्मत्वे प्रमाणामित्युक्तम्, अनया तु तत्स्थिरीकरणाय स्वसंवेदनलक्षणं प्रमाणमुच्यते । स्वसंवेदने हि न कस्यापि विमतिरित्यर्थः । सरस्वतीति । ऽसरस्वतीऽत्यादिलोकेनेत्यर्थः । सरस्वतीपदं व्याचष्टे--वाग्रूपा भगवतीति । ऽतदिऽत्यस्य पूर्वोक्तमित्यर्थः । ऽवस्तुतत्वम्ऽ इति "अर्थवस्तु" इत्यस्य व्यख्यानमित्याह-वस्तुशब्देनेत्यादि । अर्थेषु वस्त्वलङ्काररसेषु । वस्तु सारभूतमर्थवस्तु । ऽतदर्थवस्त्विऽत्यास्य फलितमर्थं कर्म कृतावाऽनिःष्यन्दमानेऽत्येतह्याचष्टे--दिव्यं अलौकिकं । स्वयमेवेति सदाभिमुख्यं सूचयति । प्रस्नुवाना क्षारयन्ती । अनेन सरस्वत्या धेनुसाम्यं सूच्यते । उक्तव्याख्याने प्रमाणमाह--पदाहेति ।
     वागिति । वाक्काव्यरूपा सैव धेनुः । एतं दिव्यं रसं । बालतृष्णया

लोचनम्

तेन नास्य रमः स स्याद्दुह्यते योगिभिर्हि यः ।।
     तदावेशेन विनाप्याक्रान्त्या हि यो योगिभिर्दुह्यते । अत एव---
यं सर्वशौलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ।।
     इत्यनेन साराग्रयवस्तुपात्रत्वं हिमवत उक्तं । ऽअभिव्यनक्ति परिस्फुरन्तम्ऽ इति । प्रतिपत्तॄन्प्रति सा प्रतिभा नानुमीयमाना, अपि तु तदावेशेन भासमानेत्यर्थः । यदुक्तमस्मदुपाध्यायभट्टतौतेन---ऽनायकस्य कवेः श्रोतुः समानोऽनुभवस्ततःऽ इति । ऽप्रतिभाऽ अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा; तस्याऽविशेषोऽ रसावेशचवैशद्यसौन्दर्यं काव्यनिर्माणक्षमत्वं ।

बालप्रिया

सहृदयवत्से स्नेहेन हेतुना । हि दुग्धे प्रस्नौति यत्, तेन तस्माद्धेतोः सः अस्य बालतृष्णया प्रस्नतस्य रसस्य, रमः न स्यात, यः आनन्दरसः । योगिभिर्हि दुह्यत इत्यर्थः । असमत्वं स्फुटयितुं तुरीयपादार्थमाह---तदावेशेनेत्यादि । तदावेशेन रसावेशेन । अपिरेवार्थे । आक्रान्त्या बलात्कारेण आनन्दरूपेश्वरतन्मयीभावभावनाप्रकर्षसम्पादनेनेति यावत् । वाग्धेनोस्तु बालतृष्णाया तदावेशवशात्तद्दोग्धृतेति भावः । आक्रान्तिदुग्धात्स्वयं प्रस्नुतस्य सातिशयत्वे प्रमाणमाह--अत एवेत्यादि । अत एव यतो रसपरिपूर्णायास्तदावेशपरवशाया धेनोः प्रस्नवनं प्रति स्वयं कर्तृत्वं, तत एव । हिभवतः वत्सरूपस्येति यावत्.ऽअत एव इत्यनेन हिमवतः साराग्षपात्रत्वमुक्तम्ऽ इति सम्बन्धः । सरस्वतीप्रतिभाविशेषमभिव्यनक्त्यनुमापयतीत्यर्थभ्रमं निवर्तयन्व्याचष्टे-प्रतिपत्तॄनित्यादि । अभिव्यनक्तीत्यत्र प्रतिपत्तॄन्प्रतीति पूरणीयं । प्रतिपत्तृणामित्यर्थः । सा प्रतिभा महाकविसम्बन्धिनी प्रतिभा । नानुमीयमानेति । तथाविधसरस्वतीलिङ्गकानुमितिविषयो नेत्यर्थः । तदिति । प्रतिभाविषयभूतरसावेशेनेत्यर्थः । भासमानेति । प्रत्यक्षविषयभूतेत्यर्थः । तथाविधा सरस्वती महाकवीनां तथाविधं प्रतिभाविशेषं स्फुरणविशिष्टमभिव्यनक्ति--रसावेशानभिमुखत्वरूपावरणनिवर्तनात्मकाभिव्यञ्जनेन प्रतिपत्तॄणां प्रत्यक्षविषयं करोतीति कारिकार्थ इति भावः । कविगतस्य रसस्य कथं प्रतिपत्तृगतत्वमित्यत आह---यदुक्तमित्यादि । नायकस्येति । नायकस्य कविसमारोपाच्छ्रोतुस्तु रसचर्वणयेति भावः । प्रतिभाविशेषमित्येतह्याचष्टे-प्रतिभेत्यादि । प्रज्ञा बुद्धिः । रसेति ।


प्रतिभाविशेषं परिस्फुरन्तमभिव्यनक्ति । येनास्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते । इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम्---
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ।। ७ ।।
     सोऽर्थो यस्मात्केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते । यदि च वाच्यरूप


लोचनम्

यदाह मुनिः---ऽकवेरन्तर्गतं भावंऽ इति । येनेति । अभिव्यक्तेन स्फुरता प्रतिभाविशेषेण निमित्तेन महाकवित्वगणनेति यावत् ।। ६ ।।
     इदं चेति । न केवलंऽप्रतीयमानं पुनरन्यदेवऽ इत्येतत्कारिकासूचितौ स्वरूपविषयभेदावेव; यावद्भिन्नसामग्रीवेद्यत्वमपि वाच्यातिरिक्तत्वे प्रमाणमिति यावत् । वेद्यत

बालप्रिया

रसावेशस्य कारणभूतं यद्वैशद्यं रसावेशानभिमुखत्वराहित्यं तेन यत्सौन्दर्यं रसपरत्वादिलक्षणम्. यद्वा---रसावेशेन यद्वैशद्यं "विवक्षातत्परत्वेन"त्यादिसूचिपदोषराहित्यं, तेन सौन्दर्यं तत्सूचितगुणसाहित्यं तद्रूपं काव्यनिर्माणक्षमत्वमित्यर्थः । सरस्वतीप्रतिभाविशेषं प्रतिपत्तॄणामभिव्यनक्तीत्यत्र संवादमाह--यदाहेति । ऽयेनेऽत्यादिवृत्तिग्रन्थं व्याचष्टे---अभिव्यक्तेनेत्यादि । अबिव्यक्तेन अत एव स्फुरता प्रतिपत्तॄणां प्रत्यक्षविषयेण । ऽनिमित्तेनेऽत्यन्तंऽयेनेऽत्यस्य व्याख्यानं । महाकवित्वगणनेति । प्रतिपत्तॄणामादौ रसस्यानुभवस्ततः प्रतिभायास्ततो महाकवित्वगणनेति भावः ।। ६ ।।
     ऽन केवेलम्ऽ इत्यादिऽवेद्यत्वमपीऽत्यन्तंऽइदञ्चापरम्ऽ इत्यस्य विवरणं । सद्भावेत्यादेर्वाच्यातिरिक्तत्वेन सद्भावस्येत्याद्यर्थ इत्याह---वाच्येत्यादि । तथा च कारिका


एवासावर्थः स्यात्तद्वाच्यवाटचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् । अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां काव्यतत्त्वार्थभावनाविमुखानां स्वरश्रुत्यादिलक्षणमिवाप्रगीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः ।


लोचनम्

इति । न तु न वेद्यते, येन न स्यादसाविति भावः । काव्यस्य तत्त्वभूतो योऽर्थस्तस्य भावना वाच्यातिरेकेणानवरतचर्वणा तत्र विमुखानां । स्वराः षङ्जादयः सप्त । श्रुतिर्नाम शब्दस्य वैलक्षण्यमात्रकारि यद्रूपान्तरं तत्परिमाणा स्वरतदन्तरालोभयभेदकल्पिता द्वाविशतिविधा । आदिशब्देन जात्यंशकग्रामरागभाषाविभाषान्तरभाषादेशी

बालप्रिया

नाधिकारिभेदप्रदर्शनपरा, किन्तु सामग्रीभेदप्रदर्शनपरा । वाच्यार्थबोधेऽनुशिष्टशब्दार्थज्ञानरूपा, न्यङ्ग्यार्थबोधे तु सहृदयत्वादिरूपा च सामग्री पूर्वोत्तरार्धाभ्यां दर्शिता चेति भावः । वेदने सिद्धे तत्सामग्रीचिन्तावकाश इत्याश्येन पुनरपि वेद्यत इत्युक्तम्, तद्व्याचष्टे---न त्वित्यादि । येन अवेदनेन । असौ प्रतीयमानार्थः । वृत्तौऽसोऽर्थऽ इत्याद्युत्तरार्धस्य विवरणंऽतस्मादिऽति पूर्वार्धेन सम्बन्धः । तद्विवरणंऽयदिचिऽत्यादि । ऽअसौ अर्थःऽ प्रतीयमानार्थः । ऽतत्प्रतीतिःऽ प्रतीयमानार्थप्रतीतिः । इष्टापत्ति परिहरति--ऽअथ चेऽत्यादि । ऽअथ चासावर्थः काव्यतत्त्वार्थभावनाविमुकानां वाच्यवाचकलक्षणमात्रकृतश्रमाणामगोचरऽ इति सम्बन्धः । तत्र दृष्टान्तः---ऽअप्रगीतानां गन्धर्वलक्षणविदां स्वरश्रुत्यादिलक्षणमिवेऽति । ऽअगोचरःऽ अग्राह्यः । ऽगान्धर्वलक्षणविदां ग्रन्थपठनेन सङ्गीतलक्षणं जानतां । कारिकायांऽस हीऽत्यत्र स त्विति च पाठः । काव्येत्यादिकं व्याचष्टे---काव्यस्येत्यादि । शब्दस्येति । गीतादिरूपशब्दस्येत्यर्थः । वैलक्षण्यमात्रकारि परस्परभेदमात्रकारि । न गुणादायकमिति भावः । रूपान्तरं रूपविशेषः । गीतादिशब्दश्रवणे सति तस्य शब्दस्य यद्रूपान्तरं लवादिकालांशं निमित्तीकृत्य जायते तदित्यर्थः । तदिति । तत्परिमामं कालप्रमाणं यस्याः सेत्यर्थः. तन्मात्रकालेति यावत् । स्वरेति । स्वरः तस्य स्वरस्यान्तरालमुभयमर्थात्पार्श्वद्वयं च तेषां यो भेदस्तत्कल्पितेत्यर्थः । श्रुतिर्नाम स्वरस्यैवांश इति यावत् । जातीत्यादि । झात्यादीनां स्वरूपमन्यतोऽवधातव्यं । अप्रगीतानामिति

बालप्रिया

नञ्समासघटकं प्रगीतपदं व्याचष्टे---प्रकृष्टमित्यादि । पक्षान्रमाह--कनाडीभेदवशात्द्वाविंशतिप्रकारो भवति । इम एव भेदाःश्रुतय इति व्यपदिश्यन्ते । श्रवणार्थस्य धातोः क्तिन्प्रत्यये श्रूयन्त इति व्युत्पत्त्या श्रूतिशब्दो निष्पन्नः । अत्र नादापरपर्यायश्रुतिविभागविषये बहवः प्रकारा वर्त्तन्ते---केचन द्वाविंशतिं श्रुतीर्मन्यन्ते, अपरे च षट्षष्टिभेदभिन्नाः श्रुतय इत्याचक्षते, अन्ये पुनरानन्तयं कथयन्ति श्रुतीनां । अत एवोक्तं कोहलेन---
द्वाविंशतिं केचिदुदाहरन्ति श्रुतीः श्रुतिज्ञानविचारदक्षाः ।
षट्षष्टिभिन्नाः खलु केचिदासामानन्त्यमेव प्रतिपादयन्ति ।। इति ।।
     तत्र द्वाविंशतिपक्ष एव प्रकृते ग्रन्थकाराभिमतः । एतासां श्रुतीनां मिथो भेदः--विणादण्डे पूर्वोत्तरबावेन द्वाविंशतिं तन्त्रीः परिकल्प्य प्रथमापेक्षया द्वितीयादितन्त्रीषु किञ्चित्किञ्चिद्द्दढीकरणपूर्वकं वाद्यमानासु तासु प्रत्यक्षतोऽवगन्तुं शक्यः ।
     आभ्यश्च श्रुतिभ्यः षङ्जर्षभगान्धारमद्यमपञ्चमधैवतनिषादाख्याः सप्त स्वरा भवन्ति । स्वतः सहकारिकारणनिरपेक्षं रञ्जयति श्रोतृचित्तमनुरक्तं करोतीति स्वरः, इति तद्व्युत्पत्तिः । सप्तानामप्यमीषां स्वराणां व्यस्तानां सतां दृष्टाद्दष्टफलौपयिकत्वं न भवतीति तत्सिद्धये ग्रामस्यावश्यकता जायते । ग्रामो नाम स्वरसमूहः । एतावत्त्युच्यमाने लौकिकवैदिकवाक्येष्वपि स्वरसमूहस्य सम्भवात्तत्रातिव्याप्तिस्स्यादिति तह्यावृत्तये मूर्च्छनाक्रमताववर्णालङ्कारजात्याद्याश्रयत्वे सति स्वरसमूहत्वं ग्रामत्वमिति लक्षणं वक्तव्यं । मूर्चछनादीनां स्वरूपविभागादयः सङ्गीतरत्नाकरस्य स्वराध्यायतोऽवसेयाः । स चायं ग्रामो द्विविधः--षङ्जग्रामः, मध्यमग्रामश्चेति । तत्रैकस्मन्वीणादण्डे द्वाविंशतिं तन्त्रीः परिकल्पय आदितस्तुरीयायां तन्त्र्यां षङ्जस्वरः, सप्तम्यां ऋषभः, नवम्यां गान्धारः, त्रयोदश्यां मध्यमः, सप्तदश्यां पञ्चमः, विंश्यां धैवतः, द्वाविंश्यां निषादश्चेति स्वरेषु विन्यस्तेषु षङ्जग्रामो भवति । अयमेव शुद्धाश्रयः षङ्जग्राम इति व्यवह्लियते । एवमपरस्मिन्वीणादण्डे आदितस्तुरीयायां तन्त्र्यां मध्यमः, सप्तम्यां पञ्चमः, एकादश्यां धैवतः, त्रयोदश्यां निषादः, सप्तदश्यां षङ्जः, विंश्यामृषभः, द्वाविश्यां गान्धारश्चेति विन्यस्तेषु स्वरेषु मध्यमग्रामो भवति । अयमेव विकृताश्रयो मध्यमग्राम इति व्यपदिश्यते । एवञ्च षङ्जग्रामे---षङ्जमध्यमपञ्चमाः चतसृभ्यः श्रुतिभ्य उत्पन्नाः, ऋषभधैवतौ तिसृभ्य उत्पन्नौ, गान्धारनिषादौ द्वाभ्यामुत्पन्नौ; मध्यमग्रामे च मध्यमधैवतषङ्जाः चतसृभ्य उत्पन्नाः, पञ्चमर्षभौ तिसृभ्य उत्पन्नौ, निषादगन्धारौ द्वाभ्यामुत्पन्नावित द्वैग्रामिक्यो द्वाविंश्यः श्रुतयः स्वरतदन्तरालोभयभेदकल्पिताः सिद्धाः ।
     तत्र षङ्जग्राममध्यमग्रामयोर्मिलित्वा सन्त्यष्टादश जातयः--षाङ्जी, आर्षभी, गान्धरी, मध्यमा, पत्र्वमी, धैवती, नैषादी, पङ्जकैशिकी, षङ्जोदीच्यवा, षङ्जगातुं वेति ।


     एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति---


लोचनम्

मार्गा गृह्यन्ते । प्रकृष्टं गीतं गानं येषां ते प्रगीताः, गातुं वा प्रारब्धा इत्यादिकर्मणिक्तः । प्रारम्भेण चात्र फलपर्यन्तता लक्ष्यते ।। ७ ।।
एवमिति । स्वरूपभेदेन भिन्नसामग्रीज्ञेयत्वेन चेत्यर्थः । प्रत्यभिज्ञेयावि

बालप्रिया

आदिकर्मणीति । प्रारम्भरूपार्थ इत्यर्थः । फलेति । फलमत्र स्वरादिसाक्षात्कारः ।। ७ ।।
     एवमित्यनेन सन्निहितमात्रपरामर्शभ्रमः स्यादतो व्याचष्टे--स्वरूपभेदेनेत्यादि


सोऽर्थस्तद्य्वक्तिसामर्थ्ययोगी शब्दश्च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ।। ८ ।।
     व्यङ्ग्योऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन, न शब्दमात्रं । तावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ । व्यह्ग्यव्यञ्जकाभ्यामेव सुप्रयुक्ताभ्यां


----लोचनम्

त्यर्हार्थे कृत्यः, सर्वो हि तथा यतते इतीयता प्राधान्ये लोकसिद्धत्वं प्रमाणमुक्तं । नियोगार्थेन च कृत्येन शिक्षाक्रम उक्तः । प्रत्यभिज्ञेयशब्देनेदमाह---
ऽकाव्यं तु जातु जायेत कस्थचित्प्रतिभावतःऽ
     इति नयेन यद्यपि स्वयमस्यैतत्परिस्फुरति, तथापीदमित्थमिति विशेषतो निरूप्यमाणं सहस्रशाखीभवति ।

बालप्रिया

ऽस्वरूपविषयभेदेनेऽति च पाठः । कथं प्राधान्यं दर्शितमित्यतो व्याचष्टे---अर्हार्थ इत्यादि । कृत्यः कृत्यप्रत्ययः । सर्वः सकलस्सहृदयः । ऽतथा हीऽति सम्बन्धः । अर्हत्वेन हीत्यर्थः । यतते तथाविधशब्दार्तयोर्बुभुत्सया प्रवर्तते । फलितमाह--इतीत्यादि । इयता सहृदयप्रत्यभिज्ञेयत्ववचनेन । प्राधान्ये व्यङ्ग्यस्य प्राधान्ये विषये । लोकेति । सहृदययोकेत्यर्थः । ऽसहृदयैः सोऽर्थः तथाविधः शब्दस्च महाकवेस्तौ शब्दार्थो यत्नतः प्रत्यभिज्ञेयाविऽति सम्बन्धः । ऽताविऽति प्रत्यभिज्ञाकारप्रदर्शकः । एतौ महाकवेः तौ ताद्दशौ शब्दार्थावित्याकारकसहृदयप्रत्यभिज्ञानार्हावित्यर्थ इति भावः । अथ तौ शब्दार्थौ महाकवेः महाकविना प्रत्यभिज्ञेयावित्यर्थान्तरं च ग्राह्यमित्याह---नियोगेत्यादि । अस्मिन्पक्षेऽताविऽत्यस्य पूर्वोक्तावित्यर्थः । पूर्वार्धञ्च भिन्नं वा क्यं । शिज्ञाक्रमः कविशिक्षाप्रकारः । शब्दार्थप्रत्यभिज्ञानस्य फलमाह---प्रत्यभिज्ञेयेत्यादि । काव्यमतचि । तुशब्दः शास्त्रादितो विशेषद्योतकः । जातु कदाचिदेव । कस्यचित्न सर्वस्य । कोऽसावित्यत्राह--प्रतिभावत इति । स्वयं स्वयमेव । अस्य कवेः । एतत्काव्यं । इदमिति । इदमित्थं कर्तव्यमिति निरूपणप्रकारः । निरूप्यमाणमिति । निरूप्य क्रियमाणमित्यर्थः । तदित्यनुषज्यते । सहस्रेति । सहस्रधा भवतीत्यर्थः । विच्छित्तिप्रकाराणामनन्तत्वादिति भावः । विशेषनिरूपणस्य कर्तव्यतां व्यतिरेकोदाहरणेन समर्थयते--यथोक्तमिति । प्रत्यभिज्ञाशास्त्रान्त इति शेषः ।


महाकवित्वलाभो महाकवीनां, न वाच्यवाचकरचनामात्रेण ।


लोचनम्

यथोक्तमस्मत्परमगुरुभिः श्रीमदुत्पलपादैः--
तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके
कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा ।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो
नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ।। इति ।।
     तेन ज्ञातस्यापि विशेषतो निरूपणमनुसन्धानात्मकमत्र प्रत्यभिज्ञानं, न तु तदेवदमित्येतावन्मात्रं । महाकवेरिति । यो महाकविरहं भूयासमित्याशास्ते । एवं व्यङ्ग्यस्यार्थस्य व्यञ्जकस्य शब्दस्य च प्राधान्यं वदता व्यङ्क्यव्यञ्जकभावस्यापि

बालप्रिया

     तैस्तैरिति । सामान्यतोऽवगतस्यापीश्वरस्य विशेषतोऽवगममन्तरेण न फलपर्यन्तीभावलाभ इत्यर्तप्रदर्शनपरोऽयं श्लोकः । तैस्तैरुपयाचितैः दूतीसम्प्रेषणात्मवृत्तान्तनिवेदनादिभिरुपचारपूर्वकयाचनैः । ऽउपनतोऽपीऽति योजना । न केवलमुपनतः, तन्व्या अन्तिके स्थितोऽपि । एवमपरिज्ञातः यो मया लोकोत्तरसौन्दर्यादिगुणविशिष्टत्वेन श्रुतस्तत एव रागातिशयेन प्रर्थितस्च स कान्तोऽयमिति विशेषेणाज्ञातः । अत एव लोकसमानः जनसाधारणत्वं प्राप्तः । कान्तः तन्वीकामनाविषयः पुरुषः । यथा रन्तुं रमयितुं तन्वीमानन्दयितुमिति यावत् । न प्रभवतीति शेषः । एवं दृष्टान्तं प्रदर्श्य प्रकृतमाह---लोकस्येत्यादि । ऽलोकस्यात्मेऽति सम्बन्धः । अनवेक्षितेति । लोकेन विशेषतोऽज्ञातेत्यर्थः । यस्मात्सामान्यतो ज्ञातेऽपि विशेषाज्ञानसम्भवः, तस्मात्स्वतः स्फुरितयोरपि शब्दार्थयोः महाकविना युक्तमेव प्रत्यभिज्ञानकरणमिति भावः । तर्हि कोऽत्र प्रत्यभिज्ञापदार्थ इत्यत उक्तफलतया तत्स्व्रूपमाह---तेनेत्यादि । महाकवित्वर्वृत्तौ शिक्षानर्हत्वान्नियोगायोगमाशङ्क्य व्याचष्टे--यो महेत्यादि । महाकविरित्यस्य महाकवित्वप्रकारकाशसाविषय इत्यर्थ इति भावः । वृत्तौऽमहाकवेस्तौ शब्दार्थौ सहृदयैः प्रत्यभिज्ञेयाविऽवितिऽतावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयाविऽति च योजना बोध्या । महाकविना प्रत्यभिज्ञेयाविऽवितिऽतावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेत्याविऽति च योजना बोध्या । महाकविना प्रत्यभिज्ञेयावित्यसेयोपपादकम्--ऽव्यङ्ग्येऽत्यादि । ऽसुप्रयुक्ताभ्यांऽ विशेषतो निरूप्य प्रयुक्ताभ्यां । ऽमहाकवीनाम्ऽ इत्यस्य उक्तोऽर्थः । वृत्तिग्रन्थेन व्यञजकस्यापि प्रधान्यं दर्शितमत आह--एवमित्यादि । उपपन्नमिति । ध्वनिरिति


     इदानीं व्यङ्ग्यव्यञ्जकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयस्तदपि युक्तमेवेत्याह--
आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः ।
तदुपायतया तद्वदर्थे वाच्ये तदादृतः ।। ९ ।।
     यथा ह्यालोकार्थी सन्नपि दीपशिखायां यत्नवाञ्जनो भवति तदुपायतया । न हि दीपशिकामन्तरेणालोकः सम्भविति । तद्वद्य्वङ्ग्यमर्थं प्रत्याद्दतो जनो वाच्येऽर्थे यत्नवान्भवति ।


लोचनम्

प्राधान्यमुक्तमिति ध्वनति ध्वन्यते ध्वननमिति त्रितयमप्युपपन्नमित्युक्तम् ।। ८ ।।
     ननु प्रथमोपादीयमानत्वाद्वाच्यवाचकतद्भावस्यैव प्राधान्यमित्याशङ्क्योपायानामेव प्रथममुपादानं भवतीत्यभिप्रायेम विरुद्धोऽयं प्राधान्ये साध्ये हेतुरिति दर्शयति--इदानीमित्यादिना । आलोकनमालोकः; वनितावदनारविन्दादिविलोकनमित्यर्थः । तत्र चोपायो दीपशिखा ।। ९ ।।

बालप्रिया

वक्ष्यमाणमुपपन्नमित्यर्थः ।। ८ ।।
     व्यङ्ग्यव्यञ्जकप्राधान्यानुवादेन वाच्यवाचकयोः प्रथमोपादानयुक्तत्ववचनं वृत्तावयुक्तं, प्राधान्यानुवादस्यानुपयोगादित्यतः शङ्कोत्तरत्वेन घटयति---नन्वित्यादि । वाच्येत्यादि । द्वन्द्वैकवद्भावः । प्रथमोपादीयमानत्वहेतोः को दोष इत्यतः सोऽपि दर्शित इत्याह---उपायानामेवेत्यादि । विरुद्ध इति । साध्याभावेनापारादान्येन व्याप्त इत्यर्थः । अप्रयोजक इत्यर्थो वा । आलोकशब्दस्य प्रकाशरूपार्थे प्रसिद्धेः प्रकृते तदर्समाह--आलोकनमिति । चाक्षुषज्ञानमित्यर्थः । आलोकनमित्यस्यैव विवरणम्वनितेत्यादि । वृत्तौऽप्रतिपादकस्येऽति । वक्तुरित्यर्थः ।। ९ ।।


अनेन प्रतिपादकस्य कवेर्व्यङ्ग्यमर्थं प्रति व्यापारो दर्शितः ।
     प्रतिपाद्यस्यापि तं दर्शयितुमाह----
यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ।। १० ।।
     यथा हि पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रतीतिपूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः ।


लोचनम्

     प्रतिपदिति भावे क्विप् । ऽतस्य वस्तुनऽ इति व्यङ्ग्यरूपस्य सारस्येत्यर्थः । अनेन श्लोकेनात्यन्तसहृदयो यो न भवति तस्यैष स्फुटसंवेद्य एव क्रमः । यथात्यन्तशब्दवृत्तज्ञो यो न भवति तस्य पदार्थवाक्यार्थक्रमः । काष्टाप्राप्तसहृदयभावस्त तु वाक्यवृत्तकुशलस्येव सन्नपि क्रमोऽभ्यस्तानुमानाविनाभावस्मृत्यादिवदसंवेद्य इति दर्शितम् ।। १० ।।

बालप्रिया

     वृत्तौऽप्रतिपाद्यस्येऽति । वाच्यार्थस्येत्यर्थः । ऽतम्ऽ इति । व्यङ्ग्यमर्थं प्रति व्यापारमित्यर्थः । स च स्वप्रतीत्युत्पादनरूपः । कारिकायांऽप्रतिपत्तस्येऽत्यत्रान्यथाप्रतिपत्तिनिरासायाह--प्रतिपदित्यादि । प्रतिपत्तिरिति तदर्थ इति भावः । कारिकायांऽपदार्थेऽत्यस्यऽवाच्यार्थेऽत्यस्य च ज्ञायमानतत्तदर्थेत्यर्थः । तत्तदर्शज्ञानमिति वा । ऽसम्प्रतीयतऽ इति । प्रतिपत्तृभिर्ज्ञायत इत्यर्थः । अत्र वाच्यव्यङ्ग्यप्रतीत्योः पदार्थवाक्यार्थप्रतीतिसाम्यकथनस्य फलान्तरमप्यस्तीत्यह---अनेनेत्यादि । ऽअनेन श्लोकेन इति दर्शितम्ऽ इति सम्बन्धः । यः यः प्रतिपत्ता । तस्य तथाविधस्य प्रतिपत्तुः । एषः वाच्यव्यङ्ग्यनिष्टः । अत्र दृष्टान्तमाह---यथेत्यादि । शब्दवृत्तेति । वाक्यवृत्तेत्यर्थः । पदार्थेत्यादि । स्फुटसंवेद्य इत्यनुषङ्गः । काष्टाप्राप्तेति । उत्कर्षप्राप्तेत्यर्थः । वाक्यवृत्तकुशालस्येति । वाक्यस्फोटादिकं जानत इत्यर्थः । सतोऽपि क्रमस्यासंवेद्यत्वे दृष्टान्तः--अभ्यस्तेत्यादि । अभ्यस्ते विषये अनुमानमनुमितिः अविनाभावस्मृतिः व्याप्तिस्मृतिः तयोः । आदिपदेन समयस्मृत्यर्थबोधयोः परिग्रहः । तद्वत्तन्निष्टक्रमवदित्यर्थः ।। १० ।।


     इदानीं वाच्यार्थप्रतीतिपूर्वकत्वेऽपि तत्प्रतीतेर्व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति---
स्वसामर्थ्यवशेनैव वाक्यार्थे प्रतिपादयन् ।
यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ।। ११ ।।


लोचनम्

     न व्यालुप्यत इति । प्राधान्यादेव तत्पर्यन्तानुसरणरणरणकत्वरिता मध्ये विश्रान्ति न कुर्वत इति क्रमस्य सातोऽप्यलक्षणं प्राधान्ये हेतुः । स्वमामर्थ्यमाकाङ्क्षायोग्यतासन्निधयः । विभाव्यत इति । विशब्देन विभक्ततोक्ता; विभक्ततया

बालप्रिया

ऽस्वसामर्थ्यैऽत्यादिकारिकाद्वयमवतारयति वृत्तौ--ऽइदानीम्ऽ इत्यादि । ऽतत्प्रतीतेःऽ व्यङ्ग्यप्रतीतेः । ऽन व्यालुप्यतेऽ नापगच्छति प्रत्युत सिध्यति । ननु कारिकायां सतोऽपि क्रमस्यालक्षणं दर्शितं, तस्य कथं प्राधान्योपपादकत्वमित्यत आह--प्राधान्यादेवेत्यादि । प्राधान्यादेव व्यङ्ग्यस्येत्यर्थात् । तदिति । तत्पर्यन्तं प्रयोजनभूतप्रतीयमानार्थपर्यन्तं यदनुसरणं बुध्यानुधावनं,ऽतत्तात्पर्येऽति पाठे प्रतीयमानरूपतात्पर्यार्थं प्रति यदनुसरणमित्यर्थः । तत्र रणरणकेन औत्सुक्येन त्वरिताः सन्त इत्यर्थः । सहृदया इति शेषः । मध्ये वाच्यांशचर्वणायां । विश्रान्तिं न कुर्वत इति । तथा च का कथा क्रमपर्यालोचनायामिति भावः । हेतुरिति । ज्ञापकमित्यर्थः । ऽस्वसामर्थ्येऽत्यस्य स्वस्य पदार्थस्य यत्सामर्थ्यं सहकारीत्यर्थाभिप्रायेण विवृणोति--आकाङ्क्षेत्यादि । कारिकायांऽव्यापारनिष्पत्ताऽविति स्वव्यापारस्य वाक्यार्थप्रतिपादनरूपस्य निष्पत्तौ सत्यां वाक्यार्थबुद्धावित्यर्थः । वृत्तौऽविभक्ततयेऽति कारिकोपस्कार इति भ्रमं नुदति-विशब्देनेति । भाव्यते प्रतिपत्तृभिर्ज्ञायते । अनेनेति । विभावनमात्रनिषेधेन


     यथा स्वसामर्थ्यवशेनैव वाक्यार्थं प्रकाशयन्नपि पदार्थो व्यापारनिष्पत्तौ न भाव्यते विभक्ततया ।
तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् ।
बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ।। १२ ।।


लोचनम्

न भाव्यत इत्यर्थः । अनेन विद्यमान एव क्रमो न संवेद्यत इत्युक्तं । तेन यत्स्फोटाभिप्रायेणासन्नेव क्रम इति व्याचक्षते तत्प्रत्युत विरुद्धमेव । वाच्येऽर्थे विमुखो विश्रान्तिनिबन्धनं परितोषमलभमान आत्मा हृदयं येषामित्यनेन सचेतसामित्यस्यैवार्थोऽभिव्यक्तः । सहृदयानामेव तर्ह्ययं महिमास्तु, न तु काव्यस्यासौ कश्चिदतिशय इत्याशङ्क्याह-अवभासत इति । तेनात्र विभक्ततया न भासते, न तु वाच्यस्य सर्वथैवानवभासः । अत एव तृतीयोद्द्योते घटप्रदीपद्दष्टान्तबलाद्व्यङ्ग्यप्रतीतिकालेऽपि वाच्यप्रतीतिर्न विघटत इति यद्वक्ष्यति तेन सहास्य ग्रन्थस्य न विरोधः ।। ११ ,१२ ।।

बालप्रिया

वस्तुसत्ताया अभ्यनुज्ञानादित्यर्थः । तेनेति । विद्यमानक्रमालक्षणप्रतपादनेनेत्यर्थः । विरुद्धमेवेत्यनेनास्य सम्बन्धः । स्फोटाभिप्रायेणेति । वाक्यतदर्थावविभक्तस्फोटरूपावित्यभिप्रायेणेत्यर्थः ।
     कारिकायांऽसोऽर्थऽ इति । वाक्यार्थरूपवाच्यार्थः । ऽतत्वार्थेऽति । व्यङ्ग्यार्थेत्यर्थः । ऽवाच्यार्थविमुखात्मनाऽमित्यत्र विमुखशब्दं प्रकरणलब्धमर्थमादाय व्याचष्टे--वाच्य इत्यादि । विश्रान्तिरेव निबन्धनं कारणं यस्य तं । नात्यन्तं वाच्यबहिर्मुख इति भावः । विशेषणस्यास्य फलमाह--अनेनति । अभिव्यक्तः प्रदर्शितः । सहृदयानामेवेत्यादि । यद्युक्तलक्षणसहृदयबुध्युपाधिकमस्य झाटित्येन स्फुरणं, तर्ह्यन्वयव्यतिरेकाभ्यां तद्बुद्धेरेव तद्धेतुत्वात्सहृदयानामेव लोरोत्तरः कश्चिदतिशयोऽयं न काव्यस्येत्यर्थः । अवभासत इतीति । काव्यश्रवणसमयसमनन्तरसमासाद्यमानजन्मनस्तदर्शवभासस्य कार्यस्य परिस्फुटोपलब्धस्य काव्यव्यापारैकनिबन्धनत्वनिश्चयात्काव्यस्यैवायमतिशय इति भावः । तेनेत्यादि । तेन उक्तेन कारिकाद्वयव्याख्यानप्रकारेण । अत्र वाच्यार्थे । विभक्तता व्यङ्ग्यार्थापेक्षया पृथकत्वं । न भासते विभक्तत्वस्य केवलमनवभासनमित्यर्थः । सर्वथैवेति । स्वरूपेणापीति यावत् । केचित्तुऽविभक्ततयेऽति पठित्वा अत्रेति बुद्धावित्यर्थः । विभक्ततयेति । वाच्यादित्यर्थात् । न भासत इति व्यङ्ग्योऽर्थ इति शेषः ; येन क्रमो लक्ष्येत इति व्याचक्षते । अत एवेति । उक्तव्याक्यानादेवेत्यर्थः । वाच्यस्य स्वरूपतोऽवभासाङ्गीकरणाद्विभागमात्रस्यानवभासाङ्गीकाराच्चेति यावत् ।


     एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्भावं प्रतिपाद्य प्रकृत उपयोजयन्नाह---
यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ।। १३ ।।


लोचनम्

सद्भावमिति । सत्तां साधुभावं प्राधान्यं चेत्यर्थः । द्वयं हि प्रतिपिपादयिषितं । प्रकृत इति लक्षणे । उपयोजयनुपयोगं गमयन् । तमर्थमिति चायमुपयोगः । स्वशब्द आत्मवाची । स्वश्चार्थश्च तौ स्वार्थौ; तौ गुणीकृत्तौ याभ्याम्; यथासंख्येन तेनार्थो गुणीकृतात्मा,शब्दो गुणीकृताभिधेयः । तमर्थमिति । ऽसरस्वती स्वादु तदर्थवस्तुऽ

बालप्रिया

न विरोध इति । इदमुपलक्षणम्, दृष्टान्तवैषम्यमपि नास्तीति बोध्यम् ।। १२ ।।
     ऽसाधुभावम्ऽ इत्यस्य व्याख्यानं---प्राधान्यमिति । इत्यर्थ इति । यथोक्तम्---"सद्भावे साधुभावे च सदित्येतत्प्रयुच्यते" इति । द्वयमुक्तार्थद्वयं । लक्षण इति । प्रस्तुतस्य ध्वनेर्लक्षण इत्यर्थः । उपयोगमिति । अर्थद्व्यङ्ग्यसद्भावस्य । केनांशेनोपयोजनमित्यत आह--तमिति । व्यङ्ग्यस्य सद्भावे सिद्धवि सिद्ध एव तमरिथमिति तत्पदेन परामर्शो युज्यत इति भावः । अर्थस्यार्थाभावाह्याचष्टे---स्वश्चेत्यादि । ऽउपसर्जनीकृताविऽत्यस्य विवरणन्-गुणीकृताविति । फलितमाह-तेनेत्यादि । तथाविधोऽर्थस्तथाविधः शब्दश्चेत्यर्थः ।


     यत्रार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थं व्यङ्क्तः, स काव्यविशेषो ध्वनिरिति । अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्योऽनुप्रासादिभ्यश्च


लोचनम्

इति यदुक्तं । व्यङ्क्तः द्योतयतः । व्यङ्क्त इति द्विवचनेनदमाह--यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथाप्यर्थस्यापि सहकारिता न त्रुट्यति, अन्यथा अज्ञातार्थोऽपि शब्दस्तह्यञ्जकः स्यात् । विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारित्वं भवत्येव, विशिष्टशब्दाभिधेयतया विना तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोरुभयोरपि ध्वननं व्यापारः । तेन यद्भट्टनायकेन द्विवचनं दूषितं तद्गजनिमीलिकयैव । अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेम । काव्यं च तद्विशेषश्चासौ काव्यस्य वा विशेषः । काव्यग्रहणाद्गुणाङ्कारोपस्कृतशब्दार्थपृष्टपाती ध्वनिलक्षणऽआत्मेऽत्युक्तं ।

बालप्रिया

नन्वेकैकत्र शब्दार्थयोरेकैकस्यैव व्यञ्जकत्वात्व्यङ्क्त इति द्विवचनमनुपपन्नमित्यत आह--द्विवचनेनेत्यादि । अभयोरपि ध्वननं व्यापारःऽद्विवचनेनेदमाहऽ इति सम्बन्धः । विशिष्टशब्देति । यथारसं वर्णानां भेदादिति भावः । तेनेति । युक्त्या द्विवचनसमर्थनेनेत्यर्थः । गजनिमीलिकयेति । यथा गजस्याक्षिनिमीलनं न बुद्धिपूर्वकमपि तु स्वभावत एवेत्यविचारो गजनिमीलिकाशब्देन लक्ष्यते । ननु यदि समुच्चयस्तर्हिऽअर्थशब्दाविऽति भाव्यमित्यत आह--अर्थ इत्यादि । प्राधान्येति । व्यञ्जनप्राधान्येत्यर्थः । अयं भावः---वाकारोऽत्र शब्दार्थयोः व्यञ्जनक्रियाकर्त्तृत्वे विकल्पस्य न बोधकः, येन "शिरश्श्वा काको वा द्गुपदतनयो वा परिमृशे"दित्यादाविवैकवचनं भवेत्, आपि तु व्यञ्जनक्रियायां कर्तृत्वेनान्वितयोः शब्दार्थयोः व्यञ्जनप्राधान्ये विकल्पमवगमयति । तथा च विकल्पितव्यञ्जनप्राधान्यौ शब्दार्थौ व्यङ्क्त इति वाक्यार्थ इति । विशेषशब्दस्य विशिष्टार्थत्वाभिप्रायेण विवृणोति--काव्यमित्यादि । पक्षान्तरमाह---काव्यस्य वेति । काव्येत्यादि । ऽयो ध्वनिलक्षण आत्मा स तथाविधशब्दार्थपृष्टपातीति काव्यग्रहणादुक्तम्ऽ इति संबन्धः । शब्दार्थपृष्टपातित्वं तह्यङ्ग्यत्वात् ।

लोचनम्

तेनैतन्निरवकाशं श्रुतार्थापत्तावपि ध्वनिव्यवहारः स्यादिति । यच्चोक्तम्--ऽचारुत्वप्रतीतिस्तर्हि काव्यस्यात्मा स्यात्ऽ इति तदङ्गीकुर्म एव । नाम्नि खल्वयं विवाद इति । यच्चोक्तम्---ऽचारुणः प्रतीतिर्यदि काव्यात्मा प्रत्यक्षादिप्रमाणादपि सा भवन्ती तथा स्यात्ऽ इति । तत्र शब्दार्थमयकाव्यात्माभिधानप्रस्तावे क एष प्रसङ्ग इति न किञ्चिदेतत् । स इति । अर्थो वा शब्दो वा, व्यापारो वा । अर्थोऽपि वाच्यो वा ध्वनतीति, शब्दोप्येवं । व्यङ्ग्यो वा ध्वन्यत इति व्यापारो वा

बालप्रिया

तेनेति । यतो गुणालङ्कारोपस्कृतशब्दार्थपृष्टपातिनो ध्वनिव्यवहारस्तत इत्यर्थः । स्यादिति । ऽपोनो देवदत्तो दिवा न भुङ्क्तऽ इत्यादौ रात्रिभोजनादेर्गम्यत्वादिति भावः । चारुत्वप्रतीतिस्तर्हीत्यादि । यदि चारुत्वहेतुतया प्रासिद्धेभ्यो गुणादिभ्योऽन्यः काव्यात्मा स्यात्तर्हि चारुत्वप्रतीतिरेव तदात्मास्तु, तस्याः दृष्टत्वेनाद्दष्टवस्त्वन्तरकल्पने गौरवादिति तदतिरिक्तो न ध्वनिरित्याक्षेपः । कुतोऽङ्गीकार इत्यत आह--नाम्नीति । खलुरवधारणे । चारुत्वप्रतीतिरित्यस्य चारुत्वप्रतीतेर्विषयो हेतुर्वा कश्चिद्गुणादिभ्योऽन्य इत्यर्थस्य वक्तव्यतया ध्वनिनाम्न्येन विवाद इत्यर्तः । चारुणः प्रतीतिरिति । चारुवस्तुप्रतीतिरित्यर्थः । वस्तुविशेष्यकचारुत्वप्रतीतिरिति यावत् । सेति । चारुवस्तुप्रतीतिरित्यर्थः । तथा ध्वनिव्यवहारविषयः । प्रकरणानभिज्ञोऽसौ पूर्वंपक्षी, अत उपेक्ष्य इति परिहरति---तत्रेत्यादि । तत्र प्रत्यक्षादिविषये । ऽएव प्रसङ्गः कऽ इति सम्बन्धः । ननु काव्यस्य शब्दार्थज्ञितत्वाभिदानमित्यत आह--अर्थो वेत्यादि । कस्य कथें ध्वनिशब्दवाच्यत्वमित्यत्राह--अर्थोऽपीत्यादि । सर्वत्र इतिशब्दोऽध्वनिरिति प्रतिपादितम्ऽ इत्यनेन सम्बध्यते । एवमिति । ध्वनतीति प्रकारेणेत्यर्थः । शब्दवाच्यव्यङ्ग्यव्यञ्जनानि चत्वार्यपि योगेन ध्वनिशब्दवाच्यानीत्यर्थः । प्राधान्येनेति । मख्यतायां हेतुः; समुदायस्य समुदाय्यपेक्षया प्राधान्यात् ।


विभक्त एव ध्वनेर्विषय इति दर्शितं । यदप्युक्तम्---ऽप्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यत्वहानेर्ध्वनिर्नास्तिऽ इति, तदप्ययुक्तं । यतो लक्षणकृतामेव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वं ।


लोचनम्

शब्दार्थयोर्ध्वननमिति । कारिकया तु प्राधान्येन समुदाय एव काव्यरूपो मुख्यतया ध्वनिरिति प्रतिपादितं । विभक्त इति । गुणालङ्काराणां वाच्यवाचकभावप्राणत्वात् । विषयशब्दार्थः । एवं तद्व्यतिरिक्तः कोऽयं ध्वनिरिति निराकृतं । लक्षणकृतामेवेति । लक्षणकाराप्रसिद्धताविरुद्धो हेतुः; तत एव हि यत्नेन लक्षणीयता । लक्ष्ये त्वप्रसिद्धत्वमसिद्धो हेतुः ।

बालप्रिया

मुख्यतयेति । इतरेषान्त्वमुख्यतयेति भावः । ध्वनिरित्यादि । रूढ्या ध्वनिपदार्थत्वेनोक्तमित्यर्थः । तथाच सः तथाविधः शब्दवाच्यव्यङ्ग्यव्यञ्जनसमुदायात्मकः काव्यविशेषो ध्वनिरिति कथितः । रूढ्या ध्वनिपदवाच्यत्वेन कथित इति कारिकार्थः । तथाविधकाव्यविशेषत्वं लक्षणं, रूढ्या ध्वनिपदवाच्यत्वं लक्ष्यतावच्छेदकं । यद्यपिऽकाव्यविशेषघटितलक्षणस्यैव प्रकृत उपयोगात्तदभिहितमिति च बोध्यं । वृत्तौऽअनेनेऽति । एवं लक्षणप्रतिपादनेनेत्यर्थः । ऽउपमादिभ्यऽ इत्यादि । तद्विषयेभ्य इत्यर्थः । ऽविभक्तःऽ भिन्नः । कथं घ्वनेरुपमादिभ्यो विभक्तविषयत्वमित्यत आह--गुणेत्यादि । वाच्यवाचकाश्रयत्वात्तद्भावोपजीवित्वं । उक्तार्थोपपादनायऽविशेषेण सिनोति बध्नाति स्वसम्बन्धिनं पदार्थम्ऽ इति व्युत्पत्तिमभिप्रेत्य विषयशब्दस्यार्थमाह--अनन्यत्र भाव इति । अन्यत्र सद्भावस्याभाव इत्यर्थः । विषयशब्दार्थः विशेषण विधया विषयशब्दप्रतिपाद्यः । ऽध्वनेर्विषयऽ इत्यस्य यसमादन्यत्र ध्वनिव्यवहारस्य सद्भावो नास्ति, स इत्यर्थ इति भावः । लक्षणप्रतिपादनेनैव प्रथमाभाववादिमतं निराकृतमित्यभिप्रायेण वृत्तिकृतोऽयदप्युक्तम्ऽ इत्यादिना द्वितीयाभाववादिमतदूषणाभिधानमिति प्रदर्शयितुमाह--एवमित्यादि । एवमिति निर्देषलक्षणकथनमुशेन ध्वनेः सद्भावस्य समर्थितत्वेनेत्यर्थः । इतीति । उपसंहारोक्तमेतादित्यर्थः । घ्ननिर्नाम काव्यप्रकारो न काव्यशब्दवाच्यः प्रसिद्धप्रस्थानातिक्रामित्वादिति परमतस्य प्रसिद्धप्रस्थानातिक्रामित्वादित्यनेन लक्षणकाराप्रसिद्धत्वं लक्ष्याप्रसिद्धत्वं वा विवक्षितमिति विकल्पमभिप्रेत्य यत इत्यादिना दूषणमभिहितमिति व्याचष्टे---लक्षणेत्यादि । विरुद्धत्वं साधयति---तत एवेति । लक्षणकाराप्रसिद्धत्वादेव । काव्यविशेषेषु ध्वनिलक्षणानुगमनेन काव्यशब्दवाच्येष्वपि लक्षणकाराप्रसिद्धत्वहेतोर्वर्तनाद्विरुद्धो हेतुरित्यर्थः ।


तत्तोऽन्यच्चित्रमेवेत्यग्रे दर्शयिष्यामः । यदप्युक्तम्---ऽकामनीयकमनतिवर्तमानस्य तस्योक्तालङ्कारादिप्रकारेष्वन्तर्भावःऽ इति, तदप्यसमीचीनम्; वाच्यवाचकमात्राश्रयिणि प्रस्थाने व्यङ्ग्यव्यञ्जकसमाश्रयेम व्यवस्थितस्य ध्वनेः कथमन्तर्भावः, वाच्यवाचकचारुत्वहेतवो हि तस्याङ्गभूताः, स त्वङ्गिरूप एवेति प्रतिपादयिष्यमाणत्वात् ।
     परिकरश्लोकश्चात्र---
व्यङ्ग्यव्यञ्जकसम्बन्धनिबन्धनतया ध्वनेः ।
वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः ।।


लोचनम्

यच्च नुत्तगीतादिकल्पं, तत्काव्यस्य न किञ्जित् । चित्रमिति । विस्मयकृद्वृत्तादिवशात्, न तु सहृदयाभिलषणीयचमत्कारसाररसनिःष्पन्दमयमित्यर्थः । काव्यानुकारित्वाद्वा चित्रम्, आलेखमात्रत्वाद्वा, कलामात्रत्वाद्वा । अग्र इति ।
प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितं ।
द्विधा काव्यं ततोऽन्यद्यत्तच्चित्रमभिधीयते ।।
     इति तृतीयोद्द्योते वक्ष्यति । परिकरार्थ कारिकार्थस्याधिकावापं कर्तुं श्लोकः परिकरश्लोकः ।

बालप्रिया

गुणादिव्यतिरिक्तस्य तस्य नृत्तादिप्रायत्वमेवेति यदुक्तं तदपि निराकरोति--यच्चेत्यादि । काव्यस्येति । ध्वनिलक्षणलक्षितस्येत्यर्थः । न किञ्जिदिति । उपहास्यतामावहतीत्यर्थः । वृत्तौऽसहृदयहृदयाह्लादकारीऽति ध्वनिगुणीभूतव्यङ्ग्ययोर्ग्रहणमित्यभिप्रायेणऽततोऽन्यच्चित्रमेऽवेत्यत्र चित्रपदं व्याचष्टे--विस्मयकृदिति । वृत्तादीत्यादिपदेन यमकोपमादिपरिग्रहः विवक्षितं व्यवच्छेद्यमाह--न त्वित्यादि । गौणो वा काव्यस्य चित्रपदेन व्यवहार इत्याह--काव्येत्यादि । काव्येति । ध्वनिकाव्येत्यर्थः । विष्णवाद्यनुकारित्वमालेख्यमात्रत्वं कलारूपत्वं च लोकप्रसिद्धचित्राणामस्तीति तद्योगात्काव्ये चित्रशब्दप्रवृत्तिरित्यर्थः । वाकारस्समुच्चये । वृत्तौऽप्रस्थानऽ इति । अलङ्कारादावित्यर्थः । ऽवाच्येऽत्यादि । अलङ्कारादय इत्यर्थः । ऽतस्यऽ ध्वनेः । ऽसःऽ ध्वनिः । ऽप्रतिपादयिष्यमामत्वात्ऽ वक्ष्यमामत्वात् । परिकररस्य सापेक्षत्वात्कस्येत्यपेक्षायामाह-कारिकार्थस्येति । परिकार्थमित्यस्य व्याख्यानम्-अधिकावापं कर्तुमिति ।


     ननु यत्र प्रतियमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद्ध्वनेर्विषयः । यत्र तु प्रतीतिरस्ति, यथा-समासोक्त्याक्षेपानुक्तनिमित्तविशेषोक्तिपर्यायोक्तापह्नुतिदी पकसङ्क- रालङ्कारादौ, तत्र ध्वनेरन्तर्भावो भविष्यतीत्यादि निराकर्तुमभिहितम्-ऽउपसर्जनीकृतस्वार्थौऽ इति । अर्थो गुणीकृतात्मा, गुणीकृतात्मा, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तरमभिव्यनक्ति स ध्वनिरिति । तेषु कथं तस्यान्तर्भावः । व्यङ्ग्यप्राधान्ये हि ध्वनिः । न चैतत्समासो


लोचनम्

यत्रेत्यलङ्कारेः वैशद्येनेति । चारुतया स्फुटतया चेत्यर्थः । अभिहितमिति भूतप्रयोग आदौ व्यङ्क्त इत्यस्य व्याख्यातत्वात् । गुणीकृतात्मेति । आत्मेत्यनेन स्वशब्दस्यार्थो व्याख्यातः । न चैतदिति । व्यङ्ग्यस्य प्रादान्यं । प्राधान्यं च यद्यपि ज्ञप्तौ न चकास्ति;ऽबुद्धौ तत्त्वावभासिन्यांऽ इति नयेनाखण्डचर्वमाविश्रान्तेः, तथापि विवेचकैर्जीवितान्वेषणे क्रियमाणे यदा व्यङ्ग्योऽर्थः पुनरपि वाच्यमेवानुप्राणयन्नास्ते तदा तदुपकरणत्वादेव तस्यालङ्कारता । ततो वाच्यादेव तदुपस्कृताच्चमत्कारलाभ इति । यद्यपि पर्यन्ते रसध्वनिरस्ति, तथापि मध्यकक्षानिविष्टोऽसौ व्यह्ग्योऽर्थो

बालप्रिया

कारिकायामनुक्तस्याधिकस्यापेक्षितस्यार्थस्यावापः प्रक्षेपः तं कर्तुमित्यर्थः । अलङ्कार इति । उपमास्वाभावोक्त्यादावित्यर्थः । आहेत्यनुक्त्वाऽअभिहितम्ऽ इत्युक्तेर्बीजमाह--अभिहितमित्यादिना । पूर्वोक्तमनुस्मारयति--आत्मेत्यादि । ध्वनिगुणीभूतव्यङ्ग्ययोर्द्वयोरपि प्रतीतिदशायां प्राधान्यप्रतीत्यभावस्य तुल्यत्वात्, प्राधान्यं तुल्यमित्याशङ्क्याभिप्रायप्रकटनेन परिहरति--प्राधान्यं चेत्यादि । प्राधान्यं व्यङ्ग्यस्य प्राधान्यं । अखण्डेति । खण्डो गुमप्राधान्यादिलक्षणो भेदः, तद्रहितोऽखण्डस्ताद्दशस्य वाक्यार्थीभूतस्य रसादिव्यङ्ग्यस्य चर्वणायां विश्रान्तेः सहृदयमनसां विश्रान्तेरित्यर्थः । विवेचकैः सहृदयैः । अखण्डचर्वणानन्तरमित्यर्थात् । जीवितान्वेषणे क्रियमाम इत्युभयसाधारणं । यदेत्यादि । यः पूर्वं वाच्यादुत्तीर्मस्तद्व्यङ्ग्यत्वात्सकक्ष्यान्तरह्गतोऽपि पुनः पूर्वभाविर्नी वाच्यकक्ष्यां प्रविश्य वाच्यमेवानुप्राणयन्यदा आस्ते इत्यर्थः । ऽतदालङ्कारतेऽति सम्बन्धः । अवधार्यत इति शेषः । तदुपकरणत्वादिति । तस्य वाच्यस्य उपकरणत्वदङ्गत्वादित्यर्थः । व्यङ्ग्यं विना तच्चारुत्वासिद्धेरिति भावः । एवेति । नान्यतेत्यर्थः । तस्य व्यङ्ग्यस्य । अस्त्वेवं किमत इत्यत्राह--तत इत्यादि । ततः तस्यालङ्कारत्वात् । तदुपस्कृतात्व्यङ्ग्येनालङ्कृतात् । चमत्कारलाभ इति । यदा पुनर्व्यङ्ग्योऽर्थो वाच्येनोपस्कृतः काव्यमनुप्राणटयन्नास्ते तदा तस्माच्चमत्कारलाभ इत्यनेनार्थात्सिध्यति । स्वयमङ्गस्य सत्यङ्गिनि किमित्यङ्गान्तरे पर्थवसानमित्याशङ्क्य समाधत्ते---यद्यपीत्यादि । मध्यकक्षेति । समासोक्त्यादिषु


क्त्यादिष्वस्ति । समासोक्तौ तावत्----
     उपोढरागेम विलोलतारकं तथा गृहीतं शशिना निशामुखं ।
     यथा समस्तं तिमिशंशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ।।
     इत्याद.उ व्यङ्ग्येनानुगतं वाच्यमेव प्राधान्येन प्रतीयते


लोचनम्

न रसोन्मुखीभवति; स्वातन्त्र्येणापि तु वाच्यमेवार्थ संस्कर्तुं धावतीति गुणीभूतव्यङ्ग्यतोक्त । समासोक्ताविति ।
यत्रोक्तौ गम्यतेऽन्योऽर्थस्तत्समानैर्विशेषणैः ।
सा समसोक्तिरुदिता संक्षिप्तार्थतया बुधैः ।।
     इत्यत्र समासोक्तेर्लक्षणस्वरूपं हेतिर्नाम तन्निर्वचनमिति पादचतुष्टयेन क्रमादुक्तं । उपोढोरागः सान्ध्योऽरुणिमा प्रेम चयेन । विलोलास्तारका ज्योतींषि नेत्रत्रिभागाश्च यत्र । तथेति । झटित्येव प्रेमरभसेन च । गृहीतमाभासितं परिचुम्बितुमाक्रान्तं च । निशाया मुखं प्रारम्भो वदनकोकनदं चेति । यथेति । झटिति ग्रहणेन प्रेमरभसेन च । तिमिरं चांशुकाश्च सूक्ष्मांशवस्तिमिशंशुकं रश्मिशबलीकृतं तमःपटलं, तिमिशंशुकं नीलजालिका नवोढाप्रौढवधूचिता । रागाद्रक्तत्वात्सन्ध्याकृतादनन्तरं प्रेमरूपाच्च

बालप्रिया

प्रथमावाच्यस्य द्वितीया वस्तुव्यङ्ग्यस्य तृतीया रसध्वनेश्च कक्षेति स्थितिः । स्वातन्त्र्येणेति । वाच्यं---लक्षणमित्यादि । लक्षणस्वरूपमिति । स्वरूपलक्षणमित्यर्थः । ऽलक्षणं स्वरूपम्ऽ इति च पाठः । अत्र निशाशशिवृत्तान्तः प्राकारणिकत्वाद्वाच्यो नायकवृत्तान्तस्त्वप्राकरणिकत्वाद्व्यङ्ग्य इत्यभिप्रेत्य समानविशेषणत्वं विवृणोति--उपोढ इत्यादिना । ज्योतिषां विलोलत्वं प्रतीत्या । नेत्रत्रिभागा इति । नेत्रत्रिभागनिरीक्षणानीत्यर्थः । तथा गृहीतमित्येत्त्प्रकृतानुगुणतया व्याचष्टे--भक्तिटत्येवेत्यादि । आक्रान्तमिति । तथैव चुम्वनस्य रसावहत्वात् । यथोक्तम्--"वामो हि काम" इति । एकरूपत्वार्थं यथाशब्दं व्याचष्टे--भ्क्तटितीत्यादि । तिमिरांशुकमित्यत्र रूपकभ्रमं व्यावर्तंयति--तिमिरं चेत्यादि । अल्पार्थे क इत्याभिप्रायेणंशुकपदं व्याचष्टे---सूक्ष्मांशव इति । अर्थाच्छशिनः । तिमिएंशुकमिति द्वन्द्वैकवद्भावः । फलितमाह---रश्मीति । शवलं चित्रं । नीलजालिकेति । नीलवर्णपट्टवसनस्य कामशास्त्रप्रसिद्धं नाम । तस्यात्रौचित्यादुक्तिरित्याह---नवोढेत्यादि । प्रकृते तिमिरांशुकगलनं प्रतिरागस्याहेतुत्वात्पूरयति-अनन्तरमिति । पुर इत्यस्य व्याख्यानम्-पूर्वस्यामित्यादि ।

लोचनम्

हेतोः । पुरोऽपि पूर्वस्यां दिशि अग्रे च । गलितं प्रशान्तं पतितं च । रात्र्या करणभूतया समस्तं मिश्रितम्; उपलक्षणत्वेन वा । न लक्षितं राक्षिप्रारम्भोऽसाविति न ज्ञातं, तिमिरसंवलितांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते न तु स्फुट आलोके । नायिकापक्षे तु तयेति कर्तृपदं । लाक्षिपक्षे तु अपिशब्दो लक्षितमित्यस्यानन्तरः । अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनं । यदि वाऽपुरोऽग्रे नायकेन तथा गृहीतं मुखम्ऽ इति सम्बन्धः । तेनात्र व्यङ्ग्ये प्रतीतेऽपि न प्राधान्यं । तथाहि नायकव्यवहारो निशाशशिनावेव शृङ्गारविभावरूपौ संस्कुर्वाणोऽलङ्कारतां भजते, ततस्तु वाच्याद्विभावीभूताद्रसनिःष्यन्दः । यस्तु व्याचष्टे---ऽतेयानिशयेति कर्तृपदं, न चाचेतनायाः कर्तृत्वमुपपन्नमिति शब्देनैवात्र नायकव्यवहार उन्नीतोऽभिधधेय एव, न व्यङ्ग्य इत्यत एव समासोक्तिःऽ इति । स प्रकृतमेव ग्रन्थार्थमत्यजद्व्यङ्ग्येनानुगतमिति । एकदेशविवर्ति चेत्थं रूपकं स्यात्,ऽराजहंसैरवीज्यन्त शरदैव सरोनृपाःऽ इतिवत्, न तु समासोक्तिः; तुल्यविशेषणाभवात् ।

बालप्रिया

तिमिरस्य सूक्ष्मांशूनां च सम्मिश्रणं प्रति रात्र्याः करमत्वसम्भवात्तयेति करणे तृतीयेत्याह---करणभूतयेति । तन्मिश्रणं प्रति रात्र्याः ज्ञापकत्वरूपोपलक्षणत्वसम्भवात्तयेत्युपलक्षणे तृतीया वेत्याह-उपलक्षणत्वेन वेति । तस्या उपलक्षणत्वेन तया मिक्षितमिति सम्बन्धः । उपलक्षणेन वेति च पाठः । न लक्षितमित्येतदाकारं प्रदर्शयन्व्याचष्टे-रात्रीत्यादि । न ज्ञातमिति । जनैरिति शेषः । लभितमिति भावे क्तः । गलितमित्यन्तं भिन्नं वाक्यं । अत एव न लभितमिति हेतुहेतुमद्भावं बोधयितुमाह---तिमिरेत्यादि । रात्रिपक्ष इति । अनेनान्यत्र पुरोऽपीत्येव सम्बन्ध इति दर्शितं । अनन्तर इति । तथा चापिशब्दो गलनालक्षणयोः समुच्चायक इत्यर्थः । कथं नीलाम्बरपुरोगलनमित्यतस्तदुपपादयति-अत्र चेत्यादि । चुम्बनौचित्यानुसारेणाह--यदि वेत्यादि । पुरश्शब्दस्य व्यवहितेन गृहीतमित्यनेनान्वय इति भावः । तेनेति । उक्तेनार्थद्वयेनेत्यर्थः । प्यङ्ग्ये इति । नायकवृत्तान्तरूपव्यङ्ग्ये इत्यर्थः । अलङ्कारतां भजत इत्यत्र हेतुगर्भं विशेषणम्---निशेत्यादि । संस्कुर्वामः आरोपेणालङ्कुर्वाणः । एवं व्यङ्ग्यस्य गुणीभूतत्वं प्रदर्श्य रसापेक्ष्या ध्वनित्वमप्यस्तीति दर्शयिन्तुमाह--तत इत्यादि । ततः संस्कृतात् । विभावीभूतादिति । पूर्वं विभावभावमननुभवतः संस्करणानन्तरं प्राप्तविभावादित्यर्थः । शब्देनेति । निशाशशिशब्देनेत्यर्थः । उन्नीतः अनुमितः, कल्पितो वा । अभिघे. एवेति । अभिधातिरिक्तव्यापारभावादिति भावः । समासोक्तिरिति संज्ञाबलाच्चाभिधेयत्वनिश्चय इत्याह---अत एवेत्यादि । प्रत्याचष्टे---स इत्यादि । ऽइति ग्रन्थार्थम्ऽ इति सम्बन्धः । दूषणान्तरमाह--एकदेशेत्यादि । इत्थमिति । नायकव्यवहारस्यभिधेयत्व इत्यर्थः । इतिवदिति । यथात्र सरोनृपा


समारोपितनायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् । आक्षेपेऽपि व्यङ्ग्यविसेषाक्षेपिणोऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते । तथाहि-तत्र शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेष


लोचनम्

गम्यत इति चानेनाभिधाव्यापारनिरासादित्यलमवान्तरेण बहुना । नायिकाया नायके यो व्यवहारः स निशायां समारोपितः; नायिकायां नायकस्य यो व्यवहारः स शशिनि समारोपित इति व्याख्याने नैकशेषप्रसङ्गः । आक्षेप इति ।
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।।
     तत्राद्य.उ यथा---
अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः ।
इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ।।

बालप्रिया

इत्युक्त्यनुगुणतया राजहंसानां चामरत्वं शरदश्चामरग्राहिणीत्वं चार्थात्सिध्यति, तथा प्रकृते तिमिरांशुकपदानुगुणतया निशादेर्नायिकात्वादिकमत एकदेशविवर्तिरूपकं स्यादित्यर्थः । न तु समासोक्तिरित्यत्र हेतुमाह-तुल्येति । उक्तमुक्तिपदानुगुण्यं निराकरोति--गम्यत इत्यादि । अनेनेति । लक्षणवचनेनेत्यर्थः । उक्तिरिति तु प्रकृतविषयतयैवोपपद्यते यत्रोक्तित्याद्यारम्भादिति भावः । नायिकाया इत्यादि । नायिकाया व्यवहारे नीलाम्बरगलनानवलोकनादिरूपो व्यापारः, नायकस्य तु वदनचुम्बनारम्भादिलक्षणः । इति व्याख्यान इति । एवमर्थस्य विवक्षितस्य व्याख्याने सतीत्यर्थः । नैकशेषप्रसङ्ग इति । नायिकानायकेत्यत्र "पुमांस्स्त्रिये"त्येकशेषप्रसङ्गो नेत्यर्थः । एवं समासोक्तौ व्यङ्ग्योपस्कृतं वाच्यमेव प्रधानमतस्तत्र ध्वनिलक्षणस्य नातिव्याप्तिरिति प्रदर्श्याक्षेपेऽपि स एव प्रकार इत्याह वृत्तो-ऽआक्षेपेऽपीऽ त्यादि । आक्षेपेऽपिऽवाच्यस्यैव चारुत्वं, प्राधान्येन ज्ञायतऽ इति सम्बन्धः । अत्र हेतुःऽवाक्यार्थऽ इत्यादि । वाक्यार्थे विषये या आक्षेपोक्तिः, तस्याः सामर्थ्यादित्यर्थः । कथं तत्राक्षेपोक्तिरित्यत उक्तम्--ऽव्यग्येऽति । व्यङ्गयो यो विशेषस्तदाक्षेपिणस्तदाकर्षित्वादित्यर्थः । ऽशब्दोपारूढऽ इति । शब्दवाच्य इत्यर्थः । लोचने भामहोक्ते तल्लक्षणाद्योदाहरणे दर्शयति--प्रतिषेध इति । विशेषाबिधित्सया व्यङ्ग्यभूतविशेषप्रतिपिपादयिषया । यः इष्टस्य वक्तुमिष्टस्य । प्रतिषेध इव

लोचनम्

     इति वक्ष्यमाणमरणविषयो निषेधात्माक्षेपः । तत्रेयदस्त्वित्येतदेवात्र म्रिये इत्याक्षिपत्सच्चारुत्वनिबन्धनमित्याक्षेप्येणाक्षेपकमलङ्कृतं सत्प्रधानं । उक्तविषयस्तु यथा ममैव---
भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गतिः
तत्ताद्दक्तृषितस्य मे खलमतिः सोऽयं जलं गूहते ।
अस्थानोपनतामकालसुलभां तृष्णां प्रति क्रुध्य भोः
त्रैलोक्यप्रथितप्रभावमिहिमा मार्गः पुनर्मारवः ।।

बालप्रिया

प्रतिषेधाभासः इष्टत्वादेव । सः आक्षेपः । तस्य द्वैविध्यमाह---वक्ष्यमाणेति । अत्र वक्ष्यमाणविषये कथनस्यैव निषेधः । उक्तविषये तु क्वचिद्वस्तुनः, क्वचिद्वस्तुकथनस्येति बोध्यं । अहमिति । प्रस्थानोन्मुखं प्रियतमं प्रति सोत्कण्ठायाः कस्याश्चिदुक्तिः । उत्सुकाहं त्वां क्षणमपि न तरिक्षेय यदि, ततः तर्हि इयदेतावत्यदिपर्यन्तं वचनमेव अस्तु । अतः अन्येन ते अप्रियेणेति हेतुगर्भं । उक्तेन वचनेन । किं न वक्ष्यामीत्यर्थः । अत्र लक्षणं योजयति---इतीत्यादि । निषेधात्मेति । किमुक्तेनेति कथननिषेधाभासात्मेत्यर्थः । अत्रापि वाच्यस्यैव प्राधान्यमिति दर्शयति--तत्रेत्यादि । इत्येतदेव इति वाच्यार्थं एव । आक्षिपत् । व्यञ्जयत् । आक्षेप्येण मरणाध्यवसायरूपव्यङ्ग्येन । आक्षेपकमियदेवास्त्वित्यादिनोक्तं ।
     भो भो इति । ऽखलसृतिस्सेयम्ऽ इतिऽखलमतिस्सोऽयम्ऽ इति च पाठः । अत्र पान्थमरुमार्गसम्बन्ध्यर्थो वाच्यः । प्रकृतो दुष्प्रभुसेवावृत्तान्तस्तु व्यङ्ग्यः । भो भो इति वीप्सया बोधनीयं प्रत्यादरातिशयो द्योत्यते । अकाण्डे । अस्थान एव । किं किं पतितः अत्रागमनेन एतत्सेवनेन चाभिमतं फलं न सिध्यतीत्यर्थः । पान्थेत्यनेन सेवानभिज्ञत्वं द्योत्यते । चिरसेविना केनचिदेवमुक्ते पान्थः किञ्चित्कुपित आह---कान्येत्यादि खलेत्यन्तेन । हे खल । तत्तादृगतिशयेन तृषितस्य तृषा जलपिपासा धनलिप्सा च । मे अन्यागतिराश्रयः का नैवेत्यर्थः । मार्गान्तरालाभादत्रागतः आश्रयणीयान्तरालाभादयं प्रभुराश्रितश्चेत्यर्थः । तच्छ्रुत्वापर आह--सृतिरित्यादिसा त्वयाऽश्रिता । इयं सृतिः अयं मार्गः प्रभुश्च । जलं वारि धनं च । घते संवृणोति । कुतो वितरमसम्भावनेति भावः । ऽखलमतिस्सोऽयम्ऽ इति पाठे तु सोऽयमिति मारवमार्गं प्रभुं चोद्दिश्योक्तिः । गूहत इत्यन्तं पान्थस्यैव वचनमिति केचित् । खलेत्यनेन प्रकाशितं कोपमुपहसन्पर एवाह-अस्थानेत्यादि । अकालसुलभां यदा विषयस्य सुलभत्वं तदा तृष्णा न भवति, यदा पुनरसुलभत्वं तदा भवतीत्यकालसुलभत्वं । तृष्णां प्रति तव तृष्णायै क्रुध्य न मां प्रतीति भावः । कथमस्थानोपनतत्वमित्यत्राह--त्रैलोक्येत्यादि । प्रभावमहिमा अत्यन्तापकारित्वादिरत्यन्तलुब्धत्वादिश्च । मारवः मरुसम्बन्धी मार्गः, अथ च दुष्प्रभुः ।

लोचनम्

     अत्र कश्चित्सेवकः प्राप्तः प्राप्तव्यमस्मात्किमिति न लभ इति प्रत्याशाविशस्यमानहृदयः केनचिदमुनाक्षेपेण प्रतिबोध्यते । तत्राक्षेपेण निषेधरूपेम वाच्यस्यैवासत्पुरुषसेवातद्वैफल्यतत्कृतोद्वेगात्मनः शन्तरसस्थायिभूतनिर्वेदविभावरूपतया चमत्कृतिदायित्वं । वामनस्य तुऽउपमानाक्षेपःऽ इत्याक्षेपलक्षणं । उपमानस्य चन्द्रादेराक्षेपः; अस्मिन्सति किं त्वया कृत्यमिति । यथा---
तस्यास्तन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्ढुना
सौन्दर्यस्य पदं दृशौ यदि च तैः किं नाम नीलोत्पलैः ।

बालप्रिया

     उक्तं व्यङ्ग्यमर्थमभिप्रेत्याह-अत्रेत्यादिना । ऽकश्चित्सेवकः केनचित्प्रतिबोध्यतऽ इति सम्बन्धः । प्राप्त इत्यादिद्वयं सेवकविशेषणं । प्राप्तः सेव्यं प्रभुं प्राप्तः । प्राप्तव्यं धनादिकं । अस्मात्प्रभोः । किमिति । कस्मात्कारणात् । न लभे इति वितर्कानन्तरजातया प्रत्याशया प्रतिक्षणोत्पन्नया आशया विशस्यमानं हृदयं यस्य स इति प्रतिबोधने हेतुः । केनचित्चिरसेविना केनापि कर्त्रा । अमुना आक्षेपेण असत्पुरुषसेवातद्वैफल्यादिरूपव्यङ्ग्यविशेषप्रतिपिपादयिषया कृतेन किं किमकाण्ड एव पतित इति निषेधरूपेण । प्रतिबोध्यत इति । पूर्वमेव ज्ञातं प्रभोरत्यन्तलोभशीलत्वादिस्वभावं कारुण्यात्प्रतिबोध्यत इत्यर्थः । अत्रापि व्यङ्ग्यस्य वाच्योपस्कारकत्वं दर्शयति---तत्रेत्यादि । तत्र उदाहरणे । निषेधरूपेणेति । किं किमिति पतनफलनिषेधरूपेमेत्यर्थः । आक्षेपेणेति तृतीयार्थो वैशिष्ट्यं वाच्यान्वयि, तत्सहितवाच्येत्यर्थः । वाच्यस्यैवेति । पान्थमरुमार्गादिवाच्यार्थं प्रत्येवेत्यर्थः । ऽचमत्कृतिदायित्वम्ऽ इत्यनेन सम्बन्धः । कस्येत्यत्राह-असदित्यादि । असत्पुरुषः दुष्प्रभुः । व्यङ्ग्यस्येत्यर्थात् । अस्य व्यङ्ग्यस्य वाच्यार्थचमत्कारसम्पादने हेतुमाह---शान्तेत्यादि । असत्पुरुषसेवावैफल्यं विभावः, तत्कृतोद्वेगोऽनुभावः । किं किमकाण्ड एव पतित इतीष्टपतनफलनिषेधरूपाक्षेपेमाक्षेप्यं यदसत्पुरुषसेवावैफल्यादि तेनालङ्कृतमाक्षेपकं तद्वाच्यमेव प्रधानमिति भावः । "प्राणा येन समर्पिता" इत्यादिवदत्राप्रस्तुतप्रशंसाप्यस्तीति तत्सङ्कीर्णोऽयमाक्षेप इत्यपि बोध्यं । ऽवामनस्येति लक्षणम्ऽ इत्यनेन सम्बन्धः । आक्षेपशब्दार्थं दर्शयति---आस्मिन्नित्यादि । अस्मिनुपमेयत्वाभिमते मुखादौ । त्वया मुखाद्युपमानेन चन्द्रादिना । कृत्यं फलं ।
     तस्या इति । तदित्यनुभूतार्थकं दृशावित्यनेनापि विपरिणामेन योज्यं । सौम्यं मधुरदर्शनमत एव सुभगं च । किं किं फलं । दृशाविति । स्त इति शेषः । यदीति सिद्धानुवादे । तैः प्रसिद्धैः । तत्र तस्मिन् । हीति । अहो कष्टमित्यर्थः ।


रूपो य आक्षेपः स एव व्यङ्ग्यविशेषमाक्षिपन्मुख्यं काव्यशरीरं । चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्रादान्यविवक्षा । यथा----
अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः ।


लोचनम्

किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे
ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वा ग्रहः ।।
     अत्र्.अ व्यङ्ग्योऽप्युपमार्थो वाच्यस्यैवोपस्कुरुते । किं तेन कृत्यमिति त्वपहस्तनारूप आक्षेपो वाच्य एव चमत्कारकारणं । यदि वोपमानस्याक्षेपः सामर्थ्यादाकर्षणं । यथा--
ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभं ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ।।
     इत्यत्रेर्ष्याकलुषितनायकान्तरमुपमानमाक्षिप्तमप्.इ वाच्यर्थमेवालङ्करोतीत्येषा तु समासोक्तिरेव । तदाह---चारुत्वोत्कर्षेति । अत्रैव प्रसिद्दं दृष्टान्तमाह---अनुरागवतीति । तेनोपप्रमेयसमर्थनमेवापरिसमाप्तमिति मन्तव्यं । तत्रोदाहरमत्वेन

बालप्रिया

पुनरिति । पुनरुक्तानामनुपादेयानां निष्फलानां वस्तूनां पार्वणचन्द्रादीनां रचनायां सृष्टौ विषये ये आरम्भा व्यापाराः तेषु । अपूर्वः अन्यत्राद्दष्टः । ग्रहः अभिसन्धिविशेषः । अत्रापि व्यङ्गयस्य गुणीभावं दर्सयति---अत्रेत्यादि । उपमार्थः चन्द्रादिसाद्दश्यरूपार्थः । वाच्यस्यैवोपस्कुरुते वाय्यार्थमेवालङ्करेति । अत्र हेतुमाह---किमित्यादि । ऽइति वाच्य आक्षेप एव चमत्कारकारणम्ऽ इति सम्बन्धः । अपहस्तनारूपः निरसनरूपः । "उपमानाक्षेप" इति सूत्रमन्यथा व्याचष्टे---यदि वेत्यादि । सामर्थ्यादर्थसामर्थ्यात् । आकर्षणं व्यञ्जनं । ऐन्द्रमिति । पयोधरो मेधः स्तनस्च । प्रसादयन्तीत्यादि । शरत्काले हि चन्द्रस्य प्रसादातिशयो रवितापाधिक्यं च । अत्र लक्षमं योजयति---अत्रेत्यादिर् । इर्ष्येतिर् । इर्ष्यया आक्षान्त्या कलुषितं यन्नायकान्तरं तद्रूपमुपमानमित्यर्थः । आक्षिप्तमिति । व्यञ्जितमित्यर्थः । नायिकाव्यञ्जनस्याप्युपलक्षणमिदं । नायिकापक्षे नखक्षतस्थतया श्रुतमप्युपमानत्वमैन्द्रे धनुषियोजनीयमिन्द्रचापाभं नकक्षतं दधानेत्यर्थः । एषेत्यादि । वामनमते आक्षेपोदाहरणत्वेनोक्तं इदं भामहमते समासोक्त्युदाहरणमेवेत्यर्थः । तदाहेति । वाच्यस्यैव प्राधान्यं न व्यङ्ग्यस्येत्यस्मिन्नुक्तार्थे हेतुमाहेत्यर्थः । अत्रैवेति । चारुत्वोत्कर्षकृतं प्राधान्यमित्यस्मिन्नर्थ एवेत्यर्थः । एवकारोऽलङ्कारोदाहरणत्वशङ्काशमनार्थः ।
     अनुरागवतीति । अनुरागौ रक्तिमा प्रेमविशेषश्च । तत्पुरस्सरः तस्याःस पुरस्सरः पूर्वकाले सम्मुखं च सरन्निति द्वयोरर्थयोरध्यवसायेनैक्यं बोध्यमत एवाहो इत्यादेपरुपपत्तिः । नायकपक्षे तु सम्मुखं वर्तमान इत्यर्थः । तेनेति । द्दष्टान्तोक्तितया


अहो दैवगतिः कीद्दक्तथापि न समागमः ।।
     अत्र सत्यामपि व्यङ्ग्यप्रतीतौ वाच्यस्यैव चारुत्वमुत्कर्षवदिति तस्यैव प्राधान्यविवक्षा ।
     यथा च दीपकापह्नुत्यादौ व्यङ्ग्यत्वेनोपमायाः प्रतीतावपि प्राधान्येनाविविक्षितत्वान्न तया व्यपदेशस्तद्वदत्रापि द्रष्टव्यं ।


लोचनम्

समासोक्तिश्लोकः पठितः । अहो दैवगतिरिति । गुरुपारतन्त्र्यादिनिमित्तोऽसमागम इत्यर्थः । तस्यैवेति । वाच्यस्यैवेति यावत् । वामनाभिप्रायेमायमाक्षेपः, भामहाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीत्वा समासोक्त्यक्षेपयोः युक्त्येदमेकमेवोदाहरणं व्यतरद्ग्रन्थकृत् । एषापि समासोक्तिर्वास्तु आक्षेपो वा, किमनेनास्माकमे । सर्वथालङ्कारेषु व्यङ्ग्यं वाच्ये गुणीभवतीति नः साध्यमित्यत्राशयोऽत्र ग्रन्थेऽस्मद्गुरुभिर्निरूपितः ।
     एवं प्राधान्यविवक्षायां दृष्टान्तमुक्त्वा व्यपदेशोऽपि प्राधान्यकृत एव भवतीत्यत्र दृष्टान्तं स्वपरप्रसिद्धमाह---यथा चेति । उपमाया इति । उपमानोपमेयभाव स्येत्यर्थः । तयेत्युपमया । दीपके हिऽआदिमध्यान्तविषयं त्रिधा दीपकमिष्यतेऽ इति लक्षणं ।
मणिः शाणोल्लीढः समरविजयी हेतिदलितः
कलाशेषश्चन्द्र सुरतमृदिता बाललना ।
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः ।।

बालप्रिया

अलङ्कारोदाहरणत्वाभावेनेत्यर्थः । अपरिसमाप्तमेवेति योजना । तत्रेति । आक्षेपसमर्थन इत्यर्थः । नायकयोरसमागमे गम्यं हेतुं दर्शयति---गुर्वित्यादि । ऽअनुरागेऽत्याद्युदाहरणप्रदर्शनाबिप्रायमाह---वामनेत्यादि । वामनाभिप्रायेम उपमानप्रत्यायनपक्षरूपेण । इदमिति । अनुरागेत्यादिकमित्यर्थः । अत्र ग्रन्थ इति । चारुत्वेत्यादिप्राधान्यविवक्षेत्यन्तग्रन्थ इत्यर्थः ।
     दीपके हीति । ऽइत्यत्र दीपनकृतमेव चारुत्वम्ऽ इत्यन्वयः । दीपके हीत्यस्य स्थानेऽतथाहीऽति च पाठः । भामहोक्तलक्षणमन्यत्तदुदाहरणञ्च दर्शयति---आदीत्यादि । अत्राद्यादयश्शब्दा वाक्यविषयाः । तत्रान्त्यदीपकमुदाहरति---मणिरिति ।

लोचनम्

     इत्यत्र दीपनकृतमेव चारुत्वं । ऽअपह्नुतिरभीष्टस्य किञ्चिदन्तर्गतोपमाऽ इति । तत्रापह्नुत्यैव शोभा । यथा---
नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।
अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ।। इति ।।
     एवमाक्षेपं विचार्योद्देशक्रमेणैव प्रमेयान्तरमाह-अनुक्तनिमित्तायामिति ।
एकदेशस्य विगमे या गुमान्तरसंस्तुतिः ।
विशेषप्रथनायासौ विशेषोक्तिरिति स्मृता ।।
     यथा---
स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलं ।।
     इयं चाचिन्त्यनिमित्तेति नास्यां व्यङ्ग्यस्य सद्भावः । उक्तनिमित्तायामपि वस्तुस्वभावमात्रत्वे पर्यवसानमिति तत्रापि न व्यङ्ग्यसद्भावशङ्का । यथा---
कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने ।
नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ।।

बालप्रिया

श्लोकोऽर्थ कुवलयानन्देऽप्युदाहृतः । दीपनकृतमेवेति । दीपनं नामानेकत्रैकधर्मान्वयः । एवकारेण व्यङ्ग्याया उपमाया व्यवच्छेदः । अपह्नुतेर्भामहीये लक्षणोदाहरणे दर्शयति---अपह्नुतिरित्यादि । अत्रापह्नुतिपदस्यावृत्तिर्बोध्या । अभीष्टस्य वर्ण्यत्वेनाभिमतस्य । किञ्जिदन्तर्गता व्यङ्ग्या उपमा यस्यास्सा । अपह्नुतिः निषेधः । अपह्नुतिः तन्नामालङ्कारः । अपह्नुत्येति । अपह्नवेनेति च पाठः । शोभाचारुत्वं । नेयमिति । मुहुर्विरौतीत्यन्वयः । ऽमदेन मुखरा आकृष्यमाणस्येऽति च बिम्बप्रतिबिम्बतयोक्तिः । ऽअनुक्तनिमित्तायाम्ऽ इत्यादिग्रन्यस्य पूर्वग्रन्थेन सम्बन्धं दर्शयन्नवतारयति--एवमित्यादि । उद्देशेति । समासोक्त्याक्षेपेत्यादिपूर्वोक्तेत्यर्थः । ऽअनुक्तनिमित्तायाऽमिति कथनस्य फलं वक्तुमुपक्रममांण आह---एकेत्यादि । एकेत्यादिलक्षणं भामहीयं । एकदेसस्य तनुमत्त्वादेः कारणस्य । गुणान्तरस्य बलवत्वादिरूपकार्यस्य । संस्तुतिः कथनं । विशेषप्रथनाय कस्यचिदतिशयस्य ख्यापनाय । स इति । सः प्रसिद्धः । अपिशब्दः सम्भुनेत्यत्रापि योज्यः । बलस्य तन्वाश्रयत्वात्तनुविगमे बलविगमो न्याय्यः । इह तु तनुविगमेऽपि बलसद्भाव उक्तः । तत्र च यत्किञ्चिन्निमित्तं भवेत्, परन्तु तदचिन्त्यमित्याह---इयञ्चेति । वस्तुस्वभावमात्रत्वे पर्यवसानमिति । वार्थान्तरव्यञ्जकत्वमित्यर्थः ।
     कर्पूर इति । अवार्येत्यादिर्निमित्तोक्तिः । तेनेति । यस्मादुक्ते प्रकारद्वये व्यङ्यसद्भावो


अनुक्तनिमित्तायामपि विशेषोक्तौ----
आहूतोऽपि सहायैः ओमित्युक्त्वा विमुक्तनिद्रोऽपि ।
गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति ।।
इत्याद.उ व्यङ्ग्यस्य प्रकरणसामर्थ्यात्प्रतीतिमात्रं । न तु तत्प्रतीतिनिमित्ता


लोचनम्

     तेन प्रकारद्वयमवधीर्य तृतीयं प्रकारमाशङ्कते--अनुक्तनिमित्तायामपीति । व्यह्ग्यस्येति । शीतकृता खल्वार्तिरत्र निमित्तमिति भट्टोद्भटः, तदभिप्रायेणाह-न त्वत्र काचिच्चारुत्वनिष्पत्तिरिति । यत्तु रसिकैरपि निमित्तं कल्पितम्-ऽकान्तासमागमे गमनादपि लघुतरमुपायं स्वप्नं मन्यमानो निद्रागमबुद्ध्या सङ्कोचं नात्यजत्ऽ इति तदपि निमित्तं चारुत्वहेतुतया नालङ्कारविद्भिः कल्पितम्, अपि तु विशेषोक्तिभाग एव न शिथिलयतीत्येवम्भूतोऽभिव्यज्यमाननिमित्तोपस्कृतश्चारुत्वहेतुः । अन्यथा तु विशेषोक्तिरेवेयं न भवेत् । एवमभिप्रायद्वयमपि साधारणोक्त्या ग्रन्थकृन्न्यरूपयन्न त्वौद्भटेनैवाभिप्रायेण ग्रन्थो व्यवस्थित इति मन्तव्यं । पर्यायोक्तेऽपीति ।
पर्यायोक्तं यदन्येन प्रकारेमाभिधीयते ।
वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ।।
     इति लक्षणं । यथा---
शत्रुच्छेदद्दढेच्छस्य मुनेरुत्पथगामिनः ।
रामस्यानेन धनुषा देशिता धर्मदेशना ।। इति ।।

बालप्रिया

नास्ति, तस्मादित्यर्थः । अत्र निमित्तमिति । सङ्कोचाशिथिलने गम्यं निमित्तमित्यर्थः । लघुतरमिति । सङ्कोचापरित्यागलभ्यत्वान्निद्रागमस्येति भावः । तदपि निमित्तमिति । रसिकैः कल्पितं निद्रागमबुद्धिरूपं निमित्तमित्यर्थः । अपि त्वित्यादि । ऽन शिथिलयतीत्येवंभूतो विशेषोक्तिभाग एवेऽति योजना । अभिव्यज्यमाननिमित्तेति । पूर्वोक्तनिमित्तेत्यर्थः । अन्यथा त्विति । व्यज्यमाननिमित्तोपस्काररूपविशेषविरहेत्वित्यर्थः । अभिप्रायद्वयमिति । उद्भटरसिकाभिप्रायद्वयमित्यर्थः । साधारणोकत्या व्यङ्ग्यस्यत्याद्युक्त्या । भट्टोद्भटोक्तं लक्षणमाह--पर्यायोक्तमिति । तदिति शेषः । पर्यायशब्दार्थं दर्शयति--अन्येनेति । तमेव स्फुटयति--वाच्येति । शत्रुच्छेद इति । मुनेश्शत्रुसद्भावो नोचितः, तत्र तदुच्छेदेच्छा ततोऽप्यनुचिता, तस्या द्रढिमा अत्यन्तानुचितः; अत एवाह-उत्पतेति । रामस्य भार्गवस्य । अनेन भीष्मेम कर्त्रा धनुषा करणेन । देशिता कृता । धर्मदेशना धर्मोपदेशः । अत्रापि वाच्यमेव प्रधानमिति दर्शयति-अत्रेत्यादि ।


काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यं । पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु नाम तस्य ध्वनावन्तर्भावः । न तु ध्वनेस्तत्रान्तर्भावः । तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमामत्वात् ।


लोचनम्

अत्र भीष्मस्य भार्गवप्रभावभिभावी प्रभाव इति यद्यपि प्रतीयते, तथापि तत्सहायेन देशिता धर्मदेशनेत्यभिधीयमानेनैव काव्यार्थोऽलङ्कृतः । अत एव पर्यायेण प्रकारान्तरेणावगमात्मना व्यङ्ग्येनोपलक्षितं सद्यदभिधीयते तदभिधीयमानमुक्तमेव सत्पर्यायोक्तमित्यभिधीयत इतिलक्षणपदम्, पर्यायोक्तमिति लक्ष्यपदम्, अर्थालङ्कारत्वं सामान्यलक्षणं चेति सर्वं युज्यते । यदि त्वभिधीयत इत्यस्य बलाद्य्वख्यानमभिधीयते प्रतीयते प्रदानतयेति, उदाहरमं चऽभम धम्मिअऽ इत्यादि, तदालङ्गारत्वमेव दूरे सम्पन्नमात्मतायां पर्यवसानात् । तदा चालङ्कारमध्ये गणना न कार्या । भेदान्तराणि चास्या वक्तव्यानि । तदाह---यदि प्राधान्येनेति । ध्वनाविति । आत्मन्यन्तर्भावादात्मैवासो नालङ्कारस्स्यादित्यर्थः । तत्रेति ।

बालप्रिया

प्रतीयत इति । व्यज्यत इत्यर्थः । तत्सहायेनेति । तेन प्रतीयमानार्थेनोपस्कृतेनेत्यर्थः । अभिधीयमानेनैव वाच्यार्थेनैव । काव्यार्थः वीररसः । अत एवेति । ऽअत एव इति सर्वं युज्यतऽ इति सम्बन्धः । व्यङ्ग्यस्य प्राधान्ये सर्वमेतदनुपपन्नं भवेदतो वाच्यस्यैव प्राधान्यमभ्युपेयमिति भावः । ऽपर्यायोक्तं यदन्येन प्रकारेणाभिधीयतऽ इत्येतावन्मात्रं भामहोक्तं लक्षणम्; तत्रान्येन प्रकारेणेत्यस्य विवरणंऽपर्यायेणेत्याद्युपलक्षितऽमित्यन्तं । पर्यायशब्दार्थ एवान्येन प्रकारेणेत्यनेनोक्त इत्यवेदयितुमत्र पर्यायेणेत्युक्तं । अत एव तस्य व्याख्यानम्---प्रकारान्तरेणेति । कोऽसौ प्रकार इत्यात्राह--अवगमात्मनेति । अस्यैव विवरणम्--व्यङ्ग्येनेति । तृतीयाया अर्थमाह---उपलक्षितमिति । ऽयदभिधीयते तदभिदीयमानं पार्ययोक्तमित्यभिधीयतेऽ इति सम्बन्धः । ऽअभिदीयमानम्ऽ इत्यस्य व्याख्यानम्---उक्तमेव सदिति । इति लक्षणपदमिति । इत्यर्थकं लक्षणवाक्यमित्यर्थः । अनेन लक्षणवाक्येनैव व्यङ्ग्यानुगतस्य वाच्यस्य प्राधान्यं गम्यत इति भावः । इति लक्ष्यपदमिति । अन्वर्थेनानेनापि पूर्वोक्तं गम्यत इति भावः । अर्थालङ्कारत्त्वं सामान्यलक्षणमिति । व्यङ्ग्यस्य प्राधान्येऽलङ्कार्यत्वप्राप्त्यालङ्कारत्वभङ्गस्स्यादिति । भावः । सामान्यलक्षणं सामान्यधर्मः । पक्षान्तरमाशङ्कते-यदित्विति । बलादिति । शब्दपीडनेनेत्यर्थः । प्रतीयते प्रधानतयेति । अभीत्याभिमुख्ये । तच्च प्रादान्यनिबन्धनमिति भावः । अस्मिन्पक्षेऽभिमतं न सिद्ध्येदित्याह--तदेत्यादि । ननु माभूदलङ्कारत्वमित्यत्राह---तदेति । न केवलमस्य प्रसिद्धस्वभावपरित्यागः, अप्रसिद्धावान्तरभेदकल्पनापि स्यादित्याह-भेदेत्यादि । प्राधानव्यङ्ग्यानां


न पुनः पर्यायोक्ते भामहोदाहृतसद्दशे व्यङ्ग्यस्यैव प्राधान्यं । वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् । अपह्नुतिदीपकयोः पुनर्वाच्यस्य


लोचनम्

याद्दशोऽलङ्कारत्वेन विवक्षितस्ताद्दशे ध्वनिर्नान्तर्भवति, न ताद्दगस्माभिर्ध्वनिरुक्तः । ध्वनिर्हि महाविषयः सर्वत्र भावाद्य्वापकः समस्तप्रतिष्टास्थानत्वाच्चाङ्गी । न चालङ्कारो व्यापकोऽन्यालह्कारवत् । न चाङ्गी, अलङ्कार्यतन्त्रत्वात् । अथ व्यापकत्वाङ्गित्वे तस्योपगम्येते, त्यज्यते चालङ्कारता,तर्ह्यस्मन्नय एवायमवलम्ब्यते केवलं मात्सर्यग्रहात्पर्यायोक्तवाचेति भावः । न चेयदपि प्राक्तनैर्द्दष्टमपि त्वस्माभिरेवोन्मीलितमिति दर्शयति-न पुनरिति । भामहस्य याद्दक्तदीयं रूपभिमतं ताद्दगुदाहरणेन दर्शतम्. तत्रापि नैव व्यङ्ग्यस्य प्राधान्यं चारुत्वाहेतुत्वात् । तेन तदनुसारितया तत्सद्दशं यदुदाहरणान्तरमपि कल्प्यते तत्र नैव व्यङ्ग्यस्य प्राधान्यमिति सङ्गतिः ।
     यदि तु तदुक्तमुदाहरणमनाद्दतयऽभम धम्म्ऽ इत्याद्युदाह्नियते, तदस्मच्छिष्यतैव । केवलं तु नयमनवलम्ब्यापश्रवमेनात्मसंस्कार इत्यनार्यचेष्टितम्. यदाहुरैतिहा सिकाः---ऽअवज्ञयाप्यवच्छाद्य शृण्वन्नरकमृच्छतिऽ इति । भामहेन ह्युदाहृतम्---
ऽगुहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनः ।
विप्रा न भुञ्जतेऽ इति ।

बालप्रिया

बहुविधत्वादिति भावः । वृत्तौ ध्वन्यन्तर्भावमात्रमुक्तं, तस्यानलङ्कारत्वप्रसङ्गपर्यवसायितामाह---आत्मनीति । यादृश इति । उपसर्जनीभूतव्यङ्ग्यार्थ इत्यर्थः । अनन्तर्भावे हेतुमाह-नेत्यादि । समस्तेति । गुणादीत्यर्थः । अन्यालङ्कारवदिति । लोकप्रसिद्धकटकादिवदित्यर्थः । अथेत्यादि । पर्यायोक्तमित्ययमलङ्कारः व्यापकश्चाङ्गीचेत्युपगम्यत इति चेदित्यर्थः । तर्हीति । मात्सर्यग्रहणात्केवलं पर्यायोक्तवाचा अयमस्मन्नय एवावलम्ब्यत इति योजना । इयदपीति । व्यङ्ग्यस्य प्राधान्यमपीत्यर्थः । इति दर्शयतीति । ऽन पुनरिऽत्यादिग्रन्थेनोक्तमर्थं दर्शयतीत्यर्थः । तत्रापीति । भामहोदाहरणेऽपीत्यर्थः ।
     पक्षान्तरमाशङ्क्य परिहरति---यदि त्वित्यादि । केवलन्तु नयमनवलम्ब्यापश्रवणेनेति । यथाविधि गुरूपसदनपूर्वकं गुरुमुखादेव शास्त्रार्थग्रहणमकृत्वा श्रवणाभासेनेत्यर्थः । श्रवज्ञयेति । विद्यायां गुरौ चेति शेषः । अनच्छाद्य आत्मापह्नवं कृत्वा । ऋच्छति प्राप्नोति । किं तद्भामहोदाहरणमित्यत्राह---भामहेनेति । गृहेष्विति । ऽअधीतिनः विप्राः यदन्नं न भुञ्जते वयं गृहेष्वध्वसु वा तदन्नं न


प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं प्रसिद्धमेव ।
सङ्करालङ्कारेऽपि यदालङ्कारोऽलङ्कारान्तरच्छायामनुगृह्णाति,


लोचनम्

     एतद्धि भगवद्वासुदेववचनं पर्यायेम रसदानं निषेधति । यत्स एवाह---ऽतच्च रसदाननिवृत्तयेऽ इति । न चास्य रसदाननिषेधस्य व्यङ्ग्यस्य किञ्चिच्चारुत्वमस्ति येन प्राधान्यं शङ्ग्येत । अपि तु तद्य्वङ्ग्योपोद्बलितं विप्रभोजनेन विना यन्नभोजनं तदेवोक्तप्रकारेण पर्यायोक्तं सत्प्राकरणिकं भोजनार्थमलङ्कुरुते । न ह्यस्य निर्विषं भोजनं भवत्विति विवक्षितमिति पर्यायोक्तमलङ्कार एवेति चिरन्तनानामभिमत इति तात्पर्यं । अपह्नुतिदीपकयोरिति । एतत्पूर्वमेव निर्णीतं । अत एवाह---प्रसिद्धमिति । प्रतीतं प्रसाधितं प्रामाणिकं चेत्यर्थः । पूर्वं चैतदुपमादिव्यपदेशभाजनमेव तद्यथा न भवतीत्यमुया छायया दृष्टान्ततयोक्तमप्युद्देशक्रमपूरणाय ग्रन्थशय्यां योजयितुं पुनरप्युक्तंऽव्यह्क्यप्रादान्याभावान्न ध्वनिरिऽति । छायान्तरेम वस्तु पुनरेकमेवोपमाया एव व्यङ्ग्यत्वेन ध्वनित्वाशङ्कनात् । यत्तु विवरणकृत्---दीपकस्य सर्वत्रोपमान्वयो नास्तीति बहुनोदाहरणप्रपञ्चेनविचारितवांस्तदनुपयोगि निस्सारं सुप्रतिक्षेपं च । मदो जनयति प्रीतिं सानङ्गं मानभञ्जनं ।

बालप्रिया

भुञ्जमहेऽ इत्यन्वयः । वचनमिति । चैद्यं प्रतीति शेषः । पर्यायेणेति । अवगमात्मना प्रकारन्तरेणेत्यर्थः । रसदानं निषेधतीति । विषदाननिवृत्तिं बोधयतीत्यर्थः । चैद्यसङ्कल्पतमन्नयोजितविषदानं मे मा भवत्विति, भोजनं निर्विषं भवत्विति वा भगवतोऽभिप्रायस्सहृदयानां व्यङ्ग्यो भवतीत्यर्थः । ऽचारुत्वं नास्तीऽति सम्बन्धः । वाच्यस्यैव चारुत्वमिति भावः । तद्व्यङ्ग्येति । उक्तव्यङ्ग्येत्यर्थः । तदेव वाच्यन्तदेव । उक्तप्रकारेणेति । अवगमात्मना व्यङ्ग्येनोपलक्षितत्वेनेत्यर्थः । प्राकरणिकं भोजनार्थमिति । प्रकरणसिद्धमधीतिभुक्तशिष्टमन्नं भुञ्जमहे इत्येवंभूतमर्थमित्यर्थः । व्यह्ग्यस्याविक्षितत्वेन चाप्राधान्यमित्याह---न ह्यस्येति । अस्य वासुदेवस्य । न विवक्षितं चैद्यं प्रत न बुबोधयिषितं । उपसंहरति--इतीति । प्रसिद्धपदं त्रिधा व्याचष्टे---प्रतीतमित्यादि । तीपकापह्नुत्यादाविति पूर्वोक्तस्यैवाद्यकथनेन पौनरुकत्यमित्याशङ्कायां स्वरूपैक्येऽपि प्रकारभेदान्न पौनरुक्त्यमित्याह---पूर्वमित्यादि । इत्यमुया च्छाययेति । इत्यनेन प्रकारेणेत्यर्थः । ऽव्यङ्ग्य प्राधान्याभावान्न ध्वनिरिति पुनरप्युक्तम्ऽ इति सम्बन्धः । वस्त्विति । व्यङ्ग्यत्वेऽप्युपमाया अप्राधान्यरूपं वस्त्वित्यर्थः । उपमान्वयप्रदर्शनेन सुप्रतिक्षेपत्वमाह--मद इत्यादि । मदः विशिष्टविषयनिषेवाज्जनितो हर्षः । प्रीतिं विषयाभिषङ्गं । मानः चितसमुन्नतिः, तद्भञ्जनमित्यनङ्गविशेषणं ।

लोचनम्

स प्रियासङ्गमोत्कण्ठां सासह्यां मनसः शुचम् ।। इति ।
     अत्राप्युत्तरोत्तरजन्यत्वऽप्युपमानोपमेयभावस्य सुकल्पत्वात् । न हि क्रमिकाणां नोपमानोपमेयभावः । तथा हि---
राम इव दशरथोऽभूद्दशरथ इव रधुरजोऽपि रधुसद्दशः ।
अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ।।
     इति न न भवति । तस्मात्क्रमिकत्वं समं वा प्राकरणिकत्वमुपमां निरुंणद्धीति कोऽयं त्रास इत्लं गर्दभीदोहानुवर्तनेन । सङ्करालङ्गारेऽपीति ।
विरुद्धालङ्क्रियोल्लेखे समं तद्वृत्यसम्भवे ।
एकस्य च ग्रहे न्यायदोषाभावे च सङ्करः ।।
     इत्.इ लक्षणादेकः प्रकारः । यथा ममैव---
शशिवदनासितसरसिजनयना सितकुन्ददशनपङ्क्तिरियं ।
गगनजलस्थलसम्भवहृद्याकारा कृता विधिना ।। इति ।
     अत्र शशी वदनमस्याः तद्वद्वा वदनमस्या इति रूपकोपमोल्लेखाद्युगपद्द्वयासम्भवादेकतरपक्षत्यागग्रहणे प्रमाणाभावात्सङ्कर इति व्यङ्ग्यवाच्यताया एवनिश्चयात्का ध्वनिसम्भावना । योऽपि द्वितीयः प्रकारः---शब्दार्थालङ्कारामामेकत्रभाव इति तत्रापि प्रतीयमानस्य का शङ्का । यथा--स्मर स्मरमिव प्रियं रमयसे यमालिङ्गनातिति ।

बालप्रिया

उत्तरेति । उत्तरोत्तरस्य पूर्वपूर्वजन्यत्वेऽपीत्यर्थः । अनेन क्रमिकत्वमुक्तं । उपमानेति । मनोविकारजनकत्वेन तेषां साम्यस्य कल्पयितुं शक्यत्वादित्यर्थः । क्रमिकामामुपमानोपमेयभावं दर्शयति--राम इवेति । अत्र गुमविशेषवत्वेन साम्यं बोद्यं । न न भवतीति । भवत्येवेत्यर्थः । सोपहासमुपसंहरति---तस्मादित्यादि । सङ्करश्चतुर्विधः---सन्देहसङ्करादिभेदादिति; तेषां लक्षणानि भट्टोद्भटमतानुरोधेन दर्शयति--विरुद्धेति । विरुद्धयोरलङ्क्रिययोः उल्लेखः उल्लासः तस्मिन्सति । समं युगपत । तद्वृत्यसम्भव इति । तयोर्वर्तनस्यासम्भव इत्यर्थः । एकस्य ग्रहे तयोरेकस्यान्यत्यागेन ग्रहेणे । न्यायः साधकं भानम्. दोषः बाधकं । शशीति । ऽशशिवदनेऽत्यादि विशेषणत्रयं क्रमेंणऽगगनेऽत्यादेरुपपादकं । एकेति । एकतरस्य पक्षस्य त्यागे ग्रहणे चेत्यर्थः । इतीति हेतौ । व्यङ्ग्येत्यादि । को व्यङ्ग्यः को वाच्य इत्यनिश्चयाद्व्यङ्ग्यप्रादान्यकृतध्वनित्वसम्भावनापि

लोचनम्

अत्रैव यमकमुपमा च । तृतीयः प्रकारः-- यत्रैकत्र वाक्यांशेऽनेकोऽर्थालङ्कारस्तत्रापि द्वयोः साम्यात्कस्य व्यङ्ग्यता । यथा---
तुल्योदयावसानत्वाद्गतेऽस्तं प्रति भास्वति ।
वासाय वासरः क्लान्तो विशतीव तमोगुहाम् ।। इति ।
     अत्र हि स्वामिविपत्तिसमुचितव्रतग्रहणहेवाकिकुलपुत्रकरूपणमेकदेशविवर्त्तिरूपकं दर्शयति । उत्प्रेक्षा चेवशब्देनोक्ता । तदिदं प्रकारद्वयमुक्तं ।
शब्दार्थवर्त्त्यलङ्कारा वाक्य एकत्र वर्त्तिनः ।
सङ्गरश्चैकवाक्यांशप्रवेशाद्वाभिधीयते ।। इति च ।
     चतुर्थस्तु प्रकारः यत्रानुग्रह्यानुग्राहकभावोऽलङ्काराणां । यथा---
प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गहीतं नु मृगाङ्गनाभिः ।।
     अत्र मृगाङ्गनावलोकनेन तदवलोकनस्योपमा यद्यपि व्यङ्ग्या, तथापि वाय्यस्य सा सन्देहालङ्कारस्याभ्युत्थानकारिमीत्वेनानुग्रहकत्वाद्गुणीभूता, अनुग्राह्यत्वेन हि सन्देहे पर्यवसानं । यथोक्तम्---
परस्परोपकारेण यत्रालङ्कृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि सङ्करः ।।

बालप्रिया

केत्यर्थः । एकवाक्यवर्तनरूपं सङ्करं दर्शयित्वा, एकवाक्यांशसमावेशरूपं सङ्करं दर्शयति--यत्रेत्यादि । साम्यादिति । वाच्यात्वेन साद्दश्यादित्यर्थः । स्वामीती । स्वामिनो विपत्तौ सत्यां समुचितं यद्व्रतग्रहण तत्र हेवाकी उद्युक्तः यः कुलपुत्रकः तद्रूपणं वासरविषयकं कर्म । तमोगुहामित्येकदेशविवर्तिरूपङ्कं कर्तः । भास्वतस्स्वामित्वमतस्तद्गमनस्य विपत्तित्वं गुहानिवासस्य व्रतग्रहमत्वं तत्प्रवेशस्य तदर्थव्यापारत्वञ्च तमोगुहामिति शाब्देन रूपकेण गम्यत इति भावः । उक्तयोर्भेदयोस्सम्मतिमाह--तदिदमित्यादि । अनया कारिकया उक्तयोर्भेदयोर्लक्षणं प्रदर्सितं । वृत्तिग्रन्थानुरोदेन वाच्यव्यङ्ग्ययोरनुग्राह्यानुग्राहकभावापन्नं सङ्करमुदाहरति-प्रवातेति । तयेति । श्रीपार्वत्येत्यर्थः । नन्वनुग्राहकत्वेऽपि कुतो गुणीभाव इत्यत आह---अनुग्राह्यत्वेनेति । सन्देहस्येति शेषः । पर्यवसानमिति । अनुग्राहिकायाव्यङ्ग्योपमाया इति शेषः ।


तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान्न ध्वनिविषयत्वं । अलङ्कारद्वयसम्भावनायां तु वाच्यव्यङ्ग्ययोः समं प्राधान्यं । अथ वाच्योपसर्जनीभावेन व्यङ्ग्यस्य तत्रावस्थानं तदा


लोचनम्

     तदाह-यदालङ्कार इत्यादि । एवं चतुर्थेऽपि प्रकारे ध्वनिता निराकृता । मध्यमयोस्तु व्यह्ग्यसम्भावनैव नास्तीत्युक्तं । आद्ये तु प्रकारेऽशशिवदनेऽत्याद्युदाहृते कथञ्चिदस्ति सम्भावनेत्याशचङ्क्य निराकरोति---अलङ्कारद्वयेति । सममिति । द्वयोरप्यान्दोल्यमानत्वादिति भावः । ननु यत्र व्यङ्ग्यमेव प्राधान्येन भाति तत्र किं कर्तव्यं । यथा---
हीइ ण गुणाणुरॉ खलाणं णवरं पसिद्धिसरणाणं ।
किर पहिणुसै ससिमणं चन्दे पिआमुहे दिट्ठे ।।
     अत्रार्थान्तरन्यासस्तावद्वाच्यत्वेनाभात्.इ, व्यतिरेकापह्नुती तु व्यङ्ग्यत्वेन प्रधानतयेत्यभिप्रायेणाशङ्कते---अथेति । तत्रोत्तरम्--तदा सोऽपीति । सङ्करालङ्कार

बालप्रिया

     अस्मिंश्चतुर्थे भेदे ध्वन्यभावपरतया वृत्तिग्रन्थमवतारयति---तदाहेति । आन्दोल्यमानत्वादिति । वाच्यत्वव्यङ्ग्यत्वाभ्यां सन्दिह्यमानत्वादित्यर्थः । नन्वित्यादि । यत्रेति । याद्दशे सङ्करालङ्कार इत्यर्थः । होइ इति ।
भवति न गुणानुरागः खलानां केवलं प्रसिद्धिशरणानां ।
किल प्रस्नैति शशिमणिः चन्द्रे न प्रियामुखे दृष्टे ।। इति च्छाया ।
     गुणानुरागः परैर्वर्ण्यमानेष्वपि केषाञ्चिद्गुणेषु प्रीतिः । न भवतीत्यत्र हेतुमाह--प्रसिद्धीति । वस्तुतत्वावमर्शरहितानामिति भावः । उक्तं सामान्यं विशेषेण समर्थयते---किलेत्यादि । ऽशशिमणिः चन्द्रे दृष्टे प्रस्नौति किल; प्रियामुखे दृष्टे न प्रस्नौतीऽत्यान्वयः । यदि शसिमणेर्गुमानुरागस्स्यात्तदा प्रियामुखदर्शने कथं न निःष्यन्देतेति भावः । व्यतिरेकेति । चन्द्रः प्रियामुखमेव चन्द्र इत्यर्थस्य ख्यापनादपह्नुतिश्चेति भावः । व्यङ्ग्यत्वेनेत्यादि । व्यङ्ग्यत्वेन प्रधानतया च भात इत्यर्थः । सङ्करोक्तेरेव ध्वनित्वबुद्धिनिवर्तकत्वं वृत्तावुक्तं,


सोऽपि ध्वनिविषयोऽस्तु, न तु स एव ध्वनिरिति वक्तुं शक्यं । पर्यायोक्तनिर्दिष्टन्यायात् । अपि च सङ्करालङ्कारेऽपि च क्वचित्सङ्करोक्तिरेव


लोचनम्

एवायं न भवति, अपि त्वलङ्कारध्वनिनामायं ध्वनेर्द्वितीयो भेदः । यच्च पर्यायोक्ते निरूपतं तत्सर्वमत्राप्यनुसरणीयं । अथ सर्वेषु सङ्करप्रभेदेषु व्यङ्ग्यसम्भावनानिरासप्रकारं साधारणमाह---अपि चेति । ऽक्वचिदपि सङ्करालङ्कारे चेऽति सम्बन्धः, सर्वभेदभिन्न इत्यर्थः । सङ्कीर्मता हि मिश्रत्वं लोलीभावः, तत्र कथमेकस्य प्राधान्यं क्षीरजलवत् ।
अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।
अप्रस्तुतप्रशंसा सा त्रिविधा परिकीर्त्तिता ।।
     अप्रस्तुतस्य वर्णनं प्रस्तुताक्षेपिम इत्यर्थः । स चाक्षेपस्त्रिविधो भवति---सामान्यविशेषभावात्, निमित्तनिमित्तिभावात्सारूप्याच्च । तत्र प्रथमे प्रकारद्वये प्रस्तुताप्रस्तुतयोस्तुल्यमेव प्राधान्यमिति प्रतिज्ञां करोति-अप्रस्तुतेत्यादिना प्राधान्यमित्यन्तेन । तत्र सामान्यविशेषभावेऽपि द्वयी गतिः--सामान्यमप्राकरणिकं शब्देनोच्यते, गम्यते तु प्राकरणिको विशेषः स एकः प्रकारः । यथा---
अहो संसारनैर्घृण्यमहो दौरात्म्यमापदां ।
अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ।।
     अत्र हि दैवप्राधान्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितं सत्प्रकृते वस्तुनि क्वापि विनष्टे विशेषात्मनि पर्यवस्यति । तत्रापि विशेषांशस्य सामान्येन व्याप्तत्वाद्य्वङ्ग्यविशेषवद्वाच्यसामान्यस्यापि प्राधान्यम्, न हि सामान्यविशेषयोर्युगपत्प्राधान्यं विरुध्यते । यदा तु विसेषोऽप्राकरमिकः प्राकरणिकं सामान्यमाक्षिपति तदा द्वितीयः

बालप्रिया

तत्कथमित्यत्राह--सङ्कीर्णतेति । ऽमिक्षत्वम्ऽ इत्यस्य विवरणम्---लोलीभाव इति । आत्यन्तिकस्संश्लेष इत्यर्थः । अधिकारादिति भामहीयमिदं । अधिकारः प्रस्तुतत्वं । सारार्थं व्याचष्टे-अप्रस्तुतस्य वर्णनमिति । स्तुतिशब्दार्थकथनं वर्णनमिति । द्वयी गतिरिति । प्रकारद्वयमित्यर्थः । स इति । सामान्याद्विशेषप्रतीतिरूप इत्यर्थः । दैवप्राधान्यमिति । ऽदैवस्वातन्त्र्यम्ऽ इति च पाठः । सर्वत्र सामान्यरूपमिति । संसारनैर्घृण्यादावनुगतमित्यर्थः । सर्वस्य तदायत्तस्थितित्वादिति भावः । क्वापीति । प्रेयसीपुत्रादिरूप इत्यर्थः । अत्र व्यङ्ग्यवाच्ययोस्समप्राधान्यं दर्शयति--तत्रापीत्यादि । ननु व्यङ्ग्यस्य विशेषस्यास्तु प्राधान्यं, वाच्यस्य सामान्यस्य तत्कथं स्यादित्यत्राह--विशेषांशस्येति । प्राधान्यमिति ।


ध्वनिसम्भावनां निराकरोति । अप्रस्तुतप्रशंसायामपि यदा सामान्यविशेषभावान्निमित्तनिमित्तिभावाद्वा अभिधीयमानस्याप्रस्तुत्सय प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धः तदाभिधीयमानप्रतीयमानयोः सममेव प्राधान्यं । यदा तावत्सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस्तदा विशेषप्रतीतौ सत्यामपि प्राधान्येन तत्सामान्येनाविनाभावात्सामान्यस्यापि प्राधान्यं । यदापि विशेषस्य सामान्यनिष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामन्ये सर्वविशेषाणामन्तर्भावाद्विशेषस्यापि प्राधान्यं ।


लोचनम्

प्रकारः । यथा---
एतत्तस्य मुखात्कियत्तकमलिनीपत्त्रे कणं पार्थसो
यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै.
स्तत्रोङ्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा ।।
     अत्रास्थान्.ए महत्त्वसम्भवनं सामान्यं प्रस्तुतम्, प्रस्तुतं तु जलबिन्दौ मणित्वसम्भावनं विशेषरूपं वाच्यं । तत्र्रापि सामान्यविशेषयोर्युगपत्प्राधान्ये न विरोध इत्युक्तं । एवमेकः प्रकारो द्विभेदोऽपि विचारितः, यदा तावदित्यादिना विशेषस्यापि प्राधान्यमित्यन्तेन । एतमेव न्यायं निमित्तनैमित्तिकभावेऽतिदिशंस्तस्यापि द्विप्रकारतां

बालप्रिया

विशेषप्राधान्यनान्तरीयकत्वं सामान्यप्राधान्यस्येति भावः । न हि विरुध्यत इति । यथाऽरक्तं पटं वयेऽत्यादौ द्वयोस्त्रयाणं वा विधिरित्भावः । एतदिति । मुखादिति । आरम्भत इत्यर्थः । प्रथमतस्सम्भूतमिति यावत् । ऽएतद्वक्ष्यमाणं शृण्विऽति सम्बन्धः । मुक्तामणिरित्यमस्त यतेतत्तस्य जडस्य कियत्वक्ष्यमाणापेक्षया अत्यल्पमेवेत्यर्थः । साद्दश्यनिमित्तकस्तद्भ्रमस्य सम्भवाज्जलकणे मुक्तामणिभ्रमो भवेदिति भावः । शृण्विति । अस्मात्पूर्वोक्तात् । अन्यदपि त्वं शृणु; किं तदित्यत्राह---अङ्गुलीति । स जड इत्यत्राप्यनुषज्यते । जातमुक्तामणिभ्रमो जड इत्यर्थः । तत्रेति । तस्मिञ्जलकण इत्यर्थः । ऽकुत्रोड्डीयेऽति पाठे तु तस्मिन्निति शेषो बोध्यः । शनैः मुक्तामणिबुध्या मन्दं । आदीयमाने अङ्गुल्यग्रस्य लघुक्रियया अल्पचाचलनेन प्रव्लयिनि अङ्गुलोवेव लग्र इत्यर्थस्तथा सति । उड्डीयेति । अयमिति शेषः । तस्यादर्शिनान्ममायं मुक्तामणिः खमुत्पत्य गत इति मत्वा अन्तःशुचा न निद्रातीत्यर्थः ।


निमित्तनिमित्तिभावे चायमेव न्यायः । यदा तु सारूप्यमात्रवशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकतयोः


लोचनम्

दर्शयति---निमित्तेति । कदाचिन्निमित्तमप्रस्तुतं सदभिधीयमानं नैमित्तिकं प्रस्तुतमाक्षिपति । यथा-----
ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च ।
ते बान्धवास्ते सुहृदो लोकः स्वार्थपरोऽपरः ।।
     अत्राप्रस्तुतं सुहृद्बान्धवरूपत्वं निमित्त्सज्जनासक्त्या वर्णयति नैमित्तिकीं श्रद्धेयवचनतां प्रस्तुतामात्मनोऽभिव्यङ्क्तुम्; यत्र नैमित्तिकप्रतीतावपि निमित्तप्रतीतिरेव प्रधानीभवत्यनुप्राणाकत्वेनेति व्यङ्ग्यव्यञ्जकयोः प्राधान्यं । कदाचित्तु नेमितितकमप्रस्तुतं वर्ण्यमानं सत्प्रस्तुतं निमित्तं व्यनक्ति । यथा सेतौ---
सग्गं अपारिजाअं कोत्थुहलच्छिरहिअं महुमहस्स उरं ।
सुमराभि महणपुरओ अमुद्धान्दं च हरजडापब्भारं ।।
     अत्र जाम्बवान्कौस्तुभलक्ष्मीविरहितहरिवक्षःस्मरणादिकमप्रस्तुतनेमित्तिकं वर्णयति प्रस्तुतं वृद्धसेवाचिरजीवित्वव्यवहारकौशलादिनिमित्तभूतं मन्त्रितायामुपादेयमभिव्यङ्क्तुं । तत्र निमित्तप्रतीतावपि नेमित्तिकं वाच्यभूतम्; प्रत्युत तन्निमित्तानुप्राणितत्वेनोद्धुरकन्धरीकरोत्यात्मानमिति समप्रधानतैव वाच्यव्यङ्ग्ययोः । तत्रापि द्वौ प्रकारौ---अप्रस्तुतात्कदाचिद्वाच्याच्चमत्कारः, व्यङ्ग्यं तु तन्मुखप्रेक्षं । यथास्मदुपाध्यायभट्टेन्दुराजस्य----
प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि ।
तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां
भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायते ।।

बालप्रिया

अत्रास्थान इति । जडानामिति शेषः । ये इति । अपरः उक्तविपरीतवृत्तिः । निमित्तं श्रद्धेयवचनतानिमित्तं । सज्जनासक्त्येति । सज्जनबहुमत्येत्यर्थः । नैमित्तकेति । श्रद्धेयवचनतेत्यर्थः । निमित्तप्रतीतिरेवेति । न हि वक्तुस्तथाविधबान्धवत्वादिप्रतीतिं विना श्रद्धेयवचनत्वं प्रतीतिपथमवतरेदिति भावः । सग्गमिति ।
स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः ।
स्मरामि मथनात्पुरतः अमुग्धचन्द्रं च हरजटाप्राग्भारं ।। इति छाया ।
     वृद्धेत्यादित्रयं प्रस्तुतमित्यस्य विशेषणम । उद्धुरकन्धरीकरोतीति । प्रधानीकरोतीत्यर्थः । तन्मुखप्रेक्षमिति । तथा च अप्रधानमिति भावः । प्राणा इति ।

लोचनम्

अत्र यद्यपि सारूप्यवशेन कृतध्नः कश्चिदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तुतस्यैव वेतालवृत्तान्तस्य चमत्कारकारित्वं । न ह्यचेतनोपालम्भवदसम्भाव्यमानोऽयमर्थो न च न हृद्य इति वाच्यस्यात्र प्रधानता । यदि पुनरचेतनादिनात्यन्तासम्भाव्यमानतदर्थविशेषणेनाप्रस्तुतेन वर्णितेन प्रस्तुतमाक्षिप्यमाणं चमत्कारकारि तदा वस्तुध्वनिरसौ । यथा ममैव----
भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन्
भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे ।
स त्वामाह जडं ततः सहृदयम्मन्यत्वदुःशिक्षितो
मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसम्भावनात् ।।
     कश्चिन्महापुरुषो वीतरागोऽपि सरागवदिति न्यायेन गाढविवेकालोकतिरस्कृततिमिरप्रतानोऽपि लोकमध्ये स्वात्मानं प्रच्छादयलंलोकं च वाचालयन्नात्मन्यप्रतिभासमेवाङ्गीकुर्वंस्तेनैव लोकेन मूर्खोऽयमिति यदवज्ञायते तदा तदीयं लोकोत्तरं चरितं प्रस्तुतं

बालप्रिया

ऽत्वमुत्पादितऽ इतिऽसपर्यां पुरऽ इति च पाठः । सारूप्यवशेनेति । प्राणसमर्षणाद्युपकर्तरि अपकर्तृत्वरूपसाद्दश्यबलेनेत्यर्थः । प्रस्तुतस्यैवेति । वाच्यस्येति शेषः । अत्र हेतुमाह---न हीत्यादि । न च न हृद्य इति । हृद्य एवेत्यर्थः । यदीत्यादि । ऽअचेतनादिना आक्षिप्यमाणम्ऽ इति योजना । अचेतनादिनेत्यस्य विशेषणानि-अत्यन्तेत्यादीनि । अत्यन्तमसम्भाव्यमानानि तदर्थस्य अप्रस्तुतार्थस्य विशेषणानि यत्र तेन । वस्तुध्वनिरसाविति । नायमप्रस्तुतप्रशंसालङ्कार इति भावः ।
     भावेति । भावानां चन्द्रोद्यानादिपदार्थनां व्रातः सार्थः हे भाव व्रात । त्वं तथा संक्रीडसे यदिति सम्बन्धः । ततः एवं संक्रीडनाद्धेतोः । सहृदयम्मन्यत्वेन सहृदयोऽहमित्यभिमानेन दुःशिक्षितः दुर्ललितः । सः जनः । त्वां जडमाह । परन्तु अमुष्य एवंवदतो जनस्य । या जडात्मता जडोऽसीत्युच्यमानता सा त्वत्साम्यसम्भावनात्त्वत्साम्यापाताद्धेतोः । ऽअमुष्य स्तुतिपदं मन्येऽ इति सम्बन्धः । येनेऽत्यस्यऽप्रच्छादयन्निऽत्यादिना सम्बन्धः । यथोक्तम्----
"ज्ञाततत्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् ।
ज्ञाततत्वोऽपि लोकस्य जडोन्मत्तपिशाचवदि"ति ।।
     गाढेति. । गाढो यो विवेक एवालोकः तेन तिरस्कृतं तिमिरप्रतानं मोहान्धकारसमूहो यस्य सः । वाचालयन्निति । आत्मावमानगर्भिता बह्वीर्वाचः प्रवर्तयन्नित्यर्थः । आत्मनि स्वस्मिन् । अप्रतिभासं जनैरारोपितमवबोधं । अथ


सम्बन्धस्तदाप्यप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनावेवान्तःपातः ।


लोचनम्

व्यङ्ग्यतया प्राधान्येन प्रकाश्यते । जडोऽयमिति ह्युद्यानेन्दूदयादिर्भावो लोकेनावज्ञायेते, स च प्रत्युत कस्यचिद्विरिहिण औत्सुक्यचिन्तादूयमानमानसतामन्यस्य प्रहर्षपरवशतां करोतीति हठादेव लोकं यथेच्छं विकारकारणाभिर्नर्तयति । न च तस्य हृदयङ्केनापि ज्ञायते कीदृगयमिति, प्रत्युत महागम्भीरोऽतिविदग्धः सुष्टुगर्वहीनोऽतिशयेन क्रीडाचतुरः स यदि लोकेन जड इति तत एव कारणात्प्रत्युत वैदग्ध्यसम्भावननिमित्तात्सम्भावितः, आत्मा च यत एव कारणात्प्रत्युत जाड्येन सम्भाव्यस्तत एव सहृदयः सम्भावितस्तदस्य लोकस्य जडोऽसीति यद्युच्यते तदा जड्यमेवंविधस्य भावव्रातस्याविदग्धस्य प्रसिद्धमिति सा प्रत्युत स्तुतिरित् । जडादप पापीयानयं लोक इति ध्वन्यते । तदाह---यदा त्विति । इतरथा त्विति । इतरथैव पुनरलङ्कारान्तरत्वमलङ्कारविशेषत्वं न व्यङ्ग्यस्य कथञ्चिदपि प्राधान्य इति भावः । उद्देशे यदादिग्रहणं कृतं समासोक्तीत्यत्र द्वन्द्वे तेन व्याजस्तुतिप्रभृतिरलङ्कारवर्गोऽपि सम्भाव्यमानव्यङ्ग्यानुवेशः सम्भावितः ।

बालप्रिया

वाच्यार्थं दर्शयति---जडोऽयमित्यादि स्तुतिरित्यन्तेन । ऽइति ह्यवज्ञायतऽ इति सम्बन्धः । लोकेन कर्त्रा । स च उद्यानादिर्भावश्च । प्रत्युतेति । अजड एव न, किन्तु विदग्धस्वभावोऽपीत्यर्थः । अन्यस्येति । प्रियतमामिलितस्येत्यर्थः । हठादाक्रम्येत्यस्य व्याख्यानम्----यथेच्छं विकारकारणाभिरित् । विकाराणामौत्सुक्यहर्षादीनां कारणाभिः प्रवर्तनाभिः । आत्महृदयं प्रच्छाद्येत्यस्य व्याख्यानम्---न चेत्यादि । प्रत्युतेत्यस्यैव विवरणम्---महागम्भीर इत्यादि । स इत्यास्य अत्रापि सम्बन्धः । उत्तरार्धं व्याचष्टे---स यदीत्यादि । सः उक्तगुणविशिष्टो भावव्रातः । जड इतीत्यस्य सम्भावित इत्यनेनान्वयः । तत इत्यस्य व्याख्यानम्--तत एव कारणादिति । उक्तप्रकारकसंक्रीडनरूपादित्यर्थः । कारणादित्यस्य विशेषणम्--प्रत्युत वैदग्ध्येत्यादि । सहृदयेत्यादेर्व्याख्यानम्---आत्मा चेत्यादि । तदिति । तर्हि इत्यर्थः । ऽअस्य लोकस्य सा स्तुतिरिऽति सम्बन्धः । का स्तुतिरेवेत्यर्थः । कुत एतदित्यत आह-तदेत्यादि । तदा तद्वचनकाले । जाड्यमेवंविधस्येत्यादि । अयमर्थः---अजडस्य सतो जडत्वप्रसिध्युपजीविनी हि जनसम्बन्धिजडत्वोक्तिः । तथा सति तत्तुल्ययोगक्षेमतया जनस्याप्यजडत्वसम्भवाज्जनं प्रतिजडोऽसीत्युक्तिर्वास्तवी स्तुतिरेव पर्यवस्येदिति । एवमप्रस्तुतं वाच्यार्थ व्याख्या पार्यन्तिकमर्थं प्रदर्शयति---जडादपीति । तदाहेति । यदेतत्सारूप्येण प्रतीयमानस्य प्राधान्ये ध्वनित्वमुक्तं तदाहेत्यर्थः । एवकारो भिन्नक्रम इति दर्शयति---इतरथैवेति । तुशब्दार्थकथनं


इतरथात्वलङ्कारान्तरमेव । तदयमत्र सङ्क्षेपः----


लोचनम्

तत्र सर्वत्र साधारणमुत्तरं दातुमुपक्रमते---तदयमत्रेति । कियद्वा प्रतिपदं लिख्यतामिति भावः । तत्र व्याजस्तुतिर्यथा---
किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ-
स्तूणीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या-
मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ।।
     अत्र्.अ व्यङ्ग्यं स्तुत्यात्मकं यत्तेन वाच्यमेवोपस्क्रियते । यत्तूदाहृतं केनचित्----
आसीन्नाथ पितामही तव मही जाता ततोऽनन्तरं
माता सम्प्रति साम्बुराशिरशना जाया कुलोद्भूतये ।
पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा
युक्तं नाम समग्रनीतिविदुषां किं भूपतीनां कुले ।।
     इति, तदस्माकं ग्राम्यं प्रतिभात्यत्यन्तासभ्यस्मृतिहेतुत्वात् । का चानेन स्तुतिः कृता? त्वं वंशक्रमेण राजेति हि कियदिदम्? इत्येवंप्राया व्याजस्तुतिः सहृदगोष्ठीषु निन्दितेत्युपेक्ष्यैव ।
यस्य विकारः प्रभवन्नप्रतिबन्धस्तु हेतुना येन ।
गमयति तमभिप्रायं तत्प्रतिबन्धं च भावोऽसौ ।। इति ।
     अत्रापि वाच्यप्राधान्ये भावालङ्काराता । यस्य चित्तवृत्तिविशेषस्य सम्बन्धी वाग्व्यापारादिर्विकारोऽप्रतिबन्धो नियतः

बालप्रिया

पुनरिति । ऽअलङ्कारान्तराङ्गत्वम्ऽ इत्यत्रान्यथाप्रतिपत्तिः स्यादित्यतो विवृणोति---अलङ्कारविशेषत्वमिति । इति भाव इति । अप्रस्तुतवर्णनस्थले यत्र वाच्यस्य अप्रस्तुतार्थस्य चमत्कारकारित्वं व्यङ्ग्यं, प्रस्तुतं तु तदङ्गं तत्रैवाप्रस्तुतप्रशंसालङ्कारः । यत्र तु प्रस्तुतस्य व्यङ्ग्यस्य प्राधान्यं तत्र वस्तुध्वनिरेव नालङ्कार इति ग्रन्थकाराशय इत्यर्थः । स्तुत्यात्मकमिति । भवतः कीर्तिर्विश्वं व्याप्नोति इत्युत्तमश्लोकत्वरूपगुणकीर्तनमित्यर्थः । आसीदिति । स्नुषा पुत्रभार्या । अत्यन्तासभ्येति । पितामह्या मातृत्वोक्तावेवाङ्कुरिता तावदसभ्यस्मृतिस्तसाय जायात्वस्नुषात्ववर्णनेन सुतरामभिव्यक्तेत्याशयेनोक्तमत्यन्तासभ्येति । वाच्येऽर्थे दोषमुक्त्वा व्यङ्ग्येऽपि तमाह-का चेति । कियदिदमिति । राजान्तरादुत्कर्षविशेषाप्रतीतेरिति भावः । ऽव्याजस्तुतिप्रभृतिरिऽति पूर्वोक्तप्रभृतिपदार्थं भावालङ्कारं रुद्रटोक्तमाह-यस्येति । ऽयस्य विकारस्तु अप्रतिबन्धः प्रभवन्येन हेतुना तमभिप्रायं तत्प्रतिबन्धं च गमयति असौ भाव इत्यन्वयः । अत्रापि द्वैविध्यमस्तीत्याशयेनाह---अत्रापीत्यादि । लक्षणवाक्यं व्याचष्टे---यस्येत्यादि । चित्तवृत्तिविशेषस्य अनुरागादेः सम्बन्धीजन्यः । अप्रतिबन्ध इत्यस्य व्याख्यानम्---नियत इति ।


व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः ।।
व्यङ्ग्यस्य्.अ प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा ।
न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते ।।


लोचनम्

प्रभवंस्तं चित्तवृत्तिविशेषरूपमभिप्रायं येन हेतुना गमयति स हेतुर्यथेष्टोपभोग्यत्वादिलक्षणोऽर्थो भावालङ्कारः । यथा---
एकाकिनी यदबला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशं ।
कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ।।
     अत्र व्यङ्ग्यमेकैकत्र पदार्थे उपस्कारकारीति वाच्यं प्रधानं । व्यङ्ग्यप्राधान्ये तु न काचिदलङ्कारतेति निरूपितमित्यलं बहुना ।
     यत्रेति काव्ये । अलङ्कृतय इति । अलङ्कृतित्वादेव च वाच्योपस्कारकत्वं । प्रतिभामात्र इति । यत्रोपमादौ म्लिष्टार्थप्रतीतिः । वाच्यार्थानुगम इति । वाच्येनार्थेनानुगमः समं प्राधान्यमप्रस्तुतप्रशंसायामिवेत्यर्थः । न प्रतीयत इति । स्फूटतया

बालप्रिया

येन हेतुनेति । वाक्यप्रतिपाद्येनेति शेषः । ऽयेन प्रतिबद्धेनऽ इति पाठे तु प्रतिबद्धेनेत्यस्योक्त एवार्थः । स हेतुरिति । कस्यचिच्चित्तवृत्तिविशेषस्य अनुभावो व्यापारादिर्व्यङ्ग्यहेतुद्वारा तच्चित्तवृत्तिविशेषस्य गमकः स हेतुरित्यर्थः । वक्ष्यमाणोदाहरमाभिप्रायेण तद्धेतुं दर्शयति---यथेष्टेत्यादि । अहं त्वया यथेष्टमुपभोक्तव्या न किञ्चित्प्रतिबन्धकमिति नायिकामनोगतादिरर्थं इत्यर्थः । एकाकिनीति । तथेति समुच्चये । तदिति । यदहमेवंविधास्मि गृहपतिर्गतश्च तदित्यर्थः । नन्वस्ति खलु तव श्वश्रूस्तां याच इत्यत्राह-इयमित्यादि । अत्र व्यङ्ग्यमिति । एकाकिन्यादिपदव्यङ्ग्यमात्मनो भोग्यकामुकान्तरराहित्यादिकमित्यर्थः । वाक्येन चात्मनो निमन्त्रणयथेच्छोपभोग्यत्वं द्योत्यते । नन्वेतद्व्यङ्ग्यमत्र प्रादानमेवेत्यतः साधारण्येनाह---व्यङ्ग्यप्राधान्य इत्यादि । तत्प्रतिबन्धं च गमयतीत्याद्युदाहरणं रुद्रटग्रन्थादवगन्तव्यं । व्यङ्ग्यस्येत्यादयस्त्रयः परिकरश्लोकाः ।
     ऽयत्राप्राधान्यम्ऽ इत्यत्र यत्रेति पदं व्याचष्टे---काव्य इति । अप्राधान्ये हेतुर्वाच्यमात्रानुयायित्वं, तत्र हेतुर्वाच्यार्थोपस्कारकत्वं, तच्चालङ्कृतिपदेन दर्शितमित्याह--अलङ्कृतित्वादेवेति । ऽव्यङ्ग्यस्य प्रतिभामात्रऽ इत्येतत्सोदाहरणं विवृणोति--यत्रेत्यादि । म्लिष्टा अस्पष्टा । अर्थप्रतीतिः व्यङ्ग्यप्रतीतिः । ऽवाचच्यमात्रानुयायिनऽ इत्यनेन पौनरुक्त्यं परिहर्तुं व्याचष्टे---वाच्येनेत्यादि । ऽन प्रतीयतऽ


तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यं प्रीत स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ।।
     तस्मान्न्.अ ध्वनेरन्यत्रान्तर्भावः । इतश्च नान्तर्भावः; यतः काव्यविशेषोऽङ्गी ध्वनिरिति कथितः । तस्य पुनरङ्गानि--अलङ्कारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्भूतोऽवयवीति प्रसिद्धः ।


लोचनम्

प्राधान्यं न चकास्ति, अपि तु बलात्कल्प्यते, तथापि हृदये नानुप्रविशति । यथा-ऽदेआ पसिअणिआतासुऽ इत्यात्रान्यकृतासु व्याख्यासु । तेन चतुर्षु प्रकारेषु न ध्वनिव्यवहारः सद्भावेऽपि व्यङ्ग्यस्य अप्राधान्ये म्लिष्टप्रतीतौ वाच्येन समप्राधान्येऽस्फुटे प्राधान्ये च । क्व तर्ह्यसावित्याह---तत्परावेवेति । सङ्करेणालङ्कारानुप्रवेशसम्भावनया उज्झित इत्यर्थः । सङ्कारालङ्कारेणेति त्वसत्, अन्यालङ्कारोपलक्षणत्वे हि क्लिष्टं स्यात् । इतश्चेति । न केवलमन्योन्यविरुद्धवाच्यवाचकभावव्यङ्ग्यव्यञ्जकभावसमाश्रयत्वान्न तादात्म्यमलङ्काराणां ध्वनेश्च यावत्स्वाभिभृत्यवदङ्गिरूपाङ्गरूपयोर्विरोधादित्यर्थः । अवयव इति । एकैक इत्यर्थः । तदाह--पृथग्भूत इति । अथ पृथग्भूतस्तथा मा भूत्, समुदायमध्यनिपतितस्तर्ह्यस्तु तथेत्याशङ्क्याह--अपृथग्भावे त्विति । तदापि न स

बालप्रिया

इत्यस्य व्यख्यानम्--स्फुटतया न चकास्तीति । बलात्कल्प्यत इति । तच्च युक्तिपर्यालोचनया परीक्षादशायामाहरणं । नानुप्रविशतीति । युक्त्यनुसन्धानाभावे विलयादिति । भावः । अस्योदाहरणमाह---यथेत्यादि । देआ इति । ऽप्रार्थये तावत्प्रसीदेऽत्यादिः पूर्वोदाहृता गाथा । ऽन ध्वनिरिऽत्यस्य विवरणम्---न ध्वनिव्यवहार इति । सद्भावेऽपीति । ध्वनेरिति शेषः । ऽचतुर्षु प्रकारेषुऽ इत्युक्तस्य विवरणम्-व्यङ्ग्यस्याप्राधान्य इत्यादि । ऽसङ्करऽ इत्यस्य व्याख्यानम्-अलङ्कारानुप्रवेशेत्यादि । समासोक्त्याद्यनुप्रवेशशङ्कया पूर्वोक्तयेत्यर्थः । यथाश्रुतार्थं निषेधति---सङ्कारालङ्कारेणेत्यादि । वृत्तावितश्चेत्यत्र इतः वक्ष्यमाणद्धेतोरित्यर्थं मनसिकृत्य व्याचष्टे---न केवलमित्यादि । न तादात्म्यमिति । ऐक्याभाव इत्यर्थः । अङ्गीत्यादि । अङ्गित्वङ्गत्वयोरित्यर्थः । नन्ववयवातिरिक्तावयविनोऽनुपलम्भान्न चावयव एवावयवीति तन्निषेधोऽनुपपन्न इति शङ्कामवयव इत्येकवचनार्थस्य विवक्षितत्वं दर्शयन्परिहरति---एकैक इति । ऽपृथग्भूतऽ इति चोक्तार्थकमेवेत्याह---तदाहेति । अथ पृथग्भूत इति । अवयव इति शेषः । तथा अवयवी । समुदायमध्यपतितः समुदायोपहितस्वरूपः । तथास्तु अवयवी भवतु । वृत्तौऽतदङ्गत्वम्ऽ इति । अवयव्यङ्ग्यत्वमित्यर्थः ।


अपृथग्भावे तु तदङ्गत्व तस्य । न तु तत्त्वमेव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेव । ऽसूरिभिः कथितऽ इति विद्वदुपज्ञेयमुक्तिः, न तु यथाकथञ्चित्प्रवृत्तेति प्रतिपाद्यते । प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरणमूलत्वात्सर्वविद्यानां ।


लोचनम्

एक एव समुदायः, अन्येषामपि समुदायिनां तत्र भावात्; तत्समुदायिमध्ये च प्रतीयमानमप्यस्ति, न च तदलङ्काररूपं, प्रधानत्वादेव । यत्त्वलङ्काररूपं तदप्रधानत्वान्न ध्वनिः । तदाह---न तु तत्त्वमेवेति । नन्वलङ्कार एव कश्चित्त्वया प्रधानताभिषेकं दत्त्वा ध्वनिरित्यात्मेति चोक्त इत्याशङ्क्याह---यत्रापि वेति । न हि समासोक्त्यादीनामन्यतम एवासौ तथास्माभिः कृतः, तद्विविक्तत्वेऽपि तस्य भावात्समासोक्त्याद्यलङ्कारस्वरूपस्य समस्तस्याभावेऽपि तस्य दर्शितत्वात्ऽअत्ता एत्थऽ इतिऽकस्स वा णऽ इत्यादि; तदाह-न तन्निष्टत्वमेवेति । विदृदुपज्ञेति । विद्वद्भ्य उपज्ञा प्रथम उपक्रमो यत्या उक्तेरिति बहुव्रीहिः । तेनऽउपज्ञोपक्रमंऽ इति तत्पुरुषाश्रयं नपुंसकत्वं

बालप्रिया

ऽतस्येऽति । अवयवस्येत्यर्थः । ऽतत्वम्ऽ इति अवयवित्वमित्यर्थः । भावमाह लोचने---तदापीत्यादि । तदापि समुदायमद्यपतनदशायामपि । सः समुदायिरूपावयवः । एक एव न समुदायः न समुदायरूपावयवी । अत्र हेतुमाह---अन्येषामपीति । तत्र भावादिति । समुदाये सत्वादित्यर्थः । नन्वित्यादि । कश्चिदिति । समासोक्त्याद्यन्यतम इत्यर्थः । वृत्तौऽयत्रापीऽत्यादि । ऽयत्रऽ पर्यायोक्तादौऽभ्रम धार्मिकेऽत्यादौ पर्यायोक्तत्वपक्षे,ऽभवति न गुणानुरागऽ इत्यादिसङ्करालङ्कारे च । ऽतत्वम्ऽ इति । अवयवित्वमित्यर्थः; प्राधान्यमिति यावत् । ऽतन्निष्टत्वम्ऽ इति । तदवयविनिष्टत्वमित्यर्थः; तदलङ्कारनिष्टत्वमिति यावत् । ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेवेति यदुक्तं तद्विवृणोति लोचने---न हीत्यादि । समासोक्तौ ध्वनिरन्तर्भवतीति परमताभ्युपगमेन समासोक्तीति । आदिपदेन पर्यायोक्तादीनां ग्रहणं । असौ अलङ्कारः । तथा ध्वनित्वेनात्मत्वेन च । तद्विविक्तत्वेऽपि समासोक्त्याद्यलङ्कारस्पर्शराहित्येऽपि । तस्य ध्वनेः । उक्तस्यैव विवरणम्-समासोक्त्यादीति । इत्यादीति । इत्यादावित्यर्थः । ऽदर्शितत्वादिऽत्यनेन सम्बन्धः । ऽविद्वदुपज्ञेऽति प्रयोगस्य साधुत्वसम्पादनायाह---विद्वद्भ्य इत्यादि ।


ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति । तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभिर्वाच्यवाचकसम्मिश्रः


लोचनम्

निरवकाशं । श्रूयमाणेष्विति । श्रोत्रशष्कुलीं सन्तानेनागता अन्त्याः शब्दाः श्रूयन्त इति प्रक्रियायां शब्दजाः शब्दाः श्रूयमाणा इत्युक्तं । तेषां घण्टानुरणनरूपत्वं तावदस्ति; ते च ध्वनिशब्देनोक्ताः । यथाह भगवान्भर्तृहरिः---
यः संयोगवियोगाभ्यां करणैरुपजन्यते ।
स स्फोटः शब्दजाश्शब्दा ध्वनयोऽन्यैरुदाहृताः ।। इति ।
     एवं घण्टादिनिर्ह्लादस्थानीयोऽनुरणनात्मोपलक्षितो व्यङ्ग्योऽप्यर्थो ध्वनिरिति व्यवहृतः । तथा श्रूयमाणा ये वर्णा नादशब्दवाच्या अन्त्यबुद्धिनिर्ग्राह्यस्फोटाभिव्यञ्जकास्ते ध्वनिशब्देनोक्ताः । यथाह भगवान्स एव---
प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा ।

बालप्रिया

अथ व्यङ्ग्यार्थाशब्दतदर्थव्यञ्जनानां चतुर्णां ध्वनिशब्दवाच्यत्वं विद्वत्प्रसिद्धिवशात्साधयिष्यन्नादौ व्यङ्ग्यार्थस्य ध्वनिशब्दवाच्यत्वसिध्यनुगुणतया व्याचष्टे---श्रोत्रेत्यादि । श्रोत्रशष्कुलीं शष्कुलीसमानश्रोत्रदेसावच्छिन्नाकाशं । सन्तानेनेति । वीचीसन्तानन्यायेनेत्यर्थः । प्राक्रयायामिति । वैशेषिकादिप्रक्रियायामित्यर्थः । शब्दजाश्शब्दा इति । अन्त्या इति भावः । तेषामिति । श्रूयमाणानामन्त्याना शब्दजशब्दानामित्यर्थः. घण्टेति । पूर्वशब्दजन्यत्वेन साम्यादिति भावः । य इति । उत्पत्तिपक्षे स्फोटध्वन्योः भेदप्रकटनपरोऽयंश्लोकः । संयोगवियोगाभ्यां करणानां स्थानैस्सह यस्संयोगो वियोगश्च ताभ्यां । करणैरिति कर्तरि तृतीया । जिह्वाप्रादिभिरित्यर्थः । स्पष्टमिदं प्रातिशाख्ये । सः स्फोट इति प्रथममुत्पद्यमानः शब्दः स्फोट इत्यर्थः । शब्दजाः शब्दा इति । श्रूयमाणा इति भावः । अन्यैरिति । उत्पत्तिवादिभिरित्यर्थः । यथोक्तं वृत्तिकृता-ऽअनित्यपक्षे स्थानकरणप्राप्तिविभागपूर्वकं प्रथममेभिर्निर्वृत्तो यश्शब्दः स स्फोट उच्यतऽ इत्यादि । घण्टादीति । घण्टादेर्निर्ह्नादः अनुरणनं तत्स्थानीयस्तत्तुल्य इति व्यङ्ग्यस्य थध्वनिपदेन व्यवहार्यत्वे हेतुः । नन्वेवंव्यङ्ग्यविशेषस्यैव ध्वनिव्यवहार्यत्वं भवेन्न तु रसादेस्तस्यानुरणनरूपत्वविरहादित्यत आह--अनुरणनेति । एतदुपलक्षणमिति भावः । अथ वाचकस्य शब्दस्य वाच्यस्यार्थस्य च ध्वनिव्यवहार्यत्वं प्रसाधसति---तथेत्यादि । नादशब्दवाच्या इति । नादशब्देन वैयाकरणैर्व्यवहृता इत्यर्थः । अन्त्येति पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृता या अन्त्यवर्णबुद्धिः तया निर्ग्राह्यः नितरां व्यक्तरूपेम ग्राह्यो यः स्फोटः तस्याभिव्यञ्जका इत्यर्थः । त इति । ते वर्णा इत्यर्थः । प्रत्ययैरिति । अनुपाख्येयैः इदमित्थमिति व्याख्यातुमशक्यैः । ग्रहणानुगुणैः व्यक्तरूपस्फोटग्रहणानुकूलैः ।

लोचनम्

ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ।। इति ।
     तेन व्यञ्जकौ शब्दार्थावपीह ध्वनिशब्देनोक्तौ । किञ्ज वर्णेषु तावन्मात्रपरिमाणेवपि सत्सु । यथोक्तम्---
अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम् ।। इति ।
     तेषु तावत्स्वेव श्रूयमाणेषु वक्तुर्योऽन्यो द्रुताविलम्बितादिवृत्तिभेदात्मा प्रसिद्दादुच्चारणव्यापारादभ्यधिकः स ध्वनिरुक्तः । यदाह स एव---
शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ।। इति ।
     असमाभिरपि प्रसिद्धेभ्यः शब्दव्यापारेभ्योऽभिधातात्पर्यलक्षणारूपेभ्योऽतिरिक्तो व्यापारो ध्वनिरित्युक्तः । एवं चतुष्कमपि ध्वनिः । तद्योगाच्च समस्तमपि काव्यं

बालप्रिया

ध्वनिप्रकाशिते शब्दे विषये उत्पन्नैः अन्तरालवर्तिभिः प्रत्ययै स्फोटविषयकाव्यक्तप्रत्ययैः । स्वरूपं स्फोटस्वरूपं अवधार्यते व्यक्तं ज्ञायते । यथोक्तं भाष्ये "व्यक्तरूपग्रहमानुगुणा ह्यनुपाख्येयाकारा बहव उपायभूताः प्रत्यया ध्वनिभिः प्रकाश्यमाने शब्दे उत्पद्यमानाश्शब्दस्वरूपावग्रहे हेतवो भवन्ति" इति । तेनेति । व्यञ्जकानां ध्वनिशब्देन तैर्व्यबहृतत्वादित्यर्थः । अत व्यापारस्य व्यञ्जनस्यापि ध्वनिशब्दव्यवहार्यत्वं प्रसाधयितुमाह---किञ्चेति । तावन्मात्रपरिमाणेष्विति । याद्दशोऽयं श्रोत्रेन्द्रियेण गृह्यते ताद्दशपरिमाणविशिष्टेष्वित्यर्थः । अपिशब्दः समुच्चये,ऽश्रूयमाणेष्विऽत्यनेनास्य सम्बन्धः । वर्णेषु स्वरूपतः परिमाणविशेषवत्तया स्थितेषु तेषु तथाविधेष्वेवाखण्डतया श्रोत्रेन्द्रियविषयतां गतेषु च सत्सु इत्यर्थः । अस्य संवादश्लोकगर्भितस्यऽवक्तुर्योऽन्यऽ इत्यादिग्रन्थेन सम्बन्धः । अल्पीयसेति । अल्पीयसा यत्नेनाप्युच्चारितं शब्दं । मतिः कत्रीं नैव गृह्णाति । यदि वा, सकलं वर्णं स्फुटं गृह्णाति वा; न तु किञ्जित्ग्रहणाग्रहणे सम्भवतो वर्णस्य निरवयवत्वादिति भावः । अनेनऽतावत्स्वेव श्रूयमाणेष्विऽत्युक्तमुपपादितं । स इति । तथाविधव्यापार इत्यर्थः । शब्दस्येति । श्लोकोऽयं मञ्जूषायामित्थं व्याख्यातः-- शब्दस्य स्फोटस्य अभिव्यक्तेरूर्ध्वं वैकृता ध्वनयो जायन्ते इति शेषः । ते तु वृत्तिभेदे द्रुतादिवृत्तिभेदे । समुपोहन्ते तत्र कारणं भवन्ति । स्फोटस्तु तैर्न भिद्यत इत्यर्थः । वैकृतत्वं चैषामालस्यादिकृत्वादिति । ऽवृत्तिभेदम्ऽ इति पाठेऽसमुपोहन्तऽ इत्यस्य जनयन्तीत्यर्थः । चतुष्कमिति । व्यङ्ग्यादिचतुष्टयमित्यर्थः । घ्वनिः ध्वनिशब्दव्यवहार्यः । समस्तमपि काव्यं व्यङ्ग्यवाच्यावाचकव्यापारसमुदायात्मकं काव्यमपि । तेनेति ।


शब्दात्मा काव्यमिति व्यपदेश्यो व्यपदेश्यो व्यञ्जकत्वसाम्याद्ध्वनिरित्युक्तः । न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेदतद्भेदसङ्कलनया महाविषयस्य यत्प्रकाशनं तदप्रसिद्धालङ्कारविशेषमात्रप्रतिपादनेन


लोचनम्

ध्वनिः । तेन व्यतिरेकाव्यतिरेकव्यपदेशोऽपि न न युक्तः वाच्यवाचकसंमिश्र इति । वाच्यवाचकसहितः संमिश्र इति मध्यमपदलोपी समासः । ऽगामैवं पुरुषं पशुम्ऽ इतिवत्समुच्चयोऽत्र चकारेण विनापि । तेन वाच्योऽपि ध्वनिः वाचकोऽपि शब्दो ध्वनिः, द्वयोरपि व्यञ्जकत्वं ध्वनतीति कृत्वा । संमिश्प्यते विभावानुभावसंवलनयेति व्यङ्ग्योऽपि ध्वनिः, ध्वन्यत इति कृत्वा । शब्दनं शब्दः शब्दव्यापारः, न चासावभिधादिरूपः, अपि त्वात्मभूतः, सोऽपि ध्वननं ध्वनिः । काव्यमिति व्यपदेश्यश्च योऽर्थः सोऽपि ध्वनिः, उक्तप्रकारद्वनिचतुष्टयमयत्वात् । अत एवसाधारणहेतुमाह---व्यञ्जकत्वसाम्यादिति । व्यङ्ग्यव्यञ्जकभावः सर्वोषु पक्षेषु सामान्यरूपः साधारण इत्यर्थः । यत्पुनरेतदुक्तंऽवाग्विकल्पानामानन्त्यात्ऽ इत्यादि, तत्परिहरति---न चैवं विधस्येति । वक्ष्यमाणः प्रभेदो यथा-मुख्ये द्वे रूपे । तद्भेदा यथा-अर्थान्तरसंक्रमितवाच्यः, अत्यन्ततिरस्कृतवाच्य इत्यविवक्षितवाच्यस्य, असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्य इति विवक्षितान्यपरवाच्यस्येति । तत्राप्यवान्तरभेदाः । महाविषयस्येति--अशेषलक्ष्यव्यापिन इत्यर्थः ।

बालप्रिया

ध्वनिशब्दवाच्यतत्समुदायात्मकत्वेनैव काव्यस्य ध्वनित्वलाभेन हेतुनेत्यर्थः । व्यतिरेकेत्यादि । ऽकाव्यस्यात्मा ध्वनिरित्यादौ भेदव्यपदेशः काव्यविशेषः, स ध्वनिरित्यादावभेदव्यपदेशश्चेत्यर्थः । न न युक्त इति । युक्त एवेत्यर्थः । व्यङ्ग्यादीनां पञ्चानां यद्ध्वनिव्यवहार्यत्वमुक्त्, तदनुगुणतया वाच्यत्यादिग्रन्तं व्याचष्टे---वाच्यवाचकेत्यादि । इति मध्यमेति । तथाच वाच्यश्च सम्मिश्रश्चेत्यर्थ इति भावः । विनापीति । तथा च शब्दात्मा काव्यमिति व्यपदेश्यश्चेत्यर्थ इति भावः । उक्तव्याख्यानस्य फलमाह-तेनेत्यादि । ध्वनतीति कृत्वेति । व्यञ्जयतीति हेतोरित्यर्थः । ध्वनिरिति कर्तरि प्रत्यय इति भावः । सम्मिश्रपदेन व्यङ्ग्यार्थो विवक्षित इत्याह-सम्मिश्रयत इत्यादि । विभावेति । विभावानुभावाभ्यां संवलनया सम्बन्धेनेत्यर्थः । ध्वन्यत इति कृत्वेति । कर्मणि प्रत्यय इति भावः । ऽशब्दात्मेऽति पदं व्याचष्टे-शब्दनमित्यादि । ध्वननं ध्वनिरिति । अस्मिन्नर्थे ध्वनिरिति भावे प्रत्यय इति भावः । अत एवेति । यस्माद्भक्तानां पञ्जानामर्थानां ध्वनित्वमत्र ग्रन्थेऽभिधित्सितं, तस्मादेव साधारणस्य हेतोरभिधानादित्यर्थः । हेतोः साधारण्यलाभाय व्यञ्जकत्वपदं व्यङ्ग्यव्यञ्जकभावपरमित्याशयेन व्याचष्टे-व्यङ्ग्येति ।


तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः । न च तेषु कथञ्चिदीर्ष्यया कलुषितशेमुषीकत्वमाविष्करणीयं । तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः ।
     अस्ति ध्वनिः । स चासावविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति


लोचनम्

विशेषग्रहणेनाव्यापकत्वमाह । मात्रशब्देनाङ्गित्वाभावं । तत्र ध्वनिस्वरूपे भावितं प्रणिहितं चेतो येषां तेन वा चमत्ककाररूपेण भावितमधिवासितमत एव मुकुलितलोचनत्वादिविकारकारणं चेतो येषामिति । अभाववादिन इति । अवान्तरप्रकारत्रयभिन्ना अपीत्यर्थः ।
     तेषां प्रत्युक्तौ फलमाह---अस्तीति । उदाहरणपृष्टे भाक्तत्वं सुशङ्कं सुपरिहरं च भवतीत्यभिप्रायेणोदाहरणदानावकाशार्थं भाक्तत्वालक्षणीयत्वे प्रथमं परिहरणयोग्येऽप्यप्रतिसमाधाय भविष्यदुद्द्योतानुवादानुसारेण वृत्तिकृदेव प्रभेदनिरूपणं करोति---स चेति । पञ्चधापि ध्वनिशब्दार्थे येन यत्र यतो यस्य यस्मै इति बहुव्रीह्यर्थाश्रयेण यथोचितं सामानाधिकरण्यं सुयोज्यं । वाच्येऽर्थे तु ध्वनौ वाच्यशब्देन स्वात्मा तेनाविवक्षितोऽप्रधानीकृतः स्वात्मा येनेत्यविवश्रितवाच्यो व्यञ्जकोऽर्थः । एवं विवक्षितान्यपरवाच्येऽपि ।

बालप्रिया

सामान्यरूपो व्यङ्ग्यव्यञ्जकभावः साधारणस्समान इति योजना । ऽतदप्रसिद्धालङ्कारविशेषमात्रेऽत्यत्रत्यविशेषमात्रग्रहणयोः फलमाह--विशेषग्रहणेनेत्यादि । अलङ्कारस्येति शेषः । मात्रशब्दो लेशार्थक इत्याशयेनाह-अङ्गित्वाभावमिति । आहेत्यनुषज्यते । प्रकारन्तरेणाह--तेने वेति । तेन ध्वनिना कर्त्रा ।
     ननु क्रमप्राप्तं भाक्तत्वादिपक्षमप्रतिसमाधाय वृत्तिकृताऽस चेऽत्यादिना ध्वनिभेदप्रदर्शनमनुचितमित्यत आह---उदाहरणपृष्ट इत्यादि । अविवक्षितवाच्यादिध्वनेरुदाहरणे प्रदर्शिते तत्र लक्षणायास्समुन्मेषाद्भक्तिरेव ध्वनिरिति शङ्का सुसंपादा, परस्परभेदसंपादकस्य रूपभेदादेः स्पष्टत्वात्तत्परिहारश्च सुकर इत्यभिप्रायेणेत्यर्थः । भविष्यदुद्योतानुवादानुसारेणेति । अत्रानुक्तवविवक्षितवाच्यो व इति द्वितीयोद्योतादावनुवादोऽनुपपन्नः स्यादतः स्वयमेव कारिकाकारस्थाने स्थित्वेत्यर्थः । ननु पञ्जानां ध्वनिशब्दार्थानां मध्ये कमर्थमभिप्रेत्याविवक्षितवाच्यो ध्वनिरित्यादिसामानाधिकरण्यनिर्देश इत्यत आह--पञ्चधापीत्यादि । पञ्चधा वाचकादिस्वरूपे । तत्र वाचकः शब्दो ध्वनिपदार्थ इति पक्षे आविवक्षितः वाच्यो येन शब्देन । यत्र यस्मिन्शब्दे । यतः यस्माच्छब्दात् । यस्मै यदर्थत्वेन । यस्य यत्सम्बन्धित्वेन स तथोक्त इति बहुव्रीहिर्बोध्यः । एवं व्यङ्ग्यव्यञ्जनकाव्यानामन्यपदार्थत्वेऽपि बोध्यं । वाय्यो ध्वनिशब्दार्थ इति पक्षे विशेषमाह---वाच्येऽर्थ इति । स्वात्मेति । उच्यत इति


द्विविधः सामान्येन ।
तत्राद्यस्योदाहरणम्---
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।।


लोचनम्

यदि वा कर्मधारयेणार्थपक्षे अविवक्षितश्चासौ वाच्यश्चेति । विवक्षितान्यपरश्चासौ वाच्यश्चेति । तत्रार्थः कदाचिदनुपपद्यमानत्वादिना निमित्तेनाविवक्षितो भवति । कदाचिदुपपद्यमान इति कृत्वा विवक्षित एव, व्यङ्ग्यपर्यन्तां तु प्रतीतिं स्वसौभाग्यमहिम्ना करोति । अत एवार्थोऽत्र प्राधान्येन व्यञ्जकः, पूर्वत्र शब्दः । ननु च विवक्षा चान्यपरत्वं चेति विरुद्धं । अन्यपरत्वेनैव विवक्षणात्को विरोधः? सामान्येनेति । वस्त्वलङ्काररसात्मना हि त्रिभेदोऽपि ध्वनिरुभाभ्यामेवाभ्यां सङ्गृहीत इति भावः । ननु तन्नामपृष्टे एतन्नामनिवेशनस्य किं फलम्? उच्यते--अनेन हि नामद्वयेन ध्वननात्मनि व्यापारे पूर्वप्रसिद्धाभिधातात्पर्यलक्षणात्मकव्यापारत्रितयावगतार्थप्रतीतेः प्रतिपत्तृगतायाः प्रयोक्त्रभिप्रायरूपायाश्च विविक्षाया) सहकारित्वमुक्तमिति ध्वनिस्वरूपमेव नामभ्यामेव प्रोज्जीवितं ।
     सुवर्मपुष्पामिति । सुवर्णानि पुष्प्यतीति सुवर्णपुष्पा, एतच्च वाक्यमेवासम्भवत्स्वार्थमिति कृत्वाविवक्षितवाच्यं ।

बालप्रिया

शेषः । अविवक्षितपदस्य यथाश्रुतार्थाभिप्रायेणाह-यदि वेत्यादि । वाच्यस्याविवक्षितत्वादिकमुपपादयति---तत्रार्थ इत्यादि । आदिपदेनानुपयोगित्वं गृह्यते । उपपद्यमान इति । अर्थ इत्यनुषज्यते । व्यङ्ग्यपर्यन्तां व्यङ्ग्यप्रतीतिपर्यन्तां । प्रतीतिंस्वगोचरां प्रतीतिं । शङ्कते---नन्वित । विरुद्धमिति. विवक्षितत्वे अन्यपरत्वसम्भवादिति भावः । उत्तरमाह---अन्येत्यादि । को विरोध इति । प्रधानतया विवक्षितत्वस्यैवान्यपरत्वोपमर्दकत्वादिति भावः । पृच्छति--नन्विति । तन्नामपृष्टे तस्य ध्वनिनाम्नः पृष्टे पश्चात् । एतन्नामेति । अविवक्षितवाच्यादिनामेत्यर्थः । अस्ति ध्वनिः स चेत्यादिश्च निर्देशः किमर्थ इत्यर्थः । अत्रोत्तरमाह---उच्यत इत्यादि । अयमर्थः---ध्वननव्यापारसम्बन्धो हि पञ्चानां ध्वनिशब्दवाच्यत्वे निबन्धनं । तत्र च व्यापारे


द्वितीयस्यापि---
शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ।।


लोचनम्

तत एव पदार्थमभिधायान्वयं च तात्पर्यशक्त्यावगमय्यैव बाधकवशेन तमुपहत्य साद्दश्यात्सुलभसमृद्धिसम्भारभाजनतां लक्षयति । तल्लक्षणाप्रयोजनं शूरकृतविद्यसेवकानां प्रशस्त्यमशब्दवाच्यत्वेन गोप्यमानं सन्नायिकाकुचकलशयुगलमिव महार्घतामुपयद्ध्वन्यत इति । शब्दोऽत्र प्रधानतया व्यञ्जकः, अर्थस्तु तत्सहकारितयेति चत्वारो व्यापाराः ।
     शिखरिणीति । न हि निर्विध्नोत्तमसिद्धयोऽपि श्रीपर्वतादय इमां सिद्धिं विदध्युः । दिव्यकल्पसहस्त्रादिश्चात्र परिमितः कालः । न चैवंविधोत्तमफलजनकत्वेन पञ्जाग्रिप्रभृत्यापि तपः श्रूतं ।

बालप्रिया

शब्दार्थोभयकर्तृके अभिधादित्रयजन्यप्रतिपत्तृगतार्थप्रतीतेः प्रयोक्तृगतविवक्षायाश्च सहकारित्वमस्तीत्यतस्तस्यापि प्रतिपिपादयिषयैतन्नामद्वयं विहितं न प्रभेदमात्रप्रतिपिपादयिषया, तत्राविवक्षितवाच्यस्य ध्वनेर्लक्षणामूलत्वात्तन्नाम्ना प्रतिपत्तृगततत्प्रतीतेः विवक्षितान्यपरवाच्यनाम्ना विवक्षायाश्च सहकारित्वं दर्शितमिति तन्नामभ्यां ध्वनिस्वरूपमेव प्रोज्जीवितमिति । बाधकवशेन तमुपहत्येति । तं अन्वयमित्यर्थः । उपहननं बाधनं । सादृश्यादिति निमित्तोक्तिः । लक्षयतीति । सुवर्णपुष्पामित्येतल्लक्षणया बोधयतीत्यर्थः । ऽतल्लक्षणाप्रयोजनं प्राशस्त्यं ध्वन्यतऽ इति सम्बन्धः । माहार्घतां चारुत्वं । उपयत्प्राप्नुवत् । अत्रेति । अविवक्षितवाच्याध्वनावित्यर्थः । चत्वार इति । अभिधाद्याश्चत्वार इत्यर्थः । सुवर्णेत्यादिपद्यव्याख्यास्मदीयकुवलयानन्दव्याख्याने द्रष्टव्या ।
     शखरिणीति । अत्र नामेत्यन्तस्य कियच्चिरमित्यस्य किमभिधानमित्यस्य च ध्वनिं क्रमेणाह---न हीत्यादिना । इमामिति । तरुण्याधरपाटलिमलाभसुभगम्भवृकबिम्बफलदशनात्मिकामित्यर्थः । अत्रेतिर् । इद्दश्याः सिद्धेः प्राप्तावित्यर्थः । एवं विधेति । यथोक्तबिम्बफलदशनात्मकेत्यर्थः । ऽत्वदधरारुणमम्बुरुहाक्षि यदिऽत्याद्यनिर्दिश्य तवाधरेत्यादिनिर्देशे बोजमाह---तवेत्यादि । भिन्नं पृथक्

लोचनम्

तवेति भिन्नं पदं । समासेन विगलितत्या प्रतीयेत, तव दशतीत्यभिप्रायेण । तेन यदाहुः--ऽवृत्तानुरोधात्त्वदधरपाटलमिति न कृतम्ऽ इति, तदसदेव; दशतीत्यास्वादयति अविच्छिन्नप्रबन्धतया, न त्वौदरिकवत्परं भुङ्क्ते; अपि तु रसज्ञोऽति तत्प्राप्तिवदेव रसज्ञताप्यस्य तपः एवेति । अनुरागिणश्च प्रच्छन्नस्वाभिप्रायक्यापनवैदग्ध्यचाटुविरचनात्मकविभावोद्दीपनं व्यङ्ग्यं ।

बालप्रिया

कृतं । कुत इत्यत आह---समास इति । ऽसमासे विगलिततया प्रतीयेत न प्रतीयताम्ऽ इति क्वचित्ग्रन्थे पाठः । समासे युष्मत्पदस्याधरपदेन समासे सति । युष्मदर्थ इति शेषः । विगलिततया पृथक्तया न प्रतीयेतेत्यर्थः । ननु प्राधान्येन प्रतीतये व्यस्ततयोक्तिरावश्यकीत्यायातं । सा किमर्थेत्यत्राह---तेवेत्यादि । तवेत्यस्य दशनक्रिययाप्यन्वयाभिप्रायेणेत्यर्थः । भिन्नमित्यनेन सम्बन्धः । अयम्भावः--यथाऽअरुणया पिङ्गाक्ष्येऽत्यादौ वैदिकवाक्ये गवाद्यन्वितस्यारुण्यादेस्साध्यतादिसम्बन्धेन क्रयणादौ । यथा वाऽधनवान्सुखीऽत्यादिलौकिकवाक्ये मतुबाद्यर्थान्वितस्य धनादेः प्रयोज्यत्वादि सम्बन्धेन सुखादौ चान्वयः, तथात्राधरान्वितस्य त्वत्सम्बन्धिस्वस्य प्रयोज्यत्वसम्बन्धेन बिम्बफलकर्मकदशनेऽप्यन्वयः । यतः शुकशाबकोऽयं त्वदधरारुण्यलाभसुभगम्भावुकं बिम्बफलं त्वत्सम्बन्धितया दशति, त्वामेव प्राधानतयोद्दिश्य दशतीत्यर्थो विवक्षितः । अतस्तवेति व्यस्ततया निर्दिष्टमिति । अविच्छिन्नेत्यादि । आस्वादयतीत्यनेन सम्बन्धः । निरवशेषेणोपभोगे सति हि प्रबन्दविच्छेदो भवेत्तथा नेत्यर्थः । औदरिकवदिति । स हि रसास्वादवार्तानभिज्ञो निरवशेषमेव भोज्यद्रव्यं भुङ्क्ते । अत्रेति । रसास्वादनक्रियायामित्यर्थः । तत्प्राप्तिवत्तथाविधबिम्बफलप्राप्तिवत् । उचितेति । उचिते काले लाभः बिम्बफलतदास्वादलाभः तपस एव तपोरूपहेतोरेव । इतीत्यस्यापि व्यङ्ग्यमित्यनेनान्वयः । प्रच्छन्नेति ।

लोचनम्

     अत्र च त्रय एव व्यापाराः---अभिधा तात्पर्यं ध्वननं चेति । मुख्यार्थबाधाद्यभावे मध्यमकक्ष्यायां लक्षणायास्तृतीयस्या अभावात् । यदि वाकस्मिकविशिष्टप्रश्नार्थानुपपत्तेर्मुख्यार्थबाधायां साद्दश्याल्लक्षणा भवतु मध्ये । तस्यास्तु प्रयोजनं ध्वन्यमानमेव, तत्तुर्यकक्ष्यानिवेशि, केवलं पूर्वत्र लक्षणैव प्रधानं ध्वननव्यापारे सहकारि । इह त्वभिधातात्पर्यशक्ती । वाक्यार्थसौन्दर्यादेव व्यङ्ग्यप्रतिपत्तेः केवलं लेशेन लक्षणाव्यापारोपयोगोऽप्यस्तीत्युक्तं । असंलक्ष्यक्रमव्यङ्ग्ये तु लक्षणासमुन्मेषमात्रमपि नास्ति । असंलक्ष्यत्वादेव क्रमस्येति वक्ष्यामः । तेन द्वितीयेऽपि भेदे चत्वार एव व्यापाराः ।। १३ ।।

बालप्रिया

प्रच्छन्नोयः स्वाभिप्रायोऽधरास्वादलिप्सात्मकः, तस्य ख्यापनार्थं यद्वैदग्ध्येन औचित्यापरित्यागेन चाटुविरचनं उक्तरूपं तदात्मकं तद्द्वारकं विभावस्य रत्यालम्बनभूतस्य तरुणीलक्षणस्य उद्दीपनं स्वाभिप्रायानुगुणतया अभिलाषोत्पादनमित्यर्थः । व्यङ्ग्यमिति । अस्मिन्श्लोके प्राधान्येन व्यङ्ग्यमित्यर्थः । यदि वा अथवा । आकस्मिकेति । आकस्मिकः असम्भावितः इत्यनुपपत्तौ हेतुः । विशिष्टः शुककर्तृकतपश्चरणदेशादिरूपश्च यः प्रश्नार्थः तस्यानुपपत्तेरित्यर्थः । सादृश्याल्लक्षणेति । असौ शुकशाबक इत्यनेन कामुकः कश्चिद्युवा अधरपाटलं बिम्बफलं दशतीत्यनेनाधरास्वादनादिकञ्च साद्दश्याल्लक्ष्यत इति भावः । ध्वन्यमानमेव तदिति । तत्प्रच्छन्नेत्यादिपूर्वोक्तं । उक्तयोर्वशेषमाह---केवलमित्यादि । पूर्वत्र सुवर्णेत्याद्युदाहरणे । प्रधानमित्यनेनतरयोर्लेशतस्सहकारित्वमस्तीति दर्शितं । इहेति । शिखरिणीत्यादावित्यर्थः । शक्तीति । प्रधाने इति विपरिणामेनानुषङ्गः अत्र हेतुमाह--वाक्यार्थेति । एतावता लक्षणाया नाकिञ्चित्करत्वमित्याह---लेशेनेत्यादि । इत्युक्तमिति । ऽयदिवेऽ त्यादिग्रन्थेनोक्तमित्यर्थः । नन्वेवंरीत्या विवक्षितान्यपरवाच्ये सर्वत्रापि किं लक्षणास्ति? नेत्याह---असंलक्ष्येति । असंलक्ष्यत्वादेवेति । क्रमस्यासंलक्षणे मुख्यार्थबाधादिस्फुरणस्य लक्षणाहेतोरसम्भवादिति भावः । यदिवेति प्रस्तुतं पक्षमुपसंहरिति---तेनेति ।। १३ ।।
     अत एवेति । यस्मात्द्वितीयेऽपि प्रभेदे शिखिरिणीत्यादौ क्वचिच्चत्वारो व्यापाराः तस्मादेवेत्यर्थः । तत्र भक्तिरूपाया लक्षणाया अभावे भक्तेर्ध्वनित्वशङ्कापरिहारयोस्तदानन्तर्यं तत्तदश्लिष्टं स्यादिति भावः । ऽभक्त्या बिभर्तीऽयादेःऽसा तु स्यादुपलक्षणऽमित्यन्तग्रन्थस्य भावं प्रदर्शयन्नवतारयति--अयं भाव इत्यादि । इतीति । इत्यनयोरित्यर्थः ।


यदप्युक्तं भक्तिर्ध्वनिरिति, तत्प्रतिसमाधीयते----
भक्त्या बिभर्ति नैकत्वं रूप-भेदादयं ध्वनिः ।
     भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः अयमुक्तप्रारो ध्वनिर्भक्त्या नैकत्वं बिभर्ति भिन्नरूपत्वात् । वाच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशं यत्र व्यङ्ग्यप्राधान्ये स ध्वनिः । उपचारमात्रं तु भक्तिः ।


लोचनम्

प्रथमं पक्षं निराकरोति---
     भक्त्या बिभर्तिति । उक्तप्रकार इति पञ्चस्वर्थेषु योज्यम्---शब्देऽर्थे व्यापारे व्यङ्ग्ये समुदाये च । रूपभेदं दर्शयितुं ध्वनेस्तावद्रूपमाह---वाच्येति । तात्पर्येण विश्रान्तिधामतया प्रयोजनत्वेनेति यावत् । प्रकाशनं द्योतनमित्यर्थः । उपचारमात्रमिति । उपचारो गुणवृत्तिर्लक्षणा । उपचरणमतिशयितो व्यवहार इत्यर्थः । मात्रशब्देनेदमाह---यत्र लक्षणाव्यापारात्तृतीयादन्यश्चतुर्थः प्रयोजनद्योतनात्मा व्यापारो वस्तुस्थित्या सम्भवन्नप्यनुपयुज्यमानत्वेनानाद्रियमाणत्वादसत्कल्पः । ऽयमर्थंमधिकृत्यऽ इति

बालप्रिया

पर्यायवदिति । इन्द्रः शक्र इत्यादिपर्यायशब्दवाच्ययोरिवेत्यर्थः । ताद्रूप्यमैक्यं । पृथिवीत्वमिवेत्यादि । यथा पृथवीत्वं पृथिव्या जलादिव्यावर्तकधर्मरूपत्वेन लक्षयं, तथा भक्तिः किं ध्वनेर्लक्षणमित्यर्थः । उतेत्यादि । काकवद्देवदत्तगृहमित्यत्र यथा काकस्सम्भवमात्रात्कदाचित्सत्वमात्रेम देवदत्तगृहस्योपलक्षणं, तथा भक्तिः किं ध्वनेरुपलक्षणमित्यर्थः । ऽअयं ध्वनिः भक्त्येकत्वमैक्यन्न बिभर्तीऽति कारिकायामन्वयः । शब्द इत्यादिसप्तम्यन्तपञ्चकस्यऽअर्थेष्विऽत्यनेन सम्बन्धः । ऽतात्पर्येणेऽत्येतद्व्याचष्टे--विश्रान्तीति । गुणवृत्तौ लक्षणायाञ्च कथमुपचारशब्दप्रवृत्तिरित्यत आह---उपचरणमिति । यस्मिन्नर्थे यस्य शब्दस्य व्यवहारः प्रसिद्धः, तमतिलङ्ध्य तत्सम्बद्धेऽन्यस्मिन्नर्थे तस्य शब्दस्य व्यवहारोऽतिशयितो व्यवहारः । ऽउपचारमात्रम्ऽ इति मात्रशब्दप्रयोजनमाह-मात्रशब्देनेत्यादि । यत्रेति । परिम्लानमितयाद्युदाहरणेष्वित्यर्थः । प्रयोजनेत्यादि । तत्र हि वदतीत्यस्य साद्दश्यान्निमित्ताद्गमयतीत्यर्थे लक्षणा, तस्याः प्रयोजनं सन्तापस्य स्फुटतया प्रतिपत्तिरिति ध्वननव्यापारो मुख्यवृत्तिपरित्यागान्यथानुपपत्तिरूपया वस्तुस्थित्या सम्भवन्नपीत्यर्थः । अनुपयुज्यमानत्वेनेत्यादि । तत्प्रयोजनस्य चारुत्वविशेषाभावादिति भावः । ननु प्रयोजनविषयत्वादेव तस्याद्रियमाणत्वमवश्यम्भावीति कथमसत्कल्पत्वमिति शङ्कायां तद्व्यापारविषयस्य न मुख्यं प्रयोजनत्वं तल्लक्षणासमन्वयात्, किन्त्व मुख्यमेवेति प्रदर्शयितुं न्यायसूत्रकारोक्तं मुख्यप्रयोजनलक्षणमाह-यमिति । ऽयमर्थमधिकृत्य प्रवर्तते तत्परयोजनंऽ इति सूत्रं ।


मा चैतत्स्याद्भक्तिर्लक्षणं ध्वनेरित्याह----
दतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ।। १४ ।।
     नैव भक्त्या ध्वनिर्लक्ष्यते । कथम्? अतिव्याप्तेख्याप्तेश्च । तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्तेऽपि विषये भक्तेः सम्भवात् । यत्र हि व्यङ्ग्यकृतं महत्सौष्टवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्य्धनुरोधप्रवर्तितव्यबहाराः


लोचनम्

हि प्रयोजनलक्षणं । तत्रापि लक्षणास्तीति कथं ध्वननं लक्षणा चेत्येकं तत्त्वं स्यात् । द्वितीयं पक्षं दूषयति---अतिव्याप्तेरिति । असाविति ध्वनिः । तयेति भक्त्या । ननु ध्वननमवश्यम्भावीति कथं तद्व्यतिरिक्तोऽस्ति विषय इत्याह---महत्सौष्ठवमिति । अत एव प्रयोजनस्यानादरणीयत्वाद्व्यञ्जकत्वेन न कृत्यं किञ्चिदिति भावः । महद्ग्रहणेन गुणमात्रं तद्भवति । यथोक्त्म्---ऽसमाधिरन्यधर्मस्य क्वाप्यारोपो विवक्षितऽ इति दर्शयति । ननु प्रयोजनाभावे कथं तथा व्यवहार इत्याह---प्रसिद्ध्यनुरोधेति । परम्परया तथैव प्रयोगात् ।

बालप्रिया

तत्रापीति । ताद्दशोदाहरणेष्वपीत्यर्थः । लक्षणास्तीति । अयं भावः----यदि भक्तिर्ध्वनिश्चैकं तत्वं स्यात्तदा ह्युदाहृते विषये ध्वनिसद्भावो लक्षणाया अभावो वा स्यात् । न चैतदुभयमपि । तेन लक्षणात्मि काया भक्तेर्ध्वनिविविक्तस्वरूपत्वनिश्चयान्नैकत्वशङ्कावकाश इतीममर्थन्दर्शयितुं मात्रग्रहणमिति । द्वितीयं पक्षमिति । ऽभक्तिर्ध्वनेर्लक्षमम्ऽ इति पक्षमित्यर्थः । वृत्तौऽमा चैतदिऽत्यादेः भक्तिर्ध्वनिश्चैकं तत्वमित्येतन्मास्तु । भक्तिर्ध्वनेर्लक्षणमस्त्विति शङ्कायामाहेत्यर्थः । ऽयत्र हीऽत्यादिग्रन्थमवतारयति---नन्वित्यादि । ध्वननमवश्यम्भावीति । लक्षणायामिति शेषः । तात्पर्यमाह---अत एवेत्यादि । अत एव महतः सौष्टवस्याभावादेव । व्यञ्जकत्वेन व्यञ्जनव्यापारेण । न कृत्यं किञ्चिदिति । व्यञ्जनस्य सद्भावमात्रन्न ध्वनिव्यवहारे प्रयोजकं, किन्तु चारुत्वातिशयशालित्वमेव । तच्चात्र नास्तीति न ध्वनिव्यवहारविषयत्वमिति भावः । गुणमात्रमिति । बन्धस्य कश्चन गुण एवेत्यर्थः । तदिति । व्यञ्जकत्वमित्यर्थः । ऽभवतीऽतिऽदर्शयतीऽत्यन्वयः । महत्पदेन व्यङ्ग्यकृतकिञ्चित्सौष्ठवस्य प्रदर्शनादिति भावः । समाधिरिति । समाधिस्तन्नामा गुणः । अन्यस्याप्रस्तुतस्य यो धर्मस्तस्य । क्वापि प्रस्तुते वस्तुनि । ऽकुमुदानि निमीलन्तीऽत्यादीन्यस्योदाहरणानि । ऽप्रसिद्ध्यनुरोधेऽत्यत्र प्रकृष्टा सिद्धिः प्रसिद्धिः, सिद्धिर्नाम व्यवहारस्य प्रयोगमार्गाधिरोहः, तस्य प्रकर्षश्चाविच्छिन्नपारम्पर्यागतत्वमित्याशयेन प्रसिद्धिपदार्थमाह---परम्परयेति ।


कवयो दृश्यन्ते । यथा---
परिम्लानं पीनस्तनजधनसङ्गादुभयत-
स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितं ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् ।।
तथा---.-
चुम्बिज्जै असहुत्तं अवरुन्धिज्जै सहस्सहुत्तम्मि ।
विरमिअ पुणो रमिज्जै पिओ जणो णत्थि पुनरुत्तं ।।
(शतकृत्वोऽवरुध्यते सहस्रकृत्वः चुम्ब्यते ।
विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तं ।।
इति च्छाया)
तथा--
कुविऑ पसन्नॉ ओरण्णमुहीओ विहसमाणॉ ।
जह गहिओ तह हिआं हरन्ति उच्छिन्तमहिलॉ ।।


लोचनम्

     वयं तु ब्रूमः---प्रसिद्धिर्या प्रयोजनस्यानिगूढतेत्यर्थः । उत्तानेनापि रूपेण तत्प्रयोजनं चकासन्निगूढतां निधानवदपेक्षत इति भावः । वदतीत्युपचारे हि स्फुटीकरणप्रतिपत्तिः प्रयोजनं । यद्यगूढं स्वशब्देनोच्येत किमचारुत्वं स्यात्? गूढतया वर्णने वा किं

बालप्रिया

     परमतरीत्या प्रसिद्धिशब्दं व्याख्यातुमुपक्रमते---वयन्त्विति । प्रसिद्धिः प्रयोजनस्य प्रकर्षेण प्रकटतया सिद्धिः प्रतीतिः; ध्वननातिरिक्तव्यापारविषयत्वयोग्यतया स्फुजतरावभासमानत्वमिति यावत् । तदनुरोधेन तद्विपरीतध्वननव्यापारविषयत्वानर्हतया तदनुरोधेनैव । प्रवर्तितो व्यवहारो यैरित्यर्थमभिप्रेत्य व्यचष्टे---प्रसिद्धिर्येति । प्रयोजनस्य अनिगूढता प्रकटता या, सात्र प्रसिद्धिशब्दार्थः; न तु पूर्वोक्त इति भावः ।
     ननु ध्वनिस्थलेऽपि प्रयोजनस्य स्फुटावभासमानत्वादनिगूढत्वं समानमिति शङ्कायां विशेषमाह---उत्तानेनेत्यादि । तत्प्रयोजनं ध्वनिस्थलीयं प्रयोजनं । उत्तानेन स्फुटावभासमानेन । ऽरूपेण चकासदपीऽति योजना । प्रकशमानमपीत्यर्थः । निगूढतां नितरां स्फुटव्यवहारदशानाविर्भाविचारुत्वसम्पादिनीं गोप्यमानतामित्यर्थः । निधानवत्निधिवतपेक्षते । ऽवदतीऽत्यादौ च नैवमित्याह-वदतीत्यादि । स्फुटीत्यादि । ऽतद्रूपं प्रयोजनमगूढं सत्स्वशब्देनोच्येत यदीऽत्यन्वयः । स्फुटं तत्सन्तापं गमयतीत्यादि निर्दिश्येत यदीत्यर्थः । गूढतया वर्णनेवेति । ऽकृशाङ्ग्यास्सन्तापं


तथा---
अज्जाएं पहारो णवलदाए दिण्णो पिएण थणवट्टे ।
मिउओ वि दूसहो व्विअ जॉ हिअए सवत्तीणम् ।।
(भार्यायाः प्रहारो नवलतया दत्तः प्रियेम स्तनपृष्ठे ।
मृदुकोऽपि दुःसह इव जतो हृदये सपत्नीनाम् ।।
इति, च्छाया )


लोचनम्

चारुत्वमधिकं जातम्? अनेनैवाशयेन वक्ष्यति---यत उक्त्यन्तरेणाशक्यं यदिति । अवरुन्धिज्जै आलिङ्ग्यते । पुनरुक्तमित्यनुपादेयता लक्ष्यते, उक्तार्थस्यासम्भवात् ।
कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः ।
यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ।।
     अत्र ग्रहणेनोपादेयता लक्ष्यते । हरणेन तत्परतन्त्रतापत्तिः ।
     तथा--अज्जेति कनिष्ठभार्यायाः स्तनपृष्ठे नवलतया कान्तेनोचितक्रीडायोगेन मृदुकोऽपि प्रहारो दत्तः सपत्नीनां सौभाग्यसूचकं तत्क्रीडासंविभागमप्राप्तानां हृदये

बालप्रिया

वदतीऽत्यादिवर्णन इत्यर्थः । किमिति उभयत्र निषेधे । गूढतया वर्णनमात्रं न ध्वनिव्यवहारे प्रयोजकं, किन्तु स्वशब्दवाच्यावस्थानुद्भिन्नचारुत्वान्तरकारि गूढतया वर्णनमेव, यथाऽसुवर्णपुष्पाम्ऽ इत्यादौ । ऽवदतीऽत्यादौ तु गूढत्वेनागूढत्वेन वा वर्णनेऽपि चारुत्वविशेषस्यकस्यचिदनुपलम्भात्तद्वैपरीत्यमिति भावः । उक्तमर्थं वक्ष्यमाणकारिकया संवादयति---अनेनैवेति । परिम्लानमिति । रत्नावल्यां नायकस्योक्तिः । उभयतः द्वयोर्भागयोः क्षेपा शय्याप्रान्तेषु निपातनानि वलनानि विवर्तनानि च । पीनेत्यादिहेतुः म्लानिमादिकार्यदर्शनेनानुमायोक्तः । अत्र शयनस्याचेतनस्य मुख्यार्थवचनकर्तृत्वान्वयानुपपत्या मुख्यार्थबाधेन ज्ञापनं साद्दश्याल्लक्ष्यते, स्फुटीकरमप्रतिपत्तिश्च प्रयोजनमुक्तं । चुम्ब्यत इति । नायिकयेति शेषः । प्रियो जनः शतकृत्वश्चुम्ब्यत इत्याद्यन्वयः । नास्ति पुनरुक्तमिति । चुम्बनादेः पुनरुक्तत्वन्नास्तीत्यर्थः । अत्र चुम्बनादौ पुनर्वचनरूपमुख्यार्थस्य बाधाल्लक्षणेत्याह---पुनरुक्तमित्यादि । उक्तार्थस्येति । वचनरूपार्तस्येत्यर्थः । अत्र प्रयोजनमधिकफलशालित्वरूपं, तच्च पूर्ववन्नादरास्पदमिति बोध्यं ।
     कुपिता इति । ऽगृहीताऽ इत्यत्र पुरुषेणेति शेषः । अत्र गृहीता हरन्तीऽत्यनयोर्मुख्यार्थयोरुपादानहरमयोरसम्भवादाह---ग्रहणेनेत्यादि । अत्रात्मसात्करणमत्यन्तं वैवश्यञ्च क्रमेण लक्षणयोः प्रयोजनं । तदपि पूर्ववन्न श्लाध्यं । उचितेति ।


तथा----
परार्थे यः पीडाभनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वोषामिह खलु विकारोऽप्यभिमतः ।
न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्देषोऽसौ न पुनरगुणाया मरुभुवः ।।
इत्यत्रेक्षुपक्ष्.एऽनुभवतिशब्दः । न चैवंविधः कदाचिदपि ध्वनेर्विषयः ।


लोचनम्

दुःसहो जातः, मृदुकत्वादेव । अन्यस्य दत्तो मृटुः प्रद्दारोऽन्यस्य च सम्पद्यते । दुस्सहश्च मृदुरपीति चित्रं । दानेनात्र फलवत्त्वं लक्ष्यते ।
     तथा---परोर्थेति । यद्यपि प्रस्तुतमहापुरुषापेक्षयानुभवतिशब्दो मुख्य एव, तथाप्यप्रस्तुते इक्षौ प्रशस्यमाने पीडाया अनुभवनेनासम्भवता पीडावत्त्वं लक्ष्यते; तच्च पीड्यमानत्वे पर्यवस्यति । नन्वस्त्यत्र प्रयोजनं तत्किमिति न ध्वन्यत इत्याशङ्क्याह---न चैवंविध इति ।। १४ ।।

बालप्रिया

उचितो यः क्रीडायोगः क्रीडाप्रसङ्गः, यद्वा--उचितायां क्रीडायां यो योगः सम्भवेत्तेन हेतुना । दत्त इति सम्बन्धः । ऽसपत्नीनां दुस्सहो जातऽ इत्यत्र गम्यं हेतुं विशेषणद्वारा दर्शयति---सौभाग्येत्याद्यप्राप्तानामित्यन्तेन । सौभाग्यसूचकत्वे हेतुन्दर्शयति---मृदुकत्वादेनेति मृदुकोऽपीत्यपिशब्दसूचितं विरोधं विशदयति---अन्यस्येत्यादि । एकस्य दत्तोऽन्यस्य सम्पद्यत इत्येकः, मृदोस्सुसहतया मृदुरपि दुस्सह इत्यन्यश्च विरोध इत्यर्थः । अत्र मुख्यार्थस्य दानस्य बाधात्प्रहारो दत्त इत्यत्र दानेन दानसाध्यं फलवत्वं लक्ष्यत इत्याह---दानेनेत्यादि । फलवत्वमिति । कनिष्ठभार्यायाश्चरितार्थत्वमित्यर्थः । प्रयोजनञ्च प्रहारस्य सुखोपभोग्यत्वं । तच्च नादरास्पदं ।
     परार्थ इति । इक्षुः परार्थं पीड्यते । महापुरुषश्च परार्थं पीडामनुभवति । इक्षुर्भज्यमानोऽपि माधुर्यवान् । पुरुषोऽपि परुषीकरणे सत्यपि अनुकूलस्वभाव एव । विकारो गुडादिः कोपादिश्च । वृद्धिः परिपोषोऽभ्युदयश्च । अक्षेत्रमूषरभूमिरनुचितस्थानञ्च । अत्रेक्षुपक्षेऽअनुभवतिशब्दऽ इति वृत्युक्तं लाक्षाणिकत्वमुपपादयति---यद्यपीत्यादिना । अनुभवनेनासम्भवतेति । अनुभवनं हि ज्ञानं मुख्यार्थभूतं तच्चेक्षोरचेतनत्वादसम्भवदित्यर्थः । तच्च पीडावत्वञ्च । पीड्यमानत्व इति । मर्द्यमानत्व इत्यर्थः । प्रयोजनञ्च कष्टावस्थत्वन्तदपि नादरास्पदं । नन्वित्यादि । ध्वन्यत इति । ध्वनिव्यवहारविषय इत्यर्थः । वृत्तौऽएवंविधऽ इतिर् । इद्दशमनादरपदं प्रयोजनमित्यर्थः । ऽध्वनेर्विषयःऽ ध्वनिव्यवहारस्य विषयः ।। १४ ।।


यतः---
उक्त्यन्तरेमाशक्यं यत्तच्चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद्ध्वन्युक्तेर्विषयीभवेत् ।। १५ ।।
अत्र चोदाहृते विषये नोवत्यन्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः । कुञ्च-
रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि ।
लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ।। १६ ।।
तेषु चोपचरितशब्दवृत्तिरस्तीति । तथाविधे च विषये क्वचित्सम्भवन्नपि


लोचनम्

यत उक्त्यन्तरेणेति । उक्त्यन्तरेण ध्वन्यतिरिक्तेन स्फुटेन शब्दार्थव्यापारविशेषेणेत्यर्थः । शब्द इति पञ्चस्वर्थेषु योज्यं । ध्वन्युक्तेर्विषयीभवेदिति---ध्वनिशब्देनोच्यत इत्यर्थः । उदाहृत इति । वदतीत्यादौ ।। १५ ।।
     एवं यत्र प्रयोजनं सदपि नादरास्पदं तत्र को ध्वननव्यापार इत्युक्त्वा यत्र मूलत एव प्रयोजनं नास्ति, भवति चोपचारस्तत्रापि को ध्वननव्यापार इत्याह---किञ्चेति । लावण्याद्या ये शब्दाः स्वविषयाल्लवणरसयुक्तत्वादेः स्वार्थादन्यत्र हृद्यत्वादौ रूढा;

बालप्रिया

     ऽउक्त्वन्तरेणेऽत्यत्र उक्तिशब्दो व्यापारवाचो, अन्तरशब्दश्च ध्वन्यपेक्षयान्यवाचीत्याह---ध्वन्यतिरिक्तेनेत्यादि । स्फुटेन व्यवहारभूमिषु प्रसिद्धेन । ऽशब्दो व्यञ्जकताऽमित्यत्रत्यशब्दपदार्थमाह-पञ्चस्विति । शब्द्यते अभिधीयत इति वाच्यः, शब्द्यतेऽनेनेति वाचकः, शब्द्यते व्यज्यत इति व्यङ्ग्यः, शब्दनमिति व्यापारः । उक्तचतुष्टयचयत्वात्समुदायश्चात्र शब्दपदार्थ इत्यर्थः । उदाहृते विषय इत्यस्य विवरणम्--वदतीत्यादाविति ।। १५ ।।
     मूलत एवेत्यादि । ध्वनौ तावत्प्रयोजनं तस्यादरास्पदत्वञ्चेति द्वयमपेक्षितं, तयोर्मूलभूतं प्रयोजनमेव नास्तीत्यर्थः । स्वविषयशब्देन स्वमुख्यार्थो विवक्षित इत्याह---लवणेत्यादि । रूढत्वोक्तिः प्रयोजनाभावप्रकटनार्थेत्याह--रूढत्वदेवेति । व्यवधानमन्तरेंण स्वार्थसमर्पकत्वं हि रूढत्वं, तदिह मुख्यार्थबाधतद्योगप्रयोजनत्रयसान्निध्यापेक्षणरूपव्यवधानशून्यत्वं रूढशब्देन दर्शितमिति प्रयोजनराहित्यमत्र व्यवतिष्ठत एवेत्यर्थः ।


ध्वनिव्यवहारः प्रकारन्तरेण प्रवर्तते । न तथाविधशब्दमुखेन ।


लोचनम्

रूढत्वादेव त्रितयसन्निध्यपेक्षणव्यवधानशून्याः । यदाह----
निरूढा लक्षणाः कश्चित्सामर्थ्यदभिधानवत् ।
     इति । ते तस्मिन्स्वविषयादन्यत्र प्रयुक्ता अपि न ध्वनेः पदं भवन्ति; न तत्र ध्वनिव्यवहारः । उपचरिता शब्दस्य वृत्तिर्गोणी; लाक्षणिका गृह्यन्ते । लोम्नामनुगतमनुलोमं मर्दनं । कूलस्य प्रतिपक्षतया स्थितं स्त्रोतः प्रतिकूलं । तुल्यगुरुः सब्रह्मचारी इति मुख्यो विषयः । अन्यः पुनरुपचरित एव । न चात्र प्रयोजनं किञ्चिदुद्दिश्य लक्षणा प्रवृत्तेति न तद्विषयो ध्वननव्यवहारः ।

बालप्रिया

निरूढा इति । काञ्चिल्लक्षणाः । सामर्थ्यत्नियमेन प्रयोगसामर्थ्यातभिधानवद्भवन्ति । ऽप्रयुक्ताऽ इत्यादिकारिकांशमनुषङ्गेण व्याचष्टे---ते तस्मिन्नित्यादि । ऽतेषु चोपचरितशब्दवृत्तिऽरिति ग्रन्थं व्याचष्टे---उपचरितेत्याद । ऽलावण्याद्याऽ इत्यत्रादिपदार्थमाह---आदीत्यादि । अन्य इति । अनुरोधी विरोधी तुल्य इति लोकप्रसिद्धोऽर्थ इत्यर्थः ।
     ऽतथाविधऽ इत्यादिऽमुखेनेऽत्यन्तं वृत्तिग्रन्थं शङ्कासमाधानाभ्यां विवृणोति-नन्वित्यादि । पुस्तके दृश्यमानायाऽदेवडिऽत्यादिगाथाया ग्रन्तेषु तत्र तत्राक्षरभेदा दृश्यन्ते । अतश्चास्याः स्वरूपं छायां च निश्चेतुं न शक्नोमि । सहृदया निश्चिन्वन्तु ।। ऽप्रियतमामुखस्यैवेऽतिऽप्रियतमस्यैवेऽति च पाठः । व्यञ्जकत्वेनैवेति । अर्थगतव्यञ्जनव्यापारेणैवेत्यर्थः । ऽन तथाविधेऽत्यादिकं व्याचष्टे--न तूपचरितेति ।। १६ ।।
     ऽअपिचेऽत्यादिग्रन्थमवतारयिष्यन्नुक्तमनुवदति--एवमित्यादि । तेनेति । उक्तव्याप्त्यभावेनेत्यर्थः ।


अपि च---
मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ।। १७ ।।


लोचनम्

तदा भक्तिसन्निधौ सर्वत्र ध्वनिव्यवहारः स्यादित्यतिवियाप्तिः । अभ्युपगभ्यापि ब्रूमः--भवतु यत्र यत्र भक्तिस्तत्र तत्र ध्वनिः । तथापि यद्विषयो लक्षणाव्यापारो न तद्विषयो ध्वननव्यापारः । न च भिन्नविषययोधर्मधर्मिभावः । धर्म एव च लक्षणभित्युच्यते । तत्र लक्षमा तावदमुख्यार्थविषयो व्यापारः । ध्वननं च प्रयोजनविषयं । न च तद्विषयोऽपि द्वितीयो लक्षणाव्यापारो युक्तः, लक्षमासामग्ण्यभावादित्यभिप्रायेणाह---अपि चेत्यादि । मुख्यां वृत्तिमभिदाव्यापारं परित्यज्य परिसमाप्य गुणवृत्त्या लक्षणारूपयार्थस्यामुख्यस्य दर्शनं प्रत्यायना, सा यत्फलं कर्मभूतं प्रयोजनरूपमुद्दिश्य क्रियते, तत्र

बालप्रिया

इत्यतिव्याप्तिरिति । एवंरूपातिप्रसङ्ग इत्यर्थः । उक्तेति शेषः । वदतीत्यादौ लावण्यादिशब्दे च भक्तेस्सत्वेऽपि ध्वन्यभावस्य दर्शितत्वादित्यर्थः । किमभ्युपगम्यते, किमुच्यत इत्यत्र क्रमेणोभयमाह---भवत्वित्यादि । भिन्न विषयकत्वमुपपादयति---तत्रेत्यादि । अमुख्येति । अमुख्यार्थो गङ्गादिशब्दस्य तीरादिः । प्रयोजनेति । गङ्गादिगतशैत्यपावनत्वादीत्यर्थः । तद्विषयोऽपीति । प्रयोजनविषयकोऽपीत्यर्थः । लक्षणासामग्रीति । बाधादीत्यर्थः । नन्वभिधामन्तरेम लक्षणावृत्तेरसम्भवात्तत्परित्यागः कथमित्यतः परित्यज्येति पदं प्रकृतानुगुणतया व्याचष्टे--परिसमाप्येति । न तदवधीरणमिह तत्परित्यागः, किन्तु तद्गोचरार्थाङ्गीकारपूर्वकं तदतिलङ्घनरूपमेव तद्द्वारकमर्थान्तरबोधनार्थं धावनमित्यर्थः । फलमित्यत्र द्वितीयार्थमाह---कर्मेति । फलपदार्थमाह---प्रयोजनरूपमिति । क्रियत इति शेषपूरणं ।


तत्र हि चारुत्वतिशयविशिष्टार्थप्रकाशनलक्षमे प्रयोजने कर्तव्ये यदि


लोचनम्

प्रयोजने तावद्द्वितीयो व्यापारः । न चासौ लक्षणैव; यतः स्खलन्ती बादकव्यापारेण विधुरीक्रियमाणा गतिरवबोधनशक्तिर्यस्य शब्दस्य तदीयो व्यापारो लक्षणा । न च प्रयोजनमवगमयतः शब्दस्य बाधकयोगः । तथाभावे तत्रापि निमित्तान्तरस्य प्रयोजनान्तरस्य चान्वेषणेनानवस्थानात् । तेनायं लक्षणलक्षणाया न विषय इति भावः । दर्शनमिति ण्यन्तो निर्देशः । कर्तव्य इति । अवगमयितव्य इत्यर्थः । अमुख्यतेति ।
‘‘‘बालप्रिया

ऽतेत्रऽत्यस्य व्याख्यानं---प्रयोजन इति । तावदिति सम्प्रतिपत्तौ । द्वितीय इति । अमुख्यार्थविषयव्यापारादन्य इत्यर्थः । व्यापार इति । अवश्यमभ्युपेय इति शेषः । तर्हि तद्विषयोऽपि लक्षणाव्यापारोऽभ्युपेयतामित्यत्राह---न चेति । असाविति । द्वितीयो व्यापार इत्यर्थः । ऽनच लक्षणैवेऽत्यत्र हेतुत्वेन कारिकान्त्यपादं पात यति---यत इति । तथा चऽनैव स्खलद्गतिऽरित्यनेन लक्षणाया अभावः प्रतिपाद्यत इति भावः । बाधकेति । बाधकप्रमाणव्यापारेणेत्यर्थः । विधुरीक्रियमाणा कुण्ठीक्रियमाणा । अवबोधनेति । स्वार्थबोधनेत्यर्थः । तदीय इति । तथाविधशब्दसम्बन्धीत्यर्थः । भवत्वेवं ततः किमत आह--न चेति । अवगमयत इति । अवगमनकाल इति भावः । शब्दस्येति । तटाद्यर्थवृत्तेर्गङ्गादिशब्दस्येत्यर्थः । बाधकयोग इति । घोषादिपदान्तरार्थान्वयायोग्यार्थकत्वरूपबाधितार्थकत्वमित्यर्थः । अभ्युपगम्याप्याह---तथेति । तथा भावे बाधकयोगे सति । तत्रापीति । प्रयोजने बोध्येऽपीत्यर्थः । निमित्तेति । सम्बन्धरूपनिमित्तेत्यर्थः । अन्वेषणेनानवस्थानादिति । ऽन च बाधकयोगऽइत्यनेनास्य सम्बन्धः । लक्षितेन तीरादिना लक्षणया प्रयोजनरूपार्थः प्रत्याय्यत इति केचित्; तन्मतन्निराकरोति-तेनेत्यादि । तेन बाधकयोगाभावेन । अयमिति । प्रयोजनरूपार्थ इत्यर्थः । न विषय इति । किन्त्वन्य एव तद्विषय इति भावः ।
यथा---
"आ हन्त किमिदं तन्वि नेत्रयोः श्रावणस्तव ।
शरत्कपोले ग्रीष्मोऽङ्गे शिशिरो मुखपङ्कजे" ।। इति ।
     अत्र श्रावणादिपदेन वर्षर्त्वादिकं लक्ष्यते, तेनाश्रुपातादिकञ्ज । अतो लक्षितलक्षणाप्रयोजनमत्रोत्कण्ठातिशयः । तत्र श्रवमादिपदेनाश्रुपातादिरेव लक्ष्यत इत्यतो लक्षितलक्षणाया अभावादयन्न तद्विषय इत्यर्थ इति केचित् । ऽदर्शनं प्रत्यायनेऽति यद्व्याख्यातन्तदुपपादयति--दर्शनमिति । अवगमयितव्य इत्यर्थ इति । ऽचारुत्वातिशयविशिष्टार्थलक्षणे प्रयोजनेऽ


शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् । न चैवम्;


लोचनम्

बाधकेन विधुरीकृततेत्यर्थः । तस्येति शब्दस्य । दुष्टतैवेति । प्रयोजनावगमस्य सुखसम्पत्त्ये हि स शब्दः प्रयुज्यते तस्मिन्नमुख्यार्थे । यदि चऽसिंहो वटुःऽ इति शौर्यातिशयेऽप्यवगमयितव्ये स्खलद्गतित्वं शब्दस्य तर्हि तत्परतीतिं नैव कुर्यादिति किमर्थं तस्य प्रयोगः । उपचारेम करिष्यतीति चेत्तत्रापि प्रयोजनान्तरमन्वेष्यं तत्राप्युपचार इत्यनवस्था । अथ न तत्र स्खलद्गतित्वं, तर्हि प्रयोजनेऽवगमयितव्ये न लक्षणाख्यो व्यापारः तत्सामग्र्यभावात् । न च नास्ति व्यापारः । न चासावभिधा, समयस्य तत्राभावात् । यद्व्यापारान्तरमभिधालक्षणातिरिक्तं स ध्वननव्यापारः । न

बालप्रिया

इति पाठमभिप्रेत्यैवं व्याख्यातं । ऽचारुत्वातिशयविशिष्टार्थप्रकाशनलक्षणऽ इति पाठे तु कर्तव्य इत्यस्योत्पादयितव्ये इत्येवार्थः । प्रयोजने बोध्ये स्खलद्गतित्वस्य निषेधान्नामुख्यतापदेन तदेव विवक्षितमित्याह---बाधकेनेत्यादि । ननूक्तरूपामुख्यत्वाभ्युपगमः कथं दुष्टत्वापादकः । दुष्टत्वं हि व्याकरणसंस्कारराहित्यादिरूपमिति शङ्कायां प्रतिपिपादयिषितार्थप्रतीत्यजनकत्वेन वैयर्थ्यम्; तदत्र वविक्षितमित्याह---प्रयोजनेत्यादि । प्रयोजनावगमस्य शौर्यातिशयादेर्बोधस्य । सुखसम्पत्तये सुखेन जननाय । स शब्दः सिंहादिर्ल्लक्षकशब्दः । तस्मिन्नमुख्यार्थ इति । वट्वाद्यर्थ इत्यर्थः । किमतस्तत्राह--यदि चेति । शौर्येति । यथा वटौ तता शौर्यातिशयेऽपीत्यर्थः । तत्प्रतीतिं शौर्यातिशयप्रतीतिं किमर्थमिति । तत्प्रयोगस्य वैयर्थ्यापात इत्यर्थः । अथ प्रयोजने ध्वननव्यापारं व्यवस्थापयिष्यनुक्तमेवार्थं शङ्कापरिहाराभ्या प्रदर्शयन्नाह---उपचारेणेत्यादि । ऽकरिष्यतीऽत्यत्रऽतत्प्रतीतिं तस्य प्रयोगऽ इति चानुषज्यते । तत्रापीति । शौर्यातिशयेऽपि लक्ष्ये सतीत्यर्थः । प्रयोजनान्तरमन्विष्यमिति । लक्षणायाः प्रयोजननियतत्वेनान्यत्प्रयोजनं किञ्चिदेषितव्यमित्यर्थः । तत्रापीति । तस्मिन्प्रयोजनेऽपि उपचारे पूर्ववदङ्गीकार्ये तत्राप्यन्यदेवं तत्राप्यन्यदित्यनवस्था मूलक्षयकारिणी स्यादित्यर्थः । अतः स्खलद्गतित्वाभ्युपगमो न युक्त इति भावः । ननु मा भूत्स्खलिदगतित्वं, तथापि लक्षणाया अभावः कुत इत्यत आह---अथेत्यादि । व्यञ्जनां परिशेषयितुमाह---न चेत्यादि । समयस्येति । सङ्केतस्येत्यर्थः । वक्ष्यमाणं वाचकत्वाश्रयेण गुणवृत्तेरवस्थानमुपपादयिष्यन्नभिधाशेषत्वं लक्षणायास्तावदुपपादयति---तेनेत्यादि । तेन यतः स्खलद्गतेश्शब्दस्य व्यापारो लक्षणा, ततो हेतोः । अभिधापुच्छभूतैवऽलक्षणेऽत्यनेना य सम्बन्धः ।


तस्मात्---
वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता ।
व्यवञ्जकत्वैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् ।। १८ ।।
तस्मादन्यो ध्वनिरन्या च गुणवृत्तिः । अव्याप्तिरप्यस्य लक्षणस्य ।


लोचनम्

चैवमिति । न च प्रयोगे दुष्टता काचित्प्रयोजनस्याबिध्नेनैव प्रतीतेः । तेनाभिधैव मुख्येऽर्थे बाधकेन प्रविवित्सुर्निरुध्यमाना सती अचरितार्थत्वादन्यत्र प्रसरति । अत एव अमुख्योऽस्यायमर्थ इति व्यवहारः । तथैव चामुख्यतया सङ्गेतग्रहणमपि तत्रास्तीत्यभिधापुच्छभूतैवलक्षणा ।। १७ ।।
     उपसंहरति---तस्मादिति । यतोऽभिधापुच्छभूतैव लक्षणा, ततो हेतोर्वाचकत्वमभिधाव्यापारमाश्रिता तद्बाधनेनोत्थानात्तत्पुच्छभूतत्वाच्छ गुणवृत्तिः गौणलाक्षणिककार इत्यर्थः । सा कथं ध्वनेर्व्यञ्जनात्मनो लक्षणं स्यात्? भिन्नविषयत्वादिति । एतपसंहरति---तस्मादिति । यतोऽतिव्याप्तिरुक्ता तत्प्रसङ्गेन च भिन्नविषयत्वं तस्मानारित्यर्थः । एवम्ऽअतिव्याप्तेरताव्याप्तेर्न चासौ लक्ष्यते तयाऽ इति कारिकागतातिव्याप्तिं व्याख्यायाव्याप्तिं व्याचष्टे---अव्याप्तिरप्यस्येति । अस्य गुणवृत्तिरूपस्येत्यर्थः ।

बालप्रिया

कथमित्यत्र अभिधैवेत्यादि । ऽअभिधैवान्यत्र प्रसरतीऽत्यन्वयः । अभिधा गङ्गादिपदनिष्टमभिधायकत्वन्तद्विशिष्टं गङ्गादिपदं वा । अन्यत्र मुख्यार्थप्रवाहादेरन्यस्मिंस्तीरादौ । अन्यत्र प्रसरणे हेतुः---अचरितार्थत्वादिति । पर्यवसितविशिष्टार्थप्रतीतिरूपस्वकार्यानुपधायकत्वादित्यर्थः । अत्रापि हेतुमाह---मुख्येऽर्थ इत्यादि । ऽमुख्ये अर्थे प्रविवित्सुः बाधकेन निरुध्यमानेऽति सम्बन्धः । बाधकेनेत्यनन्तरं विधुरीकृतेति च क्वचित्ग्रन्थे पाठः । अत एव उक्तादेव हेतोः । अमुख्योऽस्येति । यथा प्रवाहादिकमुद्दिश्य गङ्गादिशब्दस्यायं मुख्यार्थ इति व्यवहारः, तथा तीरादिकमुद्दिश्यायममुख्यार्थ इति च व्यवहारोऽस्तीत्यर्थः । तथा च द्वयोरर्थत्वं तुल्यं मुख्यत्वामुख्यत्वकृत एव भेद इति भावः । सङ्केतग्रहणमपि समानमित्याह---तथैवेत्यादि । यथा मुख्येऽर्थे सङ्केतग्रहणन्तथैव । सङ्केतेति । न हे शब्दस्य यः कश्चिदेवांमुख्योऽर्थः किन्त्वयमर्थोऽस्य शब्दस्यामुख्य इति नियत एवेत्यतस्तथाविधोपदेशरूपस्य । अयमर्थोऽस्माच्छब्दाद्बोद्धव्य इति इच्छारूपस्य वा सङ्केतस्य ग्रहममपीत्यर्थः । विस्तृतमिदं काव्यप्रकाशसङ्केते ।। १७ ।।
     उपसंहरति---तस्मादितीति । तस्मादित्युपसंहरतीति च पाठः । तस्मादित्यसिय कीरुकयी सम्बन्धं दर्सयंस्तत्पदं व्याचष्टे---यत इत्यादि । वाचकत्वाश्रितत्वं तन्निबन्धनत्वादिरूपं इति दर्शयति--तदित्यादि । गुणवृत्तिरित्यस्य व्यख्यानम्--गौणेत्यादि ।


न हि ध्वनिप्रभेदो विवक्षितान्यपरवाच्यलक्षणः । अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्ते; तस्माद्भक्तिरलक्षणं ।


लोचनम्

यत्र यत्र ध्वनिस्तत्र तत्र यदि भक्तिर्भवेन्न स्यादव्याप्तिः । न चैवम्; अविवक्षितवाच्येऽस्ति भक्तिःऽसुवर्मपुष्पां इत्यादौ । ऽशिखरिणिऽ इत्यादौ तु सा कथं । ननु लक्षणा तावद्गौणमपि व्याप्नोति । केवलं शब्दस्तमर्थं लक्षयित्वा तेनैव सह सामानाधिकरण्यं भजते-ऽसिंहो बटुःऽ इति । अर्थो वार्थान्तरं लक्षयित्वा स्ववाचकेन तद्वाचकं समानाधिकरणं करोति । शब्दार्थौ वा युगपत्तं लक्षयित्वा अन्याभ्यामेव शब्दार्थाभ्यां मिश्रीभवत इत्येवं लाक्षणिकाद्गौणस्य भेदः । यदाह-ऽगौणे शब्दप्रयोगः, न लक्षणायामऽ इति, तत्रापि लक्षणास्त्येवेति सर्वत्र सैव व्यापिका ।

बालप्रिया

वृत्तौऽन हि व्याप्यन्तऽ इत्यन्वयः । तत्तात्पर्यं विवृणोति---यत्रेत्यादि । ऽशिखरिणीऽत्यादाविति । विवक्षितान्यपरवाच्य इति शेषः । सा कथमिति । भक्तिर्न्नास्तीत्यर्थः । तथा चाव्याप्तिरिति भावः । अथ गौणस्थलेऽपि लक्षणायाः प्रसरद्विवक्षितान्यपरवाच्योदाहरणत्वेन प्रदर्शितेऽशिखरिणीऽत्यादौ सा प्रवर्तत एवेति तत्र तदभावाभिधानमसङ्गतमिति पूर्वपक्षमभ्युपेत्य तदनुरोधेनापि विवक्षितान्यपरवाच्येत्यादिग्रन्थं व्याख्यास्यन्शिष्यव्युत्पादनार्थं तत्पूर्वपक्षमुपक्षिपति--नन्वित्यादि । गौणमपिऽसिंहो वटुऽरित्यादिस्थलमपि । व्याप्नोतीति । लक्षणासामग्रीसत्वादिति भावः । नन्वेवं गौणस्य लाक्षणिकाद्भेदः कुत इत्यत आह--ऽकेवलम्ऽ इत्यादिनाऽभेदऽ इत्यन्तेन । शब्दः सिंहादिशब्दः । तमर्थे वट्वाद्यर्थं । तेनैव वट्वाद्यर्थवाचकवट्वादिशब्देनैव । सामानाधिकरण्यं भजते समानाधिकरणो भवति । शब्दयोस्सामानाधिकरण्यन्नाम भिन्नभिन्नरूपेंणैकार्थप्रतिपादकत्वं । लाक्षणिकात्गौणस्यायं विशेष इति भावः । एवमुत्तरत्रापि ज्ञेयं । आर्थो वेति । अर्थः सिंहादिपदार्थः । अर्थान्तरं वट्वाद्यात्मकं । स्ववाचकेन सिंहादिपदेन । तद्वाचकं वट्वादिशब्दं । शब्दार्थौ वेति । शब्दार्थौ सिंहादिशब्दस्तदर्थश्च । तं वट्वाद्यर्थं । अन्याभ्यां वट्वादिशब्दतदर्थाभ्यां । ऽताभ्याम्ऽ इति पाठेऽप्ययमेवार्थः । मिश्रीभवत इति । मिश्रीभवनं नाम शब्दयोरेकधर्मिबोधकत्वमर्थयोस्त्वभेदेनान्वयित्वं । उक्तार्थोपषृम्भकमाह--गौण इत्यादि । गौणे गौणस्थले । शब्दप्रयोगः लक्ष्यवाचकपदप्रयोगः । यथा

लोचनम्

सा च पञ्चविधा । तद्यथा--अभिधेयेन संयोगात्; द्विरेफशब्दस्य हि योऽभिधेयो भ्रमरशब्दः द्वौ रेकौ यस्येति कृत्वा तेन भ्रमरशब्देन यस्य संयोगः सम्बन्धः षट्पदलक्षणस्यार्थस्य सोऽर्थो द्विरेफशब्देन लक्ष्यते, अभिधेयसम्बन्धं व्याख्यातरूपं निमित्तीकृत्य । सामीप्यात्ऽगङ्गायां घोषःऽ । समवायादिति सम्बन्धादित्यर्थःऽयष्टीः प्रवेशयऽ इति यथा । वैपरीत्यात्यथा--शत्रुमुद्दिश्य कश्चिद्ब्रवीति--ऽकिमिवोपकृतं न तेन ममऽ इति । क्रियायोगादिति कार्यकारणभावादित्यर्थः । यथा-अन्नापहारिणि व्यवहारः प्राणानयं हरति इति । एवमनया लक्षणया पञ्चविधया विश्वमेव व्याप्तं । तथाहि--ऽशिखरिणिऽ

बालप्रिया

सिंहो वटुरित्यादौ वट्वादिशब्दप्रयोगः । न लक्षणायामिति । लक्षणास्थले लक्ष्यवाचकपप्रयोगो नेत्यर्थः । यताऽगङ्गायां घोषऽ इत्यादौ न तीरादिवाचकपदप्रयोगः । फलितमाह--इति तत्रापीति । इतीत्यस्याहेति पूर्वेणापि सम्बन्धः । तत्रापि गौणस्थलेऽपि । सैव लक्षणैव ।
"अभिधेयेन संयोगात्सामीप्यात्समवायतः ।
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा स्मुता" ।।
इत्.इ वचनं खण्डश उपादाय व्याचष्टे--अभिधेयेनेत्यादि । अत्र संयोगपदेन वाच्यवाचकभावरूपस्सम्बन्धः, समवायपदेन तदितर आधाराधेयभावरूपस्सारूप्यादिश्च विवक्षितः । "अभिधेयेन सामीप्यात्सारूप्यादि"ति चात्र पाठोऽस्ति । स एव भाक्तमाहुरित्यत्र पूर्वं प्रदर्शितः । तेनेति । द्विरेफशब्दाभिधेयभूतेनेत्यर्थः । ऽयस्यार्थस्येऽत्यन्वयः । संयोग इत्यस्य व्याख्यानम्---सम्बन्ध इति । वाच्यवाचकभावात्मकस्सम्बन्ध इत्यर्थः । ऽनिमित्तीकृत्य लक्ष्यतऽ इति सम्बन्धः । सम्बन्धादिति । आधाराधेयभावरूपसम्बन्धादित्यर्थः । किमिवोपकृतमिति । अत्रापकारो लक्ष्यत इति भावः । यथा काव्यप्रकाशे "उपकृतं बहुनामे"त्यादि । प्राणानिति । प्राणशब्देनान्नं लक्ष्यत इति भावः । विश्वमेवेति । अमुख्यव्यवहारभूमिपतितं सर्वमेवेत्यर्थः । तथाहीति । तथाचेत्यर्थः । नन्वित्यादिना लक्षणास्तीत्यन्तेनोक्तं पूर्वपक्षमभ्युपगमेन

लोचनम्

इत्यत्राकस्मिकप्रशनविशेषादिबाधकानुप्रवेशे साद्दश्याल्लक्षमास्त्येव । नन्वत्राङ्गीकृतैव मध्ये लक्षणा, कथं तर्ह्युक्तं विवक्षितान्यपरेति? तद्भेदोऽत्र मुख्योऽसंलक्ष्यक्रमात्मा विवक्षितः । तद्भेदशब्देन च रसभावतदाभासतत्प्रशमभेदास्तदवान्तरभेदाश्च, न च तेषु लक्षणाया उपपत्तिः । तथाहि-विभावानुभावप्रतिपादेके काव्ये मुख्येऽर्थे तावद्बाधकानु प्रवेशोऽप्यसम्भाव्य इति को लक्षणावकाशः?
     ननु किं बाधया, इयदेव लक्षणास्वरूपम्---ऽअभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यतेऽ इति । इह चाभिधेयानां विभावानुभावादीनामविनाभूता रसादय इति लक्ष्यन्ते, विभावानुभावयोः कारणकार्यरूपत्वात्, व्यभिचारिणां च तत्सहकारित्वादिति चेत्---मैवम्; धूमशब्दाद्धूमे प्रतपन्ने ह्यग्रिस्मृतिरपि लक्षणाकृतैव स्यात्, ततोऽग्नेः शीतापनोदस्मृतिरित्यादिरपर्यवसितः शब्दार्थः स्यात् । धूमशब्दस्य स्वार्थविश्रान्तत्वान्न तावति व्यापार इति चेत्, आयातं तर्हि मुख्यार्थबाधो लक्षणाया जीवितमिति, सति तस्मिन्स्वाथविश्रान्त्यभावत् । न च विभावादिप्रतिपादने बाधकं किञ्चिदस्ति ।

बालप्रिया

परिहरिति--नन्वत्राङ्गीकृतेति । ऽशखरिणीऽत्यादौ लक्षणाङ्गीकारः पूर्व प्रदर्शित एवेत्यर्थः । पृच्छति--कथन्तर्हिति । वृत्तौऽविवक्षितान्यपरेऽत्युक्तं कथं सङ्गच्छत इत्यर्थः । लक्षणायां सत्यां वाच्यस्य विवक्षितत्वासम्भवादिति भावः । उत्तरमाह---तद्भेद इति । वृत्तौ विवक्षितान्यपरवाच्यशब्देन तदवान्तरभेदो मुख्योऽसंलक्ष्यक्रमो विवक्षित इत्यर्थः । तद्भेदशब्देनेति । वृत्तौऽतद्भेदप्रकाराऽ इत्यत्र तद्भेदशब्देनेत्यर्थः । तदवान्तरभेदाश्चेति । शृङ्गारहास्यादयश्चेत्यर्थः । अत्रापि लक्षणा किन्न स्यादत आह--न चेति । अनुपपत्तिं विवृणोति---तथाहीति । बाधकानुप्रवेशोऽपीत्यपिशब्दः प्रयोजनस्य समुच्चायकः ।
     शङ्कते---नन्विति । किं बाधयेति । अस्ति वा नास्ति वेति चिन्तितया मुख्यार्थबाधया किं फलमित्यर्थः । इयदेवेति । वक्ष्यमाणमेवेत्यर्थः । अभीति । अभिधेयेनाविनाभूतस्य केनापि सम्बन्धेन सम्बद्धस्य प्रतीतिर्ज्ञानं तद्धेतुर्वा । इतीति । इति भट्टवार्तिकोक्तमित्यर्थः । पुकृते सङ्गमयति---इहेत्यादि । इह असंलक्ष्यक्रमव्यङ्ग्ये ध्वनौ । ऽरसादयः अविनाभूता इति हेतोर्लक्ष्यन्तऽ इति सम्बन्धः । अविनाभावमुपपादयति--विभावेत्यादि । कारणेत्यादि । रसं प्रतीति शेषः । समाधत्ते--मैवमिति । मुख्यार्थबाधैव लक्षणाबीजमिति दर्शयिष्यन्नादावतिप्रसङ्गमाह---धूमशब्दादित्यादि । अग्नीत्यादि । अग्नेर्धूमाविनाभूतत्वादिति भावः । शब्दार्थ इति धूमशब्दार्थ इत्यर्थः । उक्तातिप्रसङ्गं पुर्वपक्षी परिहरति--धूमशब्दस्येत्यादि । स्वार्थेति । स्वार्थे धूमत्वे तद्विशिष्टे वा । वाश्रान्तत्वात्पर्यवसितबोधनव्यापारत्वात् । तावति अगन्याद्यर्थे । तर्हि जितमिति सिद्धान्त्यह---आयातमित्यादि । जीवितमिति ।

लोचनम्

नन्वेवं धूमावगमनानन्तराग्निस्मरमवद्विभावादिप्रतिपत्यनन्तरं रत्यादिचित्तवृत्तिप्रतिपत्तरित्शब्दव्यापार एवात्र नास्ति । इदं तावदयं प्रतीतिस्वरूपज्ञो मीमांसकः प्रष्टव्यः--किमत्र परचित्तवृत्तिमात्रे प्रतिपत्तिरेव रसप्रतिपत्तिरभिमता भवतः? न चैवं भ्रमितव्यम्; एवं हि लोकगतचित्तवृत्त्यनुमानमात्रमिति का रसता? यस्त्वलौकिकचमत्कारात्मा रसास्वादः काव्यगतविभावादिचर्वणाप्राणो नासौ स्मरणानुमानादिसाम्येन खिलीकारपात्रीकर्तव्यः । किं तु लौकिकेन कार्यकारणानुमानादिना संस्कृतहृदयो विभावादिकं प्रतिपद्यमान एव न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसंवादापरपर्यायसहृदयत्वपरवशोकृततया

बालप्रिया

बीजमित्यर्थः । ऽबीजं जीवितमिऽ च पाठः । कुत इत्यत्राह---सतीत्यादि । तस्मिन्निति । मुख्यार्थबाध इत्यर्थः । समानेऽपि स्वार्थाभिधानसामर्थ्ये धूमशब्दस्स्वार्थे विश्राम्यति । ऽगङ्गायां धोषऽ इत्यत्र गङ्गाशब्दो नेत्यत्र मुख्यार्थबाध एव हेतुरतस्य एव लक्षणाबीजमित्यर्थः । तर्हिहापि मुख्यार्थबाधो लक्षणा च स्यत्नेत्याह - न चेति ।
     प्रसङ्गादिनिष्टमाशभङ्कते---नन्वेवमित्यादि । विभावादिप्रतीत्यनन्तरभाविनी रत्यादिप्रतीतिर्धूमादिप्रतीतिजन्याग्न्यादिस्मृतिसमानैवेति सा शब्दव्यापारजन्या न भवति दूरे तस्या व्यञ्जनाजन्यत्वमित्यर्थः । विमता रत्यादिप्तीतिर्न शाब्दी, शब्दजन्यार्थप्रतीतिजन्यत्वात्धूमशब्दजनितार्थप्रतीतिजन्यागन्यादिस्मृतिवदिति प्रयोगः । किमत्र परकीयरत्यादिचित्तवृत्तिप्रतीतेःशब्दव्यापाराजन्यत्वं सिषाधयिषितं? किंवा रसप्रतीतेः? आद्ये सिद्धसाधनम्; द्वितीये रसप्रतीतेरितरप्रतीतिवैलक्ष्ण्येन दृष्टान्ताभावो दोष इत्याशयेन सोपहासं पृच्छन्नाह-इदमित्यादि । प्रश्नं विवृणोति-किमित्यादि । अत्रेति । काव्य इत्यर्थः । न चेति । एवं भ्रमो न कर्तव्य इत्यर्थः । कुत इत्यत्राह--एवं हीत्यादि । एवं लौकिकचित्ततवृत्तिप्रतीतेरेव रसत्वाङ्गीकारे सति । मात्रमित्यनन्तरं रसप्रतीतिरिति शेषः । का रसतेति । रसनीयतानिमित्तको हि रसशब्दव्यवहारः । न चानुमितिरूपायाः प्रतीतेः रसनीयत्वमस्ति वह्न्याद्यनुमितिष्वनुपलम्भादित्यर्थः । का तर्हि रसप्रतीतिरित्यत आह---यस्त्वित्यादि । अलौकिकेत्यनेन लौकिकसुखास्वादो व्यावर्त्यते । अलौकिकत्वे हेतुं दर्शयंस्तस्य कारणमाह---काव्येति । नासाविति । असौरसास्वादः । स्मरणानुमानसाम्येनेत्यस्य खिलीकारेऽन्वयः । लौकिकेनेति लोके भवतेत्यर्थः । कार्येति । कार्यं वह्न्यादेर्धूमादि, रत्यादिचित्तवृत्तेः कटाक्षादि । कारणं वह्न्यादि, रत्यादि चकार्येण यत्कारणस्यानुमानं, आदिपदेनार्थापत्तेस्सङ्ग्रहः । तेने संस्कृतहृदय इत्यनेन तत्संस्कारोऽपि प्रतिपत्तुः रसप्रतीतावुपयोगीति दर्शितं । विभावादिकमिति । प्रमदादिकमित्यर्थः । प्रतिपद्यमान एवेति । काव्यान्नाट्याद्वेति शेषः । ताटस्थ्येनेति । अन्यदीयत्वेनेत्यर्थः । न प्रतिपद्यत इत्यत्रापि विभावादिकमित्यस्य सम्बन्धः । कथन्तर्हि तत्प्रीतिरित्यत आह--अपि त्वित्यादि । हृदयेति ।

लोचनम्

पूर्णीभविष्यद्रसास्वादाङ्कुरीभावेनानुमानस्मरणादिसरणिमनारुह्यैव तन्मयीभवनोचितचर्वणाप्राणतया । न चासौ चर्वणा प्रमाणान्तरतो जाता पूर्वं, येनेदानीं स्मृतिः स्यात् । न चाधुना कुतश्चित्प्रमाणान्तरादुत्पन्ना, अलौकिके प्रत्यक्षाद्यव्यापारात् । अत एवालौकिक एव विभावादिव्यवहारः । यदाह--ऽविभावो विज्ञानार्थः लोके कारणमेवाभिधीयते न विभावः । अनुभावोऽप्यलौकिक एव । ऽयदयमनुभावयति वागङ्गसत्त्वकृतोऽभिनयस्तस्मादनुभावऽ इति । तच्चित्तवृत्तितन्मयीभवनमेव ह्यनुभवनं । लोको तु कार्यमेवोच्यते नानुभावः । अत एव परकीया न चित्तवृत्तिर्गम्यत इत्यभिप्रायेणऽविभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिःऽ इति सूत्रे स्थायिग्रहणं न कृतं । तत्प्रत्युत शल्यभूतं स्यात् । स्थायिनस्तु रसीभाव औचित्यादुच्यते, तद्वि

बालप्रिया

हृदयस्य संवादः सम्मतिः, तदपरपर्यायं यत्सहृदयत्वं तत्परवशीकृततया तद्बलादित्यर्थः । पूर्णीति । पूर्णीभविष्यन्यो रसास्वादस्तस्य कल्पतरोश्चतुर्वर्गोपायव्युत्पत्तिफलिष्यतोऽङ्कुरीभावेन हेतुनेत्यर्थः । अनुमानेति । अनुमितिस्मृत्याद्युपायं व्याप्तिज्ञानादिकमनालम्ब्यैवेत्यर्थः । तन्मयीति । सहृदयानां यत्तत्तच्चित्तवृत्तितन्मयीभवनं तस्योचिता या चर्वणा अर्थाद्विभावादेः तत्प्राणतया तदुपयोगित्वेनेत्यर्थः । साधारण्येनेति यावत् । विभावादिकं प्रतिपद्यत इत्यनुषङ्गः । विभावादीनां साधारण्येन प्रतीतावेव रसचर्वणेत्यन्यत्र स्पष्टं । स्मृत्यादिरूपत्वन्निराकरोति--न चेत्यादि । अत एवेति । रसप्रतीतेरलौकिकत्वादेव तत्कारणेष्वलौकिको विभावादिव्यवहार इत्यर्थः । यदाहेति । मुनिरिति शेषः । विभावो विज्ञानार्थ इति । विशिष्टतया भाव्यन्ते ज्ञायन्ते स्थायिव्यभिचारिणोऽनेनेति विभावः प्रमदोद्यानादिः । न खल्वनुभावादेव चित्तवृत्तेर्विशिष्य ज्ञानं जायते, बाष्पादेरनुभावस्यानेकहेतुजन्यत्वसम्भवादित्यर्थः । लोक इत्यादि । चित्तवृत्तिहेतुषु लोके कारममित्येव व्यवहारो न तु विभाव इतीत्यर्थः । यदयमिति । अयमभिनय इत्यन्वयः । अनुभावयतीति । स्थायिव्यभिचारिण इति शेषः । अनुभाव इतीत्यनन्ततरमुच्यत इति शेषः । सामाजिकसहृदयगततत्तच्चित्तवृत्तेर्विभावनादिना विभावादिव्यपदेश इति च रसगह्गाधरादावुक्तं । अत्रानुभवनं लौकिकानु भवनाद्विलक्षणमित्यह---तच्चित्तवृत्तीति । न परकीयचित्तवृत्यवगममात्रमिहानुभवनं, किन्तु तासां चित्तवृत्तीनां स्थाय्यादिरूपाणां सम्बन्धि यत्सामाजिकानां तन्मयीभवनं, तत्तच्चित्तवृत्तिभावनया तत्सजातीयस्वीयचित्तवृत्तेरुद्बोधनेनानुभवनं तदेवेत्यर्थः । उक्तार्थे प्रमाणमाह---अत एवेत्यादि । अत एव यस्मादनुभवनमुक्तरूपमेव न परकीयचित्तवृत्यनुमितिमात्रं तस्माद्धेतोरेवेत्यर्थः । न परकीयेत्यादि । किन्तु स्वीया चित्तवृत्तिरेव सामाजिकैस्तदानुभूयत इत्यर्थः । न कृतमिति । कस्येत्याकाङ्क्षाशान्तये सूत्रे स्थायिन

लोचनम्

भावानुभावोचितचित्तवृत्तिसंस्कारसुन्दरचर्वणोदयात् । हृदयसंवादोपयोगिलोकचित्तवृत्तिपरज्ञानावस्थायामुद्यानपुलकादिभिः स्तायिभूतरत्याद्यवगमाच्च । व्यभिचारी तु चित्तवृत्त्यात्मत्वेऽपि मुख्यचित्तवृत्तिपरवश एव चर्व्यत इति विभावानुभावमध्ये गणितः । अत एव रस्यमानताया एषैव निष्पत्तिः, यत्प्रबन्धप्रवृत्तबन्धुसमागमादिकारणोदितहर्षादिलौकिकचित्तवृत्तिन्यग्भावेन चर्वणारूपत्वं । अतश्चर्वणात्राभिवियञ्जनमेव, न तु ज्ञापनम्, प्रमाणव्यापारवत् । नाप्युत्पादनम्, हेतुव्यापारवत् ।

बालप्रिया

इति षष्ठ्यन्तस्थायिग्रहमे कर्तव्येऽप्यनुभावग्रहणेनैव स्थायिप्रतीतिर्भवतीति तन्न कृतमित्यर्थः । यद्यत्र स्थायिग्रहणं क्रियेत, तर्हि तद्विरूद्धञ्ज स्यादित्याह---तदित्यादि । तत्स्थायिग्रहणकरणं । शल्येति । परकीयचित्तवृत्यवगमो रस इत्यर्थप्रतीतिकारित्वेनानिष्टजनकञ्ज भवेदित्यर्थः । नन्वेवंऽस्थायी रसो भवतीऽत्यादि तत्र तत्र सूत्रकारादिवचनं कथं घटेतेत्यत आह--स्थायिनस्त्विति । तत्तन्नायकादिगतस्थायिनस्त्वित्यर्थः । औचित्यमेव स्पष्टयति---तदिति । तस्य परगतस्थायिनः सम्बन्धिनो ये विभावानुभावाः तदुचितायाश्चित्तवृत्तेस्सहृदयात्मनि यस्संस्कारस्तस्योद्बोधेन सुन्दरचर्वणाया उदयादित्यर्थः । उक्तञ्च काव्यानुशासनव्याख्यानेऽऔचित्यन्तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वालम्बनादिऽति । त्थायिनो रसत्वव्यपदेशे निमित्तान्तरञ्चास्तीत्याह---हृदयेति । रसचर्वणा हि हृदयसंवादपुरस्सरी हृदयसंवादे च निदानं, लोकचित्तवृत्तिपरिज्ञानं तद्विरहितस्य हृदयसंवादानुदयात् । तस्याञ्चावस्थायां प्रमदादिभिः कारणैः पुलकादिभिः कार्यैश्च भूयो भूयोऽवधृतस्वकारणव्याप्तिकैः स्थायिनो रत्यादेरवगमो भवति, तस्माच्चेत्यर्थः । ननु चित्तवृत्तित्वाविशेषात्स्यायीव व्यभिचार्यपि सूत्रे ग्रहणं नार्हतीत्यत आह---व्यभिचारीत्विति । व्यभिचारिणः स्थायिचित्तवृत्तिं प्रति गुणत्वेन विभावादिप्रायत्वात्तन्मध्ये स निर्दिष्ट इत्यर्थः । प्रसङ्गात्सूत्रोक्तां रसनिष्पत्तिं विवृणोति---अत एवेत्यादि । रस्यमानताया एषैव निष्पत्तिरिति । एषा सूत्रोक्ता निष्पत्तिः । रस्यमानताया निष्पत्तिरेवेत्यर्थः । यथोक्तमभिनवभारत्यां "कथन्तर्हि सूत्रे निष्पत्तिरिति नेयं रसस्यापि तु तद्विषयरसानायाः तन्निष्पत्त्या यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते, तदा न किञ्चिदत्र दोष" इति । का नामैषा रस्यमानतेत्यतस्तत्स्वरूपमाह--यदित्यादि । प्रबन्धेति । प्रबन्धेन प्रवृत्तं यद्बन्धुसमागमादिकारणं तेनोदिता या हर्षादिलौकिकचित्तवृत्तिः तस्या न्यग्भावेन अधःकरणेन तद्व्यतिरेकेणेति यावत् । चर्वणायास्स्वरूपमाह---अतश्चेत्यादि । अतः लौकिकचित्तवृत्तिवैलक्षण्येनालौकिकत्वात् । अत्र चर्वणा रसविषयचर्वणा । एवकारव्यावर्त्यं दर्शयति---न त्वित्यादि । यथा प्रमाणानामिन्द्रियादीनां ज्ञापनं व्यापारः, यथा वा दण्डवक्रादीनामुत्पादनं व्यापारस्तथा

लोचनम्

     ननु यदि नेयं ज्ञप्तिर्न वा निष्पत्तिः, तर्हि किमेतत्? न त्वयमसावलौकिको रसः ।
ननु विभावादिरत्र किं ज्ञापको हेतुः, उत कारकः? न ज्ञापको न कारकः; अपि तु चर्वणोपयोगी । ननु क्वैतद्द्दष्टमन्यत्र । यत एव न दृष्टं तत एवालौकिकमित्युक्तं । नन्वेवं रसोऽप्रमाणं स्यात्; अस्तु, किं ततः? तच्चर्वणात एव प्रीतिव्युत्पत्तिसिद्धेः किमन्यदर्शनीयं । नन्वप्रमाणकमेतत्; न, स्वसंवेदनसिद्धत्वात् । ज्ञानविशेषस्यैव चर्वणात्मत्वातित्यलं बहुना । अतश्च रसोऽयमलौकिकः । येन ललितपरुषानुप्रासस्यार्थाभिधानानुपयोगिनोऽपि रसं प्रति व्यञ्जकत्वम्; का तत्र लक्षणायाः शङ्कापि? काव्यात्मकशब्दनिष्पीडनेनैव तच्चर्वणा दृश्यते । हि तदेव काव्यं पुनः पुनः

बालप्रिया

विभावादीनां न ज्ञापनं न वा उत्पादनं व्यापार इत्यर्थः ।
     शङ्कते---नन्वित्यादि । पूर्वोक्तेन इयं रसचर्वणा न ज्ञप्तिरूपा, नापि निष्पत्तिरूपेत्यायातं, तर्हि किंस्वरूपेत्यर्थः । एतदिति । रसचर्वणारूपमित्यर्थः । उत्तरमाह---नन्वयमित्यादि । ज्ञप्त्युत्पत्त्ययोग्यत्वमलौकिकत्वाद्रसस्य भूषणं भवतीति भावः । ननु ज्ञापकत्वस्य कारकत्वस्य वा अभावे विभावादीनां रसप्रतीत्यर्थमुपादानं व्यर्थं, तद्भावे च रसस्य नालौकिकत्वमिति चोदयति---नन्वित्यादि । हेतोः कारकत्वज्ञापकत्वान्यतरनियमो हि लौकिकः, विभावादेस्तु तदभावेऽपि चर्वणोपयोगित्वान्नानर्थकयमित्याशयेन परिहरति---न ज्ञापक इत्यादि । तदुपरि शङ्कते--नन्विति । समाधत्ते---यत इति । पुनरपि शङ्कते---नन्विति । एवमिति । रसस्यालौकिकत्वे सतीत्यर्थः । रसोऽप्रमाणं स्यादिति । अप्रमाणत्वे च शुभाशुभप्राप्तिपरिहारोपायव्युत्पादकत्वन्नभवेदिति भावः । अप्रमाणत्वापातेऽपि कार्यकारित्वमस्तीत्याह--अस्त्विति । प्रीतिव्युत्पत्तीति । प्रीतिश्च व्युत्पत्तिश्च तयोः, यद्वा--प्रीतिपूर्विका व्युत्पत्तिः तस्याः सिद्धेरित्यर्थः । नन्वेवमलौकिकत्वे रसस्य तत्साधकं प्रमाणं नास्तीति शङ्कते---नन्विति । समाधत्ते---नेति । ननु रसस्य विशिष्टचर्वणारूपत्वाभ्युपगमात्कथं स्वसंवेदनसिद्धिरपीत्याशङ्कायामाह---ज्ञानविशेषस्येति । यथोक्तमभिनवभारत्यां---"रसनाच बोधरूपैव, किन्तु बोधान्तरेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यादि"ति । पुनरपि रसस्यालौकिकत्वं साधयति---अतश्चेत्यादि । वाचकशब्दैकगम्यत्वे हि रसस्य वाच्यार्थवल्लौकिकत्वं कथञ्चिच्छक्यशङ्कमनुप्रासादिनापि वाचकत्वशून्येन व्यङ्ग्यत्वमस्त्येव । न चानुप्रासव्यङ्ग्यं वस्तु लोके दृष्टचरमतोऽपि रसस्यालौकिकत्वं सिद्धमित्यर्थः । एवं रसस्यालौकिकत्वं प्रसाद्ध्य प्रस्तुतमनुसन्दधान आह---केत्यादि । तत्रेति । अनुप्रासेनापि व्यङ्ग्ये रस इत्यर्थः । का लक्षणेति । अभिधाया एवाभावे तत्पृष्ठवर्तिन्या लक्षणायाः प्रसङ्ग एव नास्तीत्यर्थः । शब्दस्वरूपस्यैवाभिधाव्यापारानपेक्षस्य रसव्यञ्जकत्वेऽनुभवं प्रमाणयति---काव्यात्मकेत्यादि । काव्यात्मकोऽनुप्रसादिविशिष्टो यः

लोचनम्

पठंश्चर्व्यमाणश्च सहृदयो लोकः, न तु काव्यस्य; तत्रऽउपादायापि ये हेयाऽ इति न्यायेन कृतप्रतीतिकस्यानुपयोग एवेति शब्दस्यापीह ध्वननव्यापारः । अत एवालक्ष्यक्रमता । यत्तु वाक्यभेदः स्यादिति केनचदुक्तम्, तदनभिज्ञतया । शास्त्रं हि सकृदुच्चारितं समयबलेनार्थं प्रतिपादयद्युगपद्विरुद्धानेकसमयस्मृत्ययोगात्कथमर्थद्वयं प्रत्याययेत् । अविरुद्धत्वे वा तावनेको वाक्यार्थःस्यात् । क्रमेणापि विरम्यव्यापारायोगः । पुनरुच्चारितेऽपि वाक्ये स एव, समयप्रकरणादेस्तादवस्थ्यात् । प्रकरणसमयप्राप्यार्थतिरस्कारेणार्थान्तरप्रत्यायकत्वे

बालप्रिया

शब्दः तस्य निष्पीडनेन आम्रेडनेन । तच्चर्वमा रसचर्वणा । उक्तं विवृणोति---दृश्यत इति । यदेव काव्यं पठितञ्चर्वितञ्च तदेव पुनः पुनः पट्यते चर्व्यते चेत्यर्थः । न त्विति । कृतप्रतीतिकस्य काव्यस्य काव्यशब्दस्य, तत्र रसचर्वणायां । अनुपयोग एव न त्वित । उपयोगः अस्त्येवेत्यर्थः । कृतप्रतीतिकस्य अनुपयोगित्वे युक्तिप्रदर्शक उपेत्यादिन्यायः ।

"उपादायापि ये हेयास्तानुपायान्प्रचक्षते ।
उपायानां हि नियमो नावश्यमवतिष्टते ।।

     इति न्यायेनेत्यर्थः । सोऽयं न्यायोऽत्र न प्रवर्तत इति भावः । फलितमाह---इतीत्यादि । व्यङ्ग्यस्य यदलक्ष्यक्रमत्वमुक्तं तदप्युक्तार्थे गमकमित्याह--अत एवेति । अत एव शब्दस्वरूपस्यैवार्थाभिधानानपेक्षतया व्यञ्जकत्वादेव । यद्यर्थंप्रतीतिव्यवधानापेक्षयैव शब्दस्य व्यञ्जकत्वं भवेत्तदावश्यं क्रमो लक्ष्येतेति भावः । वाक्यभेदः स्यादिति । काव्यस्य वाच्यव्यङ्ग्यार्थद्वयबोधकत्वादिति भावः । तदनभिज्ञतयेत्युक्तमुपपादयति---शास्त्रमित्यादि । शास्त्रं काव्यव्यतिरिक्तं वाक्यं । समयेति । तत्तदर्थे तत्तत्पदस्य यस्समयः सङ्केतः तद्बलेन तत्तत्सङ्केतग्रहणसहकारेणेत्यर्थः । अर्थं प्रतिपादयदिति हेतुगर्भं । युगपतेकदा । विरुद्धेति । विरुद्धार्थविषयकत्वेन विरुद्धौ । यद्वा---विरुद्धयोरर्थयोः यावनेकसमयौ तयोः स्मृतेरयोगादसम्भवादित्यर्थः । यत्रार्थे प्रकरणादिकं तेनान्यार्थसमयस्मृतेः प्रतिबन्धादिति भावः । अर्थद्वयं विरुद्धार्थं द्वयं । कथं प्रत्याययेत्न बोधयेत् । अविरुद्धत्व इति । साक्षादेकक्रियान्वयित्वेन वा परस्परसम्बन्धित्वे सतीत्यर्थः । अर्थद्वयस्येति विपरिणामेनानुषङ्गः । अस्योदाहरणम्---"श्वेतो धावति, सर्वदो माधवः पाया"दित्यादिकं बोध्यं । तावानिति । यावान्बुध्यते तावानित्यर्थः । वाक्यार्थ एकः स्यात्वाक्यार्थे भेदो नाङ्गीक्रियत इति भावः । क्रमेणेति । शास्त्रं कथमर्थद्वयं प्रत्याययेदित्यनुषङ्गः । अत्र हेत्वन्तरं चाह---विरम्येति । विरम्य यो व्यापारः शब्दस्य तदयोगो यतः, तस्मादित्यर्थः । स एवेति । यो वाक्यार्थो बुद्धः स इत्यर्थः । एवकारः पौनर्वचनिकः । अत्र हेतुमाह----समयप्रकरणादेरिति ।

लोचनम्

नियमाभाव इति तेन "अग्रिहोत्रं जुहुयात्स्वर्गकामः" इति श्रुतौ खादेच्छ्वामांसमित्येष नार्थ इत्यत्र का प्रमेति प्रसज्यते । तत्रापि न काचिदियत्तेत्यनाश्वासता इत्येवं वाक्यभेदो दूषणं । इह तु विभावाद्येव प्रतिपाद्यमानं चर्वणाविषयतोन्मुखमिति समयाद्युपयोगाभावः । न च नियुक्तोऽहमत्र करवाणि, कृतार्थोऽहमिति शास्त्रीयप्रतीतिसद्दशमदः । तत्रोत्तरकर्तव्यौन्मुख्येन लौकिकत्वात् । इह तु विभावादिचर्वणाद्भुतपुष्पवत्तत्कालसारैवोदिता न तु पूर्वापरकालानुबन्धिनीति लौकिकादास्वादाद्योगिविषयाच्चान्य एवायं रसास्वादः । अत एवऽशिखरिणऽ इत्यादावपि

बालप्रिया

समयादिरिति पाठे स एव येन पूर्वमर्थो बुद्धः स इत्यर्थः । समयादिरित्यादिपदेन प्रकरणादेस्सङ्ग्रहः । अत्र हेतुमाह---प्रकरणादेरिति । प्रकरणसमयादेरित्यर्थः । ननु समयाद्यपेक्षा मास्त्वित्यत्राह---प्रकरणोत्यादि । शास्त्रस्येति शेषः । नियमाभाव इतीति । अर्थबोधने नियमाभाव इत्येतत्स्यादित्यर्थः । तेन नियमाभावेन । का प्रमा किं प्रमाणं । इति प्रसज्यत इति । तत्तत्पदसमयप्रकरणाद्यपेक्षां विना वाक्यस्यार्थप्रत्यायकत्वोपगमे अग्निहोत्रमित्यादिवाक्यस्य श्वमांसखादनविधित्वापत्तिरित्यर्थः । तत्रापीति । अर्थान्तरेऽपीत्यर्थः । इयत्ता व्यवस्था । नियततेति च पाठः । इतीति हेतौ । अनाश्वासता अनिश्चितार्थकत्वेनाबोधकता । उपसंहरति-इतत्येवमित्यादि । काव्यव्यतरिक्तं लौकिकं वैदिकं च वाक्यं समयप्रकरणादिसहकृतं युगपत्क्रमेण वा एकमर्थमेव प्रतिपादयतीत्यतोऽनेकार्थबोधकत्वेन वाक्यभेदो नैव भवति । समयप्रकरणाद्यपेक्षां विना वाक्यस्यार्थबोधकत्वाङ्गीकारे चाव्यवस्थितार्थकत्वेनाबोधकत्वरूपाप्रामाण्यं स्यादित्येवं वाक्यभेदो दोष इति सारार्थः । काव्ये विशेषमाह---इह त्वित्यादि । विभावाद्येवेति । एवकारेण रसादिव्यङ्ग्यव्यवच्छेदः । प्रतिपाद्यमानमिति । समयप्रकरणादिसहकृतेन काव्यवाक्येन बोध्यमानमित्यर्थः । चर्वणेति । रसादिचर्वणेत्यर्थः । समयेत्यादि । रसादिकं प्रतीति शेषः । काव्ये विभावाद्यर्थबोधे एव समयप्रकरणादेरुपयोगः, विभावादिबोधानन्तरं च विभावादेरेव नियामकान्नियतरसादिव्यङ्ग्यप्रतीतिः । अतश्च तां प्रति समयादेरनपेक्षणेऽपि नाव्यवस्थितार्थकत्वेन दोष इति भावः । प्रसङ्गादाह---न चेत्यादि । बोधावस्थायामत्र कर्मणि नियुक्तोऽहमिति, अनुष्ठानदशायां करवाणीति, तदुत्तरकाले तु कृतार्थोऽस्मीति च प्रतीतिः शास्त्रतो जायते । काव्यजन्यप्रतीतिस्तु तत्तुल्या नेत्यर्थः । कुत इत्यत्राह---तत्रेत्यादि । तत्र शास्त्रजन्यप्रतीतौ । उत्तरेति । उत्तरकाले यत्कर्तव्यं तत्रौन्मुख्येन । इह तु काव्ये त्वित्यर्थः । अद्भुतपुष्पवतिन्द्रजालादिदर्शितपुष्पेण तुल्यं । उदिता उत्पन्ना । विभावादिचर्वणा रसप्रतीतिः । तत्कालः वर्तमानकाल एव सारो यस्याः सैव । एवकारव्यावर्त्यंमाह---न त्विति । ननु लौकिकप्रतीतेरन्यत्वं योगिज्ञानस्याप्यस्ति इत्यत आह--योगीति । अत एवेति । यतो रसास्वादस्य


कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणं ।
सा पुनर्भक्तिर्वक्ष्यमाणप्रभेदमध्यादन्यतमस्य भेदस्य यदि नामोपलक्षणतया


लोचनम्

मुख्यार्थबाधादिक्रममनपेक्ष्यैव सहृदया वक्तभिप्रायं चाटुप्रीत्यात्मकं संवेदयन्ते । अत एव ग्रन्धकारः सामान्येन विवक्षितान्यपरवाच्ये ध्वनौ भक्तेरभावमभ्यधात् । अस्माभिस्तु दुर्दुरूटं प्रत्याययितुमुक्तम्--भवत्वत्र लक्षणा, अलक्ष्यक्रमे तु कुपितोऽपि किं करिष्यसीति । यदि तु न कुप्यतेऽसुवर्णपुष्पांऽ इत्यादावविवक्षितवाच्येऽपि मुख्यार्थबाधादिलक्षणासामग्रीमनपेक्ष्यैव व्यङ्ग्यार्थविश्रान्तिरित्यलं बहुना । उपसंहरति---तस्माद्भक्तिरिति ।। १८ ।।
     ननु मा भूद्ध्वनिरिति भक्तिरिति चैकं रूपं । मा च भूद्भक्तिर्ध्वनेर्लक्षणं । उपलक्षणं तु भविष्यति; यत्र ध्वनिर्भवति, तत्र भक्तिरप्यस्तीति भक्त्युपलक्षितो ध्वनिः । न तावदेतत्सर्वत्रास्ति, इयता च किं परस्य सिद्धं? किं वा नः त्रुटितं? इति तदाह---कस्यचिदित्यादि । ननु भक्तिस्तावच्चिस्न्तनैरुक्ता, तदुपलक्षणमुखेन च ध्वनिमपि

बालप्रिया

उक्तविधमनितरसाधारणं सौभाग्यं तत एवेत्यर्थः । संवेदयन्त इति । जानन्तीत्यर्थः । अत एवादौ तथा व्याख्यातमिति भावः । अत्र ग्रन्थकृद्वचनं संवादयति---अत एवेत्यादि । तर्हि कुतो भवतैव लक्षणामभ्युपेत्य व्याख्यातमित्यत आह--अस्माभिस्त्विति । दुर्दुरूटमिति । नास्तिकमयवाग्ग्रस्तमित्यर्थः । इत्युक्तमिति सम्बन्धः । ननु कस्य नाम कोपस्तत्त्वं कथ्यतामित्यत्राह---यदि त्विति । व्यङ्ग्यार्थविश्रान्तिरिति । अभिमतविषयेऽपि लक्षणाया न प्रभविष्णुतेति भावः ।। १८ ।।
     अथोपलक्षणपक्षस्यापि प्रतिक्षेपाय तच्छङ्कां वृत्तानुवादपूर्वकमुद्भावयति---नन्वित्यादिना भक्त्युपलक्षितो ध्वनिरित्यन्तेन । कथमुपलक्षणं भविष्यतीत्यत्राह---यत्रेत्यादि । यथा काकादिर्गृहादेर्न स्वरूपं, नापि लक्षणं, किन्तु कदाचित्सम्भवमात्राद्व्यावृत्तिप्रतिपत्तिहेतुस्तथा भक्तिरपीत्यर्थः । अस्योत्तरत्वेन कारिकामवतारयति---न तावदित्यादि । तावदिति सम्प्रतिपत्तौ । एतदिति । उपलक्षणमित्यर्थः । उपलक्षणं वस्तु सर्वत्र न भवतीति सम्प्रतिपन्नमित्यर्थः । इयता चेति । भक्तेरुपलक्षणत्वमात्रेम चेत्यर्थः । त्रुटितं छिन्नं । ऽयदिचेऽत्यादिग्रन्थमवतारयति----नन्वित्यादि । किं तल्लक्षणणेनेति । ध्वनिलक्षणकरणं निष्फलं लक्षणफलस्येतरव्यावृत्ततया ध्वनिज्ञानस्योपलक्षणभूतया भकत्यैव समभवादित्यर्थः । तदभिधेत्यादिसमाधानग्रन्थस्य भावार्थं विवृणोति---अभिधानेत्यादि । अभिधानाभिधेयभाव इति । काव्येन सहेति शेषः । तावता किमत आह---ततश्चेति । अभिधावृत्ते


सम्भाव्येत; यदि च गुणवृत्त्यैव ध्वनिर्लक्ष्यत इत्युच्यते तदभिधाव्यापारेण तदितरोऽलङ्कारवर्गः समग्र एव लक्ष्यत इति प्रत्येकमलङ्काराणां लक्षणकरणवैयर्थ्यप्रसङ्गः । किं च
     लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ।। १९ ।।
     कृतेऽपि वा पूर्वमेवान्यैर्ध्वनिलक्षणे पक्षसंसिद्धिरेव नः; यस्माद्ध्वनिरस्तीति न पक्षः । स च प्रागेव संसिद्ध इत्ययत्नसम्पन्नसमीहितार्थाः संवृत्ताः रमः । येऽपि सहृदयहृदयसंवेद्यमनाख्येयमेव ध्वनेरात्मानमाम्नासिषुस्तेऽपि न परिक्ष्य वादिनः ।


लोचनम्

समग्रभेदं लक्षयिष्यन्ति ज्ञास्यन्ति च । किं तल्लक्षणेनेत्याशङ्क्याह---यदि चेति । अभिदानाभिधेयभावो ह्यलङ्कागणां व्यापकः; ततश्चाभिधावृत्ते वैयाकरणमीमांसकैर्निरूपिते कुत्रेदानीमलङ्कारकारणां व्यापारः । तथा हेतुबलात्कार्यं जायत इति तार्किकैरुक्ते किमिदानीमिश्वरप्रभृतीनां कर्तॄणां ज्ञातॄणां वा कृत्यमपूर्वं स्यादिति सर्वो निरारम्भः स्यात् । तदाह---लक्षणकरणवैयर्थ्यप्रसङ्ग इति । मा भूद्वापूर्वोन्मीलनं पूर्वोन्मीलितमेवास्माभिः सम्यङ्निरूपितं, तथापि को दोष इत्यभिप्रायेणाह---किं चेत्यादि । प्रागेवेति । अस्मत्प्रयत्नादिति शेषः । एवं त्रिप्रकारमभाववादं, भक्त्यन्तर्भूततां च निराकुर्वता अलक्षणीयत्वमेकतन्मध्ये निराकृतमेव । अत एव मूलकारिका साक्षात्तन्निराकरणार्था न श्रूयते । वृत्तिकृत्तु निराकृतमपि प्रमेयशय्यापूरणाय कण्ठेन

बालप्रिया

अभिधाव्यापारे । अलङ्कारकारणामिति । अलङ्कारग्रन्थकर्तॄणामित्यर्थः । कुत्रेदानीं व्यापार इति । अभिधानाभिधेयभावस्य समस्तालङ्कारव्यापकत्वात्तस्य चाभिधावयापारजीवितत्वात्तन्निरूपणे कृते सत्यलङ्कारनिरूपणं तद्ग्रन्थकाराणां निष्फलमेव भवेदित्यर्थः । अनिष्टान्तरमप्युद्घाटयति---तेथेत्यादि । ऽकिमपूर्वं स्यादिऽति सम्बन्धः । इतीति हेतौ । सर्वो निरारम्भः स्यादिति । सर्वरः इश्वरप्रभृतिः कर्तृज्ञातृवर्गः । व्याख्यातमर्थं ग्रन्थेन सङ्गमयति--तदाहेति । लक्षणकरुणवैयर्थ्यप्रसङ्ग इति । लक्षणं च करणं च लक्षणकरणे, तयोः तन्निरूपणयोः वैयर्थ्यस्य प्रसङ्ग इत्यर्थः । किञ्चेत्यादिग्रन्थमवतारयति---मेत्यादि । ऽअपूर्वोन्मीलनं मा भूदिऽत्यन्वयः । ननु कारिकाकारेण इतरपक्ष इवालक्षणीयत्वपक्षः किमिति न प्रतिक्षिप्त इति शङ्कां परिहरन्ऽयेऽपीऽत्यादिग्रन्थमवतारयति---एवमित्यादि । निराकृतमेवेति । ध्वनिप्रदर्शनमुखेन हि पक्षान्तरनिराकरणमत्र कृतं; न च तस्यालक्षणीयत्वे तत्सम्भवति इति तन्निराकरणनान्तरीयकत्वेनालक्षणीयत्वपक्षोऽपि निराकृत इत्यर्थः । ननु तर्हि किमिति वृत्तिकृता तत्पक्षोऽनूद्य निराकृत इत्यत आह---वृत्तिकृदिति । प्रमेयशय्येति । प्रमेयस्य शय्या सन्निवेशविशेषः


यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशेषलक्षणे प्रतिपादितेऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां तत्प्रसक्तं । यदि पुनर्ध्वनेरातिशयोक्त्यानया काव्यान्तरातिशायि तैः


लोचनम्

तत्पक्षमनूद्य निराकरोति---येऽपीत्यादिना । उक्तया नीत्याऽयत्रार्थः शब्दो वाऽ इति सामान्यलक्षणं प्रतिपादितं । वक्ष्यमाणया तु नीत्या विशेषलक्षणं भविष्यतिऽअर्थान्तरे सङ्क्रमितं इत्यादिना । तत्र प्रथमोद्द्योते ध्वनेः सामान्यलक्षणमेव कारिकाकारेण कृतं । द्वितीयोद्द्योते कारिकाकारोऽवान्तरविभागं विशेषलक्षणं च विदधदनुवादमुखेन मूलविभागं द्विविधःऽ इति । सर्वेषामिति । लौकिकानां शास्त्रीयाणां चेत्यर्थः । अतिशयोक्त्येति । यथाऽतान्यक्षराणि हृदये किमपि स्फुरन्तिऽ इतिवदतिशयोक्त्यानाख्येयतोक्ता साररूपतां प्रतिपादयितुमिति दर्शितमिति शिवम् ।। १९ ।।

बालप्रिया
तस्याः पूरणाय ।

अनाख्येयत्वपक्षस्यापि स्वयमनिराकरणे तत्पूरणं न भवेदिति भावः । उक्तया नीत्येत्यादौ यथासंख्येन सम्बन्ध इत्याशयेनोपपादयति---यत्रार्थ इत्यादि । विशेषलक्षणमिति । विशेषलक्षणकथनमित्यर्थः । वृत्तौऽस च द्विविधऽ इत्यादिना विशेषलक्षणकथनं कारिकाकाराशयानुसारेणेत्याह--तत्र प्रथमोद्योत इत्यादि । तत्र सामान्यविशेषलक्षणयोर्मध्ये । ऽइति मूलविभागमवोचदिऽत्यन्वयः । अथ यदिदं ध्वनेरनाख्येयत्वमुक्तं तन्नासत्वान्नाप्यसाधुत्वात्, किन्त्वतिशयित्त्वादिति चेत्तर्हि तदभिधानं युक्तमेवेत्याह वृत्तौ---ऽयदि पुनरिऽत्यादि । ऽकाव्यान्तरातिशायोऽति । गुणीभूतव्यङ्ग्यचित्रातिशायीत्यर्थः । ऽस्वरूपम्ऽ इति । सारतारूपं स्वरूपमित्यर्थः । ऽतैऽरिति । पूर्वपक्षिभिरित्यर्थः । ऽतदिऽति । तर्हित्यर्थः । ऽतेऽपीऽत्यादि । तेषामभिधानमस्मदभिमतत्वाद्युक्तमेवेत्यर्थः । अत्र तेऽपीत्यपिशब्देन स्वस्यापि सर्वत्र युक्तभिधायित्वं ग्रन्थकृता सूचितमिति च बोध्यं । वृत्तिस्थंऽअतिशयोक्त्याऽ इति पदं व्याख्यास्यन्नादावतिशयोक्तेरुदाहरणमाह--यथा तानीत्यादि ।
     "निद्रार्धमीलितद्दशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि अद्यापि मे मृगद्दशो मधुराणि तस्याः" इत्याद्यपादत्रयं । अतिशयोक्त्यानयेत्यस्य व्याख्यानं---अतिशयोक्त्यानाख्येयतोक्त्येति । पूरयति---साररूपतां प्रतिपादयितुमिति । अनेन काव्यान्तरातिशायिरूपमित्यत्रत्यरूपपदार्थः साररूपत्वमिति दर्शितं । प्रतिपादयितुमित्यनन्तरमुक्तयेति शेषः । सर्वस्यापि परमशिवस्वरूपत्वाभिसम्धानेनोपसंहरति---इति शिवमिति । इतीत्यनेन स्वव्याख्यानपरामर्शः । किञ्च शिवमितीश्वरनिर्देशरूपं परमं मङ्गलं ।


स्वरूपमाख्यायते तत्तेऽपि युक्ताभिधायिन एव ।।


लोचनम्

किं लोचनम्विनालोको भाति चन्द्रिकयापि हि ।
तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् ।।
यदुन्मीलनशक्त्यैव विश्वमुन्मीलति क्षणात् ।
स्वात्मायतनविश्रान्तां तां वन्दे प्रतिभां शिवां ।।
इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तोन्मीलिते सहृदया
लोकलोचने ध्वनिसङ्केते प्रथम उद्द्योतः ।।

- - - - -

बालप्रिया

     स्वव्याख्याने श्रोतृजनप्रवृत्यर्थमाह--किमित्यादि । ‘‘‘लोचनम् लोचनाख्यमेतद्व्याख्यानं । आलोकः काव्यालोकग्रन्थः । चन्द्रिकया अन्यकृतया चन्द्रिकाख्यव्याख्यया । अपि किं भाति न भातीत्यर्थः । हीति प्रसिद्धेऽवधारणे वा । अथ च ‘‘‘लोचनम् नेत्रं विना । लोकः भूवनं । चन्द्रिकया ज्योत्स्नया, अपि किं भाति किं स्फुरति न प्रत्यक्षविषयो भवतीत्यप्रस्तुतार्थः तत्साम्यं चात्र ध्वन्यते । तेनेति । तस्माद्धेतोरित्यर्थः । अथोद्योतान्तेऽप्यनुष्ठितं मङ्गलं निबध्नाति---यदिति । यस्याः शक्तेः उन्मीलनयुक्त्या स्पन्दनयोगैनैव । विश्वं सर्वं वस्तु । क्षणादुन्मीलति प्रकाशते । क्षणादित्यनेनानन्यापेक्षत्वं द्योत्यते । स्वात्मनि स्वस्वरूपे । यद्वा--ब्रह्यचैतन्य एवायतने स्थाने विश्रान्तां स्थितां । प्रतिभां ज्ञानात्मिकां । शिवां शिवाख्यां । तां शक्तिमहं वन्दे । अथ च यस्याः प्रतिभायाः उन्मीलनयुक्त्या प्रकाशयोगेन । विश्वं क्षणादुन्मीलति नवनवतया भाति स्वात्मन्येवायतने विश्रान्तां वासनारूपेणावस्थिताम्, शिवां रसावेशवैशद्यसुभगाम्, तां प्रतिभां कवीनां प्रज्ञाम्, वन्दे इत्याद्यर्थोऽपि बोध्य इति सर्वं शिवम् ।। १९ ।।

प्रौढं क्व लोचनम् मन्दः क्वाहं तेन मया कृता ।

पूर्वव्याख्याद्दशाप्येषा टिप्पणी शोध्यतां बुधैः ।।

इति सहृदयतिलकपण्डितराज श्रीरामशारकविरचितायां

लोचनटिप्पण्यां प्रथमोद्द्योतः ।।