प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← उद्द्योतः १ ध्वन्यालोकः - बालप्रियालोचनभाष्यसमेतम्
उद्द्योतः २
[[लेखकः :|]]
उद्द्योतः ३ →
* श्रीरस्तु *

द्वितीय उद्द्योतः
एवमविवक्षितवाच्यविवक्षितान्यपरवाच्यत्वेन ध्वनिर्द्विप्रकारः प्रकाशितः ।
तत्राविवक्षितवाच्यस्य प्रभेदप्रतिपादनायेदमुच्यते--
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतं ।

अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विदा मतम् ।। १ ।।


लोचनम्
द्वितीय उद्द्योतः

या स्मर्यमाणा श्रेयांसि सूते ध्वंसयते रुजः ।
तामभीष्टफलोदारकल्पवल्लीं स्तुबे शिवां ।।
     वृत्तिकारः सङ्गतिमुद्द्येतस्य कुर्वण उपक्रमते-- एवमित्यादि । प्रकाशित इति । मया वृत्तिकारेण सतेति भावः । न चैतन्मयोत्सूत्रमुक्तम्, अपि तु कारिकाकाराभिप्रायेणेत्याह-- तत्रेति ।
तत्र द्विप्रकारप्रकाशने वृत्तिकारकृते यन्निमित्तं बीजभूतमिति

बालप्रिया
द्वितीय उद्द्योतः

लोचनस्योत्तरस्यातो न व्याख्या प्रप्यतेऽत्र तत् ।
यथामतीषद्व्याख्यामि प्रसीदन्त्वत्र मे बुधाः ।।
     येति । या शिवा । जनैः स्मर्यमाणा सती, तेषां श्रेयांसि सूते जनयति । रुजः व्यापदः । अभीष्टेति । अभीष्टानां फलानामुदारा दात्री । यद्वा-अभीष्टानि फलानि यस्यां सा उदारा महती च कल्पवल्ली तामिति रूपकं । "उदारो दातृमहतो"रित्यमरः । सङ्गतिमुद्योतस्येति । प्रथमोद्योतेन द्वितीयोद्योतस्य सङ्गतिमितततत्यर्थः । उक्तेन सह वक्ष्यमाणस्य सङ्गतिमिति यावत् । सा चात्र प्रसङ्गरूपा बोध्या । कुर्वाणः सम्पादयन् । उपक्रमते वक्तुमारभते । सूत्रकारेणाप्रकाशितत्वादाह--मयेत्यादि । ऽतत्रेऽत्यादिग्रन्थमवतारयति-- न चेत्यादि । एतदिति । द्विप्रकारत्वमित्यर्थः । उत्सूत्रं सूत्रमुल्लङ्ध्य सूत्रकारानभिप्रेतमिति यावत् । ऽतेत्रेऽति तत्पदमुक्तद्वि प्रकारप्रकाशनक्रियापरामर्श कमित्यभिप्रेत्य व्याचष्टे--द्विप्रकारप्रकाशन इति । निमित्तमिति । त्रलर्थकथनं पूरितं वा । अस्यैव विवरणम्--बीजभूतमिति । ऽउच्यतऽ इत्यनेनास्यान्वयः । इति सम्बन्ध इति । एवं पूर्वापरयोस्सङ्गतिरित्यर्थः । अन्यथा व्याचष्टे-- यदि वेत्यादि । पूर्वशेषः पूर्वान्वयि । प्रथमोद्योतान्ते वृत्तिकारेण
---

लोचनम्

सम्बन्धः । यदि वा-तत्रेति पूर्वशेषः । तत्र प्रथमोद्द्योते वृत्तिकारेण प्रकाशितः अविवक्षितवाच्यस्य यः प्रभेदोऽवान्तरप्रकारस्तत्प्रतिपादनायेदमुच्यते । तदवान्तरभेदप्रतिपादनद्वारेणैव चानुवादद्वारेणाविवक्षितवाच्यस्य यः प्रभेदो विवक्षितान्यपरवाच्यात्प्रभिन्नत्वं तत्प्रतिपादनायेदमुच्यते । भवति मूलतो द्विभेदत्वं कारिकाकारस्यापि सम्मतमेवेति । भावः । सङ्क्रमितमिति णिचा व्यञ्चनाव्यापारे यः सहकारिवर्गस्तस्यायं प्रभाव इत्युक्तं तिरस्कृतशब्देन च । येन वाच्येनाविवक्षितेन सताविवक्षितावाच्यो ध्वनिर्व्यपदिश्यते तद्वाच्यं द्विधेति सम्बन्धः । योऽर्थं उपपद्यमनोऽपि तावतैवानुपयोगाद्धर्मान्तरसंवलनयान्यतामिव गतो लक्ष्यमाणोऽनुगतधर्मी सूत्रन्यायेनास्ते स रूपान्तरपरिणत उक्तः ।

बालप्रिया

"इति प्रतमोद्योत" इत्युक्तत्वादत्र पक्षे तत्रेति तत्पदेन तस्य परामर्श इत्याहृ--प्रथमोद्योत इति । अस्य पूर्वोण सहान्वयं दर्शयितुमाह--वृत्तिकारेण प्रकाशित इति । अत्र पक्षे अत इति शेषो बोध्यः । ऽअविवक्षितेऽत्यादिग्रन्थं व्याचष्टे-अविवक्षितवाच्यस्येत्यादि । अवान्तरप्रकारः अवान्तरधर्मः । इदमिति । ऽअर्थान्तरऽ इत्यादिऽमतऽमित्यन्तं सूत्रमित्यर्थः । ऽअथासंलक्ष्यक्रमोद्योतऽ इत्यादिना वक्ष्यमाणेनापि सङ्गतिं सम्पादयितुमन्यथापि व्याचष्टे-तदवान्तरेत्यादि । ऽअर्थान्तरे सङ्क्रमितम्ऽ इत्यादिना यत्तदवान्तरभेदप्रतिपादनं तद्वारेणैव तत्पूर्वकमेव । अविवक्षितवाच्यस्य ध्वनेरिति योऽनुवादस्तद्द्वरेण । अस्योच्यत इत्यनेन सम्बन्धः । अविवक्षितवाच्यस्येति । तदनुयोगिक इत्यर्थः । वक्ष्यमाणं मनसि कृत्यऽविवक्षितान्यपरवाच्यादित्युक्तं । प्रभिन्नत्वमन्योन्याभावः । तत्प्रतिपादनाय तस्य ज्ञापनाय । इदमिति । अविवक्षितवाच्यमित्यर्थः । फलितमाह--भवतीत्यादि । मूलतो द्विभेदत्वमादिमं द्वैविध्यं । ऽणिचेऽत्यस्यऽउक्तऽमित्यनेन सम्बन्धः । य इति । लक्षणावक्तृविवक्षादिरित्यर्थः । अयं सङ्क्रमणं । तस्य प्रभावः । तेन प्रयुक्तः । स एव प्रयोजककर्तेति भावः । उक्तं बोधतं । तिरस्कृतशब्देन चेति । इत्युक्तमित्यनेनास्य सम्बन्धः । ऽअविवक्षितेऽत्यादिकं विवृणोति--येनेत्यादि । वाच्येनेति । तत्तत्पदवाच्यजात्यादिधर्मविशिष्टधर्मिणेत्यर्थः । ऽअर्थान्तरे सङ्क्रमितम्ऽ इत्यादिकं विवृणोति-योऽर्थ इत्यादि । योऽर्थः रामोऽस्मीत्यादौ शमादिरूपोऽर्थः । उपपद्यमानोऽपि वाच्याजात्यादिप्रकारेणान्वययोग्योऽपि । अनुपयोगादिति । विशेषानाधायकत्वेन पुनरुक्तत्वेन वा उपयोगाभावादित्यर्थः । धर्मान्तरसंवलनया वाच्यधर्मातिरिक्तधर्मवत्वेन । लक्ष्यमाणः लक्षणया प्रतीयमानः । अत एवान्यतां गत इव । यद्वा--धर्मान्तरसंवलनया वाच्यधर्मातिरिक्तधर्मप्रकारकप्रतीतिविषयत्वेन हेतुना अन्यतां गत इव लक्ष्यमाणः प्रतीयमानः । अनुगतधर्मी सन्लक्ष्यमाणधर्माणां तत्र तत्र भिन्नत्वेऽपि व्यक्तिरूपो धर्मी अनुस्तूत एवेति भावः । सूत्रन्यायेनेति । यथा पुष्पादिष्वेकं सूत्रमनुस्यूतन्तथेत्यर्थः ।


तथाविधाभ्यां च ताभ्यां व्यङ्ग्यस्यैव विशेषः ।
तत्रार्थान्तरसङ्क्रमितवाच्यो यथा--
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका धना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।


लोचनम्

यस्त्वनुपपद्यमान उपायतामात्रेणार्थान्तरप्रतिपत्तिं कृताव्पलायत इव स तिरस्कृत इति । ननु व्यङ्ग्यात्मनो यदा ध्वनेर्भेदो निरूप्यते तदा वाच्यसाय द्विधेति भेदकथनं न सङ्गतमित्याशङ्क्याह--तथाविधाभ्यां चेति । चो यस्मादर्थे । व्यञ्जकवैचिञ्याद्धि युक्तं व्यङ्ग्यवैचिञ्यमिति भावः । व्यञ्जके त्वर्थे यदि ध्वनिशब्दस्तदा न कश्चिद्दोष इति भावः ।
     भेदप्रतिपादकेनैवान्वर्थनाम्ना लक्षणमपि सिद्धमित्यभिप्रायेणोदाहरणमेवाह--अर्थान्तरसङ्क्रमितवाच्यो यथेति । अत्र श्लोके रामशब्द इति सङ्गतिः । स्निग्धया जलसम्बन्धसरसया श्यामलया द्रविडवनितोचितासितवर्णया कान्त्या चाकचक्येन लिप्तमाच्छुरितं वियन्नभो यैः वेल्लन्त्यो विजृम्भमाणास्तता चलन्त्यः परभागवशात्प्रहर्षवशाच्च बलाकाः

बालप्रिया

रूपान्तरपरिणत इति अर्थान्तरे सङ्क्रमितमित्यस्यैव विवरणं । यस्त्विति । ऽनिश्वासान्धऽ इत्यादावन्धादिपदार्थ इत्यर्थः । अनुपपद्यमानः अन्वयायोग्यः । उपायतामात्रेणेति । मुख्यार्थसम्बन्धस्य लक्षणानिमित्तत्वादिति भावः । तिरस्कृत इति । उक्त इत्यनुषङ्गः । नन्विति । व्यङ्ग्यात्मनो ध्वनेः ध्वनिपदार्थस्य व्यङ्ग्यस्य । यदा यदि । ऽवाच्यस्य भेदकथनम्ऽ इति सम्बन्धः । वृत्तौऽतथाविधाभ्याम्ऽ इति । अर्थान्तरसङ्क्रमितात्यन्ततिरस्कृताभायामित्यर्थः । ऽताभ्यांऽ वाच्याभ्यां । ऽविशेषःऽ भेदः । विशेष इत्यस्यानन्तरंऽइति व्यङ्ग्यप्रकाशनपरस्य ध्वनेरेवायं प्रकारःऽ इति पाठः क्वाचित्कः । लोचने भावमाह--व्यञ्जके त्वर्थ इत्यादि । ध्वनिशब्दार्थः व्यञ्जकश्चेदित्यर्थः । स चार्थो वा शब्दो वा । तत्राद्यपक्षे अविवक्षितवाच्यस्येत्यस्य अविवक्षितः अप्रधानीकृतो वाच्यस्स्वात्मा येन स इति प्रथमोद्योतोक्तार्थौ बोध्यः । दोष इति । अवतारिकोक्तदेष इत्यर्थः ।
     चाकचक्येनेति । प्रभातारल्येनेत्यर्थः । विजृम्भमाणाः उत्साहशालिन्यः । परभागवशादिति । मेधानां शयामत्वाद्बलाकानां सितत्वाच्चेतिभावः । प्रहर्षेति । मेघसंसर्गलाभजनितप्रहर्षेत्यर्थः । ऽघनाऽ इत्यस्य विवरणम्--मेधा इति । ऽघनाऽ इत्यनेन निबिडत्वञ्च गम्यते । ऽवेल्लद्बलाकाऽ इत्यनेन सम्भोगस्मारकत्वञ्च । अत एव आह--एवन्नभ इत्यादि । ऽशीकरिणऽ इत्यस्य विवरणम्--सूक्ष्मेत्यादि । इतीति ।


कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वे सहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।।


लोचनम्

सितपक्षिविशेषा येषु त एवं नभस्तावद्दुरालोकं वर्तते । दिशोऽपि दुःसहाः । यतः सूक्ष्मजलकणोद्गारिणो वाता इति मन्दमन्दत्वमेषामनियतदिगागमनं च बहुवचनेन सूचितं । तर्हि गुहासु क्वचित्प्रविश्यास्यतामित्यत आह--पयोदानां ये सुहृदस्तेषु च सत्सु ये शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कलाः षङ्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः ताश्च सर्वं पयोदवृत्तान्तं दुस्सहं स्मारयन्ति; स्वयं च दुस्सहा इति भावः । एवमुद्दीपनविभावोद्बोधितविप्रलम्भः परस्पराधिष्टानत्वद्रतेः विभावानां साधारणतामभिमन्यमानः इत एव प्रभृति प्रियतमां हृदयेनिधायैव स्वात्मवृत्तान्तं तावदाह--कामं सन्त्विति । दृढमिति सातिशयं । कठोरहृदय इति । रामशुब्दर्थध्वनिविशेषावकाशदानाय कठोरहृदयपदं । यथाऽतद्गेहंऽ इत्युक्तेऽपिऽनतभित्तिऽ इति । अन्यथा रामपदं दशरथकुलोद्भवत्वकौसल्यास्नेहपात्रत्वबाल्यचरितजानकीलाभादिधर्मान्तरपरिणतमर्थं कथं न ध्वनेदिति । अस्मीति । स

बालप्रिया

शीकरिम इति शीकरसम्बन्धप्रतिपादनेन हेतुनेत्यर्थः । मन्दमन्दत्वमित्यस्यऽसूचितम्ऽ इत्यनेन सम्बन्धः । बहुवचवव्यङ्ग्यं दर्शयति--एषामिति । सुहृद इति । बन्धव इत्यर्थः । अर्थान्तरञ्चाह--तेष्विति । शोभनहृदया इति अत एवानन्द इति भावः । कलत्वस्यानन्दहेतुकत्वात्तद्विशिष्टकेकानामानन्दहेतुकत्वमिति दर्शयन्नाह--हर्षेम कला इति । एवमित्यादि । पूर्वोक्तैरुद्दीपनविभावैरुद्वोधितः विप्रलम्भः वियोगकालावच्छिन्ना रतिर्यस्य सः । परस्परेत्यादि । स्त्रीपुंसयोर्जीवितसर्वस्वाभिमानात्मिकाया रतेः परस्परसम्बन्धित्वादित्यर्थः । विभावानां सजलजलधरादीनां । साधारण्यं प्रियतमासाधारण्यं । अभिमन्यमान इति । निरूपयन्नित्यर्थः । इत इति । काममित्यादित इत्यर्थः । तावदिति । प्रथममित्यर्थः । कामं संन्त्विति । यथेष्टं भवन्तु इत्यर्थः । रामशब्दार्थेति । रामशब्देनार्थविशेषाणां व्यञ्जने सहकारीत्यर्थः । तद्गेहमिति । पद्यमिदं तृतीयोद्योते उदाहरिष्यते । अन्यथेति । कठोरहृदय इत्यस्याभाव इत्यर्थः । बाल्पचरितेति । विद्याभ्यासताटकावधादीत्यर्थः । आदिपदेन परशुरामजयादिकं गृह्यते । लाभादि यद्धर्मान्तरं तेन परिणतं तत्प्रकारकप्रतीतिविषयं । कथं न ध्वनेदिति । तथाच कठोरहृदयपदन्तदर्थानुगुणानामेव धर्माणां रामशब्देन व्यञ्जेने सहङ्कारितया निर्दिष्टमिति भावः । ऽसर्वं सहेऽइत्यस्य यद्यद्दुःखमापतति तत्सर्वं सहेत्यर्थः । ऽवैदेहीऽ


     इत्यत्र रामशब्दः । अनेन हि व्यङ्ग्यधर्मान्तरपरिणतः सञ्ज्ञी प्रत्याय्यते, न संज्ञिमात्रं ।


लोचनम्

एवाहं भवामीत्यर्थः । भविष्यतीति क्रियासामान्यं । तेन किं कारिष्यतीत्यर्थः । अथ च भवनमेवास्या असम्भाव्यमिति । उक्तप्रकारेण हृदयनिहितां प्रियां स्मरणशब्दविकल्पपरम्परया प्रत्यक्षीभावितां हृदयस्फोटनोन्मुखीं ससंभ्रममाह--हहा हेति । देवीति । युक्तं तव धैर्यमित्यर्थः । अनेनेति । रामशब्देनानुपयुज्यमानार्थेनेति । भावः । व्यङ्ग्यं धर्मान्तरं प्रयोजनरूपं राज्यनिर्वासनाद्यसङ्ख्येयं । तच्चासङ्ख्यत्वादभिधाव्यापारेणाशक्यसमर्पणं । क्रमेणार्प्यंमाणमप्येकधीविषयभावाभावान्न चित्रचर्वणापदमिति न चारुत्वातिशयकृत् । प्रतीयमानं तु तदसङ्ख्यमनुद्भि विसेषत्वेनैव किं किं रूपं न सहत इति चित्रपानकरसापूपगुडमोदकस्थानीयविचित्रचर्वणापदं भवति । यथोक्तम्--ऽउक्त्यन्तरेणाशक्यं यत्ऽ इति ।

बालप्रिया

त्यनेन च दुःखासहिष्णुत्वं व्यज्यते । क्रियासामान्यमिति । बोधयतीति शेषः । मुख्यार्थेऽपि विवक्षित इत्याह--अत चेति । चतुर्थपादमवतारयति--उक्तेत्यादि । स्मरणेति । जलधराद्युद्दीपकानां प्रियतमासाधारणत्वस्मरणं । शब्दः वैदेहीति शब्दः, तज्जनितबोध इति यावत् । ऽविकल्पः कथं भविष्यतीऽति वितर्कः । तेषां परम्परयेत्यर्थः । ऽव्यङ्ग्येऽत्यादिग्रन्थं व्याचष्टे--व्यङ्ग्यमित्यादि । प्रयोजनेति । लक्षणाप्रयोजनेत्यर्थः । तदत्र किमित्यत आह--राज्येति । राज्यभ्रंशादित्यर्थः । आदिपदेन वनवासपितृजायावियोगादिकं दुःखकारि सर्वं गृह्यते । अस्य व्यङ्ग्यत्वं व्यवस्थापयिष्यन्नाह--तच्चेत्यादि । तत्प्रयोजनं । अभिधेत्यादि । युगपदभिदातुमशक्यमित्यर्थः । क्रमेणेति । तदिति अभिदाव्यापारेणेति चानुषज्यते । एकधीति । एकबोधविषयत्वाभावादित्यर्थः । प्रतीयमानमिति । व्यज्यमानमित्यर्थः । तुशब्दो विशेषे । तदसङ्ख्यमिति । असङ्खयत्वविशिष्टं प्रयोजनमित्यर्थः । अनुद्भिन्नेति । अनुद्भिन्नः अस्पष्टःविशेषः पार्थक्यं परस्परभेद इति यावत्, यत्र तत्वेनैव तद्विशिष्टमेव । पानकरसाद्यास्वादे कर्पूराद्यांशा यथा पार्थक्येन नानुभूयन्ते, किन्तु परस्परसंवलितत्वेनैव प्रयोजनप्रतीतौ तथा राज्यनिर्वासनादयो धर्मा इत्यर्थः । किं किमिति । नानारूपं सहत इत्यर्थः । प्रतिपत्तृप्रतिभादिवशेन नानाविधं भातीति यावत् । इतीति हेतौ । चित्रेत्यादि । चित्रेति पानकरसादीनां त्रयाणां विशेषणं नानारसेत्यर्थः । गुडोपस्कृतं मोदकं गुडमोदकं तत्स्थानीया तच्चर्वणाकतुल्या या विचित्रा विलक्षणा चर्वणा रामगतत्वेन तत्तद्धर्मावगाहिनी प्रतीतिः, तस्याः पदं विषय


यथा च ममैव विषमबाणलीलायाम्---
ताला जाअन्ति गुणा जाला दे सहिअएहिं घेप्पान्ति ।
रैकिरणानुग्गहिआइं होन्ति कमलाइं कमलाइं ।।
(तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।। इति च्छाया ) ।
इत्यत्र द्वितीयः कमलशब्दः ।


लोचनम्

एष एव सर्वत्र प्रयोजनस्य प्रतीयमानत्वेनोत्कर्षहेतुर्मन्तव्यः । मात्रग्रहणेन संज्ञी नात्र तिरस्कृत इत्याह---यथा चेत्यादि । ताला तदा । जाला यदा । धेप्पन्ति गृह्यन्ते । अर्थान्तरन्यासमाह---रविकिरणेति । कमलशब्द इति । लक्ष्मीपात्रत्वादिधर्मान्तरशतचित्रतापरिणतं संज्ञिनमाहेत्यर्थः । तेन शुद्धेऽर्थे मुख्ये बाधानिमित्तं तत्रार्थे तद्धर्मसमवायः । तेन निमित्तेन रामशब्दो धर्मान्तरपरिणतमर्थं

बालप्रिया

इत्यर्थः । प्रयोजनजातस्य अभिधातुमशक्यत्वं यदुक्तं तत्रोपष्टम्भकमाह---यथोक्तमित्यादि । एष एवेति । विचित्रचर्वणापदत्वमेवेत्यर्थः । प्रयोजनस्येत्युत्कर्षान्वयि । मात्रग्रहणेनेति । ऽन संज्ञिमात्रम्ऽ इति वृत्तिस्थमात्रशब्देनेत्यर्थः । आहेत्यनेनास्य सम्बन्धः । संज्ञी नात्र तिरस्कृत इति । राज्यनिर्वासनादिधर्मवत्वेन रामस्यैव संज्ञिनः प्रतीतेरिति भावः । आहेति । वृत्तिकारो बोधयतीत्यर्थः । अत्र रामपदलक्ष्यतावच्छेदकं रामपदवाच्यत्वं सामान्यतो दुःखपात्रत्वं वा बोध्यं । तदेति । पदार्था इति शेषः । तदा गुणाः अतिशयाधायको धर्मो गुमस्तद्वन्तः सन्तः । जायन्ते भवन्ति । कदेत्यत्राह-यदेति । ते गुणवन्तः पदार्थाः । गृह्यन्ते श्लोध्यन्ते । अस्य सामान्यस्य समर्थकमुत्तरार्धमित्याशयेनाह--अर्थान्तरन्यासमाहेति । रवीति । रविंणा किरणानुगृहीतानिकरस्पृष्टानि, अथ चाभिनन्दितानि कमलानि पझानि । कमलानि कमलत्वेन ज्ञायमानानि भवन्तीत्यर्थः । अत्र व्यङ्ग्यं दर्शयति---लक्ष्मीत्याति । लक्ष्मीपात्रत्वं कान्त्याश्रयत्वं । आदिपदेन विकसितत्वसौरभादिशालित्वं गृह्यते । लक्ष्मीपात्रत्वादि यद्धर्मान्तरशतं तस्य चित्रता चित्रताविशिष्टं तदिति यावत् । तेन परिणतमित्यर्थः । संज्ञिनं कमलं । आह व्यञ्जयति । केचिदत्र रामपदं राज्यनिर्वासनादिधर्मवत्वेन लक्षयन्नर्वेदादीन्व्य्जयति । एवं कमलशब्देऽपि बोध्यमित्याहुस्तन्मतं दूषयितुमुपन्यस्यति-तेनेत्यदि । तेनेति । वक्ष्यमाणहेतुनेत्यर्थः । ऽअप्रातीतिकम्ऽ इत्यनेनास्य सम्बन्धः । शुद्धर्ऽथे मुख्य इति । केवले रामपदमुख्यार्थ इत्यर्थः । बाधेति । प्रकृतानुपयोगात्मकबाधेत्यर्थः । तत्रार्थ इति रामपदमुख्यर्थधर्मिणीत्यर्थः । तद्धर्मसमवाय इति । विवक्षितराज्यनिर्वासनादि धर्मसम्बन्ध इत्यर्थः । अनेनाधाराधेयभावरूपमुख्यार्थसम्बन्धः प्रदर्शितः । उभयत्रास्तीति शेषः । धर्मान्तरपरिणतमर्थमिति ।


लोचनम्

लक्षयति । व्यङ्ग्यान्यसाधारमान्यशब्दवाच्यानि धर्मान्तराणि । एवं कमलशब्दः । गुणशब्दस्तु संज्ञिमात्रमाहेति । तत्र यद्बलात्कैश्चिदारोपितं तदप्रातीतिकं । अनुपयोगबाधितो ह्यर्थोऽस्य ध्वनेर्विषयो लक्षणा मूलं ह्यस्य ।
     यत्तु हृदयदर्पण उक्तम्---ऽहहा हेति संरम्भार्थोऽयं चमत्कारःऽ इति । तत्रापि संरम्भः आवेगो विप्रलम्भव्यभिचारीति रसध्वनिस्तावदुपगतः । न च रामशब्दभिव्यक्तार्थसाहायकेन विना सरम्भोल्लासोऽपि ।।अहं सहे तस्याः कि वर्तत इत्येवमात्मा हि संरम्भः । कमलपदे च कः संरम्भ इत्यास्तां तावत् । अनुपयोगात्मिका च मुख्यार्थबाधात्रास्तीति लक्षणामूलत्वादविवक्षितवाच्यभेदतास्योपपन्नैव शुद्धार्थस्याविवक्षणात् ।

बालप्रिया

राज्यनिर्वासनादिधर्मवत्वेन रामव्यक्तिरूपार्थमित्यर्थः । तर्हि किं व्यङ्ग्यमित्यत्राह---व्यङ्ग्यानीत्यादि । अशब्दवाच्यानि शब्देनाभिधातुमशक्यानि । धर्मान्तरणि निर्वेदग्लानिमोहादयोऽन्ये धर्माः । एवं कमलशब्द इति । द्वितीयः कमलशब्दो लक्ष्मीपात्रत्वादिपरिणतमर्थं लक्ष्यति, व्यङ्ग्यन्तु मनोहरत्वादीत्यर्थः । जायन्ते गुणा इत्यत्र गुणशब्दस्यावृत्तिः, द्वीतीयो गुणशब्दः उत्कृष्टत्वादिधर्मान्तरपरिणतमर्थं लक्ष्यतीत्याद्याशङ्कां परिहर्तुमाह---गुणशब्द इत्यादि । संज्ञिमात्रमिति । मुख्यार्थमात्रमित्यर्थः । न तु धर्मान्तरपरिणतमर्थमिति मात्रशब्दार्थः । तत्रेति । पूर्वोक्तेदाहरणयोरित्यर्थः । बलात्बुद्धिसामर्थ्यात् । आरोपितमिति । आरोप्योक्तमित्यर्थः । तदिति । तदुक्तमित्यर्थः । अप्रातीतिकमिति । सहृदयप्रतीत्यसिद्धमित्यर्थः । अत्र हेतुमाह---अनुपयोगेत्यादि । अनुपयोगबाधितः अनुपयोगात्मकबाधाधीनः । हीति हेतौ । अर्थः भवदुक्तो राज्यनिर्वासनाद्यर्थः । अस्य ध्वनेर्विषय इति । अविवक्षितवाच्यस्थलीय ध्वनिव्यापारस्य विषय इत्यर्थः । न तु लक्षणाया विषय इति भावः । लक्षणया ह्यर्थस्यैकधर्मप्रकारेणैव प्रतीतिर्न त्वनेकधर्मप्रकारेण । परन्त्वत्र लक्षणा सहकारिणीत्याह-लक्षणेत्यादि ।
     यत्त्वित्यादि । हहेत्यादि । हहाहेत्यनेन गभ्यो यस्संरम्भः तस्यार्थः कार्यभूत इत्यर्थः । तत्रपीत्यनुवादः, उक्तार्थोऽपीत्यर्थः । संरम्भ इत्यस्य विवरणम्-आवेग इति । रसध्वनिरित्यादि । तवानभिमतो रसध्वनिरादावभ्युगतो भवतीत्यर्थः । इत्थं च पूर्वोक्तार्थध्वनेरभ्युपगमो । टप्यापतित इत्याह---न चेत्यादि । रामशब्दाभिव्यक्तार्थेति । राज्यनिर्वासनाद्यर्थेत्यर्थः । उक्तार्थे हेतुमाह--अहं सहे इत्यादि । अहं सर्वं सहे इत्यर्थस्योपोद्बलको हि रामशब्दाभिव्यक्तार्थ इति भावः । उक्तेदाहरणयोः मुख्यार्थबाधां स्वयं विवृण्वन्नविवक्षितवाच्यभेदत्वमुपपादयति---अनुपयोगात्मिका चेत्यादि । मुख्यार्थस्य पदार्थान्तरान्वयानुपपत्तिज्ञानमिव प्रकृतानुषयुक्तत्वज्ञानमपि लक्षणाबीजमतोऽनुपयुक्तत्वज्ञानरूपोऽपि मुख्यार्थबाधापदार्थ इत्यर्थः । अत्रेति । उक्तोदहरणयोरित्यर्थः । शुद्धार्थस्येति । वाच्यजात्यादिविशिष्टव्यक्तिरूपार्थस्येत्यर्थः । तस्यापीति ।


अत्यन्ततिरस्कृतवाच्यो यथादिकवेर्वाल्मीकेः---
रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।। इति ।
अत्रान्धशब्दः ।


लोचनम्

न च तिरस्कृतत्वं धर्मिरूपेम, तस्यापि तावत्यनुगमात् । अत एव च परिणतवाचोयुकत्या व्यवहृतम्-आदिकवेरिति । ध्वनेर्लक्ष्यप्रसिद्धतामाह-रवीति । हेमन्तवर्णने पञ्चवट्यां रामस्योक्तरियं । अन्ध इति चोपहतदृष्टिः । जात्यन्धस्यापि गर्भे दृष्ट्युपधातात् । अन्धोऽयं पुरोऽपि न पश्यतीत्यत्र तिरस्कारोन्धार्थस्य न त्वत्यन्तं । इह त्वादर्शस्यान्धत्वमारोप्यमाणमपि न सह्यमिति । अन्धशब्दोऽत्र पदार्थस्फुटीकरणाशक्तत्वं नष्टदृष्टिगतं निमत्तीकृत्यादर्शं लक्षणया प्रतिपादयति । असाधारणविच्छायत्वानुपयोगित्वादिधर्मजातमसंख्यं प्रयोजनंव्यनक्ति । भट्टनायकेन तु यदुक्तम्---ऽइवशब्दयागाद्गोणताप्यत्र न कावित्ऽइति, तच्छ्लोकार्थमपरामृश्य । आदर्शचन्द्रमसोर्हि सादृश्यमिवशब्दो द्यातयति । निःश्वासान्ध इति चादर्शविशेषणं । इवशब्दस्यान्धार्थेन योजने आदर्शश्चन्द्रमा इत्युदाहरणं भवेत् । योजनं चैतदिवशब्दस्य क्लिष्टं ।

बालप्रिया

व्यक्तिरूपार्थस्यापीत्यर्थः । तावत्यनुगमादिति । लक्ष्ये व्यङ्ग्ये चार्थे अनुप्रवेशादित्यर्थः । अन्ध इति । अन्धपदमुख्यार्थ इत्यर्थः । ननु उपहतत्वं जननात्परतो यत्किञ्चित्कारणेन भवति, तथाच जात्यन्धे कथमन्धव्यवहार इत्यत आह--जात्यन्धस्यापीति । प्रकृतोदारणे अन्धपदवाच्यस्यात्यन्ततिरस्कृतत्वं विशदयितुमन्यत्र तदभावं दर्शयति---अन्ध इत्यादि । अन्ध इति च दृष्टेरुपहतत्वमारोप्योपचारेणोक्तिः । अत्र हेतुः--पुरोऽपीत्यादि । अन्धार्थस्येति । अन्धपदमुख्यार्थस्येत्यर्थः । इह त्विति । प्रकृतीदाहरणे इत्यर्थः । न सह्यमिति । आदर्शस्य दृष्टेरेवाभावादिति भावः । पदार्थेत्यादि । पद्रूपं सादृश्यमित्यर्थः । इदमेवात्र लक्ष्यतावच्छेदकं । नष्टदृष्टीति । उपहतदृष्टीत्यर्थः । आदर्शं प्रतिपादयतीति । पदार्थस्फुटीकरणाशक्तत्वेन रूपेणादर्शं बोधयतीत्यर्थः । अन्धार्थेन योजन इति । निश्वासान्ध इवेति योजन इत्यर्थः । इत्युदाहरणं भवेदिति । एवं योजनीयं भवेदित्यर्थः । भवत्वित्यत्राह---योजनं चैतदिति । निश्वासान्ध इव य आदर्शस्तद्रूपश्चन्द्रमा इति योजनं चेत्यर्थः । क्लिष्टमिति । अर्थस्य क्लिष्टत्वादिति भावः । इवशब्दस्योभयत्र सम्बन्धोऽस्त्विति शङ्कां परिहरनाह---न चेति । स इवेति । आदर्श इवेत्यर्थः । न युक्तेत्यत्र हेतुमुपहासगर्भमाह---ज्ञैमिनीयेति ।


गाणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं ।
णिरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः ।।


लोचनम्

न च निःश्वासेनान्ध इवादर्शः स इव चन्द्र इति कल्पना युक्ता । जैमिनीयसूत्रे ह्येवं योज्यते न काव्येऽपीत्यलं । गमणमिति ।
गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः ।।
     इति च्छाया । चशब्दोऽपिशब्दार्थे । गगनं मत्तमेधमपि न केवलं तारकितं । दारालुलितार्जुनवृक्षाण्यपि वनानि न केवलं मलयमारुतान्दोलितसहकाराणि । निरहङ्कारमृगाङ्का नीला अपिनिशा न केवलं सितकरकरधवलिताः । हरन्ति उत्सुकयन्तीत्यर्थः । मत्तशब्देन सर्वथैवेहासम्भवत्स्वार्थेन बाधितमद्योपयोगक्षीवात्मकमुख्यार्थेन सादृश्यान्मेघालंलक्षयतासमञ्जसकारित्वदुर्निवारत्वादिधर्मसहस्रं घ्वन्यते । निरहङ्कारशब्देनापि चन्द्रं लक्षयता तत्पारतन्त्र्यविच्छायत्वोज्जिगमिषारूपजिगीषात्यागप्रभृतिः ।। १ ।।
     अविवक्षितवाच्यस्य प्रभिन्नत्वमिति यदुक्तं तत्कुतः? न हि स्वरूपादेव भेदो भवतीत्याङ्क्य विवङ्क्षितवाच्यादेवास्य भेदो भवति, विवक्षा तदभावयोर्विरोधादित्यभिप्रायेणाह---असंलक्ष्येति ।

बालप्रिया

गगनं चेति वर्षावर्णनम्. च शब्द इति । गगञ्चार्जुनानि चेत्युभयत्र चशब्द इत्यर्थः । गगनं मत्तमेघमपीति अपिशब्दगम्यमर्थमाह---नेत्यादि । एवमुपर्यपि बोध्यं । वाच्यस्यात्यन्ततिरस्कृतत्वमुपपादयति----मत्तशब्देनेत्यादि । बाधितेति । अन्वयानुपपत्तिरूपबाधाविशिष्टेत्यर्थः । सादृश्यादिति । सादृश्यात्मकमुख्यार्थसम्बन्धान्निमित्तादित्यर्थः । सादृश्यं मर्यादोल्लङ्घनादिना । असभञ्जसेति । अनुचितेत्यर्थः । निरहङ्कारशब्देनापीति । प्रतिषेधस्य प्रसक्तिपूर्वकत्वान्नरहङ्कारशब्दो ह्यहङ्कारस्वरूपयोग्ये चेतनविशेषे एव स्वरसतः प्रयुज्यत इत्यतोऽत्र मुख्यार्थस्यान्वयानुपपत्तिरूपबाधा बोध्या । लक्षयतेति । सादृश्यादित्यनुषज्यते । तच्च मालिन्यादिना । तदित्यादि । तत्पदेन निरहङ्कारपरामर्शः तद्गतपारतन्त्र्यादीत्यर्थः । उज्जिगमिषा उन्नतीच्छा, तद्रूपा या जीगीषा उत्कर्षेच्छा तत्त्यागप्रभृतिरित्यर्थः ।। १ ।।
     सूत्रवृत्तिकृतोरैक्यमभिप्रेत्यावतारयति---अविवक्षितवाच्यस्येत्यादि । उक्तमिति । ऽप्रभेदप्रतिपादनायेऽति पूर्वग्रन्थेनोक्तमित्यर्थः । तदिति । प्रभिन्नत्वमित्यर्थः । कत इति । कस्मात्प्रतियोगिन इत्यर्थः । न हि स्वरूपादेव भेदो भवतीति । स्वस्मादेव भेदो न भवतीत्यर्थः । अस्येति । अविवक्षितवाच्यस्येत्यर्थः । विवक्षेत्यादि । विवक्षितत्वोविवक्षितस्वयोरेकत्रासम्भवादित्यर्थः । ननु विवक्षितान्यपराभिधेयस्येति


अत्र मत्तनिरहङ्कारशब्दौ ।
असंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ।। २ ।।
     मुख्यतया प्रकाशमानो व्यङ्ग्योऽर्थो ध्वनेरात्मा । स च वाच्यार्थापेक्षया कश्चिदलक्ष्यक्रमतया प्रकाशते, कश्चित्क्रमेणेति द्विधा मतः ।


लोचनम्

सम्यङ्न लक्षयितुं शक्यः क्रमो यस्य तादृश उद्द्योत उद्द्योतनव्यापारोऽस्येति बहुव्रीहिः । ध्वनिशब्दसांनध्याद्विवक्षिताभिधेयत्वेनान्यपरत्वमत्राक्षिप्तमिति बहुव्रीहिः । ध्वनिशब्दसांनिध्याद्विवक्षिताभिधेयत्वेनान्यपरत्वमत्राक्षिप्तमिति स्वकण्ठेन नोक्तं । ध्वनेरिति । व्यङ्ग्यस्येत्यर्थः । आत्मेति । पूर्वश्लोकेन व्यङ्ग्यस्य वाच्यमुखेन भेद उक्तः । इदानीं तु द्योतनव्यापारमुखेन द्योत्यस्य खात्मनिष्ट एवेत्यर्थः । व्यङ्ग्यस्य ध्वनेर्द्येतने स्वात्ननि कः क्रम इत्याशङ्क्याह----वाच्यार्थापेक्षयेति । वाच्योऽर्थो विभावादिः ।। २. ।।
     तत्रेति । तयोर्मध्यादित्यर्थः । यो रसादिरर्थः स एवाक्रमो ध्वनेरात्मा न त्वक्रम एव सः । क्रमत्वमपि हि तस्य कदाचिद्भवति । तदा चार्थशक्त्युद्भवानुस्वानरूपभेदतेति वक्ष्यते । आत्मशब्दः स्वभाववचनः प्रकारमाह । तेन रसादिर्योऽर्थः स ध्वनेरक्रमो नामभेदः । असंलक्ष्यक्रम इति यावत् । ननु किं सर्वदैव रसादिरर्थो ध्वनेः प्रकारः? नेत्याह; किं तु यदाङ्गित्वेन प्रधानत्वेनावभासमानः । एतच्च सामान्यलक्षणेऽगुणीकृतस्वार्थाविऽत्यत्र

बालप्रिया

कुतो नोक्तमित्यत आह---ध्वनिशब्देत्यादि । विवक्षिताभिधेत्वेनेति । बिवक्षिताभिधेयत्वोक्त्येत्यर्थः । अत्रेति । अभिधेये इत्यर्थः । आक्षिप्तमिति । दर्शितमित्यर्थः । विशेषमाह---पूर्वश्लोकेनेत्यादि । इदानीमिति । अस्मिन्श्लोके इत्यर्थः । स्वात्मनिष्ठ एवेति । ऽभेद उक्तऽइत्यस्यानुषङ्गः । वृत्तौऽध्वनेरात्मेऽत्यस्य विवरणम्---ऽमुख्यातयेऽत्यादि । वाच्यार्थेत्यादिकमवतारयति---व्यङ्ग्यस्येत्यादि ।। २ ।।
     रसेत्यादिकारिकायामङ्गिभावेन भासमानो रसभावादिः अक्रमो घ्ननेरात्मा व्यवस्थित इत्यन्वयो वक्तव्यः । तथा च तथाविधरसभावादिसामान्यमसंलक्ष्यक्रम इत्यर्थः सिध्यति । स चार्थो बाधितः, क्वचिद्भावादेः संलक्ष्यक्रमत्वस्याप्यङ्गीकृतत्वादतो विवक्षितमर्थं व्याचष्टे---यो रसादिरित्यादि । अक्रमः असंलक्ष्यक्रमः । न त्वक्रम एव स इति । रसभावादिरक्रम एव भवतीति तु नैवेत्यर्थः । कुत इत्यत्राह---क्रमेति । संलक्ष्यक्रमत्वमपीत्यर्तः । ऽक्रमवत्त्वम्ऽ इति चि पाठः । तस्य भावादेः । वक्ष्यत इति । "एवंवादिनि देवर्षावि"त्याद्युदाहरणपूर्वकं वक्ष्यत इत्यर्थः । अङ्गिभावेन भासमान इत्यस्य विवरणम्--अङ्गित्वेनेत्यादि एतदुक्तेः पौनरुक्त्यमाशङ्कते--रतच्चेत्यादि ।


तत्र
रसभावतदाभासतत्प्रशान्त्यादिरक्रमः ।
ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ।। ३ ।।


लोचनम्

यद्यपि निरूपितम्, तथापि रसवदाद्यलङ्कारप्रकाशनावकाशदानायानूदितं । स च रसादिर्ध्वनिर्व्यवस्थित एव; न हि तच्छून्यं काव्यं किञ्चिदस्ति । यद्यपि च रसेनैव सर्वं जीवति काव्यं तथापि तस्य रसस्यैकधनचमत्कारात्मनोऽपि कुतश्चिदंशात्प्रयोजकीभूतादधिकोऽसौ चमत्कारो भवति । तत्र यदा कश्चिदुद्रिक्तावस्थां प्रतिपन्नो व्यभिचारी चमत्कारातिशयप्रयोजको भवति, तदा भावध्वनिः । यथा----
तिष्टेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोववर्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ।।
     अत्र हि विप्रलम्भरससद्भावेऽपीयति वितर्काख्यव्यभिचारिचमत्क्रियाप्रयुक्त आस्वादातिशयः । व्यभिचारिण उदयस्थित्यपायत्रिधर्मकाः । यदाह---ऽविविधमाभिमुख्येन चरन्तीति व्यभिचारिणःऽ इति । तत्रोदयावस्ताप्रयुक्तः कदाचित् । यथा--
योते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया
निर्ध्यातं परिवर्तनं पुनरपि प्रारब्धुमङ्गीकृतं ।

बालप्रिया

परिहरति---तथापीत्यादि । रसवदादीति । अङ्गिभावेन भासमान इत्युक्तावङ्गभावेन भाने कः प्रकार इति जिज्ञासायाः सम्भवादिति भावः । व्यवस्थित इति पदं व्याचष्टे----स चेत्यादि । व्यवस्थित इति । सर्वत्र काव्ये स्थित इत्यर्थः । भावेत्यादिना निर्दिष्ट भावादिध्वनिं शङ्कापूर्वकं व्यवस्थापयति---यद्यपीत्यादि । तस्येति । काव्यजीनितस्येत्यर्थः । ऽरसस्य अंशादिऽति सम्बन्धः । रसाङ्गभूतादित्यर्थः । तिष्टेदिति । विक्रमोर्वशीये पुरूरवसो वचनं । सा उर्वशी । कोपवसाद्धेतोः । प्रभावेणान्तर्धानकरणविद्यया पिहिता अन्तर्हिता ।
     तिष्ठेदिति सम्भावनायां लिङ् । ऽएतन्न युक्तं यतऽ इति शेषोऽत्र बोध्यः । एवमुत्तरत्रापि । स्वर्गाय स्वर्गं गन्तुं । विबुधद्विषः असुराः अगोचरं अविषयत्वं । विधिः प्रकारः यदाहेति । विविधमित्यनेन त्रिप्रकारत्वमपि दर्शितमिति भावः । उदयावस्थाप्रयुक्त इति । उदयौन्मुख्यप्रयुक्त इत्यर्थः ।
     यात इति । शय्यामनुप्राप्तया प्रियेण सह शयानया तन्वङ्ग्या । गोत्रस्य नाम्नो विपर्यये वनितान्तरनाम्नीत्यर्थः । श्रुतिपथं याते श्रुते सति । परिवर्तनं निर्ध्यातं चिन्तितं । प्रारब्धुमिति । परिवर्तनमित्यस्यानुषङ्गः । तदित्यस्यापकर्षो वा ।


लोचनम्

भूयस्तत्प्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया
तन्वङ्ग्या न तु पारितः स्तनभरः क्रष्टुं प्रियस्योरसः ।।
     अत्र हि प्रणयकोपस्योज्जिगमिषयैव यदवस्थानं न तु पारित इत्युदयावकाशनिराकरणात्तदेवास्वादजीवितं । स्थितिः पुनरुदाहृता---ऽतिष्टेत्कोपवशात्ऽ इत्यादिना । क्वचित्तु व्यभिचारिणः प्रशमावस्थया प्रयुक्तश्चमत्कारः । यथोदाहृतं प्राक्ऽएकस्मिन्शयने पराङ्मुखतयाऽ इति । अयं तत्प्रशम इत्युक्तः । अत्र चेर्ष्याविप्रलम्भस्य रसस्यापि प्रशम इति शक्यं योजयितुं । क्वचितु व्यभिचारिणः सन्धिरेव चर्वणास्पदं । यथा---
ओसुरु सुम्ठि आहं मुहु चुम्बौ जेण ।
अमिअरसघोण्टाणं पडिज्ञाणिउ तेण ।।
     इत्यत्र श्रुत्युक्ते तु कोपे कोपकषायगद्गदमन्दरुदिताया येन मुखं चुम्बितं तेनामृतरसनिगरणविश्रान्तिपरम्पराणां तृप्तिर्ज्ञातेति कोपप्रसादसन्धिश्चमत्कारस्थानं ।

बालप्रिया

स्यापकर्षो वा । पुनरपि पुनस्तु । प्रारब्धुमङ्गीकृतं चिकीर्षितं । भूयः तत्परिवर्तनं । प्रकृतं प्रयत्नविषयीकृतं । कृतं चेति । भूयस्तदित्यनयोरनुषङ्गः । शिथिलक्षिप्तैकदोर्लेखया पूर्वं शिथिला शितिलीकृता पश्चादन्यत्र क्षिप्ता च एकदोर्लेखा यया तथा सत्या । भूयःतत्परिवर्तनं । कृतं च अनुष्टितं च । जानातीच्छति यतते चेष्टते इति क्रमोऽत्र प्रदर्शितः । न त्विति । तुशब्दो विशेषे । ऽस्तनभरः प्रियस्य उरसः क्रष्टुं न पारितऽ इति सम्बन्धः । प्रतीहारेन्दुराजेन काव्यालङ्कार सङ्ग्रहव्याख्याने श्लोकोऽयं व्याख्यातः । उज्जिगमिषयव । उदयौन्मुख्यावस्थयैव । एवकारार्थं विवृणोति---न त्वित्यादि । इत्युक्त इति । पूर्वैरिति शेषः । स्वाभिप्रायमाह---अत्रेत्यादि । ओसुरु इति ।
रिर्ष्याश्रुशोभिताया मुखं चुम्बितं येन ।
अमृतरसनिगरणानां तृप्तिर्ज्ञाता तेन ।।
     इति छायेति प्रतिभाति । निगरणानां भक्षणानां करणरूपार्थे षष्टी । यथा "नाग्निः तृप्यति काष्टाना"मित्यादि । इत्यत्र श्रुत्युक्ते इतिर् । इर्श्याशब्देनोक्तेऽपीविश्रमस्थानं तस्य । यद्वा---अमृतरसस्य विश्रान्तिपूर्वकाणि निगरणानि विश्रम्य विश्रम्य निगरणानि । ज्ञातेत्यन्तेन वाच्यार्थकथनं । कोपप्रसादसन्धिरिति । नायिकागतो ध्वन्यमान इति शेषः ।


लोचनम्

क्वचिद्य्वभिचार्यन्तरशबलतैव विश्रान्तिपदं । यथा---
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखं ।
किं वक्ष्यन्त्यपकल्मषाः कुतधियः स्वप्नेऽपि सा दुर्लभा
चेतः सावस्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ।।
     अत्र हि वितकारैत्सुक्ये मतिस्मरणे शह्कादैन्ये धृतिचिन्तने परस्परं बाध्यबाधकभावेन द्वन्द्वशो भवन्ती, पर्यन्ते तु चिन्ताया एव प्रधानतां ददती परमास्वादस्थानं । एवमन्यदप्युत्प्रेक्ष्यं । एतानि चोदयसन्धिशबलत्वादिकानि कारिकायामादिग्रहणेन गृहीतानि ।
     नन्वेवं विभावानुभावमुखेनाप्यधिकश्चमत्कारो दृश्यत इति विभावद्वनिरनुभावध्वनिश्च वक्तव्यः । मैवम्; विभावानुभावौ तावत्स्वशब्दवाच्यावेव । तच्चर्वणापि चित्तवृत्तिष्वेव पर्यवस्यतीति रसभावेभ्यो नाधिकं चर्वाणीयं । यदा तु विभावानुभावावपि व्यङ्यौ भवतस्तदा वस्तुध्वनिरपि किं न सह्यते । यदा तु विभावाभासाद्रत्याभासोदयस्तदा

बालप्रिया

     क्वाकार्यमिति । देवयानीमभिलषतो ययातेरियमुक्तिः । अकार्यं ब्राह्मणकन्यकासक्तिरूपं । क्वद्वयेन द्वयोः सहानवस्थानप्रतीतिः । तेनात्यन्तानौचित्यं व्यज्यते । अत्र वितर्कः । भूयोऽपीत्यादि । अत्रौत्सुक्यं । दोषाणां प्रमादादीनां । प्रशमाय आत्यन्तिकनाशाय । श्रुतं शास्त्रश्रवणं । अत्र मतिः । अहो इत्यादि । कान्तं मनोहरं मुखं तस्याः मुखं । अत्र स्मृतिः । अपकल्मषाः अपगतं कल्पषं दुश्चरितं येभ्यस्ते । कृते सुचरिते धीर्येषां । यद्वा-कृता शिक्षिता धीर्येषां ते पण्डिताः । किं वक्ष्यन्ति । अत्र शङ्का । स्वप्नेऽपि अदृष्टाश्रुतपूर्वघटकेऽपि सा दुर्लभा । अत्राभिमताप्राप्तिप्रयुक्तं दैन्यं । चेत इत्यादि । अत्र धृतिः । क इत्यादि । धन्यः नाहमिव मन्दभाग्यः । धास्यति पास्यति । अत्र चिन्ता च व्यज्यते । तदाह-अत्र हीत्यादि । वितकारैत्सुक्ये इत्यादि । क्वाकार्यमित्याद्येकैकपादस्थवाक्याभ्यां क्रमेण व्यज्यमाने इति भावः । परस्परं बाध्येति । वितर्कादिरौत्सुक्यादिना बाध्यत इत्यर्थः । ऽभवन्ती ददतीऽति च द्विवचनं । चिन्ताया इति । अन्त्यवाक्येन व्यज्यमानाया इति भावः ।
     प्रसङ्गाच्छङ्कते---नन्विति । समाधत्ते---मैवमिति । स्वशब्दवाच्यावेव स्वशब्देनाभिधातुं शक्यावेव । चित्तवृत्तिष्वेवेति । रत्यादिचित्तवृत्तिचर्वणास्वेवेत्यर्थः । किं न सह्यत इति । इष्ट एवेति भावः । ऽतदाभासेऽति निर्दिष्टमाभासं निरूपयति---यदा त्वित्यादि । विभावानुभावाविति । रसगङ्गाधरादौ विस्तृतमेतत् । विभावाभासादिति । विभावस्याभासेऽनुभावोऽप्याभासी भवति । शङ्कते--यद्यपीति ।


लोचनम्

विभावानुभासाच्चर्वणाभास इति रसाभासस्य विषयः । यथा रावणकाव्याकर्णने शृङ्गाराभासः । यद्यपिऽशृङ्गारानुकृतिर्या तु स हास्यःऽ इति मुनिना निरूपितं तथाप्यौत्तरकालिकं तत्र हास्यरसत्वं ।
दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं
चेतः कालकलामपि प्रकुरुते नावस्थितिं तां विना ।
     इत्यत्र तु न हास्यचर्वणावसरः । ननु नात्र रतिः स्थायिभावोऽस्ति । परस्परास्थाबन्धाभावात्केनैतदुक्तं रतिरिति । रत्याभासो हि सः । अश्चाभासता येनास्य सीता मय्युपेक्षिका द्विष्टा वेति प्रतिपत्तिर्हृदयं न स्पृशत्येव । तत्सपर्शे हि तस्याप्यभिलाषो विलीयेत । नच मयीयमनुरक्तेत्यपि निश्चयेन कृतं कामकृतान्मोहात् । अत एव तदाभासत्वं वस्तुतस्तत्र स्थाप्यते शुक्तौ रजताभासवत् । एवच्च शृङ्गारानुकृतिशब्दं

बालप्रिया

मुनिना निरूपितमिति । तथा च तत्र हास्यो रसो वक्तुं न्याय इति भावः । औत्तरकालिकमिति । शृङ्गारचर्वणोत्तरकालभवमित्यर्थः । तच्चर्वणोत्तरमयमननुरक्तां कामयत इति रावणामिलाषाद्यालम्वितस्य हासस्य सहृदयानामुद्बोधादिति भावः ।
     दूरेति । ऽएतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः सम्पद्येत कथं तदाप्तिसुखंमित्येतन्न वेझि स्फुटम्ऽ इत्युत्तरार्धं । ऽप्रकुरुतऽ इत्यत्रऽप्रसहत इति च पाठः । दूराकर्षणं मोहश्च तत्कारी यो मन्त्रः तस्मिन्नवेत्युपमा । तया दूराकर्षकत्वादेरव्यभिचारो द्योत्यते । तन्नाम्नि सीतानान्मि । अनङ्गातुरैः एतैः अङ्गैः । आकुलितस्य विह्वलीकृतस्य विक्षता नष्टा रतिः विषयान्तरेषु रुचिर्यस्य तस्य । अरतिमापन्नस्येति । यावत् । मे इत्यनुषज्यते । न हास्येति । आदाविति शेषः । किन्तु शृङ्गाराभासचर्वणैवेति भावः । केनेति । रतिरित्येतत्केनोक्तमित्यन्वयः । अत्र प्रतीयमाना रतिरभिलाषरूपा चित्तवृत्तिरेव, न तु स्थायिभाव इति भावः । रत्याभासो हि स इति । सः रावणगताभिलाषरूपा चित्तवृत्तिः । रात्याभासः स्थायिभूतरतित्वेनाभासमानः । अतश्चेति । वक्ष्यमाणहेतुनेत्यर्थः । अस्य रावणत्य मयिविषये । उपेक्षिका उपेक्षावती । द्विष्टा द्वेषवती । तत्स्पर्शे तथाविधप्रतीतिस्पर्शे । तस्य रावणस्य । न चेति । कृतमिति निषेधवाची निपातः । इयं मय्यनुरक्तेति निश्चयस्याभावश्च नेत्यर्थः । तन्निश्चयश्चास्तीति यावत् । अत्र हेतुमाह--कामेत्यादि । ऽनिश्चयेन कृत्यऽति च पाठः । तत्पक्षेऽन क कृत्यम्ऽ इत्यन्वयः । इति निश्चयेन न च प्रयोजनमित्यर्थः । तन्निश्चयो ह्यभिलाषजननेऽनुपयोगीति भावः । अत पक्षेऽकामकुतान्मोहादिऽत्यस्य न स्पृशत्येवेत्यनेनान्वयो बोध्यः । अत एव उक्ताद्धेतोरेव । तदाभासत्वं रत्याभासत्वं । तत्र अभिलाषरूपायां रावणचित्तवृत्तो । स्थाप्यत इति । प्रतिपत्तृभिरिति शेषः । शृङ्गारानुकृतिशब्दं प्रयुञ्जान इति । शृङ्गारानुकृतिर्या तु स हास्य इति प्रयुञ्जान इत्यर्थः ।


लोचनम्

प्रयुञ्जानो मुनिरपि सूचितवान् । अनुकृतिरमुख्यता आभास इति ह्येकोऽर्थः । अत एवाभिलाषे एकतरनिष्टेऽपि शृङ्गरशब्देन तत्र तत्र व्यवहारस्तदाभासतया मन्तव्यः । शृङ्गारेम वीरादीनामप्याभासरूपतीपलक्षितैव । एवं रसध्वनेरेवामी भावध्वनिप्रभृतयो निष्यन्दा आस्वादे प्रधानंप्रयोजकमेवमंशं विभज्य पृथग्व्यवस्थप्यते । यथा गन्धयुक्तिज्ञैरेकरससम्मूर्च्छितामोदोपभोगेऽपि शुद्धमास्यादिप्रयुक्तमिदं सौरभमिति । रसध्वनिस्तु स एव योऽत्र मुख्यतया विभावानुभावव्यभिचारिसंयोजनोदितस्थायि प्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवास्वादप्रकर्षः । यथा---
कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले
मध्येऽस्यास्त्रिवलीतरङ्गविषमे निःष्पन्दतामागता ।
मद्दृष्टिस्तृषितेव सम्प्रति शनेरारुह्य तुङ्गो स्तनौ
साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ।।
     अत्र हि नायिकाकारानुवर्ण्यमानस्वात्मप्रतिकृतिपवित्रितचित्रफलकावलोकनाद्वत्सराजस्य

बालप्रिया

इति ह्योकोऽर्थ इति । अनुकृत्यादि शब्दाः पर्याया इत्यर्थः । शृङ्गारेणेति । शृङ्गारानुकृतिरिति मुनिवचनस्थशृङ्गारशब्देनेत्यर्थः । वीरादीनामिति । तेषां गुर्वाद्यालम्बन्त्वे ह्यभासाता । उपसंहरति---एवमित्यादि । कथं तर्हि पृथग्व्यवहार इत्यत आह---आस्वाद इति । ऽप्रधानंप्रयोजकमंशमेवं विभज्येऽ त्यन्वयः । पृथगव्यवस्थाप्यत इति । पृथक्रसध्वनित्वभावध्वनित्वादिभिन्नरूपेम । अत्र दृष्टान्तमाह--यथेति । गन्धयुक्तिः गन्धद्रव्ययोजना । एकेति । एकास्वादः यः सम्मूर्च्छितस्य व्याप्तस्य आमोदस्य उपभोगः तस्मिन्नपि । मांसीगन्धद्रव्यविशेषः । इतीति पृथगव्यवस्थाप्यत इत्यस्यानुषङ्गः । विभावेति । विभावादीनां त्रयाणां संयोजनेन तच्चर्वणाया उदिता उत्पन्ना स्थायिप्रतिपत्तिः यस्य ।
     कृच्छेणेति । रत्नावल्यां राज्ञो विदूषकं प्रतीयमुक्तिः । अस्या इत्यस्योरुयुगमित्यादिभिः पञ्चमिः सम्बन्धः । त्रिवल्येव तरङ्गः तरङ्गतुल्या त्रिवली वा तेन विषमे निम्नोन्नते । तृषितेव तृषितत्वादिव । जललवाः अश्रुकणाः । तत्प्रस्यन्दिनीति । थथा लिखिते इति बोध्यं । अत्रोरुयुगस्य नितम्बस्य चातिविशालत्वं मध्यस्य तनुत्वं स्तनयोर्महत्वं च गम्यत इति सौन्दर्यातिशयो जललवेत्यादिना नायिकाया विरहदुःखातिशयस्च व्यज्यते । कस्याश्चिदरण्यभ्रमणवृत्तान्तस्य चात्र समाधिः । नायिकेति । नायिकाकारेण लिखितनायिकाप्रतिकृत्या हेतुना अनुवर्ण्यमानं नर्मसचिवं प्रतिमहर्वर्ण्यभानं स्वात्मप्रतिकृत्या लिखितनायकप्रतिकृत्या पवित्रितं च, यद्वा--नायिकाकारेण


     रसादिरर्थो हि सहेव वाच्येनावभासते । स चाङ्गित्वनावभासमानो ध्वनेरात्मा ।
     इदानीं रसवदलङ्कारादलक्ष्यक्रमद्योतनात्मनो ध्वनेर्विभक्तो विषय इति प्रदर्श्यते---
वाच्यवाचकचारुत्वहेतुनां विविधात्मनां ।
रसादिपरता यत्र स ध्वनेर्विषयो मतः ।। ४ ।।


लोचनम्

परस्परास्थाबन्धरूपो रतिस्थायिभावो विभावानुभावसंयोजनवशेन चर्वणारूढ इति । तदलं बहुना । स्थितमेतत्--रसादिरर्थोऽङ्गित्वेन भासमानोऽसंलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेः प्रकार इति । सहेवेति । इवशब्देनासंलक्ष्यता विद्यमानत्वेऽपि क्रमस्य व्याख्याता । वाच्येनेति । विभावानुभावादिना ।। ३ ।।
     नन्वङ्गित्वेनावभासमान इत्युच्यते; तत्राङ्गत्वमपि किमस्ति रसादेर्येन तन्निराकरणायैतद्विशेषणमित्यभिप्रायेणोपक्रमते---इदानीमित्यादिना । अह्गत्वमस्ति रसादीनां रसवत्प्रेय ऊर्जस्विसमाहितालह्काररूपतायामिति भावः । अनया च भङ्ग्या रसवदादिष्वलङ्कारेषु रसादिध्वनेर्नान्तर्भाव इति सूचयति । पूर्वं हि समासोक्त्यादिषु वस्तुध्वनेर्नान्तर्भाव इति दर्शितं । वाच्यं च वाचकं च तच्चारुत्वहेतवश्चेति द्वन्द्वः । वृत्तावपि शब्दाश्चालङ्काराश्चार्थाश्चालङ्काराश्चेति द्वन्द्वः । मत इति । पूवमेवैतदुक्तमित्यर्थः । ननूक्तं भट्टनायकेन---"रसो यदा परगततया प्रतीयते तर्हि ताटस्थ्यमेव स्यात् । न च

बालप्रिया

कर्त्रा अनुवर्ण्यमाना दृश्यमाना,ऽनिर्वर्ण्यमानेऽति पाठः साधिष्ठः, या स्वात्मप्रतिकृतिस्तया पवित्रितं यच्चित्रफलकं तदवलोकनादित्यर्थः । प्रबुद्ध इति शेषः । चर्वणारूढ इति । सहृदयचर्वणास्पदमित्यर्थः ।। ३ ।।
     वाच्येत्यादिकारिकायांऽशब्दालङ्काराऽ इत्यादिवृत्तौ चार्थान्तरभ्रमः स्यादित्यतो विवक्षितमर्थं व्याचष्टे---वाच्यत्र्चेत्यादि । प्रसङ्गाद्रसखरूपं व्यवस्थापयिष्यन्नादौ परमतान्युपन्यस्यति--ननूक्तमित्यादि । नन्विति शङ्काद्योतकं भट्टनायकाद्युक्तानां पूर्वपक्षत्वमगवमयति । कथमुक्तमित्यत्राह-ऽरसऽ इत्याद्यऽप्रदानमेवेऽत्यन्तेन । रस इति । रत्यादिरूपः शृङ्गारादिरस इत्यर्थः । यदेति यदीत्यर्थे । परेति । सहृदयादन्येत्यर्थः । ताटस्थमिति । सहृदयासम्बन्धित्वमित्यर्थः । ताटस्थ्ये सति स्वरसनीयत्वं न भवेदिति भावः । न चेत्यादि । ऽअसौ स्वगतत्वेन न च प्रतीयतऽ इति सम्बन्धः तत्प्रत्यायकाभावादिति भावः । स्वगत्वेन प्रतीत्यभ्युपगमे बाधकञ्चाह--स्वात्मेत्यादि ।


लोचनम्

स्वगतत्वेन रामादिचरितमयात्काव्यादसौ प्रतीयते । स्वात्मगतत्वेन च प्रतीतौस्वात्मनि रसस्योत्पत्तिरेवाभ्युपगता स्यात् । सा चायुक्ता सीतायाः । सामाजिकं प्रत्यविभावत्वात् । कान्तात्वं साधारणं वासनाविकासहेतुविभावतायां प्रयोजकमिति चेत्---देवतावर्मनादौ तदपि कथं । न च स्वकान्तास्मरणं मध्ये संवेद्येते । अलोकसामान्यानां च रामादीनां ये समुद्रसेतुबन्धादयो विभावांस्ते कथं साधारण्यं भजेयुः । न चोत्साहादिमान्रामः स्मर्यते, अननुभूतत्वात् । शब्दादपि तत्प्रतिपत्तौ न रसोपजनः ।

बालप्रिया

स्वात्मगतत्वेन सहृदयात्मगतत्वेन । स्वात्मनीत्यादि । प्रतिपत्तुः स्वचित्तवृत्तेरेव प्रत्यक्षरूपा प्रतीतिर्भवति, तथा च तच्चित्तवृत्तेरुत्पत्तिरावस्यकी । विषयं विना प्रत्यक्षायोगादिति भावः । ननु रस उत्पद्यतामित्यत्राह-सा चेत्यादि. सा च स्वात्मनि रसोत्पतिश्च । पूर्वं रामादीति निर्देशात्सीताया इत्युक्तं । सीतादेरित्यर्थः । सामाजिकमिति । सहृदयमित्यर्थः । शङ्कते---कान्तात्वामित्यादि । साधारणं सोतासाधारणं । वासनेति । वासनायाः सहृदयगतरत्यादिवासनायाः यो विकाकौद्बोधः तस्य हेतुर्यो विभावः । तस्य भावस्तत्ता तस्यां वासनाविकासहेतुतारूपायां विभावतायामित्यर्थः । हेतुरिति पाठे हेतुः सन्निति योजना । प्रयोजकमिति । तथा च सीतायाः मानुषीत्वेन सीतादौ सहृदयानां कान्तात्वसंवेदनं भवतीति भावः । प्रतिवक्ति---देवतेत्यादि । तदपि कान्तात्वसंवेदनमपि । कथमिति । देवतास्वमात्रादेर्नायिकात्वेन वर्णनस्थले देवतादावारध्यत्वज्ञानेन प्रतिबन्धात्तत्र काम्यत्वरूपकान्तात्वसंवेदनं भवतीत्यर्थः । ननु काव्यादितः सीतादिज्ञाने जाते सहृदयानां स्वकान्तास्मरणं जायते, तेन च तद्वासनोद्वोध इत्यत आह---न चेत्यादि । न संवेद्यते सहृदयैर्न चानुभूयते । वीररसविषयेऽप्याह---लोकेत्यादि । अलोकसामान्यानां लोकसाधारणभिन्नां । विभावाः सहृदयगतोत्साहविभावाः । साधारण्यं सर्वसाधारमत्वं । कथं भजेयुरिति । समुद्रसेतुबन्धनानौ उत्साहहेतुः स्वकृतिसाध्यत्वबुद्धिर्हृदयसंवादो वा सहृदयानां नोत्पद्येतेति भावः । रामादिगतोत्साहादिस्थायिज्ञानमपि सहृदयानांरसोद्बोधे हेतुस्तदपि दुर्घटमित्याह---न चेत्यादिना । ननु काव्यादनुभवरूपा तत्प्रतीतिर्भवतीत्यत्राह---शब्दादित्यादि । तत्परतीतौ रामादिगतोत्साहप्रतीतौ । सत्यामपिति योजना । न रसोपजनः सहृदयानां न रसोत्पत्तिः । अत्र दृष्टान्तमाह---प्रत्यज्ञादित्यादि ।


लोचनम्

प्रत्यक्षादिव नायकमिथुनप्रतिपत्तौ । उत्पत्तिपक्षे च करुणस्योत्पादाद्दुःखित्वे करुणप्रेक्षासु पुनरप्रवृत्तिः स्यात् । ऽतन्न उत्पत्तिरपि, नाप्यभिव्यक्तिः, शक्तिरूपस्य हि शृङ्गारस्यभिव्यक्तौ विषयार्जनतारतम्यप्रवृत्तिः स्यात्तत्रापि किं खगतोऽभिव्यज्यते रसः परगतो वेति पूर्ववदेव दोषः । तेन न प्रतीयते नोत्पद्यते नाभिव्यज्यते काव्येन रसः । किं त्वन्यशब्दवैलक्षण्यं काव्यात्मनः शब्दस्य त्र्यंशताप्रसादात् । तत्राभिदायकत्वं वाच्यविषयम्, भावकत्वं रसादिविषयम्, भोगकृत्वं सहृदयविषयमिति त्रयोंऽशभूता व्यापाराः । तत्राभिधाभागो यदि शुद्धः स्यात्तत्तन्त्रादिभ्यः शास्त्रन्यायेभ्यः श्लेषाद्यलङ्कारणां को भेदः? वृत्तिभेदवैचित्र्यं चाकिञ्चित्करं । श्रुतिदुष्टादिवर्जनं च किमर्थम्?

बालप्रिया

प्रतिपत्ताविवेति सम्बन्धः दूषणान्तरमाह---उत्पत्तिपक्षे इत्यादि । सहृदयानामिति शेषः । करुणप्रेक्षासु करुणरसप्रधाननाट्येषु । तदिति । तस्मादित्यर्थः । नाप्यभिवियक्तिरिति । रसस्येति शेषः । तस्य प्रागसिद्धत्वादिति भावः । पूर्वसिद्धमेव हि घटादिकं प्रदीपादिनाभिव्यज्यते । ननु रत्यादिरूपो रसः सूक्ष्मरूपेम सहृदयानामात्मनि वर्तत इत्यतः सिद्ध एवेत्यत्राह---शक्तीत्यादि । शक्तिरूपस्य वासनातत्मकसूक्ष्मरूपेण स्थितस्य । शृङ्गारस्य रतेः । शृङ्गारपदं वीरादेरुपलक्षकं । अभिव्यक्तौ सहृदयहृदयेऽभिव्यक्त्यङ्गीकारे । विषयेति । विषयो रत्यादिविषयः कान्तादिः अभिव्यक्त्युपाय इति यावत् । तस्य अर्जने सम्पादने तारतम्यप्रवृत्तिः तरतमभावेन प्रवृत्तिः स्यादिति । यथा अन्धकारस्थघटादेरधिकाधिकाभिव्यक्तये तदुपायभूतालोकस्याधिकाधिकस्यार्जने जनानां प्रवृत्तिस्तथा वासनात्मतया अन्तः स्थितस्य रत्यादेरधिकाधिकाभिव्यक्तये तदुपायभूतस्य विभावादेरधिकाधिकस्यानुभवरूपार्जने सहृदयानां प्रवृत्तिः प्रसज्येतेत्यर्थः । अधिकाधिकविषयानुभवे वासनाया झटित्यभिव्यरक्तिसम्भवादिति भावः । दूषणान्तरमाह---तत्रापीत्यादि । तत्राप अभिव्यक्तिपक्षेऽपि । उपसंहरति---तेनेत्यादि । न प्रतीयत इत्यादि । सहृदयात्मनीति शेषः । स्वमतमाह---किन्त्वित्यादि । अन्यशब्देति । शास्त्रीयादिशब्देत्यर्थः । शतेति । त्रयोंऽसा यस्य तस्य भावस्तत्ता, तस्याः प्रसादात्सम्बन्धादित्यर्थः । त्र्यंशतां दर्शयति---तत्रेत्यादि । वाच्येति. वाच्योऽर्थो विषयो यस्य तत्, वाच्यार्थसम्बन्धीत्यर्थः । रसादीति । रसो रत्यादिः, आदिपदेन विभावदेर्ग्रहणं । भावकत्वभोगकृत्वयोः स्वरूपं दर्शयिस्तदङ्गीकारे युक्तिं तावदाह-तत्रेत्यादि । अभिधाभागः अभिधायकत्वांशः । शुद्धः इततरव्यापारानालिङ्गितः तत्तर्हि । तन्त्रादिभ्य इति । तन्त्रं नामानेकार्थबोधेच्छया पदस्यैकस्य सकृदुच्चारणं । को भेद इति । शास्त्रै


लोचनम्

तेन रसभावनाख्यो दिवतीयो व्यापारः; यद्वशदभिधा विलक्षणैव । तच्चैतद्भावकत्वं नाम रसान्प्रति यत्काव्यस्य तद्विभावादीनां साधारणत्वापादनं नाम । भाविते च रसे तस्य भोगः योऽनुभवस्मरणप्रतिपत्तिभ्यो विलक्षण एव द्रुतिविस्तरविकासात्मा रजस्तमोवैचित्र्यानुविद्धसत्त्वमयनिजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणः परब्रह्मास्वादसविधः । स एव च प्रधानभूतोंऽशः सिद्धरूप इति । व्युत्पत्तिर्नामाप्रधानमेवेऽति ।

बालप्रिया

"हलन्त्यमि"ति पणिनीयसूत्रादाविव "सर्वदो माधव" इत्यादिश्लेषस्थलेऽपि तन्त्रादिनानेकार्थबोधसम्भवादुभयोर्भेदो न स्यादित्यर्थः । वृत्तीति । वृत्तिभेदाः उपनागरिकाद्याः तेषां वैचित्र्यं च अकिञ्चित्करमिति । काव्ये अभिधामात्रस्वीकारे व्यर्थमित्यर्थः । किमर्थमिति. निष्फलमित्यर्थः । तेनेति । उक्तहेतुनेत्यर्थः । रसभावनेति । रत्यादिभावनेत्यर्थः । द्वितीय इति । अभिधानन्तरभावीत्यर्थः । यद्वशादिति । भावकत्वव्यापाररूपप्रयोजकादित्यर्थः । विलक्षणैवेति । शास्त्रीयादिशब्दगताभिधातो विचातीयैवेत्यर्थः । तच्चेत्यादि । रसान्प्रति एतद्भावकत्वं नाम तदिति सम्बन्धः । काव्यस्येति. नाट्यस्याप्युपलक्षणं । तद्विभावादीनामिति । तस्य रत्यादिरूपरसस्य विभावादित्रयाणां चेत्यर्थः । साधारमत्वापादनमिति । साधारणीकरणमित्यर्थः । सामान्येनोपस्थापकत्वमिति यावत् । भाविते उक्तभावनाविषयीकृते । रसे रामादिगतत्यादौ । तस्येति । भावितस्य रत्यादेरित्यर्थः । भोग इति । साक्षात्कारविशेष इत्यर्थः । सहृदयानां भवतीति शेषः । तथाच भावनोपनीतो रामादिगतरत्यादिः स्थायी सहृदयैर्भुज्यमानो रसः रत्यादेः साधारण्येन प्रतीत्या च न ताटस्थ्यादिदोष इति भावः । भोगस्वरूपमाह---य इत्यादि । अनुभवेति । अनुभवस्मरणरूपाः याः प्रतीपत्तयो लौकिक्यः प्रतीतयस्ताभ्य इत्यर्थः । ऽद्रुतिविस्तारविकासात्मेऽत्यत्र हेतुमाह----रज इत्यादि । वैचित्र्यानुविद्धेति पाठः । "रजस्तमोनुवेद्यवैचित्र्यबलादि"त्यभिनवभारत्यामुक्तेः । रजस्तमसोर्वैचित्र्येण विशेषेण अनुविद्धं यत्सत्वं तन्मयी । प्राचुर्यार्थे मयट् । निजचित्स्वभावा स्वात्मचैतन्यरूपा च या निवृतिः लोकोत्तरानन्दः, तस्यां विश्रान्तिः विगलितवेद्यान्तरतया स्थितिः तल्लक्षण इत्यर्थः । अत्र रजसो गुणस्यानुवेधेन द्रुतिः तमसो विस्तारः सत्वस्य विकास इति विवेकः । उक्तं हि काव्यप्रकाशसङ्केते---"यदाहि रजसो गुणस्य द्रुतिः तमसो विस्तारः सत्वस्य विकासः तदा भोगः स्वरूपं लमत" इति । उक्तरीत्या भोगस्यात्मानन्दविषयकत्वादाह---परेति । स एवेति । उक्तविधभोग एवेत्यर्थः । सिद्धरूप इति । चिदानन्दरूपस्यात्मनः सिद्धरूपत्वादिति भावः । व्युत्पत्तिरिति । प्रतिपत्तॄणां


लोचनम्

     अत्रोच्यते---रसस्वरूप एव तावद्विप्रतिपत्तयः प्रतिवादिनां । तथाहि-पूर्वावस्थायां यः स्थायी स एव व्यभिचारिसम्पातादिना प्राप्तपरिपोषोऽनुकार्यगत एव रसः । नाट्ये तु प्रयुज्यमानत्वान्नाट्यरस इति केचित् । प्रवाहधर्मिण्यां चित्तवृत्तौ चित्तवृत्तेः चित्तवृत्त्यन्तरेण कः परिपोषार्थः? विस्मयशोकक्रोधादेश्च क्रमेण तावन्न परिपोष इति नानुकार्ये रसः । अनुकर्तरि चतद्भावे लयाद्यननुसरणं स्यात् । रामजिकगते वा

बालप्रिया

चतुर्वर्गोपायव्युत्पत्तिरित्यर्थः । इतीति । इति भट्टनायकोक्तमिति सम्बन्धः ।
     रसस्वरूप एवेति । रसपदार्थ एवेत्यर्थः । विभिन्नाः प्रतिपत्तयो विप्रतिपत्तयः विभिन्नानि मतानि । तथाहीति । नाट्यस्थले विप्रतिपत्तीरादौ विवृणुम इत्यर्थः । तत्र ललनादिभिरालम्बनविभावैः स्थायी रत्यादिको जनितः, उद्यानादिभिर्व्यभिचारिभिः परिपोषितो रामादावनुकार्ये रसः, नटे तु रामादिरूपतानुसन्धानवशादारोप्यमाणस्सामाजिकानां चमत्कारकारीति भट्टलोल्लटादिमतमादौ दर्शयति---पूर्वेत्यादि । पूर्वावस्तायामिति । अप्राप्तपरिपोषावस्थायामित्यर्थः । यः स्थायीति । स्थायित्वेन व्यपदिश्यमानो यो रत्यादिरित्यर्थः । ऽस एव प्राप्तपरिपोषो रसऽ इतिसम्बन्धः । रसः रसपदार्थः । स चानुकार्यगत एवेति । अनुकार्यरामादावेवोत्पद्यमानो वर्तत इत्यर्थः । अनेनानुकर्तरि तदारोप इति दर्शितं । तस्मान्नाट्यरसा इति भरतोक्तनाट्यरसशब्दार्थमाह----नाट्य इत्यादि । नाट्यस्य नाट्यसम्बन्धी वा रसो नाट्यरस इति व्युत्पत्तिरिति भावः । मतमिदं दूषयित्वा प्रकारान्तरेण वदतां श्रीशङ्कुकादीनां मतं दर्शयति----प्रवाहेत्यादि । चित्तवृत्तौ रत्यादिचित्तवृत्तौ । प्रवाहधर्मिण्यां तत्तत्कारणवशेन पुनः पुनरुत्पद्यमानायां नश्यन्त्यां च सत्यामिति हेतुगर्भं । चित्तवृत्तेः रत्यादिस्यायिचित्तवृत्तेः । चित्तवृत्यन्तरेण उत्कण्ठादिव्यभिचारिणी परिपोषार्थः क इति । परिपोषरूपं फलं न भवतीत्यर्थः । अतो व्यभिचारिभिः परिपोषस्य कथनमनुपपन्नमिति भावः । विषर्ययश्चास्तीत्याह---विस्मयेत्यादि । क्रमेण कालक्रमेण । न परिपोष इति । किन्त्वपचय एवेति भावः । यथोक्तं काव्यप्रकाशसङ्केते---"इष्टवियोगजो महान्शोकः क्रमेम शाम्यति, न तु दृढीभवति क्रोधोत्साहरतयश्च निजनिजकारणोद्भूता अपि कालवसादमर्षस्थैर्यसवाविपर्ययेऽपचीयन्त" इति । इतीति हेतौ । नानुकार्ये रस इति । अनुकार्यरामादिगतो रस इत्युक्तपक्षो न युक्त इत्यर्थः । तर्हि अनुकर्तृगतोऽस्त्वित्यत्राह---अनुकर्तरीत्यादि । अनुकर्तरि नटे । तद्भावे रससत्वे सति । लयादीति । लयो नाम नृत्तगीतवाद्यानामेकतानतारूपं साम्यं रसस्य नटे सिद्धत्वेन तदुपयोगिलयाद्यनुसरणं न स्यादित्यर्थः । तर्हि सामाजिकतोऽस्त्वित्यत्राहसामाजिकेत्यादि ।


लोचनम्

कश्चमत्कारः? प्रत्युत करुणादौ दुःखप्राप्तिः । तस्मान्नायं पक्षः । कस्तर्हि? इहानन्त्यान्नियतस्यानुकारो न शक्यः, निष्प्रयोजनश्च विशिष्टताप्रतीतौ ताटस्थ्येन व्युत्पत्त्यभावात् ।
     तस्मादनियतावस्थात्मकं स्थायिनमुद्दिश्य विभावानुभाव्यभिचारिभिः संयुज्यमानैरयं रामः सुखीति स्मृतिविलक्षणा स्थायिनि प्रतीतिगोचरतयास्वादरूपा प्रतिपत्तिरनु कर्त्रालम्बना नाट्यैकगामिनी रसः ।
स च न व्यतिरिक्तमाधारमपेक्षते । किं त्वनुकार्याभिन्नाभिमते नर्तके आस्वादयिता सामाजिक इत्येतावन्मात्रमदः । तेन नाट्य एव

बालप्रिया

तद्भावे इत्यनुषज्यते । कश्चमत्कार इति । रामादेरिव सामाजिकस्यापि रत्यादिरूपरसोत्पत्तौ चमत्कारो न जायेतेति भावः । दुःखप्राप्तिरिति । स्यादिति शेषः । नायं पक्ष इति । उक्तः पक्षो न युक्त इत्यर्थः । कस्तर्हीति । पक्ष इत्यनुषज्यते । प्रश्रस्योत्तरं वक्तुमुपक्रममाण आह---इहेत्यादि । आनन्त्यादिति । तत्तद्गतस्य रत्यादिभावस्य मन्दतममन्दतरमन्दमध्यमत्वादिभेदेनासंख्वत्वादित्यर्थः । नियतस्येति । निश्चितैकावस्थाविशिष्टस्येत्यर्थः । स्थायिन इति शेषः । अनुकारो न शक्य इति । स्थायिन आनन्त्यान्नियतैकावस्थत्वेन ज्ञातुमशक्यत्वादिति भावः । कथञ्चित्तत्सम्भवेऽप्याह---निष्प्रयेजनश्चेत्यादि । अनुकार इत्यनुषज्यते । निष्प्रयोजनत्वे हेतुमाह---विशिष्टतेत्यादि । स्थायिनो रामादिव्यक्तिविशेषवृत्तित्ववैशिष्ट्यमवबुध्य नटेन तदनुकारे क्रियमाणे तथैव सामाजिकानां प्रतीत्या तस्य तटस्थत्वेन चतुर्वर्गोपायव्युत्पत्तेरनुदयादित्यर्थः । अनेन स्थाय्यनुकारो रस इति पक्षोऽप्ययुक्त इति दर्शितं ।
     खमतमाह---तस्मादित्यादि । ऽस्थायिनमुद्दिश्य संयुज्यमानैऽरिति सम्बन्धः । ऽस्थायिप्रतीतिमुद्दिश्य संयुज्यमानैऽरिति सम्बन्धः । स्थायिप्रतीतिमुद्दिश्य नटेन प्रयुज्यमानैरित्यर्थः । विभावेति । तैर्लिङ्गैरित्यर्थः । प्रतिपत्तिरित्यनेनास्य सम्बन्धः । अयं रामः सुखीति । रामोऽयं सीताविषयकरतिमानित्यर्थः । सामाजिकानां चित्रतुरगन्यायेन नटे रामादिबुद्धर्जायते । इतीत्यस्य प्रतिपत्तिरित्यनेन सम्बन्धः । स्थायिनि प्रतीतिगोचरतयेति । स्थायिनः प्रतीतिविषयत्वेन हेतुनेत्यर्थः । वस्तुसौन्दर्यादिति भावः । आस्वादरूपेति । चमत्कारिचर्वणारूपेत्यर्थः । प्रतिपत्तिरिति । सामाजिकानामनुमितिरित्यर्थः । अनुकर्त्रालम्बनेति । अयमित्यनेन नटस्य विषयीकरणादनुकर्तृविषयिकेत्यर्थः । स चेति । तथाविधस्थायिप्रतीतिरूपो रसश्चेत्यर्थः । व्यतिरिक्तमिति । वक्ष्यमाणादन्यमित्यर्थः । अनुकार्याभिन्नाभिमते अनुकार्यरामाद्यभेदेन गृहीते । नर्तक इति । अस्तीति शेषः । तथाविधप्रतीतिरूपरसस्य नर्तकविशेष्यकत्वान्नर्तके विशेष्यतासम्बन्धेन सत्वात्स एवाश्रय इत्यर्थः । आस्वादयिता आस्वादरूपप्रतीतेः समवायेनाश्रयः । नाट्य एवेति ।


लोचनम्

रसः, नानुकार्यादिष्विति केचित् ।
     अन्ये तु---अनुकर्तरि यः स्थाय्यवभासोऽभिनयादिसामग्प्यादिकृतो भित्ताविवहरितालादिना अश्वावभासः, स एव लोकातीततयास्वादापरसंज्ञया प्रतीत्या रस्यमानो रस इति नाट्याद्रसा नाट्यरसाः । अपरे पुनर्विभावानुभावमात्रमेव विशिष्टसामगप्या समर्प्यमाणं तद्विभावनीयानुभावनीयस्थायिरूपचित्तवृत्त्युचितवासनानुषक्तं स्वनिर्वृतिचर्वणाविशिष्टमेव रसः । तन्नाट्यमेव रसाः । अन्ये तु शुद्धं विभावम्, अपरे शुद्धमनु भावम्, केचित्तु स्थायिमात्रम्, इतरे व्यभिचारिणम्, अन्ये तत्संयोगम्, एकेऽनुकार्यम्, केचन सकलमेव समुदायं रसमाहुरित्यलं बहुना ।
     काव्येऽपि च लोकनाट्यधर्मिस्थानीयेन स्वभावोक्तिवक्रोक्तिप्रकारद्वयेनालौकिकप्रसन्नमधुरौजस्विशब्दसमर्प्यमाणविभावादियोगादि यमेव रसवार्ता । अस्तु वात्र नाट्याद्विचित्ररूपा रसप्रतीतिः; उपायवैलक्षण्यादियमेव तावदत्र सरणिः । एवं स्थिते प्रथमपक्ष

बालप्रिया

नाट्ये इति छेदः । रसस्योक्तरीत्या नटाश्रयकत्वेन नाट्याश्रयकत्वमित्यर्थः ।
     रामादिगतस्थायिनोऽनुकारे नटे स्थाय्यवभासो मिथ्याज्ञानरूपः सामाजिकानां जायते, स एव चमत्कारकारी रस इति केचित्तन्मतमाह----अन्य इत्यादि । ऽअश्वावभास इवेऽत्यन्वयः । स एवेति । अवभासमानः स्थाय्येवेत्यर्थः । रस्यमान इति । विषयीक्रियमाण इत्यर्थः । नाट्याद्रसा इति । स्थाय्यवभासस्य नाट्यहेतुकत्वादिति भावः । मतान्तरमाह---अपर इत्यादि । विभावानुभावमात्रमेवेति । रस इत्यनेनास्य सम्बन्धः । कथमित्यत्राह---विशिष्टेत्यादि । विशिष्टसामग्रया भावकत्वविशिष्टया नाट्यादिसामग्रया । समर्प्यमाणमिति । सामाजिकेष्पिति शेषः । तदिति । ताभ्यां विभवानुभवाभ्यां क्रमाद्विभावनिया अनुभावनीया च या रत्यादिस्थायिरूपचित्तवृत्युचिता वासना सामाजिकगता तदनुषक्तं तत्सम्बद्धं । स्वेति । स्वस्य सामाजिकस्य निर्वृतिरूपा या चर्वणा तद्विशिष्टं तद्विषयभूतं । नाट्यमेवेति । विभवानुभवयोर्नण्टनयोग्यत्वरूपनाट्यत्वादिति भावः । ऽशुद्धं विभावम्ऽ इत्यादौ सर्वत्र रसमाहुरित्यस्य सम्बन्धो बोध्यः ।
     लोकेत्यादि । "स्वभावाभिनयोपेतं न नास्त्रीपुरुषाश्रयं नाट्यं लोकधर्मि" "स्वरालङ्कारसंयुक्तमस्वस्थपुरुषाश्रयं नाट्यं नाट्यधर्मि" तत्स्थानीयेन तत्तुल्येन । स्वभावेति । वक्रोक्तिशब्दार्थः पूर्वमुक्तः । द्वयेनेति तृतीयार्थो वैशिष्ट्यं शब्देऽन्वेति । द्वयेनेत्यलौकिकत्वे हेतुर्वा । अलौकिकेति । अलौकिको लौकिकशब्दव्यतिरिक्तः प्रसन्नो मधुर ओजस्वी च यः शब्दः, तेन समर्प्यमाणानां विभावादीनां योगादित्यर्थः । इयमेवेति । उक्तप्रकारैवेत्यर्थः । रसवार्ता रसपदार्थः तत्प्रतीतिर्वा । अस्तु वात्रेति । अत्र काव्ये । विचित्ररूपा विजातीया । अत्र हेतुमाह---उपायेति । इयमिति । वक्ष्यमाणरूपेत्यर्थः ।


लोचनम्

एवैतानि दूषणानि, प्रतीतेः स्वपरगतत्वादिविकल्पनेन । सर्वपक्षेषु च प्रतीतिरपरिहार्या रसस्य । अप्रतीतं हि पिशाचवदव्यवहार्य स्यात् । किं तु यथा प्रतीतिमात्रत्वेनाविशिष्टत्वेऽपि प्रात्यक्षिकी आनुमानिकी आगमोत्था प्रतिभानकृता योगिप्रत्यक्षजा च प्रतीतिरुपायवैलक्ष्ण्यादन्यैव, तद्वदियमपि प्रतीतिश्चर्वणास्वादनभोगापरनामा भवतु । तन्निदानभूताया हृदयसंवादाद्युपकृताया विभावादिसामग्प्या लोकोत्तररूपत्वात् । रसाः प्रतीयन्त इति ओदनं पचतीतिवद्य्ववहारः प्रतीयमान एव हि रसः । प्रतीतिरेव विशिष्टा रसना । सा च नाट्ये लौकिकानुमानप्रतीतेर्विलक्षणा; तां च प्रमुखे उपायतया सन्दधाना । एवं काव्ये अन्यशाब्दप्रतीतेर्विलक्षणा, तां च प्रमुखे उपायतयापेक्षमाणा ।
     तस्मादनुत्थानोपहतः पूर्वपक्षः । रामादिचरितं तु न सर्वस्य हृदयसंवादीति महत्साहसं । चित्रवासनाविशिष्टत्वाच्चेतसः । यदाह-"तासामनादित्वं आशिषो नित्यत्वात् ।

बालप्रिया

अत्र काव्ये । प्रथमपक्ष इति । भट्टलोल्लटोक्तोत्पत्तिपक्ष इत्यर्थः । विकल्पनेन दूषणानिति सम्बन्धः । सर्वेति । सहृदयानां रसप्रतीतिः सर्वपक्षेऽप्यपरिहार्येत्यर्थः । विपक्षे बाधकमाह-अप्रतीतमित्यादि । अप्रतीतं विशिष्याज्ञातं वस्तु । अत्र्यवहार्यं व्यवहारायोग्यं । अत्र दृष्टान्तः---पिशाचचदिति । पिशाचो हि विशिष्याज्ञातत्वेनात्रायं विशाच इत्यादि लोकव्यवहारानर्हः । किन्त्विति । रसप्रतीतेः विशेषोऽस्तीत्यर्थः । प्रतीतीत्यादि । प्रतीतित्वरूपसामान्यधर्मेणाविशेषेऽपीत्यर्थः । आगमोत्थेति । शब्दजन्येत्यर्थः । अन्यैवेति । परस्परभिन्नैवेत्यर्थः । तद्वदित्यादि । रसप्रतीतिरपि ताभ्यो भिन्नैवेत्यर्थः । तत्पर्यायानाह---चर्वणेति । भवत्वित्यभ्युपगमे । ओदनमित्यादि । पक्वस्तण्डुलो ह्योदनपदार्थ इति तद्वयवहारो यथा औपचारिकः, तथेत्यर्थः । उक्तार्थे हेतुमाह---प्रतीयमान एवेति । प्रतीतिविषयताविशिष्ट एवेत्यर्थः । विशिष्टेति । विभावादिविशिष्टस्थायिविषयिकेत्यर्थः । सा चा नाट्य इति । नाट्यजन्या रसप्रतीतिश्चेत्यर्थः । लौकिकेति । लौकिकी या अनुमानेन प्रतीतिः धूमादिलिङ्गकवह्न्याद्यनुमितिः, तद्विलक्षणेत्यर्थः । तां लौकिकानुमानप्रतीतिं । प्रमुखे आदौ । सन्दधाना अपेक्षमाणा । एवं काव्य इति । सा चेत्यनुषज्यते । अन्यशाब्दप्रतीतेः । लौकिकवैदिकादिशब्दजन्यप्रतीतेः । तामिति । अन्यशाब्दप्रतीतिमित्यर्थः । उपायतया अपेक्षमाणेति । लौकिकानुमानशब्दप्रमाणव्युत्पन्नहृदयस्यैव सहृदयस्य रसप्रतीतिर्भवतीति भावः ।
     अथ भट्टनायकोक्तं खण्टयति----तस्मादित्यादि । पूर्वपक्षः रसो न प्रतीयत इत्याद्युक्तः । अलोकसामान्यानामित्यद्युक्तं मनसिकृत्याह---रामादीति । इतीति ।


लोचनम्

जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्" इति । तेन प्रतितिस्तावद्रसस्य सिद्धा । सा च रसनारूपा प्रतीतिरुत्पद्यते । वाच्यवाचकयोस्तत्राभिधादिविविक्तो व्यञ्जनात्मा ध्वननव्यापार एव । भोगीकरणव्यापारश्च काव्यस्य रसविषयो ध्वननात्मैव, नान्यत्किञ्जित् । भावकत्वमपि समुचितगुणालङ्कारपरिग्रहात्मकमस्माभिरेव वितत्य वक्ष्यते । किमेतदपूर्वम्? काव्यं च रसान्प्रति भावकमिति यदुच्यते,

बालप्रिया

इत्युक्तमित्यर्थः । चित्रेति । नानाविधेत्यर्थः । तथाच लोकोत्तरचरितेष्वपि सहृदयानां हृदयसंवादो भवत्येवेति भावः । यदाहेति । योगसूत्रकार इति शेषः । ऽजातीऽत्यादिसूत्रानन्तरंऽतासाम्ऽ इत्यादिसूत्रपाठो दृश्यते । जातीत्यादिसूत्रे वासनानामिति पदस्यानुषङ्गः । भोजराजेन सूत्रद्वयमिदमित्थं विवृतम्--इह नानायोनिषु भ्रमतां संसारिणां काञ्चिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यते, तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया या वासनाः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिरोहिताः पुनस्तथाविधव्यञ्जकशरीरादिलाभे प्रकटीभवन्ति । जातिदेशकालव्यवधानेऽपि तासां स्वनुरूपस्मृत्यादिफलसाधने आनन्तर्यं नैरन्तर्यं कुतः? स्मृतिसंस्कारयोरेकरूपत्वात् । तथा ह्यनुष्ठीयमानकर्मणश्चित्तस्त्वे वासनारूपः संस्कारः समुत्पद्यते । स च स्वर्गनरकादीनां फलानामङ्कुरीभावः, कर्मणां वा यागादीनां शक्तिरूपतयावस्थानं, कर्तुर्वा तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यं, संस्कारात्स्मृतिः स्मृतेश्च सुखदुःखोपभोगः, तदनुभवाच्च पुनरपि संस्कारस्मृत्यादयः । भवत्वानन्तर्यं कार्यकारणभावश्च वासनानां; यदा तु प्रथममेवानुभवः प्रवर्तते, तदा किं वासनानिमित्त उत निर्निमित्त इति शङ्कां व्यपनेतुमाह--ऽतासांऽवासनानांऽअनादित्वऽ मस्ति, कुतः?ऽआशिषो नित्यत्वात्ऽ सेयमाशीर्महामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगोऽभूदिति यः सङ्कल्पविशेषो वासनानां कारणं तस्याः नित्यत्वादित्यर्थः । एतदुक्तं भवति---कारणस्य सन्निहितत्वादनुबवसंस्कारादीनां कार्यणां प्रवृत्तिः केन वार्यत इति । तेनेति । पूर्वोक्तहेतुनेत्यर्थः । सा चेत्यादि । रसनारूपा रसप्रतीतिः सहृदयानामुत्पद्यत इत्यर्थः । वाच्यवाचकयोरिति । काव्यस्येत्यर्थः । तत्र रसप्रतीतौ । व्यञ्जनात्मा व्य्जकत्वरूपः । भोगीति । भट्टनायकोक्तो भोगकृत्वव्यापारश्चेत्यर्थः । भावकत्वमिति यदुक्तं तदप्यस्मदम्युपगतमेव, परन्तु गुणालङ्कारशालित्वमेव तत्; यतस्तेनैव काव्यं सहृदयानां रसभावकं रसचर्वणोत्पादकमित्याह---भावकत्वमपीति । काव्यस्येत्यनुषङ्गः । समुचितेति । तत्तद्रसादिसमुचितगुणालङ्कारशालित्वमित्यर्थः । किमेतदपूर्वमिति । एवदपूर्वं नेत्यर्थः । किञ्च भावकत्वस्वीकारे रसो नोत्पद्यत इति भवदीयप्रतिज्ञाया भङ्गेऽप्यापतति इत्याह---काव्यं चेत्यादि । ऽभावकमित्युच्यते यदिऽति सम्बन्धः । तत्रेति । तद्वचने सतीत्यर्थः ।


लोचनम्

तत्र भवतैव भावनादुत्पत्तिपक्ष एव प्रत्युज्जीवितः । न च काव्यशब्दानां केवलानां भावकत्वम्, अर्थापरिज्ञाने तदभावात्. न च केवलानामर्थानाम्, शब्दान्तरेणार्प्यमामत्वे तदयोगात् । द्वयोस्तु भावककत्वमस्माभिरेवोक्तं । ऽयत्रार्थः शब्दो वा तमर्थं व्यङ्क्तःऽ इत्यत्र । तस्माद्वयञ्जकत्वाख्येन व्यापारेम गुणालङ्कारौचित्यादिकयेतिकर्तव्यतया काव्यं भावकं रसान्भावयति, इति त्र्यंसायामपि भावनायां करणांशे ध्वननव्यापार एव मूर्धाभिषिक्तः । तचचेदं भोगकृत्त्वं रसस्य ध्वननीत्यत्वे सिद्धे दैवसिद्धं ।

बालप्रिया

ऽभवतैव प्रत्युज्जीवितऽ इत्यन्वयः । अत्र हेतुः---भावनादिति । काव्यस्य रसोत्पादकत्वाङ्गीकारादित्यर्थः । शब्दान्तरेणेति । लौकिकवाक्येनेत्यर्थः । शब्दार्थमयं काव्यं गुणालङ्कारसाहित्येन सहृदयानां रसचर्वणां जनयतीत्याह---तस्मद्व्यञ्जकत्वाख्येनेत्यादि । यागादिर्धर्मोयजतेत्यादिवैदिकवाक्येन स्वर्गादिकमुद्दिस्य पुरुषं प्रति विधीयते । तथाहि---यजेतेत्यत्रास्त्यंशद्वयम्---यजिधातुः प्रत्ययश्च । प्रत्ययेऽप्यस्त्यंशद्वयमाख्यातत्वं लिङ्त्वं च । उभाभ्यामप्यंशाभ्यां भावनैवोच्यते । भावना नाम भवितुर्भवनानुकूलो व्यापारः । सा चार्थी शाब्दीति द्विविधा । आर्थी तु प्रयोजनेच्छाजनितिक्रियाविषयकव्यापाररूपा आख्यातत्वेन रूपेणोच्यते । सा ह्यंशत्रयमपेक्षते---साध्यं साधनमितिकर्तव्यतां च । किं केन कथं भावयेदिति । तत्र साध्याकाङ्क्षायां स्वर्गादिक मिष्टं साध्यत्वेन । साधनाकाङ्क्षायां धात्वर्थो यागादिः करणत्वेन, इतिकर्तव्यताकाङ्क्षायां प्रयाजादिक्रियाकलापश्च इतिकर्तव्यतात्वेन तस्यां भावनायमन्वेतीति मीमांसकाः प्राहुः । तथा च यजेतेत्यादिवैदिकवाक्यं स्वर्गमुदृस्य पुरुषं प्रति विधायकत्वेन यथा भावकं यागेन करणेन प्रयाजादीतिकर्तव्यतया स्वर्गार्थिनः स्वर्गंभावयति, तथा काव्यं भावकं व्यञ्जकत्वव्यापारेण करणेन गुणालङ्कारौचित्यादिरूपया इतिकर्तव्यतया सगृदयस्य रसं भावयतीत्यर्थः । इतिशब्दः प्रकारवाची, कर्तव्यता नाम क्रिया । कर्तव्यतयाः प्रकार इति कर्तव्यता, उपकारकमिति यावदिति बोध्यं । त्र्यंशायामिति । साध्याद्यंशत्रयवत्यामित्यर्थः । भावनायामिति । रसभावनायामित्यर्थः । करणांशे साधनांशे । कारणांशे इति च पाठः । भोगोऽपीत्यादि । ऽन क्रियतेऽ इति सम्बन्धः । नञि काकुः । क्रियत एवेत्यर्थः. नन क्रियत इति वा पाठं(?) विशेषमाह--अपि त्वित्यादि । ऽअपि तु भोगे कर्तव्ये लोकोत्तरो ध्वननव्यापार एव मूर्धाभिषिक्तऽ इति समाबन्धः । घनेति । धनं निबिडं यन्मेहरूपमान्ध्यमज्ञानं तेन या सङ्कटता आनन्दांशस्यावृतत्वं तस्या निवृतितिर्भञ्जनं तद्द्वारेणेत्यथः । अलौकिके लौकिकसुखानुभवविलक्षणे । भोग इति । भग्नानन्दांशावरणकदिभावादिसंवलितरत्यादिस्थाय्यवच्छिन्नात्मचैतन्यसाक्षात्कार इत्यर्थः । कर्तव्ये जननीये ।


रसभावतदाभासतत्प्रशमलक्षणं मुख्यमर्थमनुवर्तमाना यत्र शब्दार्थालङ्कारा गुणाश्च परस्परं ध्वन्यपेक्षया विभिन्नरूपा व्यवस्थितास्तत्र काव्ये ध्वनिरिति व्यपदेशः ।


लोचनम्

रस्यमानतोदितचत्कारानतिरिक्तत्वद्भोगस्येति । सत्त्वादीनां चाङ्गाङ्गिभाववैचित्र्यस्यानन्त्याद्द्रुत्यादित्वेनास्वादगणना न युक्ता । परब्रह्मास्वादसब्रह्मचारित्वं चास्त्वस्य रसास्वादस्य । व्युत्पादनं च शासनप्रतिपादानाभ्यां शास्त्रेतिहासकृताभ्यां विलक्षणं । यथा रामस्तथाहमित्युपमानातिरिक्तां रसास्वादोपायस्वप्रतिभाविजृम्भारूपां व्युत्पत्तिमन्ते करोतीति कमुपालभामहे । तस्मात्स्थितमेतत्---अभिवियज्यन्ते रसाः प्रतीत्यैव च रस्यन्त इति । तत्राभिव्यक्तिः प्रधानतया भवत्वन्यथा वा । प्रधानत्वे ध्वनिः, अन्यथा रसाद्यलङ्काराः तदाह----मुख्यमर्थमिति । व्यवस्थिता इति । पुर्वोक्तयुक्तिभिर्विभागेन व्यवस्थापितत्वादिति भावः ।। ४ ।।

बालप्रिया

मूर्धाभिषिक्तः प्रधानहेतुः । काव्यं तु तदाश्रयतया सहकारीति भावः । तच्चेदमिति । भवदुक्तमित्यर्थः । रस्येति । रस्यमानतया हेतुना उदितो यश्चमत्कारः चमत्कारत्मकः साक्षात्कारः तदनतिरिक्तत्वात्तभिन्नत्वादित्यर्थः । द्रुतिविस्तारेत्यादिपूर्वोक्तं मनसि कृत्याह---सत्वादीनामित्यादि । अङ्गाङ्गिभावेति । न्यूनाधिकतेत्यर्थः । आनन्त्यादिति । असंख्यत्वादित्यर्थः । द्रुत्यादित्वेनेति । द्रुतित्वादिरूपेणेत्यर्थः । न युक्तेति । कारणस्यानन्त्यार्त्का भूतचित्तवृत्तीनामपि आनन्त्यसम्भवादिति भावः । भट्टनायकोक्तं कञ्चिदंशमभ्युपगच्छति-परेति । व्युत्पत्तिर्नामाप्रधानमिति तदुक्तं मनसिकृत्याह--व्युत्पादनं चेत्यादि । काव्यस्येति शेषः । शासनेति । शास्त्रेण शासनमितिहासेन प्रतिपादनं ताभ्यां विलक्षणमित्यर्थः । वैलक्षण्यं दर्शयन्नाह--यथेत्यादि । अहमित्यस्यानन्तरं वर्तेय इति शेषः । रामेणेव मयानुष्ठतव्यमित्यर्थः । इतीत्यादि । इति यदुपमानमित्याकारिका या उपमितिः सादृश्यधीः शास्त्रेतिहासाभ्यां क्रियमाणा तदतिरिक्तामित्यर्थः । उक्तोपमितिमात्रं न, किन्तु ततोऽदिकामिति यावत् । रसेति । रसास्वादोपायभूता स्वस्य प्रतिपत्तुः या प्रतिभा तस्या विजृम्भो विकासस्तद्रूपामित्यर्थः । करोतीति । काव्यमिति शेषः । पुनः पुनः काव्यपरिशीलने हि रसास्वादोपायस्वप्रतिभाविकासो भवति । अन्ते करोतीत्यनेनादावुक्तोपमितिरूपां व्युत्पत्तिं चि करोतीति ज्ञाप्यते । उपसंहरति---तस्मादित्यादि । इत्येतस्स्थितमिति सम्बन्धः । अभिव्यज्यन्ते रसा इति । अभिव्यक्तिविषयताविशिष्टस्थायिनो रसपदार्था इत्यर्थः । अभिव्यक्तिर्घटप्रदीपन्यायेनेति वक्ष्यते । प्रतीत्येत्यादि । प्रतीतिरूपैव रसनेत्यर्थः । तत्राभिव्यक्तिः प्रधानतया भवत्यन्यथा वेति । अन्यथा अप्रधानतया । अप्रधानतया वा इति च पाठः ।। ४ ।।


प्रधान्येऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ।। ५ ।।
     यद्यपि रसवदलङ्कारस्यान्यैर्दर्शितो विषयस्तथापि यस्मिन्कावेय प्रधानतयान्योऽर्थो वाक्यार्थीभूतस्तस्य चाङ्गभूता ये रसादयस्ते रसादेरलङ्कारस्य विषया इति मामकीनः पक्षः । तद्यथा चाटुषु प्रेयोलङ्कारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते ।


लोचनम्

     अन्यत्रेति । रसस्वरूपे वस्तुमात्रेऽलङ्कारतायोग्वे वा । मे मतिरित्यन्यपक्षं दूप्यत्वेन हृदि निधायाभीष्टतत्वात्स्वपक्षं पूर्वं दर्शयति--तथापिति । स हि परदर्शितो विषयो भाविनीत्यानोपपन्न इति भावः । यस्मिन्काव्ये इति स्पष्टत्वेनासङ्गतं वाक्यमित्थं योजनीयम्--यस्मिन्काव्ये ते पूर्वोक्ता रसादयोऽङ्गभूता वाक्यार्थीभूतश्चान्योऽर्थः, चशब्दस्तुशब्दस्यार्थे; तस्य काव्यस्य सम्बन्धिनो ये रसादयोऽङ्गभूतास्ते रसादेरलङ्कारस्य रसवदाद्यलङ्कारशब्दस्य विषयाः; स एवालङ्कारशब्दवाच्यो भवति योऽङ्गभूतः, न त्वन्य इति यावत् । उत्रोदाहरणमाह---तद्यथेति । तदित्यङ्गत्वं । यथात्र वक्ष्यमाणोदाहरणे, तथान्यत्रापीत्यर्थः । भामहाभिप्रायेण चाटुषु प्रेयोलङ्कारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्त इतीदमेकं वाक्यं । भामहेन हि गुरुदेवनृपतिपुत्रविषयप्रीतिवर्णनं प्रेयोलङ्कार इत्युक्तं ।

बालप्रिया

     कारिकायामन्यत्रेत्यस्य रसादिभ्योऽन्योन्यस्मिन्नत्यर्थः । तथाविधो वाक्यार्थस्त्रिविधो भवतीत्याह---रसस्वरूप इत्यादि । अलङ्कारतायोग्य इति । उपमादावित्यर्थः । उपमादेः प्राधान्येन ध्वन्यमानत्वेऽलङ्कारत्वाभावाद्योग्य इत्युक्तं । मे मतिरितिति । मे मतिरित्यनेनेत्यर्थः । अन्यपक्षमिति । वक्ष्यमाणं पक्षान्तरमित्यर्थः । तथापीति । इदं प्रतिकधारणं । भावार्थमाह---स हीत्यादि । असङ्गतमिति । तस्य चाङ्गभूता इत्यत्र तत्पदेन काव्यस्यैव परामृश्यतया यथाश्रुते तदर्थस्य तन्निरूपिताङ्गत्वस्य रसादावसम्भवेनासङ्गतार्थकमित्यर्थः । ते इत्यादि । ते रसादयोऽङ्गभूता इत्यस्य पूर्ववाक्येऽपि सम्बन्ध इति भावः । ते इत्यस्य व्याख्यानम्---पूर्वोक्ता इति । रसभावेत्यादिकारिकानिर्दिष्टा इत्यर्थः । अन्यः रसादिभ्योऽन्यः । च शब्द इति । ऽतस्य चेऽति च शब्द इत्यर्थः । तस्येत्यस्य व्याख्या---काव्यस्यति । ऽसम्बन्धिनऽ इति षष्ठ्यर्थकथनं । तथाच तस्येति षष्ठ्यन्तार्थस्य काव्यसम्बन्धित्वस्य रसादावन्वयान्नासङ्गतार्थकत्वमिति भावः । अङ्गभूता इति । वाक्यार्थस्यान्यस्याङ्गभूता इत्यर्थः । रसादेरित्यस्य विवरणम्---रसवदादीति । फलितमाह---स एवेत्यादि । चाटुष्वित्यादिग्रन्थं व्याख्यातुमुपक्रमते---भामहेत्यादि । चाटुष्वित्यादि दृश्यन्त इत्यन्तमेकं वाक्यमिति च पाठः । विवृणोति--भामहेनेत्यादि । गुर्विति । गुर्वादिविषयिका या प्रीतिर्भक्तिवात्सल्यादिपदवाच्या, तस्याः स्ववाचकेन विभावादिद्वारेण वा वर्णनमित्यर्थः ।


लोचनम्

तत्र प्रेयानलङ्कारो यत्र स प्रेयोलङ्कारोऽलङ्करणीय इहोक्तः । न त्वलङ्कारस्य वाक्यार्थत्वं युक्तं । यदिवा वाक्यार्थत्वं प्रधानत्वं । चमत्कारकारितेति यावत् । उद्भटमतानुसारिणस्तु भङ्क्त्वा व्याचक्षते---चाटुषु चाटुविषये वाक्यर्थत्वे चाटूनां वाक्यार्थत्वे प्रेयोलङ्कारस्यापि विषय इति पूर्वोण सम्बन्धः । उद्भटमते हि भावालङ्कार एव प्रेय इत्युक्तः, प्रेम्णा भावानामुपलक्षणात् । न केवलं रसवदलङ्कारस्य विषयः यावत्प्रेयःप्रभृतेरपीत्यपिशब्दार्थः । रसवच्छब्देन प्रेयःशब्देन च सर्व एव रसवदाद्यलङ्कारा उपलक्षिताः, तदेवाह---रसादयोऽङ्गभूता दृश्यन्त इति उक्तविषय इति शेषः ।

बालप्रिया

इत्युक्तमिति ।
"प्रेयोगृहागतं कृष्णामवादीद्विदुरो यथा ।
अद्य या मम गोविन्द जाता त्वयि गृहागते ।।
कालेनैषा भवेत्प्रीतिः तवैवागमनात्पुनः" ।।
     इति ग्रन्थेन दर्शितमित्यर्थः । तत्र तद्वचने सती । चाटुस्थलेऽकिं हास्येनेऽत्यादौ वर्ण्यमाननरपतिप्रभावादेरेव वाक्यार्थता न तु प्रेयोरूपालङ्कारस्येत्यतः तत्पदं बहुव्रीहित्वाश्रयेण व्याचष्टे---प्रेयानित्यादि । इहेति । चाटुष्वित्यादिवाक्य इत्यर्थः । वाक्यार्थत्वं मुख्यतया वाक्यप्रतिपाद्यत्वं । प्रेयानलङ्कारः प्रेयोलङ्कार इति यथाश्रुतार्थाभिप्रायेणाह---यदि वेति । प्रधानत्वमेव विवृणोति---चमदिति । अहो नरपतेः प्रभावो येनैवं दुर्दशा रिपुस्त्रिजनोऽनुभवतीति प्रभावालम्बितायाः प्रीतेः रिपुस्त्रीजनवृत्तान्तविषयकत्वाच्चमत्कारित्वं बोध्यं । भङ्क्त्वेति । वाक्यं भित्वेत्यर्थः । व्याख्यानं दर्शयति---चाटुष्वित्यादि । वाक्यार्थत्वे वाक्यप्रतिपाद्यत्वे । फलितमाह--चाटूनां वाक्यार्थत्व इति । चाटुर्नाम श्लाध्यमानोऽर्थो वर्ण्यमाननरपतिप्रभावादिः । अपि शब्दो भिन्नक्रम इत्याह---प्रेयोलङ्कारस्यापीति । प्रेयोरूपालङ्कारस्यापीत्यर्थः । कुत्रास्य सम्बन्ध इत्यत आह---विषय इत्यादि । एकवचनान्ततयानुषक्तविषयपदेन सम्बन्ध इत्यर्थः । चाटुरिति शेषः, चाटुकाव्यमित्यर्थः । प्रेय इत्युक्त इति । प्रेयोलङ्कारत्वेनोक्त इत्यर्थः । प्रेयस्वीत्युक्त इति च पाठः । अत्र हेतुमाह--प्रेम्णेत्यादि । प्रेम्णा प्रेयश्शब्दार्थघजकरतिरूपप्रेम्णा । उपलक्षणादिति । यथोक्तमुद्भटेन---
"रत्यादिकानां भावानामनुभावादिसूचनैः ।
यत्काव्यं बध्यते सद्भिः तत्प्रेयस्वदुदाहृत"मिति ।।
     रत्यादिकानामित्यादिशब्देनान्येषां स्थायिनां व्यभिचारिणां सात्विकानां च, अनुभावादीत्यादिशब्देन विभावव्यभिचारिस्वशब्दानां च ग्रहणमत्र भावनामलङ्कारतेति च तद्व्याख्याता प्रतीहारेन्दुराजः ।
प्रेयोलङ्कारस्यापीत्यपिशब्दार्थमाह--न केवलमित्यादि । रसवच्छब्देनेति । यद्यपि रसवदलङ्कारस्येति पूर्ववृत्तिग्रन्थस्थरसवच्छब्देनेत्यर्थः ।


  स च रसादिरलङ्कारः शुद्धः सङ्कीर्णी वा । तत्राद्यो यथा---
किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिरादृर्शनं
केयं निष्करुम प्रवासरुचिता केनासि दूरीकृतः ।
स्वप्नान्तेष्विति ते वदन्प्रियतमव्यासक्तकण्ठग्रहो
बुद्ध्वा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ।।
     इत्यत्र करुणरसस्य शुद्धस्याङ्गभावात्स्पष्टमेव रसवदलङ्कारत्वं । एवमेवंविधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः ।

लोचनम्

     शुद्ध इति । रसान्तरेणाङ्गभूतेनालङ्कारान्तरेम वा न मिश्रः, आभिश्रस्तु सङ्कीर्णः । स्वप्नस्यानुभूतसदृशत्वेन भवनमिति हसन्नेव प्रियतमः स्वप्नेऽवलोकितः, । न मे प्रयास्यसि पुनरिति । इदानीं त्वां विदितशठभावं बाहुपाशबन्धान्न मोक्ष्यामि । अत एव रिक्तबाहुवलय इति । स्वीकृतस्य चोपालम्भो युक्त इत्याह-केयं निष्करुणोति । केनासीति । गोत्रस्खलनादावपि न मया कदाचित्खेदितोऽसि । स्वप्नान्तेषु स्वप्नायितेषु सुप्तप्रलतितेषु पुनःपुनरुद्भूततया बहुष्विति वदन्युष्माकं सम्बन्धी रिपुस्त्रीजनः

बालप्रिया

प्रयेश्शब्देनेति । प्रेयोलङ्कारस्यापीत्यपिशब्दसहितप्रेयश्शब्देन चेत्यर्थः । रसाद्यलङ्कारा इति । रसवदाद्यलङ्कारा इति च पाठः । तदेवेति । उक्तभिप्रायादेवेत्यर्थः । पूरयति--उक्तविषय इति । चाटुस्थल इत्यर्थः । गुर्बादिविषयकप्रीतिवर्णनमेव प्रेयोलङ्कारः, चाटुस्थले तस्यप्राधान्येऽपि रसादयस्तत्प्रीतेस्तद्विषयनरपतिप्रभावादेर्वा अङ्गभूताश्चेति भामहमतानुरोधेन पङ्क्त्यर्थः । रतिहासादितत्तद्भाववर्णनं भावालङ्कारः, स एव प्रेयोलङ्कारः; चाटुस्थलेऽकिं हास्येनेऽत्यादौ चाटुर्वाक्यार्थः, तत्र रसवदलङ्कारः भावालङ्कारश्च स्त इत्युदभटमतानुरोधेन पङ्क्त्यर्थ इति सारार्थः ।
     वृत्तौऽस चेऽत्यादि । ऽअलङ्कारः स रसादिरिऽति योजना । चशब्दो वाक्यालङ्कारे । वेति । वा शब्दः समुच्चये । ऽउदाहरति किमितिऽ इति पाठः क्वचिन्नास्ति । स्वप्नेदृष्टं प्रियतमं प्रत्याह---किमित्यादि । हास्येन साध्यमिदानीं नास्तीत्यर्थः । हासवत्वेन दर्शनस्योपपत्तिमाह---स्वप्नस्येत्यादि । न मे इत्यादि । त्वमितिः परं मत्तो न यास्यसीत्यर्थः । अस्य भावमाह---इदानीमित्यादि । विदितः शठभावो यस्य तं । "गूढविप्रियकृच्छठ" इति दशरूपके । उक्तर्४थे गमकमाह---अत एवेति । स्वीकृतस्येति । स्वीयजनस्येत्यर्थः, कर्मणि षष्ठी । ऽइयं प्रवासरुचिता केऽति सम्बन्धः । केति । अनुचितेत्यर्थः । केनेत्यादेर्भावमाह---गोत्रेत्यादि ।


लोचनम्

प्रियतमे विशेषेमासक्तः कण्ठग्रहो येन तादृश एव सन्बुद्ध्वा शून्यवलयाकारीकृतबाहुपाशः सन्तारं मुक्तकण्ठं रोदितीति । अत्र शोकस्थायिभावेन स्वप्नदर्शनोद्दीपितेन करुणरसेन चर्व्यमाणेन सुन्दरीभूतो नरपतिप्रभावो भातीति करुणः शुद्ध एवालङ्कारः । न हि त्वया रिपवो हता इति यादृगनलङ्कृतोऽयं वाक्यार्थस्तादृगयम्, अपि तु सुन्दरतरीभूतोऽत्र वाक्यार्थः, सौन्दर्यं च करुणरसकृतमेवेति । चन्द्रादिना वस्तुना तथा वस्त्वन्तरं वदनाद्यलङ्क्रियते तदुपमितत्वेन चारुतयावभासात् । तथा रसेनापि वस्तु वा रसान्तरं वोपस्कृतं सुन्दरं भाति इति रसस्यापि वस्तुन इवालङ्कारत्वे को विरोधः? ननु रसेन किं कुर्वता प्रकृतोऽर्थोऽलङ्क्रियते । तर्हि उपमयापि किं कुर्वत्यालङ्क्रियेत ।
     ननु तयोपमीयते प्रस्तुतोऽर्थः । रसेनापि तर्हि सरसीक्रियते सोऽर्थ इति स्वसंवेद्यमेतत् । तेन यत्केचिदचूचुदन्--ऽअत्र रसेन विभावादीनां मध्ये किमलङ्क्रियतेऽ इति तदनभ्युपगमपराहतम्; प्रस्तुतार्थस्यालङ्कार्यत्वेनाभिधानात् । अस्यार्थस्य भूयसा लक्ष्ये

बालप्रिया

बहुष्विति बहुवचनार्थविवरणं । ऽवःऽ इत्यस्य व्याख्यानम्---युष्माकं सम्बन्धीति । ऽइत्यत्र करुणरसस्य शुद्धस्याङ्गभावादिऽति वृत्तावुक्तं विवृणोति---अत्रेत्यादिना । ऽअत्र नरपतिप्रभावः तथाविधेन करुणरसेन सुन्दरीभूतो भातीऽति सम्बन्धः । चर्व्यमाणेनेति । सहृदयचर्वणाविषयेणेत्यर्थः । अलङ्कार इति । वर्णनीयनरपतिप्रभावरूपवाक्यार्थोपस्कारकत्वेनालङ्कार इत्यर्थः । उक्तमुपपादयति---न हीत्यादि । ऽइत्ययमनलङ्कृतो वाक्यार्थो यादृक्, अयं तादृङ्न हीऽत्यन्वयः । सौन्दर्ये चेति । वाक्यार्थसौन्दर्यं चेत्यर्थः । करुणरसकृतमेवेत्युक्तं सदृष्टान्तमुपपादयति----चन्द्रादिनेत्यादिना को विरोध इत्यन्तेन । अलङ्क्रियत इति । "तामिन्दुसुन्दरमुखी"मित्यादिकाव्ये इति शेषः ।
     शङ्कते---नन्विति । प्रतिबन्द्याह--तर्हिति । उत्तरमाह---नन्विति । समानमुत्तरमाह---रसेनापीति । सरसीक्रियते रसवान्क्रियते । स्वसंवेद्यं सहृदयानुभवसिद्धं । तेनेति । वक्ष्यमाणहेतुनेत्यर्थः । तदिति । चोद्यमित्यर्थः । अनभ्युपगमेति । विभावादीनामलङ्कार्यत्वानभ्युपगमेनहेतुना पराकृतमित्यर्थः । तर्हि कोऽलङ्कार्य इत्यत्राह---प्रस्तुतार्थस्येत्यादि । प्रस्तुतार्थस्य विवक्षितस्य प्रकृतार्थस्य । ऽकिं हास्येनेऽत्यादौ वर्णितेन रिपुस्त्रीजनवृत्तान्तेन तद्धेतुभूतप्रियतमविनाशप्रत्यायनद्वारा नरपतिप्रभावः प्रत्याय्यत इति स एव प्रस्तुतार्थः । एवमन्यत्राप्यवधेयं । अभिधानादिति । वृत्तिकारेण प्रदर्शनादित्यर्थः ।


सङ्कीर्णो रसादिरङ्गभूतो यथा----
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददार्नोऽशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।


लोचनम्

सद्भाव इति दर्शयति-एवमिति । यत्र राजादेः प्रभावख्यापनं तादृश इत्यथः ।
     क्षिप्त इति । कामिपक्षेऽनादृतः, इतरत्र धुतः । अवधूत इति न प्रतीप्सितः

बालप्रिया

     क्षिप्त इत्याद्यमरुकस्थं । सः त्रिपुरदाहकालीनः शाम्भवः शम्भुसम्बन्धी ।


आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ।।
     इत्यत्र त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वेरिर्ष्याविप्रलम्भस्य श्लोषसहितस्याङ्गभाव इति, एवंविध एव रसवदाद्यलङ्कारस्य न्याय्यो विषयः । अत एव चेर्ष्याविप्रलम्भकरुणयोरङ्गत्वेन व्यवस्थानात्समावेशो न दोषः ।


लोचनम्

प्रत्यालिङ्गनेन, इतरत्र सर्वाङ्गधूननेन विशरारूकृतः । साश्रुत्वमेकत्रेर्ष्यया अन्यत्र निष्प्रत्याशतया । कामीवेत्यनेनोपमानेन श्लोषानुगृहीतेनेर्ष्याविप्रलम्भो य आकृष्टस्तत्य श्लेषोपमासहितस्याङ्गत्वम्, न केवलस्य । यद्यप्यत्र करुणो रसो वास्तवोऽप्यस्ति तथापि सतच्चारुत्वप्रतीत्यै न व्याप्रियत इत्यनेनाभिप्रायेण श्लेषसहितस्येत्येतावदेवा वोचत्न तु करुमसहितस्येत्यपि । एतमर्थमपूर्वतयोत्प्रेक्षितं द्रढीकर्तुमाह--एवं विध एवेति । अत एवेति । यतोऽत्र विप्रलम्भस्यालङ्कारत्वं न तु वाक्यार्थता, अतो हेतोरित्यर्थः । न दोष इति । यदि ह्यन्यतरस्य रसस्य प्राधान्यमभविष्यन्न द्वितीयो रसः समाविशेत् । रतिस्थायिभावत्वेन तु सापेक्षभावो विप्रलम्भः, स च शोकस्थायिभावत्वेन निरपेक्षभावस्य करुणस्य विरुद्ध एव । एवमलङ्कारशब्दप्रसङ्गेन समावेशं प्रसाध्य

बालप्रिया

ऽशराग्निः वः दुरितं दहत्विऽति सम्बन्धः । स कः? य आर्द्रः तत्कलभवः अपराधो यस्य सः । कामीव हस्तवलग्नः सन् । साश्रुणी नेत्रोत्पले यासां ताभिः । त्रिपुरयुवतिभिः क्षिप्त इत्याद्यन्वयः तत्र क्षिप्तपदार्थमाह---कामीत्यादि । इतरत्रेति । शराग्निपक्षे इत्यर्थः । वृत्युक्तमेवाङ्गभावं स्वयं दर्शयति---कामीवेत्यादि । आकृष्टः स्फुटं व्यञ्जितः । तस्यरिर्ष्याविप्रलम्भस्य । ऽश्लोषसहितस्येऽत्यस्य विवरणम्---श्लोषेत्यादि । अङ्गत्वमिति । त्रिपुररिपुप्रभावातिशयरूपवाक्यार्थं प्रत्यङ्गत्वमित्यर्थः । न केवलस्येति । तस्याङ्गत्वमित्यनयोरनुषङ्गः । करुणो रसोऽप्यस्तीति । तथा च तत्सहितस्येत्यपि वक्तव्यमिति भावः । स इति । करुण इत्यर्थः । तच्चारुत्वप्रतीत्यै विप्रलम्भचारुत्वप्रतीत्यै । न व्याप्रियत इति । करुणस्यत्र विप्रलम्भाङ्गत्वं नास्तीति भावः । ऽअत एवेऽत्येतद्य्वाचष्टे--यत इत्यादि । वाक्यार्थतेति । अलङ्कार्यत्वेन प्राधान्यमित्यर्थः । अन्यतरस्य रसस्येति । विप्रलम्भकरुणयोरेकस्येत्यर्थः । प्राधान्यं समप्राधान्यं । द्वितीय इति । तयोरेकस्मादपर इत्यर्थः । न समाविशेदिति । एकत्र काव्ये इति शेषः । अत्र हेतुमाह---रतीत्यादि । विषयोऽयं तृतीयोद्योते वक्ष्यते । ऽरसेऽत्यादिकारिका परिकरश्लोकः ।


तत्र सर्वासामलङ्कृतीनामित्यस्य यत्र हि रसस्य वाक्यार्थीभावस्तत्र कथमलङ्कारत्वम्? अलङ्कारो हि चारुत्वहेतुः प्रसिद्धः; न त्वसावात्मैवात्मनश्चारुत्वहेतुः ।
  तथा चायमत्र संक्षेपः---
रसभावादितात्पर्यमाश्रित्य विनिवेशनं ।
अलङ्कृतीनां सर्वासामलङ्कारत्वसाधनं ।।


लोचनम्

एवंविध एवेति यदुक्तं तत्रैवकारस्याभिप्रायं व्याचष्टे---यत्र हीति । सर्वासामुपमादीनां ।
     अथं भावः---उपमादीनामलङ्कारत्वे यादृशी वार्ता तादृश्येव रसादीनां । तदवश्यमन्येनालङ्कार्येण भवितव्यं । तच्च यद्यपि वस्तुमात्रमपि भवति, तथापि तस्य पुनरपि विभावादिरूपतापर्यवसानाद्रसादितात्पर्यमेवेति सर्वत्र रसध्वनेरेवात्मभावः । तदुक्तं रसभावादितात्पर्यमिति । तस्येति । प्रधानस्यात्मभूतस्य । एतदुक्तं भवति--उपमया यद्यपि वाच्योऽर्थोऽलङ्क्रियते, तथापि तस्य तदेवालङ्करणं यद्व्यङ्ग्यार्थाभिव्यञ्जनसामर्थ्यधानमिति वस्तुतो ध्वन्यात्मैवालङ्कार्यः । कटककेयूरादिभिरपि हि शरीरसमवायिभिश्चेतन आत्मैव तत्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मतयालङ्क्रियते । तथाहि--अचेतनं

बालप्रिया

रसवदादीनामलङ्कृतीनामित्यर्थभ्रमः स्यादतो व्याख्याति---उपमादीनामित्यादि । उपमादीनां रसवदादीनां चेत्यर्थः ।
     ऽरसभावेऽ त्यादिकमवतारयिष्यन्नाह---अयं भाव इत्यादि । यादशी वार्तेति । यो हेतुरित्यर्थः । स चान्योपस्कारः । तच्चेति । अलङ्कार्यं चेत्यर्थः । वस्तुमात्रमिति । यथाऽकिं हास्येनेऽत्यादौ नरपतिप्रभावादि । तस्येति । वस्तुन इत्यर्थः । रसध्वनेरिति । रसभावादिध्वनेरित्यर्थः । ऽकिं हास्येने"त्यादौ वर्णनीयराजविषयकरतिभावो हि वक्तृगतस्तत्प्रभावविभावितः प्रधानभूतः । उपमयेति । उपमादिनेत्यर्थः । तस्येति । वाच्यार्थस्येत्यर्थः । व्यङ्ग्यार्थेति । रसादीत्यर्थः । वर्ण्यमानास्तत्तद्वाच्यार्था उपमाद्यलङ्कारैराहितातिशयाः कविवन्नबद्धान्यतरगतचित्तवृत्तिविशेषं स्फुटं व्यञ्जयन्ति क्वचिदर्थान्तरञ्चेति व्यङ्ग्याभिव्यञ्जनसामर्थ्याधानं वाच्यार्थस्योपमादिकर्तृकमलङ्करणमित्यर्थः । ध्वनियात्मेति । ध्वनिरूप आत्मेत्यर्थः । उक्तार्थे लौकिकं दृष्टन्तं दर्शयति---कटकेत्यादि । आत्मैव न शरीरं । कथमात्मालङ्क्रियत इत्यत्राह---तत्तदिति । तत्तदात्मगता रागित्वादयो ये चित्तवृत्तिविशेषाः, तेषां यदौचित्यं तत्सूचनात्मतया तत्सूचनस्वभावकतया तत्तदलङ्कारा ह्यस्येथं चित्तवृत्तिरुचितेति सूचयन्ति; यथा युवजनशरीरगता हारकटककुण्डलादयः तद्रागित्वस्यौचित्यं यत्तिशरीरगता दण्डकषायवस्त्रादयस्तद्वैराग्यस्यौचित्यं चेति तत्सूचकत्वेनेत्यर्थः । उक्तमुपपादयति---तथाहीत्यादि ।


     तस्माद्यत्र रसादयो वाक्यार्थीभूताः स सर्वः न रसादेरलङ्कारस्य विषयः, स ध्वनेः प्रभेदः, तस्योपमादयोऽलङ्काराः । यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिष्पत्तिः क्रियते, स रसादेरलङ्कारताया विषयः ।
     एवं ध्वनेरुपमादीनां रसवदलङ्कारस्य च विभक्तविषयता भवति । यदि तु चेतनानां वाक्यार्थीभावो रसाद्यलङ्कारस्य विषय इत्युच्यते


लोचनम्

शवशरीरं कुण्डलाद्युपेतमपि न भाति, अलङ्कार्यस्याभावात् । यतिशरीरं कटकादियुक्तं हास्यावहं भवति, अलङ्कार्यस्यानौचित्यात् । न हि देहस्य किञ्चिदनौचित्यमिति वस्तुत आत्मैवालङ्कार्यः, अहमलङ्कृत इत्यभिमानात् । रसादेरलङ्कारताया इति व्यधिकरणषष्ठ्यौ, रसादेर्यालङ्कारता तस्याः स एव विषयः । एतदनुसारेणैव पूर्वत्रापि वाक्येयोज्यम्, रसादिकर्तृकस्यालङ्करणक्रियात्मनो विषय इति । एवमिति । अस्मदुक्तेन विषयविभागेनेत्यर्थः । उपमादीनामिति । यत्र रसस्यालङ्कार्यता रसान्तरं चाङ्गभूतं नास्ति तत्र शुद्धा एवोपमादयः तेन संसृष्ट्या नोपमादीनां विषयापहार इति भावः । रसवदलङ्कारस्य चेति । अनेन भावाद्यलङ्कारा अपि प्रेयस्व्यूर्जस्विसमाहिता गृह्यन्ते ।

बालप्रिया

अलङ्कार्यस्याभावादिति । शवशरीस्याचेतनत्वादिति भावः । अनेन चेतन एवालङ्क्रियत इत्युक्तमुपपादितं । यतिशारीरमित्यादि । कटकादयो हि रागित्वस्यौचित्यं सूचयन्ति । यतेरात्मनश्च रागित्वमनुचितमित्यतो यतिशरीरगताः कटकादयो हास्यावहा इत्यर्थः । तत्तच्चेतनशरीरगतैः कटककुण्डलादिभिः सूच्यस्य रागित्वादिचित्तवृत्तिविशेषस्य तत्तच्चेतनोचितत्वे तेषामलङ्कारता, अन्यथा हास्यावहतेति । भावः । अनुभवरूपप्रमाममप्याह---अहमित्यादि । व्यधिकरणषष्ठ्याविति । न तु समानाधिकरणे तत्पदे इति भावः । व्याचष्टे---रसादेरिति । रसादिनिष्ठा या अलङ्कारता अलङ्क्रियाकर्तृत्वं रसादिकर्तृकालङ्क्रियेति यावत् । स एव तस्या विषय इति सम्बन्धः । स इति वृत्तिस्थस्यानुवादः, यत्रेत्यस्य प्रतिनिर्देशः तत्काव्यमित्यर्थः । विषयः आश्रयः । पूर्वत्रेति । स सर्वो न रसादेरलङ्कारस्य विषय इति वाक्य इत्यर्थः । योजनामाह---रसादीति । अस्मिन्वाक्येऽपिऽसऽ इति यत्रेत्यस्य प्रतिनिर्देशः । उपमादीनां रसवदादिविवविक्तं विषयं दर्शयति---यत्रेत्यादि । संसृष्ट्येति । रसवदादिसंसृष्ट्येत्यर्थः । भावाद्यलङ्कारा इत्यस्यैव विविरणम्---प्रेयस्व्यूर्जस्विसमाहिता इति । समाहितादय इति च पाठः । भावस्यापराङ्गत्वे भावालङ्कारः, स एव प्रेयस्वी प्रेयानिति चोच्यते । रसाभासभावभासयोरपराङ्गत्वे ऊर्जस्वी ।


लोचनम्

तत्र भावालङ्क्तारस्य शुद्धस्योदाहरणं यथा---
तव शतपत्रपत्रमृदुताम्रतलश्चरमश्चलकलहंसनूपुरकलध्वनिना मुखरः ।
महिषमहासुरस्य शिरसि प्रसभं निहितः कनकमहामहीध्रगुरुतां कथमम्ब गतः ।।
     इत्यत्र देवीस्तोत्रे वाक्यार्थीभूते वितर्कविस्मयादिभावस्य चारुत्वहेतुतेति । तस्याङ्गत्वाद्भावालङ्कारस्य विषयः । रसाभासस्यालङ्कारता यथा ममैव स्तोत्रे---
समस्तगुणसम्पदः सममलङ्क्रियाणां गणैर्--
भवन्ति यदि भूषणं तव तथापि नो शोभसे ।
शिवं हृदयवल्लभं यदि यथा तथा रञ्जयेः
तदेव ननु वाणि ते भवति सर्वललोकोत्तरं ।।
     अत्र हि परमेशस्तुतिमात्रं वाचः परमोपादेयमिति वाक्यार्थे शृङ्गाराभासश्चारुत्वहेतुः श्लोषसहितः । न ह्ययं पूर्णः शृङ्गारो नायिकाया निर्गुणत्वे निरलङ्कारत्वे च भवति ।

बालप्रिया

भावशान्तेरपराङ्गत्वे समाहित इति विवेकः । शुद्धस्येति । अलङ्कारान्तरेण अभिश्रस्येत्यर्थः ।
     तवेति । हे अम्ब ! तव । शतेत्यादि । शतपत्रं पझं, तस्य पत्रमिव मृटु ताम्रं च तलमधोभागो यस्य सः । चलकलहंसतुल्यो नूपुरः तस्य ध्वनिना मुखरः स शब्दः । चरणः महिषाख्यस्य महासुरस्य । शिरसि प्रसभं, निहितः सन् । कनकमयो महांश्च यो महीध्रः पर्वतः सुमेरुः तस्य । कनकमयत्वोक्त्या गौरवाधिक्यं द्योत्यते । गुरुतां कथं गत इति सम्बन्धः । गुरुत्वप्राप्तिः महिषशिरोनिष्पीजनेन निश्चितेति भावः । देवीस्तोत्र इति । स्तूयमाने देवीप्रभावे तद्विषयकरतिभावे वेत्यर्थः । वितर्केति । कथंपदेन वितर्कादिकं गम्यते । यद्यप्यत्र वितर्कादेः शतपत्रेत्याद्युक्तोपमासंसृष्टत्वाच्छुद्धत्वं दुर्घटं, तथापि मृदुताम्रतल इत्येतावन्मात्रोक्तावपि वितर्कादेः सम्भवादुपमायास्तदङ्गत्वाभावात्तदसङ्कीर्णत्वरूपं शुद्धत्वं सुघटं ।
     समस्तेति । नायिकात्वमारोप्य स्ववाचं प्रत्युक्तिरियं । ननु वाणि ! समस्तानां गुणानां माधुर्यादीनामथ च सौन्दर्यादीनां सम्पदः । अलङ्क्रियाणामनुप्रासोपमादीनामथ च कटकादीनां । गणैः समं सह । तव भूषणं भवन्ति यदि यद्यपि, तथापि त्वं नो शोभसे । तर्हि कथं शोभा भवतीत्यत्राह---शिवमित्यादि । त्वं हृदयवल्लभं सर्वेषामात्मत्वेन प्रियं । शिवं परमेश्वरमथ च मङ्गलाकारं प्रियतमं । यथा तता यथा कयापि विधया । गुमालङ्कारसाहित्येनान्यथा वेत्यर्थः । रञ्जयेः गुणप्रतिपादनेन प्रसादयेः, अथ चानुरञ्जयेः । यदि तर्हि तदेव तदनुरञ्जनमेव । ते सर्वलोकोत्तरं भूषणं भवतीत्यर्थः । अत्र प्रतीयमानस्य शृङ्गारस्याभासत्वं ववृणोति---न हित्यादि । हि यतः । नायिकाया निर्गुणत्वे निरलङ्कारत्वे च सति शृङ्गारः पूर्णो न भवति, अतोऽयं


तर्ह्युपमादीनां प्रविरलविषयता निर्विषयता वाभिहिता स्यात् । यस्मादचेतनवस्तुवृत्ते वाक्यार्थीभूते पुनश्चेतनवस्तुवृत्तान्तयोजनया यथाकथञ्चिद्भवितव्यं । अथ सत्यामपि तस्यां यत्राचेतनानां वाक्यार्थीभावो नासौ रसवदलङ्कारस्य विषय इत्युच्यते । तत्महतः काव्यप्रबन्धस्य रसनिधानभूतस्य नीरसत्वमभिहितं स्यात् । यथा--


लोचनम्

ऽउत्तमयुवप्रकृतिरुज्ज्वलवेषात्मकःऽ इति चाभिधानात् । भावाभासाङ्गता यथा---
स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु ।।
     अत्र रौद्रप्रकृतीनामनुचितस्त्रसो भगवत्प्रभावकारणकृत इति भावाभासः । एवं तत्प्रशमस्याङ्गत्वमुदाहार्यं । मे मतिरित्यनेन यत्परमतं सूचितन्तद्दूषणमुपन्यस्यति--यदित्यादिना । परस्य चायमाशयः---अचेतनानां चित्तवृत्तिरूपरसाद्यसम्भवात्तद्वर्णने रसवदलङ्कारस्यानाशङ्क्यत्वात्तद्विभक्त एवोपमादीनां विषय इति । एतद्दूषयति---तर्हीति । तस्माद्धचनाद्धेतोरित्यर्थः । नन्वचेतनवर्णनं विषय इत्युक्तमित्याशङ्क्य हेतुमाह---यस्मादिति । यथाकथञ्चिदिति विभावादिरूपतया । तस्यामिति । चेतनवृत्तान्तयोजनायां । नीरसत्वमिति । यत्र हि रसस्तत्रावश्यं रसवदलङ्कार इति परमतं । ततो न रसवदलङ्कारश्चेन्नूनं तत्र रसो नास्तीति परमताभिप्रायान्नीरसत्वमुक्तं । न त्वस्माकं रसवदलङ्काराभावे नीरसत्वं । अपि तु ध्वन्यात्मभूतरसाभावे, तादृक्च रसोऽत्रास्त्येव ।

बालप्रिया

पूर्णो नेत्यर्थः । किन्त्वाभास इति भावः । उत्तमयुवेति । युवा च युवतीच युवानावित्येकशेषऽत्र बोध्यः । प्रक्ऱुते ’यथा तथा रञ्जये'रित्यनेन प्रतीयमाननायिकाया निर्गुणत्वादिकं दर्शितम् ।
     स इति । सः भगवान् श्रीकृष्णः । यस्येति कर्तुः शेषत्वविषया षष्टी । तत्तुल्येति । भगवद्वर्णतुल्येत्यर्थः । स्वेत्यादि । दृश्यमानेष्विति शेषः । इति भावाभास इति । तत्र्रासस्य भगवत्प्रभावविभावितायां रतौ गुणीभावाद्भावाभास ऊर्जस्व्यलङ्कार इत्यर्थः । यदि त्वित्यादिग्रन्थेन गम्यमर्थमाह----परस्येत्यादि । तद्वर्णन इति । अचेतनवर्णन इत्यर्थः । तदिति । तद्वर्णनमित्यर्थः । विभक्त इति । तद्वर्णन इति । अचेतनवर्णन इत्यर्थः । तदेवेति योजना । वृत्तौ शङ्कते---ऽअथेऽति । ऽतस्याम्ऽ इति । चेतनवस्तुवृत्तान्तयोजनायामित्यर्थः । ऽअसाऽविति । यत्रेत्यस्य प्रतिनिर्देशः । ऽतन्महतऽइति । ऽतत्ऽ तर्हि । ऽमहतःऽ भूयसः । नीरसत्वमभिहितं स्यादिति न स्वमतानुरोधेन, किन्तु परभतानुरोधेनेत्याह लोचने---यत्र हीत्यादि । रस इति । प्रधानवाक्यार्थ इति शेषः । परेति । भामहोद्भटादिमतमित्यर्थः । अस्माकमिति । मत इति


तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना
विकर्षन्ती फेनं वसनमिव संरम्भशिथिलं ।
यथाविद्धं याति स्खलितमभिसन्धाय बहुशो
नदीरूपेणेयं ध्रुवमसहना सा परिणता ।।
  यथा व---
तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः
शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्नमा ।


लोचनम्

     तरङ्गेति । तरङ्गा एव भ्रूभङ्गा यस्याः विकर्षन्तां विलम्बमानं बलादाक्षिपन्ती । वसनमंशुकं । प्रियतमावलम्बननिषेधायेति भावः । बहुशो यत्स्खलितं येऽपराधास्तानभिसन्धाय हृदयेनैकोकृत्यासहमाना मानिनीत्यर्थः । अथ च मद्वियोगपश्चात्तापा सहिष्णुस्तापशान्तये नदीभावं गतेति ।
     तन्वीति । वियोगकृशाप्यनुतप्ता चाभरणानि त्यजति । स्वकालो वसन्तग्रीष्मप्रायः ।

बालप्रिया

शेषः । तादृगिति । ध्वन्यात्मभूत इत्यर्थः । अत्रेति । वक्ष्यमाणोदाहरणेष्वित्यर्थः ।
     तरङ्गेति । ऽअसहनाऽ सेयमुर्वशी । ऽनदीरूपेणऽ नदीभावेनेति च पाठः । ऽपरिणताध्रुवऽमित्युत्प्रेक्षायां । इयं न नदी, किन्तु सा इति सम्भावयामीत्यर्थः । उक्तमुपपादयति--तरङ्गेत्यादि । तरङ्गादौ भ्रूभङ्गत्वाद्यारोपाद्रूपकं । वसनमिवेत्युपमा । संरम्भेण कोपावेगेन शिथिलं शिथिलबन्धं । ऽयथेऽति । यत इत्यर्थः । तत इति शेष । ऽआविद्धंऽ कुटिलं । यद्वा यथाविद्धमित्येकं पदं । कौटिल्यमनतिक्रम्येत्यर्थः । ऽस्खलितमभिसन्धायेऽति नदीपक्षे शिलादिस्खलनं प्राप्येत्यर्थः । लोचने--तरङ्गा इत्यादि । एवं क्षुभितविहागश्रेणिरेव रशना यस्या इति बोध्यं । अपराधा इति । ममेति शेषः । मानिनीति । कोपवतीत्यर्थः । असहिष्णुरिति । असहिष्णुत्वादिवेत्यर्थः ।
     तन्वीति । अस्मात्पूर्वमियमिति वर्तते । ऽइयं, लता । ऽचण्डीऽ आतिकोपना । अत एव पादपतितं मामवधूय तिरस्कृत्य स्थिता । अत एव जातानुतापा । ऽसाऽ उर्वशी इव लक्ष्यते । एतदङ्गमुत्प्रेक्षात्रयं तन्वीत्यादिनोच्यते । तन्वीत्युभयसाधारणं । इयं लता । मेघजालैरार्द्राः पल्लवा यस्यां तस्य भावः तत्ता, तया हेतुना अश्रुभिः धौतः अधरो यस्याः सा इव । स्वकालविरहाद्विश्रान्तपुष्पोद्गमा इयमाभरणैः शून्येव । नायिकाया आभरणत्यागमुपपादयति---वियोगेति । वियोगकार्श्यादनुतापाटच्चेत्यर्थः ।


चिन्ता मौनमिवाश्रिता मधुकृतां शब्दैर्विना लक्ष्यते
चण्डी मामवधूय पादपतितं जातानुतापेव स ।।
यथा वा----
तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां
क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मनां ।
विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना
ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ।।


लोचनम्

उपायचिन्तनार्थं मौवं, किमिति पादपतितमपि दयितमवधूतवत्यहमिति च चिन्तया मौनं । चण्डी कोपना । एतौ श्लोकौ नदीलतावर्णनपरौ तात्पर्येण पुरूरवस उन्मादाक्रान्तस्योक्तिरूपौ । तेषामिति । हे भद्र ! तेषमिति ये ममैव हृदये स्थितास्तेषां । गोपवधूनां गोपीनां ये विलाससुहृदो नर्मसचिवास्तेषां । प्रच्छन्नानुरागिणीनां हि नान्यो नर्मसुहृद्भवति । राधायाश्च सातिशयं प्रेमस्थानमित्याह---राधास्भोगानां ये साक्षाद्द्रष्टारः, कलिन्दशैलतनया यमुना तस्यास्तीरे लतागृहाणां क्षेमं कुशलमिति काक्वा प्रश्नः । एवं तं पृष्ट्वा गोपदर्शनप्रबुद्धसंस्कार आलम्बनोद्दीपनविभावस्मरमात्प्रबुद्धरतिभावमात्मगतमौत्सुक्यगर्भंमाह द्वारकागतो भगवान्कृष्णः---स्मरतल्पस्य मदनशय्यायाः कल्पनार्थं मृदु सुकुमारं कृत्वा यश्छेदस्त्रोटनं स एवोपयोगः साफल्यं । अथ च स्मरतल्पे यत्कल्पनं क्लॄप्तिः स एव मृदुः सुकुमार उत्कृष्टश्छेदोपयोगस्त्रोटनफलं तस्मिन्विच्छिन्ने । मय्यनासीने का स्मरतल्पकल्पनेति । भावः । अत एव परस्परानुरागनिश्चयगर्भमेवाह---ते जान इति । वाक्यार्थस्यात्र कर्मत्वं । अधुना

बालप्रिया

ऽमधुकृतांऽ मृङ्गनांऽशब्दैर्विनाऽ शब्दानामभावेन । इयं चिन्ता मौनमाश्रितेवेति । अत्र नायिकाया मौनं द्वेधा व्याचष्टे---उपायेत्यादि । उपायस्सङ्गमोपायः ।
     तेषामिति । तेषामित्यनुभूताथकमित्याह----य इत्यादि । गोपेति गोपदर्शनेन प्रबुद्धा उद्बुद्धाः संस्काराः लतावेश्माद्यनुभवजनिताः संस्कारा यस्य सः । प्रबुद्द्येत्यादित्रयमाहेतिक्रियाविशेषणं । ऽप्रबुद्धरतिभावऽ इत्च पाठः । रतिभावः गोपीविषयकः । कल्पनार्थमिति । निर्माणार्थमित्यर्थः । मृदुकृत्वेति । मृदुत्वाद्धेतोरित्यर्थः । अर्थान्तरं चाह---अथ चेति । स्मरतत्प इति । उत्तरीयादिकृत इति भावः । क्ल्प्तिरिति । विकिरणमित्यर्थः । सुकुमार इत्यस्यैव विवरणम्---उत्कृष्ट इति । विच्छिन्नत्वमुपपादयति----मयीति । अत एव कथितोपयोगविच्छेदादेव । परस्परेति । स्वस्य गोपीनां च यः


     इत्येवमादौ विषयेऽचेतनानां वाक्यार्थीभावेऽपि चेतनवस्तुवृत्तान्तयोजनास्त्येव । अथ यत्र चेतनवस्तुवृत्तान्तयोजनास्ति तत्र रसादिरलङ्कारः । तदेवं सत्युपमादयो निर्विषयाः प्रविरलविषया वा स्युः । यस्मान्नास्त्येवासावचेतनवस्तुत्तान्तो यत्र चेतनवस्तुवृत्तान्तयोजनानास्त्यन्ततो विभावत्वेन ।


लोचनम्

जरठीभवन्तीति । मयि तु सन्निहितेऽनवरतकथितोपयोगान्नेमे जराजीर्णताखिलीकारं कदाचिदवाप्नुवन्तीति भावः । विगलन्ती नीला त्विड्येषामित्यनेन कतिपयकालप्रोषितस्याप्यौत्सुक्यनिर्भरत्वं ध्वनितं । एवमात्मगतेयमुक्तिर्यदि वा गोपं प्रत्येव संप्रधारणोक्तिः । बहुभिरुदाहरणेर्महतो भूयसः प्रबन्धस्येति यदुक्तं तत्सूचितं । अथेत्यादि । नीरसत्वमत्र मा भूदित्यभिप्रायेणेति शेषः । ननु यत्र चेतनवृत्तस्य सर्वथा नानुप्रवेशः स उपमादेर्विषयो भविष्यतीत्याशङ्क्याह--यस्मादित्यादि । अन्तत इति । स्तम्भपुललकाद्यचेतनमपि वर्ण्यमानमनुभावत्वाच्चेतनमाक्षिपत्येव तावत्, किमत्रोच्यते । अतिजडोऽपि चन्द्रोद्यानप्रभृतिः स्वविश्रान्तोऽपि वर्ण्यमानोऽवश्यं चित्तवृत्तिविभावतां त्यक्त्वा

बालप्रिया

परस्परालम्बनोऽनुरागः तन्निश्चयगर्भमेवेत्यर्थः । तन्निश्चयाभावे वक्ष्यमाणमनुपंपन्नं भवेत्गोपीनां पुरुषान्तररमणे तदुपयोगसम्भवादिति । भावः । ते इत्यस्य लतावेश्मसम्बन्धिन इत्यर्थः । जरठीभवन्ति जीर्णीभवन्तीत्यनेन गम्यमाह---मयीत्यादि । अनवरतेति । अनवरतो यः कथितोपयोगः पूर्वोक्तोपयोगः तस्य योगात् । नेम इति । इमे पल्लवाः । जरेति । जराजीर्मतया यः खिलीकारः वैवर्ण्यदिरूपस्तं । विगलदिति शतृप्रत्ययेन गम्यमाह---कतिपयेति । प्रोषितस्येति । भगवत इति शेषः । औत्सुक्येति । औत्सुक्यमुत्कण्ठा दिदृक्षा वा । उदाहरमत्रयप्रदर्शनफलमाह---बहुभिरित्यादि । बहुभिः त्रिभिः । उदाहरणैः तत्सूचितमिति सम्बन्धः । महत इति वृत्तिस्थस्यानुवादः । तस्य व्याख्यानम्---भूयस इति । वृत्तावथेत्यस्य यदीत्यर्थः । तत्र रसादिरलङ्कारो यदीति योजना । अत्राभिप्रायं पूरणेन दर्शयति---नीरसत्वमिति । यस्मादित्यादिग्रन्थमवतारयति---नन्विति । ऽयत्रान्ततो विभावत्वेन चेतनवस्तुवृत्तान्तयोजना नास्ति असावचेतनवस्तुवृत्तान्तो नास्तीऽति वृत्तान्वयः । अन्ततो विबावत्वेन योजनेति वृत्ताबुक्तं, तदभिप्रायमाह---स्तम्भेत्यादि । वर्ण्यमानमचेतनमपि स्तम्भपुलकादीति योजना । चेतनमाक्षिपत्येव चित्तवृत्तिविशेषगमकत्वेन चेतनगमकं भवत्येव । तावदिति सम्प्रतिपत्तौ । किमत्रोच्यत इति । अनुभावस्य भावगमकतायाः प्रसिद्धत्वादत्र न किञ्जिद्वक्तव्यमित्यर्थः । विभावत्वेन योजनां विवृणोति----अतिजड इत्यादि । ऽवर्ण्यमानः स्वविश्रान्तोऽपि चन्द्रोद्यानप्रभृतिरिऽति सम्बन्धः । स्वविश्रान्तः वाच्यार्थबोधेन स्वस्मिन्पर्यवसितः । चितेति । चित्तवृत्तिविशेषस्य


तस्मादङ्गत्वेन च रसादीनामलङ्कारता । यः पुनरङ्गी रसो भावो वा सर्वाकारमलङ्कार्यः स ध्वनेरात्मेति ।
  किञ्चि---
तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ।। ६ ।।
     येतमर्थं रसादिलक्षणमङ्गिनं सन्तमवलम्बन्ते ते गुमाः शौर्यादिवत् । वाच्यवाचकलक्षणान्यङ्गानि ये पुनस्तदाश्रितास्तेऽलङ्कारा मन्तव्याः कटकादिवत् ।


लोचनम्

काव्येऽनाख्येय एव स्यात्; शास्त्रेतिहासयोरपि वा । एवं परमतं दूषयित्वा स्वमतमेव प्रत्याम्नायेनोपसंहरति--तस्मादिति । यतः परोक्तो विषयविभागो न युक्त इत्यर्थः । भावो वेति वाग्रहणात्तदाभासतत्प्रशमादयः । सर्वाकारमिति क्रियाविशेषणं । तेन सर्वप्रकारमित्यर्थः । अलङ्कार्य इति । अत एव नालङ्कार इति भावः ।। ५ ।।
     अलङ्कार्यव्यतिरिक्तश्चालङ्कारोऽभ्युपगन्तव्यः, लोके तथा सिद्धत्वात्, यथा गुणिव्यतिरिक्तो गुणः । गुणालङ्कारव्यवहारश्च गुणिन्यलङ्कार्ये च सति युक्तः । स चारस्मत्पक्ष एवोपपन्न इत्यभिप्रायद्वयेनाह---किञ्चेत्यादि । न केवलमेतावद्युक्तिजातं रसस्याङ्गित्वे, यावदन्यदपीति समुच्चयार्थः । कारिकाप्यभिप्रायद्वयेनैव योज्या । केवलं प्रथमाभिप्राये प्रथमं कारिकार्धं दृष्टान्ताभिप्रायेण व्याख्येयं । एवं वृत्तिग्रन्थोऽपि योज्यः ।। ६ ।।

बालप्रिया

उद्दीपनविभावतामित्यर्थः । शास्त्रेति । अनाख्येय इत्यनुषज्यते । न हि तदस्ति वस्तु यन्न किञ्जिच्चित्तवृत्तिविशेषमुद्बोधयतीति भावः । प्रत्याम्नायेन उक्तस्यैव पुनः कथनेन । आम्नायपदेन वेदवदस्य प्रामाण्यं द्योत्यते । वाग्रहणादिति । गृह्यन्त इति शेषः । अलङ्कार्य इत्यक्त्या गम्यामाह---अत एवेति ।। ५ ।।
     ऽकिञ्चेऽत्यादिग्रन्थमवतारयति----अलङ्कार्येत्यादि । अभिप्रायान्तरं चाह---गुणेति । स चेति । गुणालङ्कारव्यवहारश्चेत्यर्थः । किञ्चेत्यस्यार्थमाह---नेत्यादि । युक्तिजातं युक्तिसमूहः । अभिप्रायद्वयेनेति । उक्तेनेति भावः । योजनां दर्शयति---केवलमित्यादि । प्रथमाभिप्रायैति । अलङ्कार्यव्यतिरिक्तश्चालङ्कारोऽभ्युपगन्तव्य इत्यभिप्राय इत्यर्थः । प्रथमं कारिकार्धमिति । तमर्थमित्याद्यर्धमित्यर्थः । दृष्टान्तेति । यता गुणिव्यतिरिक्तो गुण इति दृष्टान्तेत्यर्थः । द्वितीयाभिप्रायस्तु पूर्वोत्तरार्धाभ्यां गम्य इति भावः । वृत्तौ तमर्थमित्यस्य विवणं---ऽरसादिलक्षणम्ऽ इति । ऽअङ्गिनं सन्तऽमिति तद्विशेषणमङ्गीभूतमित्यर्थः । शौर्यादिवदिति दृष्टान्तो गम्यः । ऽतदाश्रिताऽ इति । अङ्गाश्रिता इत्यर्थः ।। ६ ।।


  तथा च---
शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति ।। ७ ।।


लोचनम्

     ननुशब्दार्थयोर्माधुर्यादयो गुणाः, तत्कथमुक्तं रसादिकमङ्गिनं गुणा आश्रिता इत्याशङ्क्याह--तता चेत्यदि । तेन वक्ष्यमाणेन बुद्धित्थेन परिहारप्रकारेणोपपद्यते चैतदित्यर्थः । शृङ्गार एवेति । मधुर इत्यत्र हेतुमाह--परः प्रह्लादन इति । रतौ हि समस्तदेवतिर्यङ्नरादिजातिष्वविच्छिन्नैव वासनास्त इति न कश्चित्तत्र तादृग्यो न हृदयसंवादमयः, यतेरपि हि तच्चमत्कारोऽस्त्येव । अत एव मधुर इत्युक्तं । मधुरो हि शर्करादिरसो विवेकिनोऽविवेकिनां व्स्वस्थस्यातुरस्य वा झटिति रसनानिपतितस्तावदभिलषणीय एव भवति । तन्मयमिति । स शृङ्गार आत्मत्वेन प्रकृतो यत्र व्यङ्ग्यतया । काव्यमिति । शब्दार्थावित्यर्थः । प्रतितिष्ठतीति । प्रतिष्ठां गच्छतीति यावत् ।

बालप्रिया

     ऽतथाचेऽत्यादिग्रन्थमवतारयति----नन्वित्यादि । शब्दार्थयोरित्यादि । तथैव प्राचीनैरुक्तत्वादिति भावः । तथाचेत्येतत्प्रकृतानुगुण्येन व्याचष्टे---तेनेत्यादि । कारिकां व्याचष्टे---मधुर इत्यादि । मधुरः माधुर्याख्यगुणविशिष्टः । हेतुमिति । ज्ञापकमित्यर्थः । परप्रह्लादनत्वमुपपादयति---रतावित्यादि । रतौ जायमानायामिति शेषः । वासनेति । संस्कारापरपर्याया सूक्ष्मावस्थेत्यर्थः । इतीति हेतौ । नेत्यादि । तत्र रतौ । हृदयसंवादमयः प्राचुर्येण हृदयसंवादशाली । यस्तत्र हृदयसंवादमयो न तादृक्कश्चिन्नेत्यन्वयः । सर्वेषां रतौ हृदयसंवादो भवतीत्यर्थः । तच्चमत्कार इति । रतौ हृदयसंवाद इत्यर्थः । अवतारिकोक्तं योजयति--अत इत्यादि । उक्तं दृष्टान्तेन विशदयति---मधुरो हीत्यादि । कारिकायां मधुर इत्यादिना अयमर्थोऽपि दृष्टान्तविधया विवक्षित इति भावः । विवेकिनोऽविवेकिनो वेति । सर्वस्यैवेत्यर्थः । अभिलषणीय एवेति । प्रह्लादन एवेति भावः । तन्मयमित्यत्र "तत्प्रकृतवचने मयडि"ति सूत्रेण मयडिति व्याचष्टे--स इत्यादि । आत्मत्वेनेत्यस्योपपादकं---व्यङ्ग्यतयेति ।


लोचनम्

एतदुक्तं भवति--वस्तुतो माधुर्यं नाम शृङ्गारादे रसस्यैव गुणः । तन्मधुररसाभिव्यञ्जकयोः

बालप्रिया

कारिकाभावार्थमाह---एतदुक्तमित्यादि । शृङ्गारादेरित्यादिपदेन करुणस्य सङ्ग्रहः । तदिति । माधुर्यमित्यर्थः । उपचरितं साक्षात्सम्बन्धेनारोपितं । फलितमाह---मधुरेत्यादि ।


     शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लादहेतुत्वात् । तत्प्रकाशनपरशब्दार्थतया काव्यस्य स माधुर्यलक्षणो गुणाः । श्रव्यत्वं पुनरोजसोऽपि साधारणमिति ।
शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः ।। ८ ।।


लोचनम्

व्यञ्जकयोः शब्दार्थयोरुपचरितं मधुरशृङ्गाररसाभिव्यक्तिसमर्थता शब्दार्थयोर्माधुर्यमिति हि लक्षणं । तस्माद्युक्तमुक्तंऽतमर्थम्ऽ इत्यादि । कारिकार्थं वृत्त्याह--शृङ्गार इति । ननुऽश्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यतेऽइति माधुर्यस्य लक्षणं । नेत्याह--श्रव्यत्वमिति । सर्वं लक्षणमुपलक्षितं । ओजसोऽपीति । ऽयो यः शस्त्रंऽ इत्यत्र हि श्रव्यत्वमसमस्तत्वं चास्त्येवेति भावः ।। ७ ।।
     सम्भोग शृङ्गारान्मदुरतरो विप्रलम्भः, ततोऽपि मधुरतमः करुम इति तदभिव्यञ्जनकौशलं शब्दार्थयोर्भधुरतरत्वं मधुरतमत्वं चेत्यभिप्रायेणाह--शृङ्गार इत्यादि । करुणेचेति चशब्दः क्रममाह । प्रकर्षवदिति । उत्तरोत्तरं तरतमयोगेनेति भावः । आर्द्रतामिति । सहृदयस्य चेतः स्वाभाविकमनाविष्टत्वात्मकं काठिन्यं क्रोधादिदोप्तरूपत्वं

बालप्रिया

शृङ्गारेति । शृङ्गारादीत्यर्थः । लक्षणमिति । स्वरूपमित्यर्थः । अनेनऽतत्प्रकाशनेऽत्यादि वृत्यर्थो दर्शितः । वृत्तौऽरसान्तरापेक्षया प्रह्लादहेतुत्वादिऽति सम्बन्धः । लोचने--नन्वित्यादि । नातिसमस्तार्थशब्दं मधुरमिति । काव्यमिति शेषः । इतीति । इति भामहोक्तमित्यर्थः । लक्षणमिति । श्रव्यत्वादिघटितलक्षणमित्यर्थः । एतदन्तः शङ्काग्रन्थः । नेत्याहेति । उक्तमतिव्याप्त्या लक्षणं न भवतीत्याहेत्यर्थः । सर्वमिति । श्रव्यमित्यादिनोक्तं सर्वमित्यर्थः । ओजस इति । ओजस्विनः काव्यस्येत्यर्थः । तदुदाहृत्यातिव्याप्तिं दर्शयति--यो य इत्यादि । पद्यमिदं वृत्तावुदाहरिष्यते ।।७ ।।
     अवतारयति--सम्भोगेत्यादि । इतीति हेतौ । तदभीत्यादि । तत्पदेन मधुरतरस्य मधुरतमस्य च रसस्य परामर्शः । क्रममाहेति । तथा च क्रमेम प्रकर्षवदित्यर्थः । तमेवाह---उत्तरोत्तरमिति । आर्द्रतामेतीत्येतद्व्याचष्टे---सहृदयस्येत्यादि । ऽचेतस्त्यजतीऽति सम्बन्धः । स्वाभाविकं काठिन्यमिति । यथोक्तं भक्तिरसायने---"चित्तद्रव्यं तु कठिनं स्वभावादिऽति । क्रोधादीति । क्रोधाद्याहितं दीप्तत्वमित्यर्थः ।


     विप्रलम्भशृङ्गारकरुमयोस्तु मादुर्यमेव प्रकर्षवत् । सहृदयहृदयावर्जनातिशयनिमित्त्वादिति ।
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः ।
तद्व्यक्तिहेतू शब्दार्थावाश्रित्योजो व्यवस्थितम् ।। ९ ।।
रौद्रादयो हि रसाः परां दीप्तिमुज्जवलतां जनयन्तीति लक्षणया त


लोचनम्

विस्मयहासादिरागित्वं च त्यजतीत्यर्थः । अधिकमिति । क्रमेणेत्याशयः तेन करुणेऽपि सर्वथैव चित्तं द्रवतीत्युक्तं भवति । ननु करुणेऽपि यदि मधुरिमास्ति, तर्हि पूर्वकारिकायां शृङ्गार एवेत्येवकारः किमर्थः । उच्यते---नानेन रसान्तरं व्यवच्छिद्यते; अपि त्वात्मभूतस्य रसस्यैव परमार्थतो गुणा माधुर्यादयः, उपचारेण तु शब्दार्थयोरित्येवकारेण द्योत्यते । वृत्त्यार्थमाह---विप्रलम्भेति ।। ८ ।।
     रौद्रेत्यागदि । आदिशब्दः प्रकारे । तेन वीराद्भुतयोरपि ग्रहणं । दीप्तिः प्रतिपत्तुर्हृदये विकासविस्तारप्रज्वलनस्वभावा । सा च मुख्यतया ओजश्शब्दवाच्या ।

बालप्रिया

विस्मयेति । रागित्वं रूषितत्वं विस्मयहासाद्याहितं विक्षेपमित्यर्थः । त्यजतीति । तथा चार्द्रता ना चित्तस्य शृङ्गारादिचर्वणाजन्यः काठिन्यादिपरित्यागः, तेन द्रुत्याख्यो वृत्तिविशेषो वेति भावः । स्पष्टमिदं काव्यप्रदीपोद्योते । क्रमेणेति । आर्द्रतायाः क्रमेणाधिक्यमिति भावः । सर्वथैव अत्यधिकमेव । किमर्थ इति । किंशब्दः प्रश्ने । कः अर्थो यस्य सः । अन्ययोगव्यवच्छेदरूपार्थस्य बाधादिति भावः । प्रतिवक्ति---उच्यत इत्यादि । एवकारश्शब्दतदर्थव्यवच्छेदपर इति भावः । वृत्तौऽप्रकर्षवदेवेऽति योजना ।। ८ ।।
     प्रकार इति । सादृश्य इत्यर्थः, न तु प्राथम्ये । रौद्रानन्तरं विरादेरेव पाठ इत्यत्रानियमादिति भावः । वीराद्भुतयोरिति । यद्यत्रादिपदेनाद्भुतं गृह्यते, तदा तस्य दीप्तिजनकत्वेनऽक्रोधादिदीप्तरूपत्वं विस्मयहासादीऽति पूर्वग्रन्थे क्रोधादीत्यादिपदेन विस्मयस्य ग्राह्यत्वात्पुनर्विस्मयेत्युक्तिरसङ्गता स्यादतोऽत्र वीरबीभत्सयोरिति पाठेन भाव्यं । उत्ततरत्र " हास्यभयानकबीभत्सशान्तेष्वि"त्यत्र "बीभत्सेऽप्येवमि"त्यत्र च बीभत्सपदस्थाने अद्भतपदं च पठनीयं, तथा सति काव्यप्रकाशादिसंवादोऽपि भवति । तत्र शान्ते माधुर्यमात्रकथनं मतान्तराभिप्रायेण योज्यमिति प्रतिभाति । विकासेति । विकासरूपो यो विस्तारः तद्रूपं यत्प्रज्वलनं तत्स्वभाव तत्स्वरूपा दीप्तिर्नाम तथाविधा


एव दीप्तिरित्युच्यते । तत्प्रकाशनपरः शब्दो दीर्घसमासरचनालङ्कृतं वाक्यं ।


लोचनम्

तदास्वादमया रौद्राद्याः, तया दीप्त्या आस्वादविशेषात्मिकया कार्यरूपया लक्ष्यन्ते रसान्तरात्पृथक्तया । तेन कारणे कार्योपचाराद्रौद्रादिरेवौजःशब्दवाच्यः । ततो लक्षितलक्षणया तत्प्रकाशनपरः शब्दो दीर्घसमासरचनवाक्यरूपोऽपि दीप्तिरित्युच्यते । यथा

बालप्रिया

काचिच्चित्तवृत्तिरित्यर्थः । सा चेत्यादि । "ओजो दीप्ता" वित्यमरः । तदास्वादमया इति । दीप्तिरूपचित्तवृत्तिजनका इत्यर्थः । आस्वादविशेषात्मिकयेति । चित्तवृत्तिविशेषरूपयेत्यर्थः । कार्यरूपयेति । रौद्रादिरसचर्वणाजन्ययेत्यर्थः । लक्ष्यन्त इति । ज्ञायन्त इत्यर्थः । पूरयति---रसेति । पृथक्तया भिन्नत्वेन । ऽकारणे कार्योपचारादेव रौद्रादिरोजःशब्दवाच्यऽ इति योजना । एवकारोऽर्प्यर्थको वा । ओजस्विकाव्यमित्यादिव्यवहारस्थमोजःपदं लक्षणया रौद्राद्यर्थकमित्यर्थः । अनेन रौद्रादय इत्यादिवृत्तिग्रन्थो विवृतः । वृत्तौऽलशणयैवेऽति योजना । दीप्तिरित्युच्यन्त इत्यत्र दीप्तिशब्द ओजःपदोपलक्षकः । तत्प्रकाशनेति । रौद्रादिप्रकाशनेत्यर्थः कारिकोत्तरार्धव्याख्यारूपमेतदादिवृत्तिग्रन्थं विवृणोति--तत इत्यादि । लक्षणाया दीप्तिरित्युज्यत इति पदानामनुषङ्गं मनसिकृत्याह--लक्षितलक्षिणयेत्यादि । लक्षितेनार्थेन लक्षणा लक्षित लक्षणेति केचित् । शक्यार्थस्य परम्परासम्बन्धो लक्षितलक्षणेत्यपरे । तत्प्रकाशनपरः शब्द इत्यस्यैव विविरणं दीर्घेत्यादीति स्फुटीकर्तुमाह--दीर्घेति । दीप्तिरित्युच्यत इति


यथा----
चञ्चद्भुजभ्रमितचण्डगदाभिधात--
सञ्चूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावबद्धधनशोणितशोमपाणि--
रुत्तंसयिष्यति कचांस्तव देवि भीमः ।।


लोचनम्

ऽचञ्चदिऽत्यादि । तत्प्रकाशनपरश्चार्थः प्रसन्नैर्गमकैर्वाचकैरभिधीयमानः समासानपेक्ष्यपि दीप्तिरित्युच्यते । यथा-ऽयो यःऽ इत्यादि । चञ्चदिति । चञ्चद्भ्यां वेगादावर्तमानाभ्यां भुजाभ्यां भ्रमिता येयं चण्डा दारुणा गदा तया योऽभितः सर्वत ऊर्वोर्घातस्तेन सम्यक्चूर्णितं पुनरनुत्थानोपहतं कृतमूरुयुगलं युगपदेवोरुद्वयं यस्य तं सुयोधनमनादृत्यैव स्त्यानेनाश्यानतया न तु कालान्तरशुष्कतयावबद्धं हस्ताभ्यामविगलद्रूपमत्यन्तमाभ्यन्तरतया घनं न तु रसमात्रस्वभावं यच्छेणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य सः । अत एव स भीमः कातरत्रासदायी । तवेति । यस्यास्तत्तदपमानजातं कृतं देव्यनुचितमपि तस्यास्तव कचानुत्तंसयिष्यत्युत्तंसवतः करिष्यति, वेणीत्वमपहरन्करविच्युतशोणितशकलैर्लोहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा । देवीत्यनेन कुलकलत्रखिलीकारस्मरमकारिणा क्रोधस्यैवोद्दीपनविभावत्वं कृतमिति नात्र शृङ्गारशङ्का कर्तव्या । सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमः । सच सञ्चूर्णितोरुत्वादेव । स्त्यानग्रहणेन द्रौपदीमन्युप्रक्षालने त्वरा सूचिता । समासेन च सन्ततवेगवहनस्वभावात्

बालप्रिया

दीप्तिपदमोजःपदोपलक्षकं । ऽप्रसन्नैऽरित्यस्य व्याख्यानम्--गमकैरिति । झटित्यर्थबोधकैरित्यर्थः । सुयोधनस्येति "षष्ठी चानादर" इत्यनेन षष्ठीत्याह---सुयोधनमनादृत्येति । स्त्यानेनेत्यस्य विवरणम्---आश्यानतयेति । घनीभावेनेत्यर्थः । न त्वित्यादि । कालान्तरशुष्कतयाप्यवबद्धं भवति तथा नेत्यर्थः । अवबद्धमित्यस्य व्याख्यानम्---हस्ताभ्यामित्यादि । अत्यन्तमित्यादि । अत्यन्ताभ्यन्तरत्वमत्र घनत्वमित्यर्थः । कातरेति । कातरो भीरुः । देव्यनुचितमप्यवमानजातमित्यन्वयः । देव्याः कृताभिषेकाया अनुचितं देव्यनुचितं । उत्तंसवत इति । उत्तंसः शेखरः । करेति । कराद्विच्युतैः गलितैः शोणितशकलैः रक्तशकलैः । लोहितकुसुमेति । रक्तपुष्पेत्यर्थः । उत्प्रेक्षेति सूचितेत्यस्यापकर्षः । कुलेति । खिलीकारोऽपकारो सुयोधनप्रेरितदुश्शासनकर्तृककेशाकर्षणादिः । त्वरेति । भीमसेनत्वरेत्यर्थः । सूचितेति । स्त्यानावस्थायामेव उत्तंसीकरणोद्यमादिति भावः । अत्र समास ओजोव्यञ्जक इति दर्शयति---समासेनेत्यादि । समासेन चञ्जदित्यादिना । सन्ततवेगेत्यादि । समासस्य


     तत्प्रकाशनपरश्चार्थोऽनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयः । यथा----
यो यः शस्त्रं बिभिर्ति स्वभुजगुरुमदः पाण्डवीनां चमुनां
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहं ।।
इत्यादौ द्वयोरोजस्त्वं ।


लोचनम्

तावत्येव मध्ये विश्रान्तिमलभमाना चूर्णितोरुद्वयसुयोधनानादरणपर्यन्ता प्रतीतिरेक्त्वेनैव । भवतीत्यौद्धत्यस्य परं परिपोषिका । अन्ये तुसुयोधनस्य सम्बन्धि यत्स्त्याना वबद्धं घनं शोणितं तेन शोणपाणिरिति व्याचक्ष्ते ।
     य इति । स्वभुजयोर्गुरुर्भदो यस्य चमुनां मध्येऽर्जुनादिरित्यर्थः । पाञ्चालराजपुत्रेम धृष्टद्युम्नेन द्रोणस्य व्यापादनात्तत्कुलं प्रत्यधिकः क्रोधावेशोऽश्वत्थाम्नः । तत्कर्मसाक्षीति कणप्रभृतिः । रमे सङ्कग्रामे यः प्रतीपं प्रतिकूलं कृत्वास्ते स एवं विधो यदि सकलजगदन्तको भवति तस्याप्यहमन्तकः किमुतान्यस्य मनुष्यस्य देवस्य

बालप्रिया

द्रुतं ससंहितमुच्चरितत्वेनाविच्छिन्नवेगशालित्वादित्यर्थः । तावत्येवेति । प्रतीतिविशेषणं वेगवत्येवेत्यर्थः । चूर्णितेत्यादि । गदाभ्रममप्रभृति तदनादरणपर्यन्तार्थविषियिकेत्यर्थः । प्रतीतिरिति । सहृदयप्रतीतिरित्यर्थः । एकत्वे व भवतीति । एकैव भवतीत्यर्थः । एकघन इव भातीति च पाठः औद्धत्यस्येति । वक्तृगतधीरोद्धतत्वस्येत्यर्थः । भीमगतक्रोधस्येति यावत् । केचित्तु सुयोधनस्येति शेषे षष्ठी, शोणितमित्यनेनास्य सम्बन्ध इत्याहुः तन्मतमाह---अन्ये त्विति ।
     चरतीति लडन्तमिति कृत्वा व्याचष्टे---आचरतीति । करोतीत्यर्थः । तत्सप्तम्यन्तशत्रन्तमिति कृत्वाह---यद्वेति । तस्यापीत्यपिशब्दार्थमाह--किमुतेत्यादि । वृत्तावनपेक्षितदीर्घसमासरचनः प्रसन्नवाचकाभिधेयोऽर्थश्च तत्प्रकाशनपर


समर्पकत्वं काव्यस्य यत्तु सर्वरसान्प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियाः ।। १० ।।


लोचनम्

वा । अत्र पृथग्भूतैरेव क्रमाद्विमृश्यमानैरर्थैः पदात्पदं क्रोधः परां धारामाश्रित इत्यसमस्ततैव दीप्तिनिबन्धनं । एवं माधुर्यदीप्ती परस्परप्रतिद्वन्द्वितया स्थिते शृङ्गारादिरौद्रादिगते इति प्रदर्शयता तत्समावेशवैचित्र्यं हास्यभयानकबीभत्सशान्तेषु दर्शितं । हास्यस्य शृङ्गाराङ्गतया माधुर्यं प्रकृष्टं विकासधर्मतया चौजोऽपि प्रकृष्टमिति साम्यं द्वयोः । भयानकस्य मग्नचित्तवृत्तिस्वभावत्वेऽपि विभावस्य दीप्ततया ओजः प्रकृष्टं माघुर्यमल्पं । बीभत्सेऽप्येवं । शान्ते तु विभाववैचित्र्यात्कदाचिदोजः प्रकृष्टं कदाचिन्माधुर्यमिति विभागः ।।९ ।।
     समर्पक्त्वं सम्यगर्पक्त्वं हृदयसंवादेन प्रतिपत्तॄन्प्रति स्वात्मावेशेन व्यापारकत्वं झटिति शुष्ककाष्ठाग्निदृष्टान्तेन । अकलुषोदकदृष्टन्तेन च तदकालुष्यं प्रसन्नत्वं

बालप्रिया

इति योजना । एतदुदाहरणे योजयति---अत्रेत्यादि । पृथग्भूतैरिति । भिन्नभिन्नपदबोध्यैरित्यर्थः । क्रमादिति । क्रमेम क्रमेणेत्यर्थः, विरम्य विरम्येति यावत् । विमृश्यमानैरर्थैरिति । वक्त्रा तत्तत्प्रकारेम विचार्यमाणैरर्थैरित्यर्थः । क्रोध इति । वक्तृगतक्रोध इत्यर्थः । धारामिति । कोटिमित्यर्थः । दीप्तिमिति पाठे प्रकाशमित्यर्थः । आश्रित इति । सहृदयानां भातीति शेषः । असमस्ततेति । पदानां समासाभावोऽल्पसमासश्चेत्यर्थः । दीप्तिनिबन्धनमिति । ओजोव्यञ्जकमित्यर्थः । प्रसङ्गादाह---एवमित्यादि । माधुर्यदीप्ती इति । माधुर्यौजसी इत्यर्थः । परस्परेति । मिथोविरोधितयेत्यर्थः । शृङ्गारादीति । यथासंख्यं बोध्यं । तत्समावेशेति । माधुर्यौजस्ममावेशेत्यर्थः । उक्तमुपपादयति---हास्यस्येत्यादि । शृङ्गाराङ्गतयेति । शृङ्गारविभावादिप्रभवत्वस्य विकासध्रमतयेति वीरादिप्रभवत्वस्य च उपलक्षणम् ।। ९ ।।
     समर्पकत्वमित्यादि । काव्यस्य सर्वरसान्प्रति सर्वरसानां । समर्पकत्वं तु यत्प्रतिपत्तृहृदये सर्वरसकर्मकं झटिति यदर्पणं व्यापनरूपं तत्कर्तृत्वं तु यदिति यावत् । सः सर्वसाधारणी क्रिया वर्तनरूपा यस्य सः । प्रसादो गुणो ज्ञेयऽ इति कारिकार्थः । एतमर्थं विवृणोति---समर्पकत्वमित्यादि । हृदयसंवादेनेत्यावेशे हेतुः । प्रतिपत्तॄनिति । तद्धृदयानीत्यर्थः । स्वात्मेति । स्वस्वरूपेत्यर्थः । सर्वरसानामित्यस्यात्रापकर्षः । झटिति व्यापकत्वमिति सम्बन्धः । अत्र दृष्टन्तमाह---शुष्केत्यादि । यथा शुष्ककाष्ठमग्रिः, यथा वा अकलुषं स्वच्छं वस्त्रादि उदकं झटिति व्याप्नोति तथेत्यर्थः । तदकालुष्यमिति । झटिति स्वात्मावेशेन व्यापकत्वरूपं स्वच्छत्वमित्यर्थः ।


     प्रसादस्तु स्वच्छता शब्दार्थयोः । स च सर्वरससाधारणो गुणः सर्वरचनासाधारणश्च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः ।


लोचनम्

नाम सर्वरसानां गुणः । उपचारात्तु तथाविधे व्यङ्ग्येऽर्थे यच्छब्दार्थयोः समर्पक्त्वं तदपि प्रसादः । तमेव व्याचष्टे---प्रसादेति । ननु रसगतो गुमस्तत्कथं शब्दार्थयोः स्वच्छतेत्याशङ्क्याह---स चेति । चशब्दोऽवधारणे । सर्वरससाधारण एव गुणः । स एव च गुण एवंविधः । सर्वायेयं रचना शब्दगता चार्थगता च समस्ता चासमस्ता च तत्र साधारमः । मुख्यतयेति । अर्थस्य तावत्समर्पक्त्वं व्यङ्ग्यं प्रत्येव सम्भवति नान्यथा । शब्दस्यापि स्ववाच्यार्पक्त्वं नाम कियदलौकिकं येन गुमः स्यादिति भावः । एवं माधुर्यौजःप्रसादा एव त्रयो गुणा उपपन्ना भामहाभिप्रायेण । ते च प्रतिपत्त्रास्वादमया मुख्यतया तत आस्वाद्ये उपचरिता रसे ततस्तद्व्यञ्जकयोः शब्दार्थयोरिति तात्पर्यम् ।। १० ।।

बालप्रिया

नन्वेवं प्रसादो गुणः काव्यनिष्ठत्वेन कथमुक्त इत्यत आह---उपचारादित्यादि । तथाविधे रसरूपे । व्यङ्ग्येऽर्थ इति । तद्विषयकमित्यर्थः । समर्पकत्वं झटित्यर्पकत्वं । तदिति । झटिति रसादिव्यङ्ग्यार्पकत्वमित्यर्थः अपीति समुच्चये । गुण इति । प्रसाद इत्यर्थः । कथमिति । शब्दर्थयोः स्वच्छत्वं कथं प्रकादो भवतीत्यर्थः । सः सर्वरससाधारण एव गुणः, स एव सर्वरससाधारणो गुण इति द्वेधावधारणमत्रेत्याह---सर्वेत्यादि । अत्राद्यैनैवकारेण शब्दार्थसाधारण्यस्य, द्वितीयेन माधुर्यौजसोश्च व्यवच्छेदः । गुण एवंविध इति । सर्वरससाधारणो गुण इत्यर्थः । सर्वरचनेत्यादिकं व्याचष्टे---सर्वेत्यादि । वृत्तौऽव्यङ्ग्यार्थेऽत्यादि । स इत्यनुषङ्गः । एतदुपपादयति---अर्थस्येत्यादि । अर्थस्य वाच्यार्थस्य । तावदित्यादि । वाच्यार्थगतं व्यङ्ग्यसमर्पक्त्वं नाम कियदलौकिकमिति भावः । भाव इति । शब्दार्थयोस्तत्तदर्पकत्वं न गुणः, किन्तु रसस्यैव स्वात्मावेशेन झटिति सहृदयहृदयव्यापकत्वमतो मुख्यतया रसनिष्ठ एव प्रसादाख्यो गुणः, उपचारात्तु सशब्दार्थयोरपीति भावार्थः । उपसंहरति---एवमित्यदि । भामहेति । "माधुर्यमभिवाञ्छन्त" इत्यादिभासहवचनानुरोधेनेत्यर्थः । ते चेत्यादि । ते माधुर्यौजःप्रसादा गुणाः । प्रतिपत्त्रास्वादमया इति । प्रतिपत्तुर्ये द्रुतिदीप्तिप्रसादात्मकचित्तवृत्तिविशेषरूपास्वादाः मुख्यतया तत्स्वरूपा इत्यर्थः । ते च चित्तस्था इति भावः । तत इत्यादि । तत्तदास्वादाः तत्तद्रसचर्वणाजन्या इत्यास्वाद्येतत्तद्रसे ते उपचरिता इत्यर्थः । तत इत्यादि । उपचरिता इत्यस्यानुषङ्गः । शब्दार्थयोस्तत्तद्रसचर्वणाप्रयोजकत्वादिति भावः ।। १० ।।


श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येन शृङ्गारे ते हेया इत्युदाहृताः ।। ११ ।।
     अनित्या दोषाश्च ये श्रुतिदुष्टादयः सूचितास्तेऽपि न वात्ये अर्थमात्रे, न च व्यङ्ग्ये शृङ्गाव्यतिरेकिणि शृङ्गारे वा ध्वनेरनात्ममूते । किं तर्हि? ध्वन्यात्मन्येव शृङ्गारेऽङ्गितया व्यङ्ग्ये ते हेया इत्युदाहृताः । अन्यथा हि तेषामनित्यदोषतैव न स्यात् । एवमयमसंलक्ष्यक्रमदृयोतो ध्वनेरात्मा प्रदर्शितः सामान्येन ।


लोचनम्

     एवमस्मत्पक्ष एव गुणालङ्कारव्यवहारो विभागेनोपपद्यत इति प्रदर्श्य नित्यानित्यदोषविभागोऽप्यस्मत्पक्ष एव सङ्गच्छत इति दर्शयितुमाह---श्रुतिदुष्टादय इत्यादि । वान्तादयोऽसभ्यस्मृतिहेतवः । श्रुतिदुष्टा अर्थदुष्टा वाक्यार्थबलादश्लीलार्थप्रतिपत्तिकारिणः । यथा---ऽछन्द्रान्वेषी मिहांस्तब्धो घातायैवोपसर्पतिऽ इति । कल्पनादुष्टास्तु द्वयोः पदयोः कल्पनया । यथाऽकुरु रुचिम्ऽ इत्यत्र क्रमव्यत्यसे । श्रुतिकष्टस्तु अधाक्षीतक्षोत्सीत्तृणेढि इत्यादि । शृङ्गार इत्युचितरसोपलक्षणार्थं । वीरशान्ताद्भुतादावपि तेषां वर्जनात् । सूचिता इति । न त्वेषां विषयविभागप्रदर्शनेनानित्यत्वं

बालप्रिया

"श्रुतिदुष्टार्थदुष्टे च कल्पनादुष्टमित्यपि ।
श्रुतिकष्टं तथैवाहुर्वाचां दोषं चतुर्विधम्" ।।
     इत्यादिना भामहोक्तन्शृतिदुध्टादिदोषान्सोदाहरणान्दर्शयति---वान्तादयासभ्येत्यादि । ऽश्रुतिदुष्टाः असभ्यस्मृतिहेतवो वान्तादयऽ इति सम्बन्धः । श्रुतिदुष्टाः श्रुतिदुष्टत्वरूपदोषवन्तः । एवमुत्तरत्रापि बोध्यं । कारिण इति । शब्दा इति शेषः । छिद्रेति राजवर्णनं । परस्य छिद्रान्वेषी । स्तब्धः अचञ्चलः । घाताय परेषां विनाशनाय । अत्र पुरुषशेफरूपाश्लीलार्थस्य प्रतीतिर्भवति । कल्पनयेति । भवन्तीति शेषः । क्रमव्यत्यास इति । रुचिङ्कुरु इति परिवर्तन इत्यर्थः । चिङ्कुर्नाम योन्यन्तर्वर्त्यङ्कुरः । अधाक्षीदित्यादि । तिडन्तं । शृङ्गार इतीति । ध्वन्यात्मन्येव शृङ्गार इत्यत्रत्यं, शृङ्गारपदमित्यर्थः । भावं विवृणोति---न त्वित्यादि । भिन्नवृत्तादिदोषेभ्यः विविक्तं व्यत्यस्तं अनित्यत्वं । एषां श्रुतिदुष्टादीनां । विषयविभागप्रदर्शनेन विषयविभागं प्रदर्श्य, न तु प्रदर्शितमिति


तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये ।
तेषामानन्त्यमन्योन्यसम्बन्धपिरकल्पने ।। १२ ।।
     अङ्गिता व्यङ्ग्यो रसादिर्विवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गनां वाच्यवाचकानुपातिनामलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास्तस्याङ्गिनोऽर्थस्य रसभावतदाभासतत्प्रशमलक्षणा विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्ताः स्वाश्रयापेक्षया निः---


लोचनम्

भिन्नवृत्तादिदोषेभ्यो विविक्तं प्रदर्शितं । नापि गुणेभ्यो व्यतिरिक्तत्वं । बीभत्सहास्यलौद्रादौ त्वेषामस्माभिरुपगमात्शृङ्गारादौ च वर्जनादनित्यत्वं च दोषत्वं च समर्थितमेवेति । भावः ।। ११ ।।
     अङ्गानामित्यलङ्काराणां । स्वगता इति । आत्मगताः सम्भोगविप्रलम्भाद्या आत्मीयगता विभावादिगतास्तेषां लोष्टप्रस्तारेणाङ्गाङ्गिभावे का गणनेति भावः । स्वाश्रयः स्त्रीपुंसप्रकृत्यौचित्यादिः । परस्परं प्रेम्णा दर्शनमित्युपलक्षणं सम्भाषणादेरपि ।

बालप्रिया

सम्बन्धः । भिन्नवृत्तादिदोषा इव श्रुतिदुष्टाददोषा अपि भामहादिभिरुक्ताः, न त्वेषामनित्यत्वमुक्तमित्यर्थः । नापि गुणेभ्यो व्यतिरिक्तत्वमिति । एषमगुणत्वमपि नोक्तमित्यर्थः । समर्थितमेवेति । ध्यन्यात्मन्येवेत्यादिग्रन्थेन साधितमित्यर्थः । वृत्तौऽशृङ्गारे वेऽत्यादौऽन चेऽत्यस्यानुषङ्गः । ऽहेया इत्युदाहृताऽ इत्यस्यऽतेऽपि न वाच्येऽर्थमात्रेऽ इत्यादिवाक्यत्रयेणापि सम्बन्धश्च बोध्यः ।। ११ ।।
     अलङ्काराणामिति । अलङ्काराणां रसाद्यङ्गत्वमेवमुपपादितं काव्यप्रदीपोद्योते "रमणीया अप्यर्थास्तुच्छशब्देनाभिधीयमाना न तथा चमत्काराय इत्यनुप्रासादयः शब्दद्वारेम रसाद्युपकारकाः, उपमादयश्च रसाद्यभिव्यञ्जकविभावाद्यर्थोत्कर्षाधानद्वारेण रसाद्युपस्कारका अलङ्कारैराहितातिशयाश्चास्वादातिशयं जनयन्ति । अनुभूयते हि निरलङ्कारात्सालङ्कारे कश्चनातिशयः । अलङ्कारा हि विभावाद्युत्कर्षयन्तो बहुधोद्दीपनाः क्वचिदनुभावा अपि यथा नायकादिकृतनायिकादिवर्णन इत्यप्याहुरि"ति । ऽस्वगताऽ इत्यत्र स्वपदमात्मपरमात्मीयपरं चेति व्याचष्टे---आत्मगता इत्यादि । आत्मगता इत्यस्यैव विवरणम्----सम्भोगेत्याद । आत्मीयगता इत्यस्य विभावादीति च । तेषामिति । भेदानामित्यर्थः । लोष्टप्रस्तारेणेति । प्रस्तारो नाम वृत्तविशेषस्वरूप ज्ञापकः प्रक्रियाभेदः । "पादे सर्वगुरा"वित्यादिना वृत्तरत्नाकरे लक्षितः, तद्रीत्या भेदानां गणनमशक्यमित्यर्थः । ऽस्वाश्रयापेक्षयेऽत्यत्र स्वाश्रयपदं व्याचष्टे---स्त्रीति । स्त्रीपुंसरूपे ये प्रकृती तदौचित्यादीत्यर्थः । परस्परप्रेमदर्शनमित्येतद्व्याचष्टे---परस्परमिति ।


सीमानो विशेषास्तेषामन्योन्यसम्बन्धन्धपरिकल्पने क्रियमाणे कस्यचिदन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किमुत सर्वेषां । तथा हि शृङ्गारस्याङ्गिनस्तावदाद्यौ द्वौ भेदौ-सम्भोगो विप्रलम्भश्च । सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणाः प्रकाराः ।


लोचनम्

सुरतं चातुःषष्टिकमालिङ्गनादि । विहरणमुद्यानगमनं । आदिग्रहणेन जलक्रीडापानकचन्द्रोदयक्रीडादी । अभिलाषविप्रलम्भो द्वयोरप्यन्योन्यजीवितसर्बस्वाभिमानात्मिकायां रतावुत्पन्नायामपि कुतश्चिद्धेतोरप्राप्तसमागमत्वे मन्तव्यः । यथाऽसुखयतीति किमुच्यतऽ इत्यः प्रभृति वत्सराजरत्नावल्योः, न तु पूर्वं रत्नावल्याः । तदा हि

बालप्रिया

ऽविप्रलम्भस्यापीऽत्यादिग्रन्थं विवृणोति---अभिलाषविप्रलम्भ इत्यादि । सुखयतीति किमुच्यत इति । इदं रत्नावलीनाटिकायां विदूषकं प्रति वत्सराजस्य वचनं । न तु पूर्वं रत्नावल्या इति । इत्यत इत्यस्यानुषङ्गः । एवद्वचनात्पूर्वं रत्नावल्या अभिलाषविप्रलम्भो नैवेत्यर्थः । एतद्वचनश्रवणेनैव राज्ञः स्वस्मिन्ननुरागस्य रत्नावल्या निश्चयादिति भावः । एतमेव हेतुं दर्शयन्नाह---उदेत्यादि । तदा पूर्वकाले ।


विप्रलम्भस्याप्यभिलाषेर्ष्याविरहप्रवासविप्रलम्भादयः । तेषां च प्रत्येकं विभावानुभावव्यभिचारिभेदः । तेषां चि देशकालाद्याश्रयावस्थाभेद इति स्वगतभेदापेक्षयैकस्य तस्यापरिमेयत्वम्, किं पुनरङ्गप्रभेदकल्पनायां । ते ह्यङ्गप्रभेदाः प्रत्येकमङ्गिप्रभेदसम्बन्धपरिकल्पने क्रियमाणे सत्यानन्त्यमेवोपयान्ति ।


लोचनम्

रत्यभावे कामवस्थामात्रं तर्त् । इर्ष्याविप्रलम्भः प्रमयखण्डनादिना खण्डितया सह । विरहविप्रलम्भः । पुनः खण्डितया प्रसाद्यमानयापि प्रसादमगृह्णन्त्या ततः पश्चात्तापपरीतत्वेन विरहोत्कण्ठितया सह मन्तव्यः । प्रवासविप्रलम्भः प्रोषितभर्तृकया सहेति विभागः । आदिग्रहमाच्छापादिकृतः विप्रलम्भ इव च विप्रलम्भः । वञ्चनायां ह्यभिलषितो विषयो न लभ्यते; एवमत्र । तेषां चेति । एकत्र सम्भोगादीनामपरत्र विभावादीनां । आश्रयो मलयादिः मारुतादीनां विभावानामिति यदुच्यते तद्देशशब्देन गतार्थं । तस्मादाश्रयः कारणं । यथा ममैव---
दयितया ग्रथिता स्रगियं मया हृदयधामनि नित्यनियोजिता ।
गलति शुष्कतयापि सुधारसं विरहदाहरुजां परिहारकं ।।
     तस्येति शृङ्गारस्य । अङ्गिनां रसादीनां प्रभेदस्तत्सम्बन्धकल्पनेत्यर्थः ।

बालप्रिया

रत्यभाव इति निमित्ते सप्तमी । रतेरभावेन हेतुनेत्यर्थः । निश्चितपरस्पराधिष्टाना हि रतिः शृङ्गारस्थायी । कामावस्थामात्रं तदिति । रत्नावलीगता रतिः अभिलाषरूपैवेत्यर्थः । प्रणयेति । प्रणयः स्नेहः प्रार्थना वा । खण्डितयेति । खण्डितया सहेति सम्बन्धः । प्रसाद्यमानयेत्यादि खण्जिताविशेषणं । उक्तानामभिलाषादीनां वञ्चनार्थकविप्रलम्भपदेन व्यवहारमुपपायति---विप्रलम्भ इवेति । विप्रलम्भशब्दो गौम इति भावः । द्वयोः साम्यमाह--वञ्चनायामित्यादि । एवमत्रेति । तथा अभिलाषादावित्यर्थः । वृत्तौऽतेषां च प्रत्येकम्ऽ इतिऽतेषां च देशेऽत्युभयत्र स्थितेतेषामिति पदे क्रमेण विवृणोति---एकत्रेत्यादि । देशकालाश्रयावस्थाभेद इत्यत्राश्रयपदस्य केषाञ्चिद्व्याख्यानं न युक्तमित्याह---आश्रय इत्यादि । तदित्यादि । तथार्थे सति पौनरुक्त्यं स्यादित्यर्थः । दयितयेति । शुष्कतरापीति च पाठः । हृदयतापातिशयेन शुष्कत्वं । सुधारसं गलति स्रावयतीत्यतिशयोक्तिः । अत्रोद्दीपकत्वेन


दिङ्मात्रं तूच्यते येन व्युत्पन्नानां सचेतसां ।
बुद्धिरासादितालोका सर्वत्रैव भविष्यति ।। १३ ।।
     दिङ्मात्रकथनेन हि व्युत्पन्नानां सहृदयानामेकत्रापि रसभेदे सहालङ्कारैरङ्गाङ्गिभावपरिज्ञानादासादितालोका बुद्धिः सर्वत्रैव भविष्यति ।
  तत्र-----
शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान् ।
सर्वोष्वेव प्रभेदेषु नानुप्रासः प्रकाशकः ।। १४ ।।
     अङ्गिनो हि शृङ्गारस्य ये उक्तः । प्रभेदास्तेषु सर्वेष्वेकप्रकारानुबन्धि तया प्रबन्धेन प्रवृत्तोऽनुप्रासो न व्यञ्जकः । अङ्गिन इत्यनेनाङ्गभूतस्य शृङ्गारस्यैकरूपानुबन्धनुप्रासनिबन्धने कामचारमाह ।
ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनं ।


लोचनम्

     येनेति । दिङ्मात्रोक्तेनेत्यर्थः । सचेतसामिति । महाकवित्वं सगृदयत्वं च प्रेप्सूनामिति भावः । सर्वत्रेति । सर्वेषु रसादिष्वासादित आलोकोऽवगमः सम्यग्व्युत्पत्तिर्ययेति सम्बन्धः ।। १३ ।।
     तत्रेति । वक्तव्ये दिङ्मात्रे सतीत्यर्थः । यत्नादिति । यत्नतः क्रियमामत्वादिति हेत्वर्थोऽभिप्रेतः । एकरूपं त्वनुबन्धं त्यक्त्वा विचित्रोऽनुप्रासो निबध्यमानो न दोषायेत्येकरूपग्रहणम् ।। १४ ।।
     यमकादीत्यादिशब्दः प्रकारवाची । दुष्करं मुरजचक्रबन्धादि । शब्दभङ्गन

बालप्रिया

विरहपीडाहेतुभूताया अपि स्रजो दयिताग्रथनरूपकारणविशेषाद्विरहपीडापरिहारकसुधारसस्रावकत्वमुक्तमिति कारणकृतो भेदः ।। १२ ।।
     कारिकां व्याचष्टे---येनेत्यादि । सचेतसामित्यनेन प्रकृते विवक्षितमाह---महेत्यादि । येनेत्यस्य विवरमं वृत्तौ---ऽदिङ्मात्रकथनेनेऽति । अस्यैव विवरममुपपादकं वाऽव्युत्पन्नानाम्ऽ इत्यादिऽपरिज्ञानादिऽत्यान्तम् ।। १३ ।।
     हेत्वर्थ इति । यत्नतः क्रियमाणत्वमप्रकाशकत्वे हेतुरिति भावः । ऽएकरूपानुवन्धवानिऽत्यत्रैकरूपग्रहणस्य फलमाह----एकेत्यादि ।। १४ ।।


ध्वन्यात्म-भूते शृङ्गारे यमकादि-निबन्धनं ।
शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ।। १५ ।।
     ध्वनेरात्मभूतः शृङ्गारस्तात्पर्येण वाच्यवाचकाभ्यां प्रकाश्यमानस्तस्मिन्यमकादीनां यमकप्रकाराणां निबन्धनं दुष्करशब्दभङ्गश्लेषादीनां शक्तावपि प्रमादित्वं । ऽप्रमादित्वाऽमित्यनेनैतद्दृश्यते---काकतालीयेन कदाचित्कस्यचिदेकस्य यमकादेर्निष्पत्तावपि भूम्नालङ्कारान्तरवद्रसाङ्गत्वेन निबन्धो न कर्तव्य इति । ऽविप्रलम्भे विशेषतऽ इत्यनेन विप्रलम्भे सौकुमार्थातिशयः स्व्याप्यते । तस्मिन्द्योत्ये यमकादेरङ्गस्य निबन्धो नियमान्न कर्तव्य इति ।
     अत्र युक्तिरभिधीयते-----
रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथगत्ननिर्वत्यः सोऽलङ्कारो ध्वनौ मतः ।। १६ ।।


लोचनम्

श्लेष इति । अर्थश्लेषो न दोषायऽरक्तस्त्वंऽ इत्यादौ; शब्दभङ्गोऽपि विलष्ट एव दुष्टः, न त्वशोकादौ ।। १५ ।।
     युक्तिरित् । सर्वव्यापकं वस्त्वित्यर्थः । रसेति । रससमवधानेन विभावादिघटनामेव

बालप्रिया

     वृत्तौऽयमकादीनाम्ऽ इत्यस्य व्यख्यानंऽयमकप्रकाराणाम्ऽ इति । अस्योपपपत्तिमाह--आदिशब्द इति । यमकप्रकारामामित्यस्यैव विवरणम्---ऽदुष्करेऽत्यादि । तद्व्याचष्टे--दुष्करमित्यादि । शब्दभङ्गश्लेषेत्युक्ते फलमाह---अर्थश्लेष इति । अभङ्गश्लेष इत्यर्थः । अभङ्गश्लेषोऽर्थश्लेषश्च प्राचां मते एक एवेति स्फष्टं काव्यप्रदीपादौ । रक्तस्त्वमिति । अत्र रक्तशिलीमुखादिपदेऽर्थश्लेषः । न त्वशोकादाविति । अशीकादिपदे शब्दभङ्गे न दुष्ट इत्यर्थः । अशोकपदं रूढ्या वृक्षविशेषं शब्दभङ्गेन नास्ति शोको यस्येति योगव्युत्पत्या शोकरहितं च वक्तीति भावःवृत्तौ---ऽशक्तावपि प्रमादित्वम्ऽ इति । " अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवे"रिति वक्ष्यमाणत्वेन दोषतिरोधायकशक्तौ सत्यामपि कवेः प्रमादित्वज्ञापकत्वेनाकर्तव्यत्वात्कदाचित्कस्यचिदेकस्य यमकादेर्निष्पत्तिर्न दोषावहेति भावः ।। १५ ।।
     यथाश्रुतयुक्तिपदार्थस्यात्र बोधात्तत्पदं व्याचष्टे व्याचष्टे----सर्वेत्यादि । ऽरसेऽतिऽध्वनाविऽति च सामान्योक्तेः तात्पर्यं दर्शयन्कारिकां व्याचष्टे---रसेत्यादि । रसाक्षिप्ततयेत्यादेरर्थतो विवरणम्---रससमवधानेनेत्यादि । तन्नान्तरीयरीयकतयेति । तत्पदेन विभावादिधटना परामृश्यते तन्निष्पादकयत्ननिष्पाद्यत्वेनेत्यर्थः । यमिति ।


     निष्पत्तावाश्चर्यभूतोऽपि यस्यालङ्कारस्य रसाक्षिप्ततयैव बन्धः शक्यक्रियो


लोचनम्

कुर्वंस्तुन्नान्तरीयकतया यमासादयति स एवात्रालङ्कारो रसमार्गे, नान्यः । तेनवीराद्भुतादिरसेष्वपि यमकादि कवेः प्रतिपत्तुश्च रसविघ्नाकार्येव सर्वत्र । गडडुरिकाप्रवाहोपहतसहृदयधुराधिरोहणविहीनलोकावर्जनाभिपिरायेण तु मया शृङ्गारे विप्रलम्भे च विशेषत इत्युक्तमिति भावः । तथा चऽरसेऽङ्गत्वं तस्मादेषां न विद्यतेऽ इति सामान्येन वक्ष्यति । निष्पत्ताविति । प्रतिभानुग्रहात्स्वयमेव सम्पत्तौ निष्पादनानपेक्षायामित्यर्थ । आश्चर्यभूत इति । कथमेष निबद्ध इत्युद्भुतस्थानं । करकिसलयन्यस्तवदना श्वासतान्ताधरा प्रवर्तमानबाष्पभरनिरुद्धकण्टी अविच्छिन्नरुदितचञ्चत्कुचतटा रोषमपरित्यजन्ती चाटूक्त्या यावत्प्रसाद्यते तावदीर्ष्याविप्रलम्भगतानुभावचर्वणावहितचेतस एव वक्तुः श्लेषरूपकव्यतिरेकाद्या अयत्ननिष्पन्नाश्चर्वयितुरपि रसचर्वणाविध्नमादधतीति ।

बालप्रिया

यमलङ्कारमित्यर्थः । ऽस एवात्र रसमार्गेऽलङ्कारऽ इति सम्बन्धः । ध्वनावित्यस्य विवरणम्--अत्र रसमार्ग इति । अलक्ष्यक्रमे रससामान्य इत्यर्थः । तेनेति । ध्वनाविति सामान्यनिर्देशेनेत्यर्थः । वीरेत्यादि । तत्कावल्येष्वित्यर्थः । ऽयमकादिरसविध्नकार्ये वेऽति योजना । सर्वत्रेत्यस्य वीरेत्यादिना सम्बन्धः । नन्वेवं पूर्वोक्तं विरुद्ध्येतेत्यत आह---गड्डुरिकेति । गड्डुरं मेषमनुधावतीति गड्डुरिका मेषानुगन्त्री मेषपङ्क्तिः, तत्साम्याद्गतानुगतिकतेत्यर्थः । तस्याः प्रवाहेण अविच्छेदेन उपहताः नष्टविवेकाः तथा सहृदयधुराधिरोहणेन विहीनाश्च ये लोकाः जनास्तदावर्जनाभिप्रायेणेत्यर्थः । मयेति । मूलकृतेत्यर्थः । भावः मूलकृदभिप्रायः । उक्तार्थे उपष्टम्भकमाह---तथाचेति । सम्पत्तौ उत्पत्तौ । स्वयमेवेत्यस्यैव विवरणम्---निष्पादनेत्यादि । तन्निष्पत्यनुकूलयत्नान्तरानपेक्षायामित्यर्थः । ऽकपोलऽ इत्यादेः सारार्थं विवृण्वन्नलङ्कारान्दर्शयति--करेत्यादि । श्वासेति । श्वासेन तान्तः म्लानोऽधरो यस्याः सा । अविच्छिन्नेति । विच्छिन्नविच्छिन्नेति च पाठः । प्रसाद्यत इति । वक्त्रा नायकेन प्रणयकुपिता नायिकेति शेषरः । इर्ष्येत्यादि । अनुभावो निश्वासादिः तस्य चर्वमा पुनः पुनरनुसन्धान् । वक्तुरिति । कविनिबद्धनायकस्य कवेश्चैवेयं विवक्षित्वोक्तिः । ऽअयत्ननिष्पन्नाऽ इत्यनेनास्य सम्बन्धः । श्लेषेत्यादि । अधररस इत्यत्र रसशब्दस्यास्वद्यमाधुर्येभयार्थकत्वत्तत्र श्लेषः । यद्वा श्लोकेऽस्मिन्नर्थश्लेषः । यतः, मन्युः प्रिय इति रूपकं, कपोल इत्याद्यर्थस्तत्साधकः, करतलनिरोधादना मर्दनादिक्रियां प्रति प्रयोजककर्तृत्वं मन्युप्रियोभयसाधारणं । ऽनिपीतऽ इत्यन्तर्भावितण्यर्थकं । ऽबाष्पऽ इत्यस्य बाष्पात्मा मन्युरित्यर्थश्च । वयन्त न प्रिया इति व्यतिरेकः । आद्यपदेनानुप्रासो गृह्यते । चर्वयितुरिति । सहृदयस्येत्यर्थः । न आदधतीति सम्बन्धः । लक्षणं नाम लक्ष्यतावच्छेदकव्यापकः सद्व्याप्यश्च धर्मः ।


भवेत्सोऽस्मिन्नलक्ष्यक्रमव्यङ्ग्ये ध्वनावलङ्कारो मतः । तस्यैव रसाङ्गत्वं मुख्यमित्यर्थः ।
     यथा----
कपोले पत्त्राली करतलनिरोधेन मृदिता
निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पस्तनतटीं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयं ।।
     रसाङ्गत्वे च तस्य लक्षणमपृथग्यत्ननिर्वर्त्यत्वमिति यो रसं बन्धुमध्यवसितस्य कवेरलङ्कारस्तां वासनामत्यूह्य यत्नान्तरमास्थितस्य निष्पद्यते स न रसाङ्गमिति । यमके च प्रबन्धेन बुद्धिपूर्वकं क्रियमाणे नियमेनैव यत्नान्तरपरिग्रह आपतति शब्दविशेषान्वेषणरूपः । अलङ्कारान्तरेष्वपि तत्तुल्यमिति चेत्---नैवम्; अलङ्कारान्तराणि हि निरूपप्यमाणदुर्घटनान्यपि रससमाहितचेतसः


लोचनम्

लक्षममिति । ब्यापकमित्यर्थः । ऽप्रबन्धेन क्रियमाणऽ इत सम्बन्धः । अत एव बुद्धिपूर्वकत्वमवश्यम्भावीति बुद्धिपूर्वकशब्द उपात्तः । रससमवधानादन्यो यत्नोयत्नान्तरं । निरूप्यमाणानि सन्ति दुर्घटनानि । बुद्धिपूर्वं चिकीर्षितान्यपि कर्तुमशक्यानीत्यर्थः । तथा निरूप्यमाणे दुर्घटनानि कथमेतानि रचितानीत्येवं विस्मयावहानीत्यर्थः ।

बालप्रिया

प्रकृते तत्पदेन व्यापकमात्रं विवक्षितमित्याह---व्यापकमित्यर्थ इति । ज्ञापकमित्यर्थ इति पाठेन भाव्यमिति केचित् । अपृथग्यत्ननिर्वर्त्यत्वमलङ्कारस्य रसाङ्गत्वव्यापकमितिऽरसाङ्गत्वऽ इत्यादि वृत्यर्थ इति भावः । उक्तमर्थं साधयितुं व्यतिरेकं दर्शयति वृत्तौऽयो रसम्ऽ इत्यादि । योऽलङ्कारो निष्पद्यत इत्यन्वयः । ऽतां वासनाऽमित् । रसबन्धाध्यवसायवासनामित्यर्थः । ऽअत्यूह्यऽ अतिलङ्ध्य परित्यज्येति यावत् । ऽआस्थितस्यऽ आश्रितवतः । कवेरित्यनेनास्य सम्बन्धः । ऽस न रसाङ्गम्ऽ इति । तस्मिन्नलङ्कारे रसाङ्गत्वं नास्तीत्यर्थः । यमकादिनिबन्धे यत्नान्तरमावश्यकमित्याह---ऽयमकऽ इत्यादि । ऽप्रबन्धेनऽ अविच्छेदेन । अस्यऽबुद्धिपूर्वकम्ऽ इत्यनेनान्वयभ्रमः स्यादतोऽन्वयं दर्शयति लोचने---क्रियमाण इति । यत्नान्तरपरिग्रह इत्यत्र यत्नान्तरपदं विवृणोति---रसेत्यादि । रससमवधानात्रसनिष्पादकात् । निरूप्यमाणदुर्घटनानीत्येतत्प्रकृतानुगुण्येन द्वेधा व्याचष्टे---निरूप्यमाणानीत्यादि । कर्तुमशक्यानीत्यत्र


प्रतिभानवतः कवेरहम्पूर्विकया परापतन्ति । यथा कादम्बर्यां कादम्बरीदर्शनावसरे । यथा च मायारामशिरोदर्शनेन विह्वलायां सीतादेव्यां सेतौ । युक्तं चैतत्, यतो रसा वाच्यविशेषैरेवाक्षेप्तव्याः । तत्प्रतिपादकैश्च शब्दैस्तत्प्रकाशिनो वाच्यविशेषा एव रूपकादयोऽलङ्काराः । तस्मान्न तेषां बहिरङ्गत्वं रसाभिवयक्तौ । यमकदुष्करमार्गेषु तु तत्स्थितमेव । यत्तु रसवन्ति कानिचिद्यमकादीनि दृश्यन्ते, तत्र रसादीनामङ्गता यमकादीनां त्वङ्गितैव । रसाभासे चाङ्गत्वमप्यविरुद्धं । अङ्गितया तु व्यङ्ग्ये रसे नाङ्गत्वं पृथक्प्रयत्ननिर्वर्त्यत्वाद्यमकादेः ।
     अस्यैवार्थस्य सङ्ग्रहश्लोकाः----
रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् ।
एकेनैव प्रयत्नेन निर्वर्त्यन्ते माहाकवेः ।।
यमकादिनिबन्धे तु पृथग्यत्नोऽस्य जायते ।
शक्तस्यापि रसेऽङ्गत्वं तस्मादेषां न विद्यते ।।
रसाभासाङ्गभावस्तु यमकादेर्न वार्यते ।
ध्वन्यात्मभूते शृङ्गारे त्वङ्गता नोपपद्यते ।।


लोचनम्

अहम्पूर्वः अग्म्य इत्यर्थः । अहमादाहमादौ प्रवर्त इत्यर्थः । अहम्पूर्व इत्यस्य भावोऽहम्पूर्विका । अहमिति निपातो विभक्तिप्रतिरूपकोऽस्मदर्थवृत्तिः । एतदिति । अहंपूर्विकया परापतनमित्यर्थः । कानिचदिति । कालिदासादिकृतानीत्यर्थः । शक्तस्यापि पृथग्यत्नो जायत इति सम्बन्धः । एषामिति । यमकादीनं । ऽध्वन्यात्मभूते शृङ्गारे इति यदुक्तं तत्प्राधान्यनार्धश्लोकेन सङ्गृहीते ध्वन्यात्मभूत इति ।। १६ ।।

बालप्रिया

कवेरिति, विस्मयावहानीत्यत्र सहृदयस्येति च शेषः । अहम्पूर्विकयेत्येतद्व्याचष्टे---अहमित्यादि । पूर्व इत्यस्य व्याख्या अग्ष इति । पर्यवसितमाह--अहमादावित्यादि । वृत्तौऽतत्प्रतिपादकैश्च शब्दैऽरिति । आक्षेप्तव्या इत्यनेनास्य सम्बन्धः । ऽतत्प्रकाशिनऽ इति । अत्र तत्पदेन शब्दस्य परामर्शः । ऽतेषाम्ऽ इति । रूपकादीनामित्यर्थः । ऽतदिऽति । बहिरङ्गत्वमित्यर्थः । ऽरसाभासे चाङ्गत्वऽमिति । यमकादीनामित्यनुषङ्गः । उक्तानर्थान्वृत्तिकारः श्लोकैः सङ्गृह्णाति---ऽरसवन्तीऽत्यादि । ऽमहाकवेरेकेन प्रयत्नेनैव तथाविधानि वस्तूनि निर्वर्त्यन्तेऽ इत्यन्वयः । लोचनेऽन्वयं दर्शयति---शक्तस्यापीति ।। १६ ।।


  इदानीं ध्वन्यात्मभूतस्य शृङ्गारस्य व्यञ्जकोऽलङ्कारवर्ग आख्यायते---
ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिरलङ्कारवर्ग एति यथार्थताम् ।। १७ ।।
     अलङ्कारो हे बाह्यालङ्कारसाम्यादङ्गिनश्चारुत्वहेतुरुच्यते । वाच्यालङ्कारवर्गश्च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित्, अलङ्कारामामनन्तत्वात् ।
     स सर्वोऽपि यदि समीक्ष्य विनिवेश्यते तदलक्ष्यक्रमव्यङ्ग्यस्य ध्वनेरङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते ।
एषा चास्य विनिवेशने समीक्षा---
विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ।। १८ ।।
निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणं ।


लोचनम्

     इतानीमिति । हेयवर्ग उक्तः, उपादेयवर्गस्तु वक्तव्य इति भावः । व्यञ्जक इति । यश्च यथा चेत्यध्याहाहः । यथार्थतामिति । चारुत्वहेतुतामित्यर्थः । उक्त इति । भामहादिभिरलङ्कारलक्षणकारैः । वक्ष्यते चेत्यत्र हेतुमाह---अलङ्काराणामनन्तत्वादिति । प्रतभानन्त्यातन्यैरपि भाविभिः कैश्चिदित्यर्थः ।। १७ ।।
     समीक्ष्येति । समीक्ष्येत्यनेन शब्देन कारिकायामुक्तेति भावः । श्लोकपादेषु चतुर्षु श्लोकार्धे चाङ्गत्वसाधनमिदम्; रूपकादिरिति प्रत्येकं सम्बन्धः । यमलङ्कारं तदङ्गतया विवक्षति नाङ्गित्वेन, यमवसरे गृह्णाति, यमवसरे त्यजति, यं नात्यन्तं निर्वेढुमिच्छति, यं यत्नादङ्गत्वेन प्रत्यवेक्षते, स एवमुपनिबध्यमानो रसाभिव्यक्तिहेतुर्भवतीति विततं महावाक्यं । तन्महावाक्यमध्ये चोदाहरमावकाशमुदाहलरणस्वरूपं तद्योजनं तत्समर्थनं च निरूपयितुं ग्रन्थान्तरमति वृतिग्रन्थस्य सम्बन्धः ।

बालप्रिया

     यश्चेति । योऽलङ्कारो यथा व्यञ्जकः, तथा आख्यायत इत्यर्थं इति भावः । ऽयथार्थताम्ऽ इत्यस्यान्वर्थतामित्यर्थं दर्शयति---चारुत्वेति । अलङ्काराणामनन्तत्वात्कैश्चिदित्यस्य विवरणम्---प्रतिभानन्त्यादन्यैरित्यादि ।। १७ ।।
     ऽएषा समीक्षेऽति वृत्तावुक्तं, समीक्षायाः कोऽत्र प्रस्ताव इत्यत आह लोचने---समीक्ष्येत्यादि । समीक्ष्येत्यनेनेति । ऽसमीक्ष्य विनिवेशितऽ इत्यत्र समीक्ष्यशब्देनेत्यर्थः । कारिकाद्वयसारार्थकथनपूर्वकं पूर्वापरग्रन्थसम्बन्धं दर्शयति---यमलङ्कारमित्यादि ।


रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम् ।। १९ ।।
     रसबन्धेष्वत्यादृतमनाः कविर्यमलङ्कारं तदङ्गतया विवक्षति । यथा----
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्त्वान्वेषान्मधुकर हस्तास्त्वं खलु कृती ।।
अत्र हि भ्रमरस्वभावोक्तिरलङ्कारो रसानुगुणः ।


लोचनम्

     चलापाङ्गामिति । हे मधुकर, वयमेवंविधाभिलाषचाटुप्रवणा अपि तत्त्वान्वेषमाद्वस्तुवृत्तेऽन्विष्यमाणे हता आयासमात्रपात्रीभूता जाताः । त्वं खल्विति निपातेनायत्नसिद्धं ततैव चरितार्थत्वमिति शकुन्तलां प्रत्यभिलाषिणो दुष्यन्तस्येयमुक्तिः । तथाहिकथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषास्मदभिप्रायव्यञ्जकं रहोवचनमाकर्ण्यात्, कथं नु हठादनिच्छन्तत्या अपि परिचुम्बनं विधेयास्मेति यदस्माकं मनोराज्यपदवीमधिशेते तत्तवायत्नसिद्धं । भ्रमरो हि नीलोत्पलधिया तदाशङ्काकरीं दृष्टिं पुनःपुनः स्पृशति । श्रवणावकाशपर्यन्तत्वाच्च नेत्रयोरुत्पलशङ्कानपगमात्तत्रैव दन्ध्वन्यमान आस्ते । सहजसौकुमार्यत्रासकातरायाश्च रतिनिधानभूतं विकसितारविन्दकुवलयामोदमधुरमधरं पिबतीति भ्रमरस्वभावोक्तिरलङ्कारोऽङ्गतामेव प्रकृतरसस्योपगतः । अन्ये तु भ्रमरस्वभावे

बालप्रिया

चलापाङ्गामिति । श्लोकोऽयमस्माभिः शाकुन्तलव्याख्यायां सविस्तरं व्याख्यातः । वयमित्यनेन गम्यमर्थमाह--एवमित्यादि । एवंविधाः वक्ष्यमाणाः अभिलाषा येषां ते । चाटौ चाटुवचने प्रवणास्तत्पराश्च । अयत्नेत्यादि व्यङ्ग्यार्थकथनं । ऽकथम्ऽ इत्यादिऽसिद्धम्ऽ इत्यन्तं दुष्यन्तवचनरूपेम निर्दिष्टं । भ्रमरो हीत्यादिव्याख्यातुर्वचनं । तत्रैव श्रवणावकाशे एव । दन्ध्वन्यमान इति । अतिशयेन ध्वनिं कुर्वन्नित्यर्थः । ऽभ्रमरस्वभावोक्तिरिऽत्यादिग्रन्थमर्थतो व्यचष्टे---इति भ्रमरस्वभावोक्तिरित्यादि । समासोक्तिव्यतिरेकयोः सत्वेऽप्यत्र स्वभावोक्तेः पुरस्फूर्तिकत्वात्तन्मात्रमुक्तं । प्रकृतरसस्येति । विप्रलम्भस्येत्यरथः । अङ्गतामेवोपगत इति ।


     ऽनाङ्गित्वेनेऽति न प्राधान्येन । कदाचिद्रसादितात्पर्येण विवक्षितोऽपि ह्मलङ्कारः कश्चिदङ्गित्वेन विवक्षितो दृश्यते । यथा----
चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषं ।।
अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादितात्पर्ये सत्यपीति ।


लोचनम्

उक्तिर्यस्येति भ्रमरस्वभावोक्तिरत्र रूपकव्यातिरेक इत्याहुः ।
     चक्राभिघात एव प्रसभाज्ञा अलङ्घनीयो नियोगस्तया यो राहुदयितानां रतोत्सवं चुम्बनमात्रशेषं चकार । यत आलिङ्गनमुद्दामं प्रधानं येषु विलासेषु तैर्वन्ध्यः शून्योऽसौ रतोत्सवः । अत्राह कश्चित्--ऽपर्यायोक्तमेवात्र कवेः प्राधान्येन विवक्षितं, न तु रसादि । तत्कथमुच्यते रसादितात्पर्ये सत्यपीऽति । मैवम्; वासुदेवप्रतापो ह्यत्र विवक्षितः । स चात्र चारुत्वहेतुतया न चकास्ति, अपि तु पर्यायोक्तमेवल । यद्यपि चात्र काव्ये न काचिद्दोषाशङ्का, तथापि दृष्टान्तवदेतत्---यत्प्रकृतस्य पोषणीयस्य स्वरूपतिरस्कारकोऽङ्गभूतोऽप्यलङ्कारः सम्पद्यते । ततश्च क्वचिदनौचित्यमागच्छतीत्ययं ग्रन्थकृत आशयः ।

बालप्रिया

तथाविधभ्रमरचेष्टायाः कामोद्दीपकत्वादिति भावः । रूपकेति । रूपकसहितो व्यतिरेको रूपकव्यतिरेकः, भ्रमरे नायकत्वारोपाद्रूपकं, चतुर्थपादे व्यतिरेकश्च । वस्तुतोऽत्र न रूपकं, किन्तु समासोक्तिरित्याशयेनास्वरससूचनाय अन्य इति । वृत्तौऽअङ्गित्वेनेऽत्यस्य विवरणम्---ऽप्राधान्येनेऽति । ऽकदाचिदिऽति । क्वचित्काव्ये इत्यर्थः ।
     लोचने--चक्रेत्यादि । चक्रेणाभिघातः अभितो हननं स एव । न तु रसादीति । ऽप्राधान्येन विवक्षितम्ऽ इत्यस्यानुषङ्गः । रसादितात्पर्ये सत्यपीति वृत्तिग्रन्थानुवादः । प्रतिवक्ति--मैवमित्यादि । विवक्षित इति । प्राधान्येनेति शेषः । तथाचात्र वीररसे तात्पर्यमस्तीति भावः । विशेषमाह---स चेति । अपि तु पर्यायोक्तमेवेति । चारुत्वहेतुतया चकास्तीत्यस्यानुषङ्गः । शङ्कते---यद्यपीत्यादि । न कदादिद्दोषाशङ्केति । चमत्कारविघातकं किमपि न शङ्कनीयमित्यर्थः । तथा च पर्यायोक्तस्य प्राधान्येऽपि न क्षतिरिति भावः । समाधत्ते---तथापीत्यादि । दृष्टान्तवदिति । दृष्टान्तेन तुल्यमित्यर्थः । एतदिति । चक्रेत्याद्युदाहरणमित्यर्थः । भावं विवृणोति---यदित्यादि । ऽअङ्गभुतोऽप्यलङ्कारः पोषमीयस्य प्रकृतस्य स्वरूपतिरस्कारकस्सम्पद्यते यदिऽति सम्बन्धः । क्वचिदिति शेषः । तत्र दृष्टान्तः प्रकृतश्लोक इति भावः । ततः किमत आह--ततश्चेति । क्वचिदनौचित्यमिति । अस्योदाहरणं "स्रस्तः स्रग्दामशोभा"मित्यादिकं काव्यानुशासनादावुक्तं । उपष्टम्भकमाह---तथा चेति ।


     अङ्गत्वेन विवश्रितमप यमवसरे गृह्णाति नानवसरे । अवसरे गृहीतिर्यथा-----
उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहं ।।


लोचनम्

तथा च ग्रन्थकार एवमग्रे दर्शयिष्यति । महात्मनां दूषणोद्धोषणमात्मन एव दूषणमिति नेदं दूषणोदाहरणं दत्तं ।
     उद्दामा उद्गताः कलिका यस्याः । उत्कलिकाश्च रुहरुहिकाः । क्षणात्तस्मिन्नेवावसरे प्रारब्धा जृम्भा विकासो यया । जृम्भा च मन्मथकृतोऽङ्गमर्दः । श्वसनोद्गमैर्वसन्तमारुतोल्लासैरात्मनो आयासं हृदयस्थितं सन्तापमातन्वतीं प्रकटीकुर्वाणां । सह मदनाख्येन वृक्षविशेषेम मदनेन कामेन च । अत्रोपमाश्लेषरिर्ष्याविप्रलम्भस्य भाविनो मार्गपरिशोधक्त्वेन स्थितस्तच्चर्वणाभिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखीभावदशायां पुरःसरायमाणो गृहीत इति भावः । अभिनयोऽप्यत्र प्राकरणिके प्रतिपदं । अप्राकरणिके

बालप्रिया

कथं दर्शयिष्यतीत्यत्राह---महात्मनामित्यादि दत्तमित्यन्तं ।
     उद्दामेति । रत्नावलीनाटिकास्थमिदं । स्वपरिगृहीतां नबमालिकालतां दोहदविशेषेण पुष्पितामवगतवतो वत्सराजस्य नर्मसचिवं प्रति वचनं । ऽअहमद्य इमामुद्यानलतामन्यां नारीमिव पश्यन्देव्या मुखं कोपविपाटलद्युति करिष्यामीऽत्यन्वयः । मयि अन्यनारीमिव पुष्पितां मदीयलतां पश्यति, तत्पश्यन्त्या स्वपरिगृहीतमाधवीलतायाः पुष्पोद्गमाभावेन जनितकोपाया वासवदत्ताया मुखमाताम्रद्युपि यथा भविष्यति तथा करिष्यामीत्यर्थः । ध्रुवमिति निश्चये । उत्तरार्धस्य स्पष्टार्थकत्वं मन्यमानः पूर्वार्धं व्याचष्टे---उद्दामा इत्यादि । उद्दामाः उद्भटाः, यद्वा बह्व्यः । नारीपक्षे व्याचष्टे--उत्कलिकाश्चेति । रुहरुहिकाः उत्कण्ठाः । आयासनमित्यस्यैव विवरणम्---आन्दोलनेति । वृत्तौऽइत्यत्रोपमाश्लेषस्येऽत्युक्तं विवृणोति---अत्रेत्यादि । उपमासहितः श्लेष उपमाश्लेषरः । इर्ष्येपि । वासवदत्तागतेर्व्येत्यर्थः । भाविन इति । द्वितायाङ्कावसाने वर्मयिष्यमामस्येत्यर्थः । मार्गेत्यादि । व्यञ्जकत्वेनेत्यर्थः । तच्चर्वणेति । सहृदयानामिति शेषः । ऽअवसरऽ इत्यस्य व्याख्यानम्---रसस्येत्यादि । रसस्य रसचर्वणायाः । पुरःसरायमाणः पुरस्सरतुल्यः । नटशिक्षार्थमाह---अभिनय इत्यादि । अप्राकरणिक इति । नारीरूपाप्रकृतार्थ इत्यर्थः ।


     इत्यत्र उपमा श्लेषस्य ।
     गृहीतमपि च यमवसरे त्यजति तद्रसानुगुणतयालङ्कारान्तरापेक्षया । यथा----
रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि ।
कान्तापादतलाहीतस्तव मुदे तद्वन्ममाप्यावयोः
सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ।।


लोचनम्

तु वाक्यार्थाभिनयेनोपाङ्गादिना । न तु सर्वथा नाभिनय इत्यलभवान्तरेण । ध्रुवशब्दश्च भावीर्ष्यावकाशप्रदानजीवितं ।
     रक्तो लोहितः । अहमपि रक्तः प्रबुद्धानुरागः । तत्र च प्रबोधको विभावस्तदीयषल्लवराग इति मन्तव्यं । एवं प्रतिपादमाद्योऽर्थो विभावत्वेन व्याख्येयः । अत एव हेतुश्लेषोऽयं । सहोक्त्त्युपमाहेत्वलङ्काराणां हि भूयसा श्लेषानुग्राहकत्वं । अनेनैवाभिप्रायेण

बालप्रिया

उपाङ्गादिनेति । अभिनय इत्यनुषज्यते ।
     प्रबुद्धानुराग इति । प्रियाया गुणैरनुरक्तोऽहमुद्बुद्धानुराग इति तन्त्रादिना अर्थं इति भावः । कः प्रबोधक इत्यत्र व्याख्याताह--तत्र चेत्यादि । विभाव इति । उद्दीपनविभाव इत्यर्थः । तदीयेति । अशोकसम्बन्धीत्यर्थः । प्रतिपादमिति । द्वितीये तृतीये च पाद इत्यर्थः । विभावत्वेनेति । उद्दीपनविभावत्वेनेत्यर्थः । व्याख्येय इति । यतस्त्वां स्मधनुर्मुक्ताः कामचापान्निर्गताः शिलीमुखाः भ्रमरा आयान्ति, ततो मामपि तथा स्मरधनुर्मुक्ताः कामचापान्निर्गताः शिलीमुखाः शरा आयान्ति । ऽकान्तेऽत्यादि । यद्यप्यत्र कान्तापादतलेनाहतिः तव मुदे पुष्पविकासाय भवति, तद्वत्तथा कान्तापादतलाहतिः रतबन्धविशेषः मम मुदे सन्तोषाय भवतीति यताश्रुतार्थः, ततापि स्वकान्तापादतलाहननेनाशोकस्य पुष्पविकासे सति नायकस्य सन्तीषो भवतीति यतस्तव मुदे ततो ममापि मुदे इति हेतुत्वेन व्याख्येय इति भावः ।


     अत्र हि प्रबन्धप्रवृत्तोऽपि श्लोषो व्यतिरेकविवक्षया त्यज्यमानो रसविशेषं पुष्णाति । नात्रालङ्कारद्वयसन्निपातः, किं तर्हि? अलङ्कारान्तरमेव श्लेषव्यतिरेकलक्षमं नरसिंहवदिति चेत्--न; तस्य प्रकारान्तरेम व्यवस्थापनात् । यत्र हि श्लेषविषय एव शब्दे प्राकरान्तरेण व्यतिरेकप्रतीतिर्जायते स तस्य विषयः । यथा---ऽस हरिर्नाम्ना देवः सहरिर्वरतुरगनिवहेनऽ इत्यादौ ।


लोचनम्

भामहो न्यरूपयत्---ऽतत्सहोक्त्युपमाहेतुनिर्देशात्र्रिविधम्ऽ इत्युक्त्या न त्वन्यालङ्कारानुग्रहनिराचिकीर्षया । रसविशेषमिति विप्रलम्भं । सशोकशब्देन व्यतिरेकमानयता शोकसहभूतानां निर्वेदचिन्तादीनां व्यभिचारिणां विप्रलम्भपरिपोषकाणामवकाशो दत्तः । किं तर्हीति । सङ्कारालङ्कार एक एवायम्; तत्र किं त्यक्तं किं वा गृहीतमिति परस्याभिप्रायः । तस्येति सङ्करस्य । एकत्र हि विषयेऽलङ्कारद्वयप्रतिभोल्लासः सङ्करः । सहरिशब्द एको विषयः । सः हरिः, यदि वा सह हरिभिः सहरिरिति ।

बालप्रिया

हेतुश्लेष इति । हेत्वलङ्कारसहितः श्लेष इत्यर्थः । उक्तमुपपादयति---सहोक्तीत्यादि । अनेनैवेति । भूयसा श्लेषानुग्राहकत्वाभिप्रायेणैवेत्यर्थः । इत्युक्त्या न्यरूपयदित्यन्वयः । तत्सहोक्तीति । तत्श्लिष्टं वचः । ऽअनेनैऽवेत्येवकारव्यवच्छेद्यमाह--न त्वित्यादि । प्रकृतरसानुगुणालङ्कारान्तरविवक्षया गृहीतपूर्वस्यालङ्कारस्य त्यागः प्रकृतरसाङ्गं भवतीति प्रकृते व्यतिरेकस्य विप्रलम्भपोषकत्वं विवृणोति---सशोकशब्देनेत्यादि । व्यतिरेकमानयतेति । वक्तुरशोकाद्व्यतिरेकं दर्शयतेत्यर्थः । अवकाशो दत्त इति । स्थितिर्दर्शितेत्यर्थः । वृत्तौऽश्लेषऽ इति । श्लेषोपमेत्यर्थः । ऽनात्रेऽत्यादिःऽचेदिऽत्यन्तः शङ्काग्रन्थः । तत्र किं तहीन्त्यादेः भावमाह---सङ्करेत्यादि । सङ्करेति । एकवाक्यानुप्रवेशसङ्करेत्यर्थः । वृत्तौ समाधत्ते---ऽनेऽत्यादि । प्रकारान्तरेण व्यवस्थापनमेव दशंयति--ऽयत्रेऽत्यादि । भावं व्याचष्टे-एकत्रेत्यादि । अलङ्कारेति । अलङ्कारद्वयस्य या प्रतिभा प्रतीतिस्तस्या उल्लासः उदय इत्यर्थः । सङ्करः एकवाक्यानुप्रवेशसङ्करः । स हरिरिति राजवर्णनं । ऽयद्यप्यनुपमचरितस्तथापि तव नाच्युतस्तुलां लभतेऽइति पूर्वार्धं । अत्रैकविषयकत्वं दर्शयति--स हरीत्यादि । विषय इति । श्लेषव्यतिरेकयोरिति शेषः । सहरिर्नाम्नेत्यत्र स हरिरिति पदद्वयमित्याह--सः हरिरिति । सः अच्युतः । नाम्ना हरिः हरिनामक इत्यर्थः । अश्ववाचिनो हरिशब्दस्य सहशब्देन समास इत्याशयेन द्वितीयं सहरिशब्दं व्याचष्टे--यदि वेत्यादि । यदि वेति । अथ चेत्यर्थः, अव्ययानामनेकार्थत्वात् । यद्वा--यदिवेत्यपपाठः । हरिभिः अश्वैः । निवहेनेति हेतौ अभेदे वा तृयीया । अन्त्यपादे


अत्र ह्यन्य एव शब्दः श्लेषस्य विषयोऽन्यश्च व्यतिरेकस्य । यदि चैवंविधे विषयेऽलङ्कारान्तरत्वकल्पना क्रियते तत्संसृष्टेर्विषयापहार एव स्यात् । श्लेषमुखैनैवात्र व्यतिरेकस्यात्मलाभ इति नायं संसृष्टेर्विषय इति चेत्--न; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा--- चेत्--न; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा---
नो कल्पापायवायोरदयरयदलत्क्ष्याधारस्यापि शम्या


लोचनम्

अत्र हीति । हिशब्दस्तुशब्दस्यार्थे,ऽरक्तस्त्वऽमित्यत्रेत्यर्थः । अन्य इति रक्त इत्यादिः । अन्यश्च अशोकसशोकादिः । नन्वेकं वाक्यात्मकं विषयमाश्रित्यैकविषयत्वादस्तु सङ्कर इत्याशङ्क्याह--यदीति । एवंविधे वाक्यलक्षणे विषये विषय इत्येकत्वं विवक्षितं बोध्यं । एकवाक्यापेक्षया यद्येकविषयत्वमुच्यते तन्न क्वचित्संसृष्टिः स्यात्, सङ्करेण व्याप्तत्वात् । ननूपमागर्भो व्यतिरेकः; उपमा च श्लेषमुखेनैवायातेति श्लेषोऽत्र व्यतिरेकस्यानुग्राहक इति सङ्करस्यैवैष विषयः । यत्र त्वनुग्राह्मानुग्राहकभावोनास्ति तत्रैकवाक्यगामित्वेऽपि संसृष्टिरेव; तदेतदाह---श्लेषेति । श्लेषबलानीतोपमामुखेनेत्यर्थः । एतत्परिहरति--नेति । अयं भावः---किं सर्वत्रोपमायाः स्वशब्देनाभिधाने व्यतिरेको भवत्युत गम्यमानत्वे । तत्राद्यं पक्षं दूषयति-प्रकारान्तरेणेति । उपमाभिधानेन विनापीत्यर्थः ।
     शम्या शमयितुं शक्येत्यर्थः । दीपवर्तिस्तु वायुमात्रेण शमयितुं शक्यते ।

बालप्रिया

त्वमिति शेषः । देव इति द्वयोर्विशेषणं । यद्यप्यत्र सहरिः सहरिरिति द्वे उपात्ते, तथापि तयोरेकानुपूर्वीङ्कत्वेनैकविषयकत्वमिति भावः । वृत्तिगतान्यपदे व्याचष्टे---रक्तेत्यादि । वाक्यलक्षणे वाक्यात्मके । एकत्वविवक्षायाः फलं दर्शयंस्तदित्यादिवृत्यर्थं विवृणोति---एकवाक्येत्यादि । सङ्करस्यैवैष विषय इति । सङ्करस्य अनुग्राह्यनुग्राहकभावेन सङ्करस्य । संसृष्टेश्व नास्ति विषयापहार इत्याह---यत्रेत्यादि । तदेतदाहेति । तामिमां शङ्कां दर्शयतीत्यर्थः । नेत्यादिपरिहारग्रन्थस्य भावं दर्शयति---अयमित्यादि । किमिति प्रश्ने । गम्यमानत्वे व्यङ्ग्यत्वे । उपमाभिधानेन उपमावाचकेन ।
     नोकल्पेति । सूर्यशतकस्थं । उष्णात्विषः सूर्यस्यैव । निखिलद्वीपदीपस्य दीप्तिरेव अन्यरूपा, सा प्रसिद्धा एव वर्तिः वः सुखयत्विति सम्बन्धः । अन्यरूपेत्यनेन दर्शितं दीप्तेर्वैधर्म्यं नो कत्पेत्यादिना कथ्यते । अदयरयेन प्रौढवेगेन दलन्क्ष्माधरो यस्य । वायोरिति कर्तरि षष्टी गाढमुद्गीर्णा


गाढोद्गीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णात्विषो वो
वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ।।
अत्र हि साम्यप्रपञ्जप्रतिपादनं विनैव व्यतरेको दर्शितः । नात्र


लोचनम्

तम एव कज्जलं तेन । न नो रहितां अपि तु रहितैव । दीपवर्तिस्तु तमसापि युक्ता भवति । अत्यन्तमप्रकटत्वत्कज्जलेन चोपरिचरेम । पताङ्गादर्कात् । दीपवर्तिः पुनः शलभाद्ध्वंसते नोत्पद्यते । साम्येति । साम्यस्योपमायाः प्रपञ्चेन प्रबन्धेन यत्प्रतिपादनं स्वश्बदेन तेन विनापीत्यर्थः । एतदुक्तं भवति---प्रतीयमानैवोपमा व्यतिरेकस्यानुग्राहिणी भवन्ती नाभिधानं स्वकण्ठेनापेक्षते । तस्मानान श्लेषापमा व्यतिरेकस्यानुग्राहित्वेनोपात्ता । ननु यद्यप्यन्यत्र नैवं, ततापीह तत्प्रावण्येनैव सोपात्ता; तदप्रावण्ये स्वयं चारुत्वहेतुत्वाभावादिति श्लेषोपमात्र पृथगलङ्कारभावमेव न भजते । तदाह--नात्रेति । एतदसिद्धं स्वसंवेदनबाधितत्वादिति हृदये गृहीत्वा स्वसंवेदनमपह्नुवानं

बालप्रिया

आविर्भाविता उज्वला श्रीर्यया सा । गम्यं वर्तेः वैधर्म्यं दर्शयति--दीपवर्तिरित्यादि । तमश्च कज्जलं च तमःकज्जलमित्यर्थाभिप्रायेणाह---तमसापीत्यादि । उपरिचरेम कज्जलेन च युक्तेत्यन्वयः । द्वाभ्यां युक्तत्वे ज्ञापकं । आत्यन्तमप्रकटत्वादिति । पतह्गात्प्राप्तोत्पत्तिः पतङ्गान्मोषं पुनर्नोपगतेत्यत्र वर्तिगतं वैधर्म्यमाह---शलभादिति । ऽपतङ्गौ सूर्यशलभाविऽत्यमरः । एवं दीपवर्तिरहनि मन्दश्रीरिति च बोध्यं । स्वशब्देन प्रतिपादनमिति सम्बन्धः । भावमाह---एतदित्यादि । अनुग्राहिणीति । व्यतिरेकस्योपमागर्भत्वादिति भावः । स्वकण्ठेन स्वश्ब्देन । उपात्ता स्वशब्देनाभिहिता । नन्वित्यादि । अन्यत्रेति । ऽनोकल्पापायेऽत्यादावित्यर्थः । इहेति । ऽरक्तस्त्वम्ऽ इत्यादावित्यर्थः । तत्प्रावण्येन व्यतिरेकपरत्वेन, व्यतिरेकानुग्राहकत्वेनेति यावत् । तस्याः स्वयमेवेत्यर्थः । इतीति हेतौ । अत्रऽरक्तस्त्वम्ऽ इत्यादौ । पृथगित्यादि । पृथगलङ्कारभावं न भजत एवेत्यन्वयः । किन्तु व्यतिरेकेम सहानुग्रह्यानुग्राहकभावं भजते इति भावः । तदाहेति । नात्रेत्यादिग्रन्थेन तदाशङ्कां दर्शयतीत्यर्थः । वृत्तौ--ऽअत्र श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात्श्लेषमात्रच्चारुत्वप्रतीतिर्नास्ति इति न स्वतोऽलङ्कारता इत्यपि न वाच्यम्ऽ इत्यन्वयः । श्लेषस्येत्यस्य न स्वतोऽलङ्कारतेत्यनेनापि सम्बन्धः । स्वत इत्यस्य पृथगित्यर्थः । लोचने---एतदित्यादि । एतत्शङ्कितं । स्वसंवेदनेति । स्वानुभवेत्यर्थः । परं पूर्वपक्षिणं । निरुत्तरीकरोतीत्यनेन सम्बन्धः ।


श्लेषमात्राच्चारुत्वप्रतीतिरस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात्न स्वतोऽलङ्कारतेत्यपि न वाच्यं । यत एवंविदे विषये साम्यमात्रादपि सुप्रतिपादिताच्चारुत्वं दृश्यत एव । यथा---
आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभि-
स्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।
अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयो-
स्तत्किं मामनिशं सखे जलधर त्वं दग्धमेवोद्यतः ।।
  इत्यादौ ।


लोचनम्

परं श्लेषं विनोपमामात्रेम चारुत्वसम्पन्नमुदाहरणान्तरं दर्शयन्निरुत्तरीकरोति--यत इत्यादिना । उदाहरणश्लोके तृतीयान्तपदेषु तुल्यशब्दोऽभिसम्बन्धनीयः । अन्यत्सर्वंऽरक्तस्त्वंऽ इतिवद्योज्यं ।

बालप्रिया

कथमित्यत्राह--श्लेषमित्यादि । श्लेषं विना उपमामात्रेणेति । मात्रपदार्थविवरणं श्लेषं विनेति । श्लेषरहितोप्रमागर्भव्यतिरेकेमेति यावत् । वृत्तौ--ऽएवम्ऽ इत्यादि । ऽएवंविदे विषयेऽ व्यतिरेकविषये । ऽसाम्यमात्रादिऽति । मात्रशब्देन श्लेषव्यवच्छेदः साम्यशब्दस्योपमागर्भव्यतिरेकोऽर्थः । ऽआक्रन्दाऽ इत्यादिस्थले श्लेषं विना उपमागर्भव्यतिरेकेणैव चारुत्वस्य दर्शनाऽद्रक्तस्त्वऽमित्यादावपि श्लेषस्य व्यतिरेकानुग्राहकत्वं विना पृथगलङ्कारत्वं भवत्येवेति परिहारग्रन्थाभिप्रायः । अनेन प्रबन्धप्रवृत्तोऽपीत्यादि पूर्वोक्तं निर्व्यूढं । तुल्यशब्द इत् । मे आक्रन्दाः तव स्तनितैतैस्तुल्या इत्यादि सम्बन्धनीयमित्यर्थः । श्रोतृजनमनःक्षोभकारित्वादिना तुल्यत्वं । तस्याविच्छेदो विरहः तस्माद्भवन्तीति तथा । शोका एव शिखिनोऽग्नयः । ऽअन्तरिऽत्यादि । अत्र मुखशशिनोस्तुल्यत्वं गम्यं । ऽवृत्तिरिऽत्यादि । उक्तप्रकारेणावयोर्धर्मौ तुल्यावेवेत्यर्थः । ऽतदिऽति । अस्मद्धर्मयोस्तुल्यत्वेनावयोस्तुल्यत्वादित्यर्थः । अत एवाह---ऽसखेऽ इति । अनेन दहनमनुचितमनुकूलाचरणमेव युक्तमिति,ऽजलधरेऽत्यनेन सन्तापहरणसामर्थ्यं च द्योत्यते । अनिशं दग्धुं पीडयितुमेव, न तु कदाचित्सुखयितुमपि । ऽकिंऽ कुतः । ऽउद्यतःऽ अयमुद्यमो न युक्तः, अहन्तु नैवंविध इति भावः । अत्र बन्धुजनपीडाकारित्वेन जलधरस्य स्वस्माद्व्यतिरेक उक्तः, साम्यं चादावुक्तं । श्लेषश्च नास्तीति बोध्यं । योजयमिति । स्तनितादिकमाक्रन्दनादिहेतुतयापि योजनीयमित्यर्थः । वृत्तौ---ऽआक्षिप्तम्ऽ इति । उक्तमित्यर्थः । ऽरसपुष्टये परमनिर्व्यूढञ्चेत्यन्वयः ।


रसनिर्वहणैकतानहृदयो यं च नात्यन्तं निर्वोढुमिच्छति । यथा---
कोपात्कोमललोबाहुलतिकापाशेन बद्ध्वा दृढं
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः ।
भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निन्हुतिपरः प्रेयान्रुदत्या हसन् ।।
अत्र हे रूपकमाक्षिप्तमनिर्व्यूढं च परं रसपुष्टये ।
निर्वोढुमिष्टमपि यं यत्नादङ्गत्वेन प्रत्यवेक्षते यथा---
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं


लोचनम्

     एवं ग्रहणत्यागौ समर्थ्यऽनातिनिर्वहणैषिताऽ इति भागं व्याचष्टे--रसेति । चकारः समीक्षाप्रकारसमुच्चार्थः । बाहुलतिकायाः बन्धनीयपाशत्वेन रूपणं यदि निर्वाहयेत्, दयिता व्याधवधूः वासगृहं कारागारपञ्जरादीति परमनौचित्यं स्यात् । सखीनां पुर इति । भवत्योऽनवरतं ब्रुवते नायमेवं करोतीति तत्पश्यन्त्विदानीमिति भावः । स्खलन्ती कोपावेशेन कला मधुरा च गीर्यस्याः सा । कासौ गीरित्याह--भूयो नैवमित्येवंरूपा । एवमिति यदुक्तं तत्किमित्याह--दुश्चेष्टितं नखपदाद संसूच्य अङ्गुल्यादिनिर्देशेन । इन्यत एवेति । न तु सख्यादिकृतोऽनुनयोऽनुरुध्यते । यतोऽसौ हसनं निमित्तीकृत्य निह्नुतिपरः प्रियतमश्च तदीयं व्यलीलं का सोढुं समर्थेति ।
     निर्वोढुमिति । निःशेषेण परिसमापयितुमित्यर्थः । श्यामासु सुगन्धिप्रियङ्गुलतासु

बालप्रिया

     एतद्विवृणोति लोचने---बाह्वित्यादि । इति निर्वाहयेद्यदीति सम्बन्धः । दयितादीनां व्याधवधूत्वादिरूपणस्य कथनेन बाहुलतिकायाः पाशत्वरूपणं कविर्निर्वाहयेद्यदीत्यर्थः । तदेति शेषः । परमनौचित्यं स्यादिति । तथा च रसभङ्गः स्यादिति भावः । न करोतीति ब्रुवत इत्यनेन सम्बन्धः । इति भाव इति । सखीनां पुरोनयने नायिकाभिप्राय इत्यर्थः । सखीनां पुरो नीत्वेत्यनेनोक्ताभिप्रायो गम्यत इत्यर्थः । दुश्चेष्टितमित्यस्य व्याख्यानम्---नखपदादीति । ऽनिर्देशेन संसूच्येऽत्यन्वयः । एवकारार्थमाह---न त्वित्यादि । निह्नुतीत्यादिकमुक्तार्थे हेतुगर्भमित्याशयेन व्याचष्टे---यत इत्यादि । भावार्थमाह---तदीयमित्यादि तदीयं प्रयतमसम्बन्धि । अतो हन्यत एवेति भावः । श्लोकोऽयममरुशतकस्थः ।
     ऽश्यामाखिऽत्यादिश्लोको मेघसन्देशस्थः । श्यामानां विशिष्योक्तौ बीजभूतमङ्गसाथधर्म्यं


गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
अत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्
हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ।।
  इत्यादौ ।
     स एवमुपनिबध्यमानोऽलङ्कारो रसाभिव्यक्तिहेतुः कवेर्भवति । उक्तप्रकारातिक्रमे तु नियमेनैव रसभङ्गहेतुः सम्पद्यते । लक्ष्यं च तथाविधं महाकविप्रबन्धेष्वपि दृश्यते बहुशः । तत्तु सूक्तितसहस्रद्योतितात्मानां महात्मनां दोषोद्धोषणमात्मन एव दूषणं भवतीति न विभज्य दर्शितं । किं तु रूपकादेरलङ्कारवर्गस्य येयं व्यञ्जकत्वे रसादिविषये लक्षणदिग्दर्शिता तामनुसरन्स्वयं चान्यल्लक्षणमुत्प्रेक्षमाणो यद्यलक्ष्यक्रमप्रतिभमनन्तरोक्तमेनं


लोचनम्

पाण्डम्ना तनिम्ना कण्टकितत्वेन च योगात् । शशिनीति पाण्डुरत्वात् । उत्पश्यामीति यत्नेनोत्प्रेक्षे । जीवितसन्धारणायेत्यर्थः । हन्तेति कष्टम्, एकस्थसादृश्याभावे ह दोलायमानोऽहं सर्वत्र स्थितो न कुत्रचिदेकस्य धृतिं लभ इति भाव । भीर्विति । यो हि कातरहृदयो भवतिनासौ सर्वस्वमेकस्थं धारयतीत्यर्थः । अत्र ह्युत्प्रेक्षायास्तद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं, तथा निर्वाहितमपि विप्रलम्भरसपोषकमेव जातं । तत्तु लक्ष्यं न दर्शितमिति सम्बन्धः । प्रत्युदाहरणे ह्यदर्शितेऽप्युदाहरणानुशीलनदिशा कृतकृत्यतेति दर्शयति--किं त्विति । अन्यल्लक्षणमिति । परीक्षाप्रकारमित्यर्थः । तद्यथावसरे त्यक्तस्यापि पुनर्ग्रहणमित्यादि । यथा ममैव--
शीतांशोरमृतच्छटा यद कराः कस्मान्मनो मे मृशं

बालप्रिया

गम्यं दर्शयति---पाण्डिम्नेत्यादि । कण्टकित्वं तीक्ष्णाग्रावयवविशेषवत्वं रोमहर्षवत्वं च । हन्तेति । विषादार्थकमित्याह--कष्टमेकस्थेत्यादि । ऽभीरुऽ इति सम्बुध्या द्योत्यमर्थमाह---यो हीत्यादि । न धारयति नावक्थापयत अन्यापहरणशङ्कयेति भावः । तद्भावेति । अतस्मिंस्तत्तादात्म्याहार्यसम्भावनारूपाया इत्यर्थः । अत्र च श्यामादावङ्गादितादात्म्यसम्भावना बोध्या । अनुप्राणकमिति । अङ्गमित्यर्थः । सादृश्यमिति । गम्यमिति शेषः । तथेति । अङ्गसादृश्यस्य उपक्रान्तस्य उपसंहारादिति भावः । निर्वाहितमिति । उत्प्रेक्षानिर्वहणद्वारा निर्वाहितमित्यर्थः । वृत्तावुपसंहरति---ऽस एवऽ मित्यादि । ऽतथाविधम्ऽ इति । उक्तप्रकारातिक्रान्तमित्यर्थः । शीतांशोरिति । विरहिण उक्तिः ।
     ऽशीतांशोः कराःऽ किरणाः अमृतच्छटाः, यदीति सिद्धानुवादे । यथा--"स्रगियं यदि जीवितापहे"त्यादौ । ऽकस्मात्ऽ कुतः । मे मनः


ध्वनेरात्मानमुपनिबध्नाति सुकविः समाहितचेतास्तादा तस्यात्मलाभो भवति महीयानिति ।
क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः ।
शब्दार्थंशक्तिमूलत्वात्सोऽपि द्वेधा व्यवस्थितः ।। २० ।।


लोचनम्

संप्लुष्यन्त्यथ कालकूटपटलीसंवाससन्दूषिताः ।
किं प्राणान्न हरन्त्युत प्रियतमासञ्जल्पमन्त्राक्षरै-
रक्ष्यन्ते किमु मोहमेमि हहहा नो वेझि केयं गतिः ।।
     इत्यत्र हि रूपकसन्देहनिदर्शनास्त्यक्त्वा पुनरुपात्ता रसपरिपोषायेत्यलम् ।। १८ ,१९ ।।
     एवं विवक्षितान्यपरवाच्यध्वनेः प्रथमं भेदमलक्ष्यक्रमं विचार्यं द्वितीयं भेदं विभक्तुमाह---क्रमेणेत्यादि ।

बालप्रिया

भृशं सम्प्लुष्यन्तिसन्तापयन्ति । अमृतच्छटात्मकत्वेन सम्पलोषकत्वायोगादिति भावः । अस्योपपत्तिं सन्दिहान आह--अथेत्यादि । अथेति विकल्पे । करा इत्यनुषज्यते । कालकूटानां पटल्या समूहेन यः संवासः द्वयोरेकोत्पन्नत्वात्सहवासः संसर्गं इति यावत्, तेन सन्दूषिताः सन्तापकत्वादिस्वीयदोषविशिष्टाः कृताः । तर्हि ते किं कुतः प्राणान्न हरन्ति? प्राणापहारकत्वस्यापि तत्स्वभावत्वादिति भावः । प्राणहरणाभावे हेतुमाशङ्कमान आह--उतेत्यादि । उतेति विकल्पे । प्रियतमायाः सञ्जल्पेषु यानि मन्त्राक्षराणि विषापहारीणि तैः । रक्ष्यन्ते प्राणा इति विपरिणामेनानुषङ्गः । अत्राप्यनुपपत्तिं मन्यमान आह--किं त्वित्यादि । किमु कुतः । रूपकेति । करा अमृतच्छटा इति रूपकं, कालकूटेत्यादौ सन्देहः, प्रियतमासञ्जल्पेषु मन्त्राक्षरारोपान्निदर्शना । त्यागः । अथेत्यादिना पुनरुपादानं, तथा सन्दूषितत्वसन्देहस्यऽकिं प्राणानिऽत्यादिना त्यागः । उतेत्यादिना पुनरुपादनमेवं प्रियतमेत्यादि निदर्शनायाः, मोहं मूर्च्छामेमि प्राप्नोमीत्यनेन त्यागः । इयं गतिरवस्था पदार्थस्वभावः । का नो वेझि न जानामीत्यनेन पुनरुपादानं च प्रत्याय्यत इति भावः । यद्वा सम्प्लुष्यन्तीत्यन्तेन रूपकस्याहरन्तीत्यन्तेन सन्देहस्य, एमीत्यन्तेन निदर्शनायाश्च त्यागः । नो वेद्मीत्यादिना तेषामुपादानं चेति बोध्यम् ।। १८ -१९ ।।
     हेतुत्वेनोपात्त इति । यतः क्रमेण भाति, अतोऽनुस्वानसन्निभ इत्यर्थ इति भावः ।


     अस्य विवक्षितान्यपरवाच्यस्य ध्वनेः संलक्ष्यक्रमव्यङ्ग्यत्वादनुरणन- प्रख्यो य आत्मा सोऽपि शूब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विप्रकारः ।
     ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानीं श्लेषस्य विषय एवापहृतः स्यात्, नापहृत इत्याह---
आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते ।
यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ।। २१ ।।
     यस्मादलङ्कारो न वस्तुमात्रं यस्मिन्काव्ये शब्दशक्त्या प्रकाशते स शब्दशक्त्युदभवो ध्वनिरत्यस्माकं विवक्षितं । वस्तुद्वये च शब्दशक्त्या प्रकाशमाने श्लेषः । यथा---
येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चेद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् ।


लोचनम्

प्रथमपादोऽनुवादभागो हेतुत्वेनोपात्तः । घण्टाया अनुरणनमभिघातजशब्दापेक्षया क्रमेमैव भाति । सोऽपीति । न केवलं मूलतो ध्वनिर्द्विविधः । नापि केवलं विवक्षितान्यपरवाच्यो द्विविधः । अयमपि द्विविध एवेत्यपिशब्दार्थः ।।२० ।।
     कारिकागतं हिशब्दं व्याचष्टे--यस्मादिति । अलङ्कारशब्दस्य व्यवच्छेद्यं दर्शयति--न वस्तुमात्रमिति । वस्तुद्वये चेति । चशब्दस्तुशब्दस्यार्थे । येनेति । येन ध्वस्तं बालक्रीडायामनः शकटं । अभवेनाजेन सता । बलिनो दानवान्यो जयति तादृग्येन कायो वपुः पुरामृतहरणकाले स्त्रीत्वं प्रापितः । यश्चेद्वृत्तं समदं कालियाख्यं भुजङ्गं हतवान् । रवे शब्दे लयो यस्य । ऽअकारो विष्णुःऽ इत्युक्तेः । यश्चागं गोवर्धनपर्वतं गां च भूमिं पातालगतामधारयत् । यस्य च नाम स्तुत्यमृषय आहुः किं तत्? शशिनं मथ्नातीति क्विप्राहुः, तस्य शिरोहरो

बालप्रिया

अनुस्वानपदार्थंविवृण्वंस्तद्भानस्य क्रमिकत्वं दर्शयन्ति---घण्टाया इत्यादि । विवक्षितान्यपरवाच्य इत्यस्य स्थानेऽअविवक्षितवाच्यऽ इति च पाठः । अपिशब्दार्थःऽसोऽपीऽत्यपि शब्दगम्यः ।। २.० ।।
     ऽन वस्तुमात्रऽमिति कारिकास्थैवकारव्यवच्छेद्यमिति भ्रमः स्यादतो व्याचष्टे---अलङ्कारशब्दस्येति । एवकारव्यवच्छेद्यमुपरि वक्ष्यति । येनेत्यत्रादौ विष्णुपक्षे व्याचष्टे---बालक्रीडायामित्यादि । ऽतादृक्कायो येन स्त्रीत्वं प्रापितऽ इत्याद्यन्वयः । लय इति । तादात्म्यमित्यर्थः । शब्दात्मक इति यावत् । तत्र प्रमाणमाह---अकार इति ।


यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।।
     नन्वलङ्कारान्तरप्रतिभायामपि श्लेषव्यपदेशो भवतीति दर्शितं भट्टोद्भटेन, तत्पुनरपि शब्दशक्तिमूलो ध्वनिर्निरवकाश इत्याशङ्क्येदमुक्तंऽआक्षिप्तःऽ इति । तदयमर्थः--यत्र शब्दशक्त्या साक्षादलङ्कारान्तरं वाच्यं सत्प्रतिभासते स सर्वः श्लेषविषयः । यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्ग्यमेवालङ्कारान्तरं प्रकाशते स ध्वनेर्विषयः । शब्दशक्त्या साक्षादलङ्कारान्तरप्रतिभा यथा---
तस्या विनापि हारेण निसर्गादेव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ।।
     अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद्विरोधालङ्कारश्च प्रतिभासत इति विरोधच्छायानुग्राहिणः श्लेषस्यायं विषयः, न त्वनुस्वानोपमव्यङ्ग्यस्य ध्वेनेः ।


लोचनम्

मूधापहारक इति । स त्वां माधवो विष्णुः सर्वदः पायात् । कीदृक्? अन्धकनाम्नां जनानां येन क्षयो निवासो द्वारकायां कृतः । यदि वा मौसले इषीकाभिस्तेषां क्षयोविनाशो येन कृतः । द्वितीयोऽर्थः--येन ध्वस्तकामेन सता बलिजितो विध्णोः सम्बन्धी कायः पुरा त्रिपुरनिर्दहनावसरेऽस्त्रीकृतः शरत्वं नीतः । उद्वृत्ता भुजङ्गा एव हारा वलयाश्च यस्य, मन्दाकिनीं च योऽधारयत्, यस्य च ॠषयः शशिमच्चन्द्रयुक्तं शिर आहुः, हर इति च यस्य नाम स्तुत्यमाहुः, स भगवान्स्वयमेवान्धकासुरस्य विनाशकारी त्वां सर्वदा कल्वकालमुमाया धवो वल्लभः पायादति । अत्र वस्तुमात्रं द्वितीयं प्रतीतं नालङ्कार इति श्लेषस्यैव विषयः । आक्षिप्तशब्दस्य कारिकागतस्य व्यवच्छेद्यं दर्शयितुं चोद्योनोपक्रमते---नन्वलङ्कारेत्यादिना ।
     तस्या विनापीति । अपिशब्दोऽयं विरोधमाचक्षाणोऽर्थद्वयेऽप्यभिधाशक्तिं

बालप्रिया

शेषं स्पष्टं । वस्तुमात्रमित्यादि । माधवस्योमाधवस्य च स्तोतव्यत्वेन प्रकृतत्वात्तयोः साम्यं न विवक्षितमिति भावः । वृत्तौऽसाक्षादलङ्कारान्तरं वाच्यऽमिति । अलङ्कारान्तरमलङ्कारविशेषः । वाच्यमभिधेयमिति तदर्थः ।
     अपिशब्दोऽयमिति । हारेम विनापीत्यपिशब्द इत्यर्थः । विरोधं हारतदभावयोरेकत्र वृत्तित्वरूपं । आचक्षाणः बोधयन् । अर्थद्वये वक्ष्यमाणे । अभिधाशक्तिं हारिन्शब्दस्याभिधात्मिकां शक्तिं ।


अलक्ष्यक्रमव्यङ्ग्यस्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यञ्जितस्य विषय एव । यथा ममैव--
श्लाध्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजत-
त्रैलोक्यां चरमारविन्दललितेनाक्रान्तलोको हरिः ।
बिभ्रामां मुखभिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दध-
त्स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ।।
     अत्र वाच्यतयैव व्यतिरेकच्छायानुग्राही श्लोषः प्रतीयते । यथा च---
भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छां तमः शरीरसादं ।
मरणं च जलदभुजगजं प्रसह्यं कुरुते विषं वियोगिनीनां ।।


लोचनम्

नियच्छति हरतो हृदयमवश्यमिति हारिणौ । हारो विद्यते ययोस्तौ हारिणाविति । अत एव विस्मयशब्दोऽस्यैवार्थस्योपोद्बलकः । अपिशब्दाभावे तु न तत एवार्थद्वयस्याभिधा स्यात्, स्वसौन्दर्यादेव स्तनयोर्विस्मयहेतुत्वोपपत्तेः । विस्मयाख्यो भाव इति दृष्टन्ताभिप्रायेणोपात्तं । यथा विस्मयः शब्देन प्रतिभाति विस्मय इत्यनेन शब्देन तथा विरोधोऽपि प्रतिभात्यपीत्यनेन शब्देन । ननु किं सर्वथात्र धनिर्नास्तीत्याशङ्क्याह--अलक्ष्येति । विरोधेन वेति । वाग्रहणेन श्लेषविरोधसङ्करालङ्कारोऽयमिति दर्शयति, अनुग्रहयोगादेकतरत्यागग्रहणनिमित्ताभावो हे वाशब्देन सूच्यते । सुदर्शनं चक्रं करे यस्य । व्यतिरेकपक्षे सुदर्शनौ श्लाध्यौ करावेव यस्य । चरणरविन्दस्य ललितं त्रिभुवनाक्रमणक्रीजनं । चन्द्ररूपं चक्षुर्धारयन् । वाच्यतयैवेति । स्वतनोरधिकामिति शब्देन व्यतिरेकस्योक्तत्वात् ।

बालप्रिया

अर्थद्वयमाह-हरत इत्यादि । ऽइत्यार्थद्वयेऽ इति सम्बन्धः । अत एव अपिशब्दप्रयोगादेव । विस्मयशब्दः द्वितीयान्तविस्मयशब्दः । उपोद्बलकः बोधे सहकारी । एकत्र विरुद्धार्थबोधे हि विस्मयः । उक्तमुपपादयति--अपिशब्दाभावे त्विति । तत एवार्थद्वयस्याभिधा न स्यादित्यन्वयः । तत एव विस्मयशब्दादेव । अभिधा अभिधानं । कुत इत्यत्राह---स्वेति । वृत्तौ---ऽविस्मयाख्यो भावः प्रतिभासतऽ इति किमर्थमुक्तमित्यत्राह--दृष्टान्तेति । शब्देन प्रतिभातीत्युक्तस्यैव विवरणम्--विस्मय इत्यादि । प्रतिभातीत्यस्यानुषङ्गः । दर्शयतीत्यत्र हेतुमाह--अनुग्रहयोगादिति । विरोधश्लेषयोरनुग्राह्यनुग्राहकभावादित्यर्थः । एकेति । एकतरस्य त्यागे ग्रहणे वा यन्निमित्तं तदभाव इत्यर्थः । वाच्यतयैवेत्यस्य व्यतिरेक इत्यनेनापि सम्बन्धो विवक्षित इत्याह---स्वतनोरधिकामितीति


यथा वा---
चमहिअमाणसकञ्चणपङ्काणिम्महिअपरिमला जस्य ।
अखण्डिअदाणपसारा बाहुप्पलिहा व्विअ गैन्दा ।।
( खण्डितमानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य ।
अखण्डितदानप्रसरा बाहुपरिधा इव गजेन्द्राः ।। इति छाया )
     अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते ।
     स चाक्षिप्तेऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहितस्वरूपस्त न


लोचनम्

भुजगशब्दार्थपर्यालोचनाबलादेव विषशब्दो जलमभिधायापि न विरन्तुमुत्सहते, अपि तु द्वितीयमर्थं हालाहललक्षणमाह । तदभिधानेन विनाभिधाया एवासमाप्तत्वात् । भ्रमिप्रभृतीनां तु मरणान्तानां साधारण एवार्थः । निराशीकृतत्वेन खण्डितानि यानि मानसानि शत्रुहृदयानि तान्येव काञ्चनपङ्कजानि । ससारत्वात्तैर्हेतुभूतैः । णिम्महिअपरिमला इति । गजेन्द्रशब्दवशाच्चमहिमशब्दः परिमलशब्दो दानशब्दश्च त्रोटनसौरभमदलक्षणानर्थान्प्रतिपाद्यापि न परिसमाप्ताभिधाव्यापारा भवन्तीत्युक्तरूपं द्वीतीयमप्यर्थमभिदधत्येव ।
     एवमाक्षिप्तशब्दस्य व्यवच्छेद्यं प्रदर्श्यैवकारस्य व्यवच्छेद्यं दर्शयितुमाह--स चेति । अभयार्थप्रतिपादनशक्तशब्दप्रयोगे, यत्र तावदेकतरविषयनियमनकारणमभिधाया

बालप्रिया

श्लेषमुपपादयति---भुजगेत्यादि । बलादेवेत्यस्य न विरन्तुमुत्सहते, अपि त्वहेत्यनेन सम्बन्धः । कुत इत्यत्राह--तदभीति । साधारण एवेति । तथा च तदंशेऽर्थश्लेष इति भावः । निराशीकृतत्वेनेति । आशात्र जयविषयिका बोध्या । काञ्चनपझत्वरूपणे गम्यं हेतुं दर्शयति---ससारत्वादिति । यथा कुमारसम्भवे " ध्रुवं वपुः काञ्चनपझनिर्मित"मित्यादि । ऽनिर्मथितपरिमलाऽ इत्यनेन लक्ष्यस्यार्थस्य विवरणम्--प्रसृतेत्यादि । प्रसृतः दिक्षु व्याप्तः प्रतापसारो येषां ते । एवंभूताः यस्य बाहुपरिधाः गजेन्द्रा एवेति सम्बन्धः । गजेन्द्रे विशेषणानि योजयति--गजेत्यादि । शब्दश्चेति । क्रमेणोति शेषः । उक्तरूपमिति । पूर्वोक्तमित्यर्थः । अभिदधत्येवेति । तस्यार्थस्यापि प्राकरणिकत्वादिति भावः । वृत्तौऽअत्र रूपकेऽति । अत्रेत्यस्य उक्तयोः श्लोकर्थोरित्यर्थः ।
     प्रतिपत्तिसौकर्यायोक्तवक्ष्यमामग्रन्थभावार्थं दर्शयति---उभयार्थेत्यादि । इति तात्पर्यमित्यन्तेन । उभयोरर्थयोः प्रतिपादने अभिधाने शक्तः समर्थो यः शब्दः तस्य प्रयोगे सति । एकेति । द्वयोरर्थयोरेकतरस्मिन्विषये यन्नियमनं नियन्त्रणमभिधायाः


शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिव्यवहारः । तत्र वक्रोक्त्यादिवाच्यालङ्कारव्यवहार एव । यथा---


लोचनम्

नास्ति, यथा--ऽयेन ध्वस्तमनोभवेनऽ इति । यत्र वा प्रत्युत द्वितीयाभिधाव्यापारसद्भावावेदकं प्रमाणमस्ति, यथा--ऽतस्या विनाऽ इत्यादौ, तत्र तावत्सर्वथाऽचमहिअऽ इत्यन्ते । सोऽर्थोऽभिधेय एवेति स्फुटमदः । यत्राप्यभिधाया एकत्र नियमहेतुः प्रकरणादिर्विद्यते तेन द्वितीयस्मिन्नर्थे नाभिधा सङ्क्रामति, तत्र द्वितीयोऽर्थोऽसावाक्षिप्त इत्युच्यते; तत्रापि यदि पुनस्तादृक्छब्दो विद्यते येनासौ नियामकः प्रकरणादिरफतशक्तिकः सम्पाद्यते । अत एव साभिधाशक्तिर्बाधितापि सती प्रतिप्रसूतेव तत्रापि न ध्वनेर्विषय इति तात्पर्यं । चशब्दोऽपिशब्दार्थे भिन्नक्रमः आक्षिप्तोऽप्याक्षिप्ततया झटिति सम्भावयितुमारब्धोऽपीत्यर्थः । न त्वसावाक्षित्पः, किं तु शब्दान्तरेणान्येनाभिधायाः प्रतिप्रसवनादभिहितस्वरूपः सम्पन्नः । पुनर्ग्रहणेन प्रतिप्रसवं व्याख्यातं सूचयति । तेनैवकार आक्षिप्ताभाऽ निराकरोतीत्यर्थः ।

बालप्रिया

इत्यस्यानेन सम्बन्धः, तस्य कारणं संयोगादि । इतीति । इत्यादावित्यर्थः । .यत्रेत्यनेन सम्बन्धः । द्वितीयाभिधेति । द्वितीयार्थभिधेत्यर्थः । तम्या विना इत्यादौ चमहिअ इत्यन्त इति । तस्या विनापीत्याद्युदाहरणचतुष्टय इत्यर्थः । तत्रेति । येनेत्यादौ तस्या इत्यादिचतुष्टयेचेत्यर्थः । तावदिति समप्रतिपत्तौ । सोऽर्थ इति द्वितीयोऽर्थ इत्यर्थः । तत्रापीत्यादि । ताद्गगिति येनेत्यस्य प्रतिनिर्देशः । येनेति । येन शब्देनेत्यर्थः । अपहतशक्तिकः प्रतिहतनियमनसामर्थ्यकः । साभिधाशक्तिः द्वितीयार्थाभिधानशक्तिः बाधितापि बोधाननुकूलाकृतापि प्रतिप्रसूता पुनर्बोधानुकूला कृता । एवेति । इवेति च पाठः । च शब्द इति । स चेत्यत्रत्यचशब्द इत्यर्थः. भिन्नक्रम इति । आक्षिप्तपदोत्तरं योज्य इत्यर्थः । आक्षिप्तोऽपीत्यस्य विवरणम्---आक्षिप्ततयेत्यादि । सम्भावनार्थकापिशब्देन गम्यमर्थमाह--न त्वित्यादि । वृत्तौऽसोऽलङ्कारऽ इत्यस्य श्लेष इत्यर्थः । द्वितीयोऽर्थ इति यावत् । ऽशब्दान्तरेणेऽत्यादेर्विवरणम्--शब्देत्यादि । शब्दान्तरेण शब्दविशेषेण । ननु श्लेषस्य शब्दान्तरेण सलेशादिपदेनाभिधानं न सम्भवति इत्यत आह--अभिधाया इत्यादि । अभिधायाः द्वितीयार्थाभिधायाः । पुनर्ग्रहणेनेति । ऽयत्र पुनऽरित्यत्रत्यपुनःशब्देनेत्यर्थः । व्याख्यातमिति । पूर्वोक्तमित्यर्थः । फलितमाह--तेनेति । ऽवक्रोक्त्याऽदीति । इमामेव वक्रोक्तिं विवृतोक्तिरिति कुवलयानन्दकाराः प्राहुः ।


दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया
तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्-
गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरं ।।


लोचनम्

     हे केशव, गोधूलिहृतया दृष्ट्या न किञ्चिद्दृष्टं मया तेन कारणेन स्खलितास्मिमार्गे । तां पतितां सतीं मां किं नाम कः खलु हेतुर्यन्नलम्बसे हस्तेन । यतस्त्वमेवैकोऽतिशयेन बलवान्निम्नोन्नतेषु सर्वेषामबलानां बालवृद्धाङ्गनादीनां खिन्नमनसां गन्तुमशक्नुवतां गतिरालम्बनाभ्युपाय इत्येवंविधेऽर्थे यदप्येते प्रकरणेन नियन्त्रिताभिधाशक्तयः शब्दास्तथापि द्वितीयेऽर्थे व्याख्यास्यमानेऽभिधाशक्तिर्निरुद्धा सती सलेशमित्यनेन प्रत्युज्जीविता । अत्र सलेशं ससूचनमित्यर्थः, अल्पीभवनं हि सूचनमेव । हे केशव ! गोप स्वामिन्! रागहृतयादृष्ट्येति । केशवगेन उपरागेण हृतया दृष्ट्येति वा सम्बन्धः । स्खलितास्मि खण्डितचरित्रा जातास्मि । पतितामिति भर्तृभावं मां प्रति । एक इत्यसाधारणसौभाग्यशाली त्वमेव । यतः सर्वासामबलानां मदनविधुरमनसामीर्ष्याकालुष्यनिरासेन सेव्यमानः सन्गतिः जीवितरक्षोपाय इत्यर्थः । एवं श्लेषालङ्कारस्य

बालप्रिया

     परागपदव्याख्यानं--धूलीति । मार्गे स्खलितास्मीति सम्बन्धः । एकशब्दो मुख्यार्थक इत्याशयेनाह--अतिशयेन बलवानिति । विषमेष्वित्यस्य व्याख्यानम्--निम्नोन्नतेष्विति । खिन्नमनसामित्यस्य भावार्थविवरणम्--गन्तुमित्यादि । ऽएते शब्दाऽ इति सम्बन्धः । केशवगोपरागादिशब्दा इत्यर्थः । ऽप्रकरणेनेऽत्यस्यऽनियन्त्रितेऽत्यनेन निरुद्धेऽत्यनेन च सम्बन्धः । अभिधाशक्तिरिति । एतेषामिति शेषः । प्रत्युज्जीविता प्रतिप्रसाविता । प्रत्युज्जीवनं विवृणोति--अत्रेत्यादि । सलेशमित्यस्य ससूचनमित्यर्थः । कथं लभ्यत इत्यत्राह--अल्पीति । द्वितीयमर्थं व्याचष्टे---हे केशवेत्यादि । केशव गोप इति सम्बोधनद्वयमिति भावः । स्वामिन्नितिऽनाथेऽत्यस्य विवरणं । प्रकारान्तरेण आह--केशवगेनेत्यादि । केशवगेन केशवविषयकेण उपरागेण अनुरागेण । पत्युर्भावः पतिता तामित्याह---भर्तृभावमिति । ऽअत्रान्तरऽ इत्वादिगद्यं ह र्षचरिते द्वितीयोच्छ्वासे स्थितं । मासद्बयमिति । चैत्रवैशाखात्मकमासद्वयमित्यर्थः । धवलान्यट्टानि येन स चासौ हासश्च धवलाट्टहासः, फुल्लाः विकसिताः मल्लिकाः फुल्लमल्लिकाः फुल्लमल्लिकानां धवलाट्टहासो यत्र स इति व्यधिकरणो बहुव्रीहिरिति व्याच्ष्टे---धवलानीत्यादि ।


     एवञ्जातीयकः सर्व एव भवतु कामं वाच्यश्लेषस्य विषयः । यत्र तु सामर्थ्याक्षिप्तं सदलङ्कारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनेर्विषयः । यथा---
     ऽअत्रान्तरे कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः फुल्लमल्लिकाधवलाट्टहासो महाकालःऽ ।
यथा च----
उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणं ।।


लोचनम्

विषयमवस्थाप्य ध्वनेराह---यत्र त्विति । कुसुमसमयात्मकं यद्युगं मासद्वयं तदुपसंहरन् । धवलानि हृद्यान्यट्टान्यापणा येन तादृक्फुल्लमल्लिकानां हासो विकासः सितिमा यत्र । फुल्लमल्लिका एव धवलाट्टहासोऽस्येति तु व्याख्यानेऽजलदभुजगजंऽ इत्येतत्तुल्यमेतत्स्यात् । महांश्चासौ दिनदैर्ध्यदुरतिवाहतायोगात्कालः समयः । अत्र ऋतुवर्णनप्रस्तावनियन्त्रिताभिधाशक्तयः, अत एवऽअवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीऽ इति न्यायमपाकुर्वन्तो महाकालप्रभृतयः शब्दा एतमेवार्थमभिधाय कृत कृत्या एव । तदनन्तरमर्थावगतिर्ध्वननव्यापारादेव शब्दशक्तिमूलात् ।
     अत्र केचिन्मन्यन्ते---ऽयेति एतोषां शब्दानां पूर्वमर्थान्तरेऽभिधान्तरं दृष्टं ततस्तथाविधेऽर्थान्तरे

बालप्रिया

हास इत्यस्य व्यख्यानं--विकास इति । तस्यैव विवरणं--सितिमेति । सितस्य भावः । सितिमा । यथाश्रुतार्थपरित्यागे बीजमाह--फुल्लेति । इत्येतत्तुल्यमेतत्स्यादिति । तथाचाभिमतध्वन्युदाहरणं न भवेदिति भावः । महत्वोपपादकं--दिनेत्यादि । दिनदैर्ध्यं दुरतिवाहता च तयोर्योगादित्यर्थः । ऽसामर्थ्याक्षिप्तंऽ सहकारिभूतेनार्थसामर्थ्येन व्यञ्जितं सत् । ऽअलङ्कारान्तरंऽ अलङ्कारविशेषः । ऽशब्दशक्त्या प्रकाशतेऽ प्राधान्येन शब्दशक्त्या भासत इत्यादिवृत्युक्तमुपपादयति---अत्रेत्यादि । ऋतुवर्णनरूपः ऋतुवर्णनस्य वा यः प्रस्तावः तेन नियन्त्रिताः तत्तदर्थेषु नियमिताः अभिधाशक्तयो येषां ते । अत एव प्रकरणादेव । इति न्यायमिति । यथोक्तं "योगाद्रूढेर्बलीयस्त्व"मिति । एतमेवार्थमिति । पूर्वोक्तार्थमित्यर्थः । तदनन्तरमर्थावगतिरिति । कृतादियुगसमयमुपसंहरन्मल्लिकाधवलमट्टहासं कुर्वन्भयङ्करो महाकालः महान्जगत्संहर्तृदेवताविशेष इत्याद्यर्थबोध इत्यर्थः ।
     अत्र मतभेदान्दशयति---अत्र केचिदित्यादि । एतेषामिति । महाकालादीनामित्यर्थः ।


लोचनम्

दृष्टतदभिधाशक्तेरेव प्रतिपत्तुर्नियन्त्रिताभिधाशक्तिकेभ्य एतेभ्यः प्रतिपत्तिर्ध्वननव्यापारादेवेति शब्दशक्तिमूलत्वं व्यङ्ग्यत्वं चेत्यविरुद्धम्ऽ इति ।
     अन्ये तु---ऽसाभिधैव द्वितीया अर्थसामर्थ्यं ग्रीष्मस्य भीषणदेवताविशेषसादृश्यात्मकं सहकारित्वेन यतोऽवलम्वते ततो ध्वननव्यापाररूपोच्यतेऽ इति ।
     एके तु---ऽशब्दश्लेषे तावद्भेदे सति शब्दस्य, अर्थश्लेषेऽपि शक्तिभेदाच्छब्दभेद इति दर्शने द्वितीयः शब्दस्तत्रानीयते । स च कदाचितभिधाव्यापारात्यथोभयोरुत्तरदानायऽश्वतो धावतिऽ इति; प्रश्नोत्तरादौ वा तत्र वाच्यलङ्कारता । यत्र तु ध्वननव्यापारादेव

बालप्रिया

अर्थान्तरे जगत्संहर्तृदेवताविशेषाद्यर्थे । दृष्टं ज्ञातं । दृष्टेति । दृष्टा ज्ञाता तदभिधाशक्तिर्येन तस्येत्यर्थः । नियन्त्रितेति । प्राकरणिकार्थे प्रकरणादिना नियमितेत्यर्थः । एतेभ्यः महाकालादिशब्देभ्यः । प्रतिपत्तिः अर्थान्तरप्रतीतिः । इतीति हेतौ । व्यह्ग्यत्वञ्जेति । यतोऽर्थान्तरे गृहीततत्तच्छब्दाभिधाशक्तिकस्यैव प्रतिपत्तुस्तदर्थान्तरस्य प्रतीतिर्भवति, ततश्शब्दशक्तिमूलत्वं, यतश्च सा प्रतीतिरभिधाया विरम्यव्यापाराभावेन ध्वननव्यापारादेव, ततस्तदर्थस्य व्यङ्ग्यत्वञ्जेत्यर्थः । मतमिदं काव्यप्रकाशकाराद्यभ्युपगतं ।
     मतान्तरमाह---अन्य इत्यादि । साभिधव द्वितीयेति । गृहीतपूर्वा द्वितीयार्थाभिधैवेत्यर्थः । ध्वननव्यापाररूपोच्यत इति सम्बन्धः । कुत इत्यत्राह---अर्थेत्यादि । अर्थसामर्थ्यमिति । सामर्थ्यक्षिप्तमिति ग्रन्थेनोक्तमर्थसामर्थ्यमित्यर्थः । तत्किमित्यत्राह---ग्रीष्मस्येत्यादि । भीषणेति । युगोपसंहरणादिना यद्देवताविशेषसाः दृश्यं तदात्मकमित्यर्थः । सहकारित्वेनेति । तदर्थान्तरबोधन इति शेषः । तत इत्यादि । अभिधादयो व्यापारा ह्यर्थबोधानुकूलशक्तिविशेषात्मकाः । सहकारिभेदेन तेषां भेदः । सङ्केतग्रहणमात्रसहकारेण शब्दस्यार्थबोधनशक्तिरभिधा । सङ्केतग्रहणातिरिक्तार्थसामर्थ्यादिसहकारेणार्थबोधनशक्तिस्तु ध्वननमतोऽत्र सा ध्वननरूपोच्यत इति भावः ।
     एक इत्यादि । तावदिति सम्प्रतिपत्तौ । शब्दस्य भेदे सतीति सम्बन्धः । भेदस्य सत्वादित्यर्थः । शक्तिभेदादिति । तत्तदर्थबोधानुकूलक्तिभेदादित्यर्थः । अर्थभेदादिति यावत् । तत्रेति । शब्दश्लेषेऽर्थश्लेषे चेत्यर्थः । आनीयत इति । अनुसन्धानेनेति भावः । सः द्वितीयश्शब्दः । कदाचिदिति । यदार्थद्वयेऽपि प्रकरणादिकं तदेत्यर्थः । अभिधाव्यापारादिति । अर्थद्वयस्याभिधेयत्वावश्यम्भावादिति भावः । आनीयत इत्यनुषङ्गः । अत्रोदाहरणमाह---यथेत्यादि । अभयोरिति । क इतो धावति, किङ्गुणविशिष्टश्चेति द्वयोः प्रश्नयोरित्यर्थः । श्वेत इति । श्वा इतः श्वेतोधवलश्च । प्रश्नोत्तरादौ वेति ।
"यत्तु पर्यनुयोगस्य निर्भेदः क्रियते बुधैः ।
विदग्धगोष्ठ्यां वाक्यैर्वा तद्वि प्रश्नोत्तरं विदुः" ।। इति लक्षणम् ।


लोचनम्

शब्द आनीतः, तत्र शब्दान्तरबलादपि तदर्थान्तरं प्रतिन्तरं प्रतिपन्नं प्रतियमानमूलत्वात्प्रतियमामेव युक्तम्ऽ इति ।
     इतरेतु--ऽद्वितीयपक्षव्याख्याने यदर्थसामर्थ्यं तेन द्वतीयाभिधैव प्रतिप्रसूयते, ततश्चद्वितीयोऽर्थोऽभिधीयत एव न ध्वन्यते, तदनन्तरं तु तस्य द्वितीयार्थस्य प्रतिपन्नस्य प्रथमार्थेन प्रकारणिकेन साकं या रूपणा सा तावद्भात्येव, न चान्यतः शब्दादिति सा ध्वननव्यापारात् । तत्राभिधशक्तेः कस्याश्चिदप्यनाशङ्कनीयत्वात् । तस्यां च द्वितीया शब्दशक्तिर्मूलं । तथा विना रूपणाया अनुत्थानात् । अत एवालङ्कारध्वनिरयमिति युक्तं । वक्ष्यते चऽअसम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीत्ऽ इत्यादि । पूर्वत्र तु सलेशपदेनैवासम्बद्धतानिराकृता ।

बालप्रिया

     यथा---
"काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरं ।
कथमुक्तं न जानासि कदर्थयसि यत्सखे" ।। इति ।
     अत्र कदर्थयसीत्येतत्ऽकथऽ वर्णाभ्यामुक्तं दर्यसीत्युत्तरं । आदिपदेन "येन ध्वस्ते"त्यादिसङ्ग्रहः । वाच्येति । श्लेषादिवाच्यालङ्कार इत्यर्थः । द्वयोरर्थयोः प्रकृतत्वादति भावः । यत्रेति । कुसुमसमयमित्यादावित्यर्थः । ध्वननव्यापारादेवेति । अभिधायाः प्रकृतार्थेनियमनेन व्यञ्जकत्वादेवेत्यर्थः । शब्दान्तरबलादिति । शब्दान्तरस्याभिधाशक्तेरित्यर्थः । प्रतिपन्नमपीत्यन्वयः प्रतीयेति । प्रतीयमानः ध्वननाद्गम्यमानः शब्दः मूलं यस्य तत्वादित्यर्थः । ध्वनिव्यापारमूलकत्वादिति यावत् । प्रतीयमानमेव व्यङ्ग्यमेव ।
     द्वितीयपक्षव्याख्याने इति । ऽअन्ये त्विऽत्याद्युक्तव्याख्यान इत्यर्थः । तेनेति । अर्थसार्थ्येनेत्यर्थः । द्वितीयाभिधेति । द्वितीयार्थाभिधेत्यर्थः । प्रतिपन्नस्य तस्य द्वितीयार्थस्येति सम्बन्धः । रूपणेति । अभेदारोप इत्यर्थः । आरोप्यमाणाभेद इति यावत् । इदमुपमादेरुपलक्षणम्. सा तावदिति । सा रूपणा । न चेत्यादि । भातीत्यनुषङ्गः । शब्दादन्यस्मान्न भातीत्यर्थः । किन्तु शब्दादे वेति भावः । तत्रेति । रूपणायमित्यर्थः । तस्यामिति । रूपणायामित्यर्थः । अनुत्थानादिति । प्रतियोगिभूतस्य द्वितीयार्थस्याप्रतीत्येति भावः । अत एव रूपणादिमात्रस्य व्यङ्ग्यत्वादेव । अलङ्कारेति । रूपकादीत्यर्थः । इति युक्तमिति । इति वचनं युज्यत इत्यर्थः । अन्यथा द्वतीयार्थस्य व्यङ्ग्यत्वेन वस्तुध्वनिव्यवहारोऽपि स्यादिति भावः । वक्ष्यत इति । वृत्ताविति शेषः । तत्र उपमानोपमेयभावः । कल्पयितव्य इत्युक्या तदंशस्यैव व्यङ्ग्यत्वज्ञापनादिति भावः । शब्दशक्त्या प्रकाशमाने इति ग्रन्थोऽप्येतत्पक्षानुकूलः प्रसङ्गादाह---पूर्वत्रेत्यादि । पूर्वत्र "दृष्ट्या केशवे"त्यादौ । निराकृतेति । तत्र हि द्वितीयार्थ एव प्राधान्येन विवक्षितः, प्रथमार्थस्तु


यथा वा---
दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टेः पयोभिः
पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।
दीप्तांशेर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो
गावो वः पावनानां पररमपरिमितां प्रीतिमुत्पादयन्तु ।।
     एषूदाहरणेषु शब्दशक्या प्रकाशमाने सत्यप्राकरणिकेऽर्थान्तरे वाक्यस्यासम्बद्धार्थाभिधायित्वं मा प्रसङ्क्षीदित्यप्राकारणिकप्राकरणिकार्थयोरुपमानोपमेयभावः कल्पयितव्यः सामर्थ्यादित्यर्थाक्षिप्तोऽयं श्लेषो न शब्दोपारूढ इति विभिन्न एव श्लेषादनुस्वानीपमव्यङ्ग्यस्य ध्वनेर्विषयः । अन्येऽपि


लोचनम्

शपदेनैवासम्बद्धता निराकृता । ऽयेन ध्वस्तऽ इत्यत्रासम्बद्धता नैव भाति । ऽतस्याविनापिऽ इत्यत्रापिशब्देनऽश्लाध्याऽ इत्यत्राधिकशब्देनऽभ्रमिंऽ इत्यादौ च रूपकेणासम्बद्धता निराकृतेति तात्पर्यं । पयोभिरिति पानीयैः क्षीरैश्च । संहारो ध्वंसः, एकत्र ढौकनं च । गावो रश्मयः सुरभयश्च ।
     असम्बद्धार्थाभिधायित्वमिति । असंवेद्यमानमेवेत्यर्थः । उपमानोपमेयभाव इति ।

बालप्रिया

तद्गोपनार्थतयेति भावः । अनेन तत्र रूपणादिकं नास्तीति चावेदितं । नैव भातीति । द्वयोरपि स्तुत्यतया प्रकृतत्वादिति भावः । ऽतात्पर्यम्ऽ इत्यन्तंऽइतरे विऽति मतं । एतन्मतानुरोधिनः कुवलयानन्दकारादयः । ऽअन्नतऽ इति । प्रोल्लसन्हारो यत्र, प्रोल्लसन्ती धारा यत्र च सः । कालागरूणा स इव च मलीमसः नीलः पयोधरः स्तनः जलधरश्च । तस्याः कामिन्याः प्रावृषश्चा कं युवानं पथिकञ्च । ऽदत्तानन्दाऽ इति सूर्यशतकस्थं । समुचितसमये पूर्वमाकृष्टानि पश्चात्सृष्टानि तैः दीप्तांशोः सूर्यस्य पावनानां परमुत्कृष्टं वर्तमानाः । लोचने व्याख्येयानिपदानि व्याचष्टे---पयोभिरित्यादि । रश्मिपक्षे पानीयैरिति सुरभिपक्षे क्षीररिति ।
     वृत्तौऽअसम्बद्धार्थाभिधायित्वऽमिति । प्रकृतार्थेनासम्बद्धो योऽर्थस्तदभिधायित्वमित्यर्थः । ऽमा प्रसाङ्क्षीदिऽति । प्रसक्तिविषयो मा भूदित्यर्थः । अत्रैष्टापत्तिं परिहर्तुं भावमाह---असंवेद्यमानमेवेति । असम्बद्धार्थाभिधायित्वं सहृदयैरप्रतीयमानमेवेत्यर्थः ।


चालङ्काराः शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्ये ध्वनौ सम्भवन्त्येव । तथा हि विरोधोऽपि शब्दशक्तिमूलानुस्वानरूपो दृश्यते । यथा स्थाण्वीश्वराख्यजनपदवर्णने भट्टबाणस्य---
     ऽयत्र च मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पझरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदिश्वसनाश्च प्रमदाःऽ ।
     अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा श्लेषोऽयमिति न शक्यं वक्तुं । साक्षाच्छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् । यत्र हि साक्षाच्छब्दावेदितो विरोधालङ्कारस्तत्र हि श्लिष्टोक्तौ वाच्यालङ्कारस्य विरोधस्य


लोचनम्

तेनोपमारूपेण व्यतिरेचननिह्नवादयो व्यापारमात्ररूपा एवात्रास्वादप्रतीतेः प्रधानं विश्रान्तिस्थानं, न तूपमेयादीति सर्वत्रालङ्कारध्वनौ मन्तव्यं । सामर्थ्यदिति । ध्वननव्यापारादित्यर्थः ।
     मातङ्गेत । मातङ्गवद्गच्छन्ति तान्शबरांश्च गच्छन्तीति विरोधः । विभवेषु रताः । विगतमहादेवे स्थाने च रताः । पझरागरत्नयुक्ताः पझसदृशलौहित्ययुक्ताश्च । ध्वलैर्द्विजैर्दन्तैः शुचि निर्मलं वदनं यासां धवलद्विजवदुत्कृष्टविप्रवच्छुचि वदनं च यासास् । यत्र हीति । यस्यां श्लेषोक्तौ काव्यरूपायां, तत्र यो विरोधः श्लेषो वेति सङ्करः तस्य विषयत्वं । स विषयो भवतीत्यर्थः । कस्य? वाच्यालङ्कारस्य वाच्यालङ्कृतेः वाच्यालङ्कृतित्वस्येत्यर्थः ।

बालप्रिया

अर्थः भावार्थः । तेनेति । उपमात्मकोपमानोपमेयभावकल्पनस्य कथनात्तस्य उपलक्षणत्वाच्चेत्यर्थः । उपमारूपणेत्यादि । उपमारूपकादिध्वनिस्थले उपमितिरूपणादिप्रतीतिक्रिया एवेत्यर्थः । मातङ्गवदिति । गजवदित्यर्थः । शबरांश्चेति । चण्डालांश्चेत्यर्थः । इति विरोध इति । चण्डालगमनरूपार्थस्य सद्वृत्तरूपशीलेन विरोध इत्यर्थः । आद्येनार्थेन च तत्परिहारः । एवमुपर्यपि बोध्यं । ऽगौर्यःऽ गौरवर्णाः पार्वत्यश्च । ऽश्यामाःऽ श्यामवर्णाः यौवनवत्यश्च । वृत्तौ--ऽसाक्षाच्छब्देनाप्रकाशितत्वाऽदिति । शीलवत्यश्चेत्यादौ चकाराणां समुच्चयार्थकत्वादिति भावः । वेति सङ्कर इति । विरोधस्य श्लेषस्य वेत्यत्र वाकारस्तत्सङ्करद्योतक इत्यर्थः । तस्य विषयत्वमित्यस्यैव विवरणम्---स इत्यादि । वाच्यालङ्कारस्येत्यस्य विषयत्वमित्यनेनान्वयमाकाङ्क्षापूर्वकं दर्शयति---कस्येत्यादिना । वाच्यालङ्कारस्येत्यस्य यथाश्रुतार्थमाह---वाच्यालङ्कृतेरिति । विवक्षितमाह---वाच्यालङ्कृतित्वस्येति ।


श्लेषस्य वा विषयत्वं । यथा तत्रेव---
     ऽसयवाय इव विरोधिनां पदार्थानां । तथाहि---सन्निहितबालान्धकारापि भास्वन्मूर्तिःऽ इत्यादौ ।
यथा वा ममैव---
सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कृष्णं ।
चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरं ।।
     अत्र हि शब्दशक्तिमूलानुस्वानरूपो विरोधः स्फुटमेव प्रतीयते । एवंविदो व्यतिरेकोऽपि दृश्यते । यथा ममैव---
खं येऽत्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो


लोचनम्

तत्रैव विरोधे श्लेषे वा वाच्यालङ्कारत्वं सुवचमिति यावत् । वालेषु केशेष्वन्धकारः कार्ष्ण्यं, बालः प्रत्यग्रश्चान्धकारस्तमः ।
     ननु मातङ्गेत्यादावपि धर्मद्वये यश्चकारः स विरोधद्योतक एव । अन्यथा प्रतधर्मं सर्वधर्मान्ते वा न क्वचिद्वा चकारः स्यात्यदि समुच्चयार्थः स्यादित्यभिप्रायेणोदाहरणान्तरमाह---यथेति । शरणं गृहमक्षयरूपमगृहं कथं । यो न धीशः स कथं धियामीशः । यो हरिः कपिलः स कथं कृष्णः । चतुरः पराक्रमयुक्तो यस्यात्मा स कथं निष्क्रियः । अरीणामरयुक्तानां यो नाशयिता स कथं चक्रं वहुमानेन धारयति । विरोध इति । विरोधनमित्यर्थः । प्रतियत इति । स्फुटं नोच्यते केनचिदिति भावः ।

बालप्रिया

तथा च विरोधश्लेषसङ्करस्य वाच्यालङ्कृतित्वनिरूपितं विषयत्वमिति वाक्यार्थः । विषयत्वमत्राश्रयत्वं बोध्यं । फलितमाह---तत्रैवेत्यादि । भास्वन्मूर्तिः प्रकाशमानतनुः सूर्यमूर्तिश्च ।
     सर्वेत्याद्युदाहरणान्तरभवतारयति---नन्वित्यादि । धर्मद्वये यश्चकार इति । मातङ्गगामिन्यश्शीलवत्यश्च गौर्यो विभवरताश्चेत्यादौ धर्मद्वयवाचकान्ते यश्चकार इत्यर्थः । एवकारेण समुच्चयद्योतकत्वव्यवच्छेदः । उक्तार्थे हेतुमाह---अन्यथेत्यादि । अन्यथा विरोधद्योतकत्वाभावे तदेति शेषः । अन्यथा चकारो यदि समुच्चयार्थस्स्यात्तदा प्रतिधर्मं सर्वधर्मान्ते वा स्यात्, क्वचिद्वा न स्यादित्यन्वयः । सर्वधर्मान्त इत्यत्र सर्वशब्दान्त इति च पाठः । चकारस्यात्र समुच्चयार्थकत्वे "घटञ्च पठञ्च पुस्तकञ्चानय, घटं पटं पुस्तकञ्चानय, घटं पटं पुस्तकमानय इतिपत्प्रयोगस्स्यादित्यर्थः । गृहमगृहमित्यादि विरूद्धार्थकथनं । शरणं रक्षितारं । अक्षयं नाशरहितमित्याद्यविरुद्धार्था बोध्याः विरोधनमिति । विरोधनक्रियेत्यर्थः । स्फुटमिति । निस्सन्देहमित्यर्थः । प्रतीयत इत्यस्य ध्वन्यत इत्यर्थ इत्याह--नोच्यते केनचिदिति ।


ये पुष्णान्ति सरोरुहश्रियमपि क्षिप्ताब्जभासश्च ये ।
ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरां-
स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ।।
     एवमन्येऽपि शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्यध्वनिप्रकाराः सन्ति ते सहृदयैः स्वयमनुसर्तव्याः । इह तु ग्रन्थविस्तरभयान्न तत्प्रपञ्चः कृतः ।
अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते ।
यस्तात्पर्येण वस्त्वन्यद्य्वनक्त्युक्तिं विना स्वतः ।। २२ ।।


लोचनम्

नखैरुद्भासन्ते येऽवश्यं खे गगने न उद्भासन्त । उभये रश्म्यात्मानोऽङ्गुलीपार्ष्ण्याद्यवयविरूपाश्चेत्यर्थः ।।२१ ।।
     एवं शब्दशक्त्युद्भवं ध्वनिमुक्त्वार्थशक्त्युद्भवं दर्शयति---अर्थेति । अन्य इति शब्दशक्त्युद्भवात् । स्वतस्तात्पर्येणेत्यभिधाव्यापारनिराकरणपरमिदं पदं ध्वननव्यापारमाह न तु तात्पर्यशक्तिं । सा हि वाच्यार्थप्रतीतावेवोपक्षीणेत्युक्तं प्राक् । अनेनैवाशयेन

बालप्रिया

     खमिति । खमाकाशं । ये किरणाः लूनं विनाशितं तमस्तिभिरं पापञ्च यैस्ते । ये वेति । ये चरणाः । नखोद्भासिन इत्यस्य वाच्यं व्यङ्ग्यञ्चार्थमाह---नखैरित्यादि । ये किरणाः, सरोरुहाणां पझानां श्रियं कान्तिं पुष्णन्ति ये चरणाः । क्षिप्तेति । अधः कृतपझकान्तयः विनाशितपझकान्तयश्च ये किरणाः, क्षितिभृतां पर्वतानां मूर्धसुशृङ्गेषु शिरस्सु च ये चरणाः । अमराणां देवानां शिरांसि आक्रामन्ति प्रणामकाले स्पृशन्ति तेष्वनवभासिनश्च । लोचने---अङ्गुलीत्यादि । चरणा इत्यार्थः । अ६ लूनतमस्त्वादिधर्मैः किरणतुल्यानां दिनपतेश्चरणानां गगनानुद्भासित्वादिभिः किरणेभ्यो व्यतिरेको ध्वनित इति बोध्यम् ।। २.१ ।।
     ऽअर्थेऽत्यादि कारिकायांऽअन्यः अर्थशक्त्युद्भवस्तु तत्र भवति, यत्र स अर्थः प्रकाशते, य उक्तिं विना स्वतस्तात्पर्येण अन्यद्वस्तु व्यनक्तीऽत्यन्वयः । कस्मादन्य इत्यत्राह लोचने---शब्देति । स्वतस्तात्पर्येणेत्येतद्व्याचष्टे--स्वत इत्यादि । इतीदमिति सम्बन्धः । इदं पदमिति च पाठः । सेति । तात्पर्यशक्तिरित्यर्थः । अनेनेत्यादि । स्वतस्तात्पर्येणेत्यस्य विवरणं वृत्तौ--ऽस्वसामर्थ्यादिऽतिति भावः । ऽशब्दव्यापारऽमिति । अभिधामित्यर्थः । वृत्तौऽलीलेऽत्यादि । इदमधोमुखत्वस्याप्युपलक्षणं । ऽप्रकाशयतीऽति । अनुभाववत्वाद्व्यञ्जयतीत्यर्थः । यदि लज्जात्मकव्यभिचारिप्रतीतिस्तर्ह्ययमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेर्विषयो न तु वस्तुध्वनेरिति शङ्कते--ऽन चेऽत्यादि । समाधत्तेऽयतऽ इत्यादि । नन्वत्र व्यभिचारिणो वाच्यत्वरूपसाक्षाच्छब्दनिवेदितत्वस्य कथनमसङ्गतं,


     यत्रार्थः स्वसामर्थ्यादर्थान्तरमभिव्यनाक्ति शब्दव्यापारं विनैव सोऽर्थशक्युद्भवो नामानुस्वानोपमव्यङ्ग्यो ध्वनिः ।
     यथा---
एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्र्राणि गणयामास पार्वती ।।
     अत्र हि लीलाकमलपत्र्रगणनमुपसर्जनीकृतस्वरूपं शब्दव्यापारं विनैवार्थान्तरं व्यभिचारिभावलक्षणं प्रकाशयति । न चायमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेर्विषयः । यतो यत्र साक्षाच्छब्दनिवेदितेभ्यो विभावानुभावव्यभिचारिभ्यो रसादीनां प्रतीतिः, स तस्य केवलस्य मार्गः । यथा कुमारसम्भवे मधुप्रसङ्गे वसन्तपुष्पाभरणं वहन्त्या देव्या आगमनादिवर्णनं मनोभवशरसन्धानपर्यन्तं शम्भोश्च परिवृत्तधैर्यस्य चेष्टाविशेषवर्णनादि साक्षाच्छब्दनिवेदितं ।


लोचनम्

वृत्तौ व्याचष्टे---यत्रार्थः स्वसामर्थ्यादिति । स्वत इति शब्दः स्वशब्देन व्याख्यातः । उक्तिं विनेति व्याचष्टे---शब्दव्यापारं विनैवेति । उदाहरति---यथा एवमिति । अर्थान्तरमिति लज्जात्मकं । साक्षादिति । व्यभिचारणां यत्रालक्ष्यक्रमतया व्यवधिवन्ध्यैव प्रतिपत्तिः स्वविभावादबलात्तत्र साक्षाच्छब्दनिवेदितत्वं विवक्षितमिति न पूर्वापरविरोधः । पूर्वं ह्युक्तं व्यभिचारिणामपि भावत्वान्न स्वशब्दतः प्रतिपत्तिरित्यादि विस्तरतः । एतदुक्तं भवति--यद्यपि रसभावादिरर्थो ध्वन्यमान एव भवति न वाच्यः कदाचिदपि, तथापि न सर्वोऽलक्ष्यक्रमस्य विषयः । यत्र हि विभावानुभावेभ्यः स्थायिगतेभ्यो व्यभिचारिगतेभ्यश्च पूर्णोभ्यो झटित्येव

बालप्रिया

तस्य तदभावस्य पूर्वमुक्तत्वादित्यतस्साक्षाच्छब्दनिवेदितत्वं विवृणोति लोचने---व्यभिचारिणामित्यादि । ऽयत्र व्यभिचारिणां स्वस्वविभावादिबलादलक्ष्यक्रमतया व्यवधिवन्ध्यैव प्रतिपत्तिरिऽत्यन्वयः । व्यवधिवन्ध्या अव्यवधाना । पूर्वोक्तं स्मारयति---पूर्वमित्यादि । इत्यादि विस्तरतः पूर्वमुक्तं हीति सम्बन्धः । ऽतस्मादयमन्यो ध्वनेः प्रकारऽ इत्यन्तवृत्तिग्रन्थस्य सारार्थमाह---एतदुक्तमित्यादि । सर्वः अलक्ष्यक्रमस्य इतिच्छेदः । स्थायिगतेभ्यः स्थायिसम्बन्धिभ्यः । ऽनिर्वाणेऽत्यादि कुमारसम्भवतृतीयसर्गस्थं । इत्यादावित्यादिपदेनऽआवर्जिता किञ्चिदिवेऽत्यादेः


इह तु सामर्थ्याक्षिप्तव्यभिचारिमुखेन रसप्रतीतिः तस्मादयमन्यो ध्वनेः प्रकारः ।


लोचनम्

रसव्यक्तिस्तत्रास्त्वलक्ष्यक्रमः । यथा---
निर्वाणभूयिष्ठमथास्य वीर्यं सन्धुक्षयन्तीव वपुर्गुणेन ।
अनुप्रयाता वनदेवताभिरदृश्यत स्थावरराजकन्या ।।
     इत्यादौ सम्पूर्णालम्बनोद्दीपनविभावतायोग्यस्वभाववर्णनं ।
प्रतिग्रहीतुं प्रणयिप्रियत्वात्र्रिलोचनस्तामुपचक्रमे च ।
संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणं ।
     इत्यनेन विभावतोपयोग उक्तः ।
हरस्तु किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ।।
     अत्र हि भगवत्याः प्रथममेव तत्प्रवणत्वात्तस्य चेदानीं तदुन्मुखीभूतत्वात्प्रणयिप्रियतया च पक्षपातस्य सूचितस्य गाढीभावाद्रत्यात्मनः स्थायिभावस्यौत्सुक्यावेगचापल्यहर्षादेश्च व्यभिचारिणः साधारणीभूतोऽनुभाववर्गः प्रकाशित इति विभावानुभावचर्वणैव व्यभिचारिचर्वणायां पर्यवस्यति । व्यभिचारिणां पारतन्त्र्यादेव स्रक्सूत्रकल्पस्थायिचर्वणाविश्रान्तेरलक्ष्यक्रमत्वं । इह तु पझदलगणनमधोमुखत्वं चान्यथापि कुमारीणां सम्भाव्यत इति झटिति न लज्जायां विश्रमयति हृदयं, अपि तु प्राग्वृत्ततपश्चर्यादिवृत्तान्तानुस्मरणेन

बालप्रिया

परिग्रहः । सम्पूर्णेत्यादि । सम्पूर्णेति वर्णनविशेषणं । आलम्बनमत्र देवी, उद्दीपनं सौन्दर्यवसन्तपुष्पाभरणादि । विभावतोपयोग इति । विभावताया उपयोग इत्यर्थः । उक्त इति । प्रतिग्रहीतुमित्यादिना सम्मोहनमित्यादिना च दर्शित इत्यर्थः । अत्र हीत्यस्यानुभाववर्गः प्रकाशित इत्यनेन सम्बन्धः । तत्प्रवणत्वादिति । हरासक्तत्वादित्यर्थः । तस्येति । हरस्येत्यर्थः । तदुन्मुखीति । भगवत्युन्मुखीत्यर्थः । प्रणयिप्रियतयेति तद्धेतुकमालाग्रहणोपक्रमेणेत्यर्थः । सूचितस्येत्यनेनास्य सम्बन्धः । सूचितो यः पक्षपातः गाढीभावद्रसात्मकस्थायिरूपः तस्य व्यभिचारिणश्च, योऽनुभाववर्ग इति सम्बन्धः । अनुभावः धैर्यपरिवृत्तिविलोचनव्यापरणादिरूपः । इतीति हेतौ । विभावानुभावचर्वणैवेत्येवकारेण कारणान्तरव्यवच्छेदः । पारतन्त्र्यादिति । स्थायिपरतन्त्रत्वादित्यर्थः । स्रगिति । स्रक्स्थानीया व्यभिचारिणः, सूत्रस्थानीयः स्थयी । इह त्विति । ऽएवं वादिनीऽत्यादावित्यर्थः । अन्यथापीति । लज्जातिरिक्तहेतुनापीत्यर्थः । हृदयमिति । प्रतिपत्तुरिति शेषः । तत्रेति । लज्जायामित्यर्थः । क्रमव्यङ्ग्यतैवेति । लज्जाया इति शेषः । प्रागिति । प्राग्वृत्तो यस्तपश्चर्यादिवृत्तान्तो देव्याः तदनुस्मरणेन तद्द्वारेणेत्यर्थः । स्मारणेनेति वा पाठः । तत्र लज्जायां । करोत उत्पादयति । प्रतिपत्तुरिति शेषः ।


     यत्र च शब्दव्यापारसहायोऽर्थोन्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेर्विषयः । यथा---
सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितं ।।
     अत्र लीलाकमलनिमीलनस्य व्यञ्जकत्वमुक्त्यैव निवेदितं ।


लोचनम्

तत्र प्रतिपत्तिं करोतीति क्रमव्यङ्ग्यतैव । रसस्त्वत्रापि दूरत एव व्यभिचारिस्वरूपे पर्यालोच्यमाने भातीति तदपेक्षयालक्ष्यक्रमतैव । लज्जापेक्षया तु तत्र लक्ष्यक्रमत्वं । अमुमेव भावमेवशब्दः केवलशब्दश्च सूचयति ।
     ऽउक्तिं विनेऽति यदुक्तं तद्य्वच्छेद्यं दर्शयितुमुपक्रमते---यत्र चेति । चशब्दस्तुशब्दस्यार्थे । अस्येति । अलक्ष्यक्रमस्तु तत्रापि स्यादेवेति भावः । उदाहरत--सङ्केतेति । व्यञ्जकत्वमिति । प्रदोषसमयं प्रतीति शेषः । उक्त्यैवेति आद्यपादत्रयेणेत्यर्थः । यद्यपि चात्र शब्दान्तरसन्निधानेऽप प्रदोषार्थं प्रति न कस्यचिदभिधाशक्तिः पदस्येति व्यञ्जकत्वं न विघटितं, तथापि शब्देनैवोक्तमयमर्थोऽर्थान्तरस्य व्यञ्जक इति ।

बालप्रिया

क्रमव्यङ्ग्यतैवेति । लज्जायास्संलक्ष्यक्रमव्यङ्ग्यत्वमेवेत्यर्थः । रस इति । शृङ्गार इत्यर्थः । अत्रापिऽएवंवादिनीऽत्यादावपि । दूरत एव विलम्बेनैव । पर्यालोच्यमान इत्यनेन सम्बन्धः । लज्जारूपव्यभिचारिप्रतीतिर्विलम्बेनैव, तत्प्रतीतौ सत्याञ्च झटिति रसप्रतीतिरित्यर्थः । तदपेक्षया रसापेक्षया । अलक्ष्यक्रमतैवेत्येवकारेण लक्ष्यक्रमत्वव्यवच्छेदः । तर्हि कथमत्र लक्ष्यक्रमत्वमुक्तमित्यत आह--लज्जेति एवशब्दः केवलशब्दश्चेति । ऽअलक्ष्यक्रमव्यङ्ग्यस्यैवेऽत्यत्रत्यैवशब्दःऽस तस्य केवलस्येऽत्यत्रत्यकेवलशब्दश्चेत्यर्थः । वृत्तौऽअस्यध्वनेऽरित्यस्य संलक्ष्यक्रमध्वनेरित्यर्थः । तदुक्तेः फलमाह--अलक्ष्यक्रमस्त्विति ।
     सङ्केतेति । विटं सङ्केतकाले मनो यस्य तं तज्जिज्ञासुं । अत एव हसद्भ्यां नेत्राभ्यामर्पितं सूचितं आकूतं सङ्केतकालजिज्ञासारूपाभिप्रायो येन तं । ज्ञात्वेति सम्बन्धः । लोचने--प्रदोषार्थं प्रति न कस्यचिदभिधाशक्तिः पदस्येति । प्रदोषरूपार्थः केनापि पदेनाभिधया नप्रतिपाद्यत इत्यर्थः । इतीति हेतौ । न विघटितमिति । अतश्चात्र ध्वनिविषयत्वमेव युक्तमिति भावः । शब्देनेति । अयमर्थोऽर्थान्तरस्य व्यञ्जक इति शब्देनैवोक्तमित्यन्वयः । पझनिमीलनस्य प्रदोषसमयव्यञ्जकत्वमाद्यपादत्रयात्मकशब्देनैव प्रदर्शितमित्यर्थः । ततश्च तदपहस्तितमिति सम्बन्धः । गोप्यति । गोप्यमानतया उदितमुत्पन्नं यच्चारुत्वं तदात्मकमित्यर्थः । प्राणितं


तथा च---
शब्दार्थशक्त्या क्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर्ध्वनेः ।। २३ ।।
     शब्दशक्त्यार्थशक्त्या शब्दार्थशक्त्या वाक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशीक्रियते सोऽस्मादनुस्वानोपमव्यङ्ग्याद्ध्वनेरन्य एवालङ्कारः । अलक्ष्यक्रमव्यङ्ग्यस्य वा ध्वनेः सति सम्भवे स तादृगन्योऽलङ्कारः ।


लोचनम्

ततश्च ध्वनेर्यद्गोप्यमानतोदितचारुत्वात्मकं प्राणितं तदपहस्तितं । यथा कश्चिदाह--ऽगम्भीरोऽहं न मे कृत्यं कोऽपि वेद न सूचितं । किञ्चिद्ब्रवीमिऽ इति । तेन गाम्भीर्यसूचनार्थः प्रत्युत आविष्कृत एव । अत एवाह---व्यञ्जनकत्वमिति उक्त्यैवेति च ।। २.२ ।।
     प्रकान्तप्रकारद्वयोपसंहारं तृतीयप्रकारसूचनं चैकेनैव यत्नेन करोमीत्याशयेन साधारणमवतरणपदं प्रक्षिपति वृत्तिकृत्---तथा चेति । तेन चोक्तप्रकारद्वयेनायमपि तृतीयः प्रकारो मन्तव्य इत्यर्थः । शब्दश्चार्थश्च शब्दार्थौ चेत्येकशेषः । सान्यैवेति । न ध्वनिरसौ, अपि तु श्लेषादिरलङ्कार इत्यर्थः । अथवा ध्वनिशब्देनालक्ष्यक्रमः तस्यालङ्कार्यस्याङ्गिनः

बालप्रिया

जीवितं । दृष्टान्तमाह--यथेत्यादि । गम्भीर इति । गम्भीरो जनस्स्वकृत्यं वाचा न वदति, किन्तु कदाचित्सूचयतीति लोकस्थितिमभिप्रेत्य कस्यचिदुक्तिरियं । अहं गम्भीरो न भवामि । अतः मे कृत्यं सूचितं सत्कोऽपि न वेद न जानाति । अतः किञ्जिद्ब्रवीमीत्यन्वयः । तेनेति । उक्तेन वाक्येनेत्यर्थः । गाम्भीर्यसूचनार्थ इति । गाम्भीर्यसूचको वदनविकाराद्यभावरूपोऽर्थ इत्यर्थः । आविष्कृतः प्रकाशितः । उक्ताभिप्रायेणैव वृत्तौऽव्यञ्जकत्वमुक्त्यैव निवेदितऽ मित्युक्तं, न तु व्यङ्ग्यार्थः शब्दान्तरेण प्रदर्शित इतीत्याह--अत एवेति ।। २.२ ।।
     ऽतथाचेऽत्यस्य यथाश्रुतार्थे साङ्गत्याभावादवतारयन्विवृणोति---प्रक्रान्तेत्यादि । प्रक्रान्तप्रकारद्वयेति । शब्दशक्तिमूलार्थशक्तिमूलध्वनिद्वयेत्यर्थः । तृतीयप्रकारेति । शब्दार्थेभयशक्तिमूलध्वनिप्रकारेत्यर्थः । इत्येकशेष इति । शब्दश्चार्थश्च शब्दार्थौ शब्दार्थौच शब्दार्थौ च शब्दार्थाः तेषां शक्तेत्यर्थात्र्रिविधोऽपि भेदस्सङ्गृहीत इति भावः । कारिकायांऽक्षिप्तोऽपीऽति पाठः । आक्षिप्त इतिच्छेदः । ऽसेऽतिऽयत्रेऽत्यस्य प्रतिनिर्देशः । तत्काव्यमित्यर्थः । यद्वा--तत्रेति शेषः । सेति व्यङ्ग्यार्थ इत्यर्थः । साम्येत्याद्यन्तपादो द्वेधा वृत्तौ विवृतः, तदनुरोधेनाद्यमर्थं विवृणोति लोचने---न ध्वनिरित्यादि ।


तत्र शब्दशक्त्या यथा---
वत्से मा गा विषादं श्वसनमुरुजवं सन्त्यजोर्ध्वप्रवृत्तं
कम्पः को वा गुरुस्ते भवतु बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणामिति भयशमनच्छझना कारयित्वा
यस्मै लक्ष्मीमद्वाद्वः स दहतु दुरितं मन्थमूढां पयोधिः ।।


लोचनम्

स व्यङ्ग्योऽर्थोऽन्यो वाच्यमात्रालङ्कारापेक्षया द्वितीयो लोकोत्तरश्चालङ्कार इत्यर्थः । एवमेव वृत्तौ द्विधा व्याख्यास्यति । विषमत्तीति विषादः । ऊर्ध्वप्रवृत्तमग्निमित्यत्र चार्थो मन्तव्यः । कम्पोऽपाम्पतिः को ब्रह्मा वा तव गुरुः । बलभिदा इन्द्रेण जृम्भितेन ऐश्वर्यमदमत्तेनेत्यर्थः । जृम्भितं च गात्रसंमर्दनात्मकं बलं भिनत्ति आयासकारित्वात् । प्रत्याख्यानमिति वचसैवात्र द्वितीयोऽर्थोऽभिधीयत इति निवेदितं । कारयित्वेति । सा हि कमला पुण्डरीकाक्षमेव हृदये निधायोत्थितेति स्वयमेव देवान्तराणां प्रत्याख्यानं करोति । स्वभावसुकुमारतया तु मन्दरान्दोलितजलधितरङ्गभङ्गपर्याकुलीकृतां तेन प्रतिबोधयता तत्समर्थाचरणमन्यत्र दोषोद्घाटनेन अत्र याहीति चाभिनयविशेषेण सकलगुणादरदर्शकेन कृतं । अत एव मन्थमूढामित्याह ।

बालप्रिया

असौ व्यङ्ग्यार्थः । द्वितीयं व्याचष्टे---अथवेत्यादि । पूर्वस्मिन्पक्षे ध्वनेरिति पञ्जम्यन्तं संलक्ष्यक्रमध्वनिपरमस्मिंस्तु षष्ठ्यन्तमसंलक्ष्यक्रमध्वनिपरमित्याह---ध्वनिशब्देनेत्यादि । उक्त इति शेषः । तादृगन्य इति वृत्यनुरोधेनान्यपदं व्याचष्टे---वाच्येत्यादि । तादृगत्यस्य विवरणम्----लोकोत्तर इति ।
     वत्से इति । हे वत्से त्वं विषादं दुःखं मा गाः । ऊर्ध्वप्रवृत्तमुरुजवं श्वसनं दीर्घश्वासं सन्त्यज संवृण्विति च पाठः, गुरुः महानित्यादि यथाश्रुतार्थस्य स्पष्टत्वादर्थान्तरं विवृणोति---विषमित्यादि । विषाद इति । शिव इत्यर्थः । ऊर्ध्वप्रवृत्तमित्यस्य विवरणम्---ऽअग्निम्ऽ इति । चार्थो मन्तव्य इति । श्वसनमूर्ध्वप्रवृत्तञ्चेति समुच्चयो ज्ञातव्य इत्यर्थः । गुरुः पिता । बलभिदा जृम्भितेनेत्यस्य वाच्यार्थञ्च प्रसङ्गादाह--जृम्भितञ्चेत्यादि । द्वितीयार्थसाय स्वोक्त्याविष्करणं दर्शयति---प्रत्याख्यानमिति । वचसैवेति । निवेदितमित्यनेनान्वयः । द्वितीयोऽर्थ इति । शिवादिपरित्यागरूपार्थ इत्यर्थः । कारयत्वेति । णिजर्थोऽत्र तत्समर्थाचरणरूपो न त्वप्रवृत्तप्रवर्त्तनरूपः, तस्य रसाननुगुणत्वादित्यह---सा हीत्यादिना । सुकुमारतया पर्याकुलीकृतामिति सम्बन्धः । तामिति शेषः । प्रतिबोधयता तेने तत्समर्थाचरणं कृतमित्यन्वयः । तेन समुद्रेण । अन्यत्रेति । शिवादिदेवेष्वित्यर्थः । दाषोद्घाटनेनेति । विषादादिपदैः विषभक्षणादिदोषणां प्रकाशनेनेत्यर्थः । अत्रेति । लोकोत्तरगुणविशिष्टे श्रीनारायणे इत्यर्थः ।


अर्थशक्त्या यथा----
अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणरित्र तातो
निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र ।
अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा
पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वं ।।
उभयशक्त्या यथा---ऽदृष्ट्या केशवगोपरागहृतयाऽ इत्यादौ ।


लोचनम्

इत्युक्तप्रकारेण भयनिवारणव्याजेन सुराणां प्रत्याख्यानं मन्थमूढां लक्ष्मीं कारयित्वा पयोधिर्यस्मै तामदात्स वो युष्माकं दुरितं दहत्विति सम्बन्धः ।
     अम्बेति । अत्रैकैकस्य पदस्य व्यञ्जक्तवं सहृदयैः सुकल्प्यमिति स्वकण्ठेन नोक्तं । व्याजशब्दोऽत्र स्वोक्तिः । एवमुपसंहारव्याजेन प्रकारद्वयं सोदाहरणं निरूप्यतृतीयं प्रकारमाह---उभयेति । शब्दशक्तिस्तावद्गोपरागादि शब्दश्लेषवशात् ।

बालप्रिया

सकलेति । भगवत्सम्बन्धिषु सकलगुणेषु य आदरः स्वस्य बहुमतिस्तद्दर्शकेनेत्यर्थः । अत एवेति । समर्थाचरणस्य णिजर्थत्वादेवेत्यर्थः । मन्थमूढामिति । तज्ज्ञापकमिति भावः । उत्तरार्ध व्याचष्टे---इतीत्यादि । लक्ष्मीं कारयित्वेति । "हृक्रोरन्यतरस्या" मित्यनेन कर्मसंज्ञा ।
     सुरूपं कञ्चित्पान्थमवलोक्य प्रवृद्धमदना काचित्स्वैरिणो तमाह---अम्बेति । शेते इत्यस्योत्तरत्राप्यनुषङ्ग । परिणतवयसां वृद्धानां । निश्शेषैरगारकर्मभिस्स्वयमनुष्ठितैः गृहकर्मभिः यः श्रमस्तेन शिथिला अस्वस्था तनुर्यस्याः सा । ऽअवसरेऽति । अवसरस्य तत्तस्स्थले मात्रादिशयनादिरूपस्य प्रस्तावस्य व्याहृतिरुक्तिः तस्य व्याजः सः पूर्वो यत्र तत्तथा । अत्रावयोर्यथाकामं रन्तुं शक्यं कोऽपि न जानीयात्, त्वद्दर्शनेन कामार्ता मां रमणेन प्रीणयेति वक्त्री बोधयतीति वक्तृवैशिष्ट्यादिज्ञानवतां सहृदयानां व्यज्यते । परन्तु व्यङ्ग्यार्थो यमवसरव्याहृतिव्याजपूर्वमिति व्याजशब्देन कविना आविष्कृतः । सुकल्प्यमिति । अम्बा तात इत्याभ्यां पित्रोर्नैसर्गिकवात्सल्यशालित्वेन तौ मम सर्वत्राप्यनुकूलावेवेति । तद्विसेषणाभ्यां निद्रापरवशत्वं परसाहाय्यं विनाशयनादुत्थानाशक्तत्वमित्यादि, निश्शेषेत्यादिना दास्या गाढनिद्रितत्वम्, उक्तैर्हेतुभिस्तेषामनाशङ्कनीयत्वं, दासीत्यनेन स्वज्ञावर्तित्वं, पापेत्यनेनाद्यावाधेसरससम्भोगानुभवराहित्यम्, एकेत्यनेन पुरुषान्तरानुभोगाभावः, अत एव सम्भोगौत्सुक्यं, कतिपयेत्यादिना पत्युरचिरात्प्रत्यागमनमनाशङ्क्यमिति प्राणनाथैत्यनेन पतिविषयकानुरागाभाव इति च द्योत्यत इत्यूह्यमिति भावः । इतीति हेतौ । स्वकण्ठेन नोक्तमिति । स्वयं व्याख्यानेन न प्रदर्शितमित्यर्थः ।


प्रौढोक्तिभात्रनिष्पन्नशरीरः सम्भवी स्वतः ।
अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ।। २४ ।।
     अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्ये ध्वनौ यो व्यञ्जकोऽर्थ उक्तस्तस्यापि द्वौ प्रकारौ---कवेः कविनिबद्धस्य वा वक्तुः प्रौढोक्तिमात्रनिष्पन्नशरीर एकः, स्वतस्सम्भवी च द्वितीयः ।


लोचनम्

अर्थशक्तिस्तु प्रकरणवशात् । यावदत्र राधारमणस्याखिलतरुणीजनच्छन्नानुरागगरिमास्पदत्वं न विदितं तावदर्थान्तरस्याप्रतीतेः, सलेशमिति चात्र स्वोक्तिः ।। २.३ ।।
     एवमर्थशक्त्युद्भवस्य सामान्यलक्षणं कृतम्. श्लेषाद्यलङ्करेभ्यश्चास्य विभक्तो विषय उक्तः । अधुनास्य प्रभेदनिरूपणं करोति---प्रौढोक्तीत्यादिना । योऽर्थान्तरस्य दीपको व्यञ्जकोऽर्थ उक्तः सोऽपि द्विविधः । न केवलमनुस्वानोपमो द्विविधः, यावत्तद्भेदो यो द्वितीयः सोऽप व्यञ्जकार्थद्वैविध्यद्वारेण द्विविध इत्यपिशब्दस्यार्थः । प्रौढोक्तेरप्यवान्तरभेदमाह---कवेरिति । तेनैते त्रयो भेदा भवन्ति । प्रकर्षेम ऊडः सम्पादयितव्येन वस्तुना प्राप्तस्तत्कुशलः प्रौढः । उक्तिरपि समर्पयितव्यवस्त्वर्पणोचिता प्रौढेत्युच्यते ।

बालप्रिया

अर्थशक्तिस्तु प्रकरणवशादित्युक्तमेव विवृणोति---यावदित्यादि ।। २.३ ।।
     अर्थोऽपीत्यिपिशब्दार्थमाह---न केवलमित्यादि । कवेरित्यादिकमवतारयति---प्रौढोक्तेरिति । एते त्रयो भेदा इति । कविप्रौढोक्तिमात्रसिद्धः, कविनिबद्धवक्तृप्रौर्ढेक्तिमात्रसिद्धः, स्वतस्सम्भवी चेति त्रयो भेदा इत्यर्थः । प्रौढपदव्युत्पत्तिमाह--प्रकर्षेणेत्यादि । ऊढ इत्यस्य व्याख्यानं--सम्पादेत्यादि । तदिति । तस्मादित्यर्थः । सम्पादयित्व्यवस्तुप्राप्तेः कुशल एव सम्भवादिति यावत् । प्रौढ इति । प्रौढ इत्युच्यत इत्यर्थः । प्रौढ इति स्थिते "प्रादूहोढे"त्यादिना वृद्धिः । समर्पयितव्येति ।


कविप्रौढोक्तिमात्रनिप्पन्नशरीरो यथा---
सज्जेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।
अहिणवसहऽरमुहे णवपल्लवपत्तले अणङ्गस्स शरे ।।
     कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो यथोदाहृतभेव----ऽशिखरिणिऽ इत्यादि ।


लोचनम्

सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् ।
अभिनवसहकारमुखान्नवपल्लवपत्र्रलाननङ्गस्य शरान् ।।
     अत्र वसन्तश्चेतनोऽनङ्गस्य सखा सज्जयति केवलं न तावदर्पयतीत्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोक्त्या सहकारोद्भेदिनी वसन्तदशा यत उक्ता अतो ध्वन्यमानं मन्मथोन्माथस्यारम्भं क्रमेम गाढगाढीभविष्यन्तं व्यनक्ति । अन्यथा वसन्ते सपल्लवसहकारोद्गम इति वस्तुमात्रं न व्यञ्जकं स्यात् । एषा च कवेरेवोक्तिः प्रौढा । शिखरिणीति । अत्र लोहितं बिम्बफलं शुको दशतीति न व्यञ्जकता काचित् । यदा तु कविनिबद्धस्य साभिलाषस्य तरुणस्य वक्तुरित्थं प्रौढोक्तिस्तदा व्यञ्जकत्वं ।

बालप्रिया

सहृदयहृदयार्पणयोग्येत्यर्थः । वृत्तौ---ऽस्वतस्सम्भवी च द्वितीयऽ इति पाठः क्वाचित्कः ।
     सज्जयतीति । सुरभिमासः वसन्तसम्बन्धी मासः युवतिजना एव लक्ष्याणि येषां तथाविधानि मुखान्यग्राणि येषां तान् । लक्षसहानिति पाठे तानि सहन्ते तेष्वेव प्रयोज्या इति यावत्तानित्यर्थः । नवेति । नवानि पल्लवाश्च पत्राणि च तानि लान्ति आददते इति तान् । अभीति । नूतनसहकारपुष्पादीनित्यर्थः । तानेव अनङ्गस्य शरान् । सज्जयति, न तावदर्ययतीत्यन्वयः । सज्जीकरणाद्यन्वयोपपत्यर्थमाह लोचने---वसन्तश्चेतव इति । वसन्तश्चेतनत्वेनाध्यस्य इति भावः । सहेति सहकारस्योद्भेदः प्रकाशः तद्वतीत्यर्थः । सहकारपदं पुष्पान्तरोपलक्षणं । उक्तेति । अभिहितेत्यर्थः । उक्त्या उक्तेति । सम्बन्धः । अतो ध्वन्यमानमित्यादि । तथाविधाननङ्गस्य शरान्सज्जयति केवलमित्यनेन मन्मथोन्माथनस्यारम्भः, न तावदर्पयतीत्यनेन भविष्यदर्पणव्यञ्जनद्वारा मन्मथोन्माथनस्य भवी गाढगाढी भावस्च द्योत्यत इत्यर्थः । अन्यथेति । उक्तप्रकारातिरिक्तप्रकारेणेत्यर्थः । तत्प्रकारमाह--वसन्त इत्यादि । इतीति । एतद्वचन्प्रतिपाद्यमित्यर्थः । नेत्यादि । उक्तार्थव्यञ्जकं न भवेदित्यर्थः । अत्रेत्यादि । शुक्त इत्यस्य स्थाने अयं शुकपोतक इति च पाठः । इतीत्यादि । इतिवचनप्रतिपाद्यस्य कापि व्यञ्जकता नेत्यर्थः । इत्थमिति । शिखरिणीत्यादिरूपेत्यर्थः । तदा


यथा वा----
साअरविइण्णजोव्बणहत्थालम्बं समुण्णमन्तेहिं ।
अब्भुट्ठाणं विअ मम्महस्य दिण्णं तुह थणोहिं ।।
     स्वतः सम्भवी य औचत्येन बहिरपि सम्भाव्यमानसद्भावो न केवलं भणितिवशेनैवाभिनिष्पन्नशरिरः । यथोदाहृतम्ऽएवंवादिनिऽ इत्यादि ।
यथा वा---
सिहिपिञ्छकण्णपूरा जाआ वाहस्य गव्विरी भमै ।
भुत्ताफलरैअपसाहणाणं मच्झे सवत्तीणं ।।


लोचनम्

सादरवितीर्णयौवनहस्तालम्बं समुन्नमभ्द्यां ।
अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्यां ।।
     स्तनौ तावदिह प्रधानभूतौ ततोऽपि गौरवितः कामस्ताभ्यामभ्युत्थानेनोपर्च्यते । यौवनं चानयोः परिचारकभावेन स्थितमित्येवंविधेनोक्तिवैचित्र्येण त्वदीयस्तनावलोक नप्रवृद्धमन्मथावस्थः को न भवतीति भङ्ग्या स्वाभिप्रायध्वननं कृतं । तव तारुण्येनोन्नतौ स्तनाविति हि वचनेन व्यञ्जकता । न केवलमिति । उक्तिवैचित्र्यं तावत्सर्वथोपयोगि भवतीति भावः ।
शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति ।
मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनां ।।
     शिखिमात्रमारणमेव तदासक्तस्य कृत्यं । अन्यासु त्वासक्तो हस्तिनोऽप्यमारयदिति हि वचनेनोक्तमुत्तमसौभाग्यं ।

बालप्रिया

व्यञ्जकत्वमिति । व्यङ्ग्यार्थाः प्रथमोद्योते प्रदर्शिताः । सादरेति । कृत्वेति । पाठे तत्पूरितं । सादरं वितीर्णो यौवनेन दत्ते यौवनहस्तालम्बो यत्र तद्यथा तथा । समुन्नमद्भां तव स्तनाभ्यां मन्मथस्याप्युत्थानं दत्तमिवेत्यन्वयः । अत्र यौवनादिषु परिजनादिचेतनवृत्तान्तारोपात्समासोक्तिरुत्प्रेक्षाङ्गमित्याशयेन विवृणोति---स्तनावित्यादि । इति हीत्यादि । इति वचने सति तत्प्रतिपाद्यस्य व्यञ्जकता न हीत्यर्थः । न केवलमिति इदं प्रतीकधारणं । स्वतःसम्भवीत्यनेन लोके सम्भाव्यमानोऽपीत्यर्थो विवक्षित इत्याशयेन वृत्तौऽयऽ इत्यादिना विवृतं, तत्र न केवलमित्यादिना गम्यमर्थं दर्शयति---उक्तिवैचित्र्यमित्यादि । उपयोगीति । काव्य इति शेषः । उक्तिवैचित्र्याभावे भाव्यत्वं न भवतीति भावः । शिखीति । गाथेयं तृतीयोद्योते वृत्तिकृता उदाहृत्य व्याख्यास्यते । जायेति । नवपरिणीतेत्यर्थः । प्रसाधनं अलङ्कारः । सपत्नीनामिति । पूर्वपरिणीतानामित्यर्थः । शिखीति । शिखिनां समीपस्थत्वादिति


अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते ।
अनुस्वानोपमव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ।। २५ ।।
     वाच्यालङ्कारव्यतिरिक्तो यत्रान्योऽलङ्कारोऽर्थसामर्थ्यात्प्रतीयमानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुस्वानरूपव्यङ्ग्योऽन्यो ध्वनिः ।
  तस्य प्रविरलविषयत्वमाशङ्क्येदमुच्यते---


लोचनम्

रचितानि विविधभङ्गीभिः प्रसाधनानीत तासां सम्भोगव्यग्रिमाभावात्तद्विरचनशिल्पकौशलमेव परमिति दौर्भाग्यातिशय इदानीमिति प्रकाशितं । गर्वश्च बाल्याविवेकादिनापि भवतीति नात्र स्वोक्तिसद्भावः शङ्क्यः । एष चार्थो यथा यथा वर्ण्यते आस्तां वा वर्ण्ना, बहिरपि यदि प्रत्यक्षादिनावलोक्यते तथा तथा सौभाग्यातिशयं व्याधवध्वा द्योतयति ।। २.४ ।।
     एवमर्थशक्त्युद्भवो द्विभेदो वस्तुमात्रस्य व्यञ्जनीयत्वे वस्तुध्वनिरूपतया निरूपितः । इदानीं तस्यैवालङ्काररूपे व्यञ्जनीयेऽलङ्कारध्वनित्वमपि भवतीत्याह---अर्थेत्यादि । न केवलं शब्दशक्तेरलङ्कारः प्रतीयते पूर्वोक्तनीत्या यावदर्थशक्तेरपि । यदि वा न केवलं यत्र वस्तुमात्रं प्रतीयते यावलङ्कारोऽपीत्यपिशब्दार्थः । अन्यशब्दं व्याचष्टे---वाच्येति ।। २.५ ।।
     आशङ्क्येति । शब्दशक्त्या श्लेषाद्यलङ्कारो भासत इति सम्भाव्यमेतत् । अर्थशक्त्या

बालप्रिया

भावः । तदासक्तस्येति । जायायामत्यासक्तस्य व्याधस्येत्यर्थः । कृत्यमिति । तद्विरहासहनादिति भावः । अन्यास्विति । सपत्नीष्वित्यर्थः । हस्तिनोऽपीति । दूरस्थानपीति भावः । इति हि वचनेनेति । उक्तवाक्यार्थेनेत्यर्थः । उक्तं व्यञ्जितं । उत्तमसौभाग्यमति । जायाया इति शेषः । मुक्ताफलेत्यादिव्यङ्ग्यं दर्शयति--रचितानीत्यादि । इदानीमिति । नवपरिणयनोत्तरकाल इत्यर्थः । ननु व्यङ्ग्यो जायायाः सौभाग्यातिशयो हि गर्वहेतुरित्यतस्सोऽर्थो गर्विणीत्यनेनाविष्कृत इत्यत आह---गर्वश्चेति । बाल्यनिमित्तकः अविवेकः बाल्याविवेकः । आदिपदेन सम्भवतो हेत्वन्तरस्य परिग्रहः । स्वतःसस्भवी य औचित्येन बहिरपि सम्भाव्यमानेत्याद्युक्तं योजयति---एष चार्थ इत्यादि ।।२४ ।।
     ऽअर्थेऽत्यादिकारिकामवतारयति---एवमित्यादि । तस्यैव अर्थशक्त्युद्भवस्यैव । अलङ्कारध्वनित्वमित्यनेनास्य सम्बन्धः । व्यञ्जनीये अर्थेन व्यङ्ग्ये सति । यत्रापीत्यपिशब्दस्य अर्थशक्तेरपीति अलङ्कारोऽपीति योजनां विकल्पेन दर्शयन्नाह---न केवलमित्यादि ।। २.५ ।।
     शङ्काबीजं दर्शयति---शब्दशक्त्येत्यादि । पदेनेति । कारिकास्थपदेनेत्यर्थः ।


रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं बिभ्रद्भूम्ना प्रदर्शितः ।। २६ ।।
     अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलङ्कारः सोऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस्तत्रभवद्भिर्भट्टोद्भटादिभिः । तथा च ससन्देहादिषूपमारूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितामित्यलङ्कारान्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्नप्रतिपाद्यं ।


लोचनम्

तु कोऽलङ्कारो भातीत्याशङ्काबीजं । सर्व इति प्रदर्शित इति च पदेनासम्भावनात्र मिथ्यैवेत्याह ।
उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससन्देहं वचः स्तुत्यै समन्देहं विदुर्यथा ।। इति ।
तस्याः पाणिरयं नु मारुतचलत्पत्र्राङ्गुलिः पल्लवः
     इत्यादावृपमा रूपकं वा ध्वन्यते । अतिशयोक्तेश्च प्रायशः सर्वालङ्कारेषु ध्वन्यमानत्वं । अलङ्कारान्तरस्येति । यत्रालङ्कारोऽप्यलङ्कारान्तरं ध्वनति तत्र वस्तुमात्रेणालङ्कारो ध्वन्यत इति कियदिदमसम्भाव्यमिति तात्पर्योणालङ्कारान्तरशब्दो वृत्तिकृता प्रयुक्तो न तु प्रकृतोपयोगी; न ह्यलङ्कारेणालङ्कारो ध्वन्यत इति प्रकृतभदः, अर्थशक्त्युद्भवे ध्वनौ वस्त्विवालङ्कारोऽपि व्यङ्ग्य इत्येतावतः प्रकृतत्वात् । तथा चोपसंहारग्रन्थे

बालप्रिया

तथा च ससन्देहादिष्वित्यादिवृत्तिग्रन्धं विवृणोति---उपमानेनेत्यादि । लक्षणभिदमुद्भटोक्तं । तत्त्वमिति । अभेदमित्यर्थः । भेदं वैधर्म्यमुपमेयस्येति शेषः । वदतः वर्णयतः कवेः । इतीति । ऽअलङ्करान्तरच्छायाऽमित्यादिकारिकया भेदानुपनिबन्धनघटितमपि लक्षितं तस्योपलक्षणमिदं । तस्या इति । श्लोकस्यास्य सम्पूर्णस्यानवगमाद्यथाभातं व्याख्यायते---अयं तस्याः पाणिः पल्लवः नु इतति योजना । नु इति संशये । उभयसाधारणम्--मारुतेत्यादि । मारुतचलत्पत्राणेयेवाङ्गुलयो यस्य सः । अङ्गुलीनां चलत्वमर्थात्सिध्यति । ऽउपमारूपकातिशयोक्तीनांऽ इत्यत्रेतरेतरयोगो न विवक्षित इत्याशयेनाह---उपमारूपकं वेति । अतिशयोक्तेश्चेति । एतत्तृतीयोद्योते वक्ष्यते । ऽइत्यलङ्कारान्तरस्येऽत्यादिग्रन्थो यथाश्रुते प्रकृतासङ्गत इत्यतस्तद्भावार्थमाह---यत्रेत्यादि । यत्र काव्ये । यद्वा---यतः तत्र तत्काव्ये । यद्वा---ततः इतीदमित्यन्वयः । कियदित्यादि । असम्भाव्यं नेत्यर्थः । अलङ्कारान्तरशब्दः सप्तम्यन्तालङ्कारान्तरशब्दः । ऽन तु प्रकृतोपयोगीऽत्यत्र हेतुमाह---न हीत्यादि । तर्हि किं


इयत्पुनरुच्यत एव---
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ।। २७ ।।
     अलङ्कारान्तरेषु त्वनुरणनरूपालङ्कारप्रतीतौ सत्यामपि यत्र वाच्यस्य व्यङ्ग्यप्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर्मार्गः । तथा च दीपकादावलङ्कारे उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान्न ध्वनिव्यपदेशः ।
यथा-----
चन्दमऊएहि णिसा णलिनि कमलेहि कुसुमगुच्छेहि लऽ ।


लोचनम्

ऽतेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गताःऽ इत्यत्र श्लेके वृत्तिकृत्ऽध्वन्यङ्गता चोभोभ्यां प्राकराभ्यांऽ इत्युपक्रम्यऽतत्रेह प्रकारणाद्व्यङ्ग्यत्वेनेत्यवगन्तव्यम्ऽ इति वक्ष्यति । अन्तरशब्दो वोभयत्रापि विशेषपर्यायः; वैषयिकी सप्तमी, न तु प्राग्व्याख्यायामिव निमित्तसप्तमी । तदयमर्थः---वाच्यालङ्कारविशेषविषये व्यङ्ग्यालङ्कारविशेषो भातीत्युद्भटादिभिरुक्तमेवेत्यर्थशक्त्यालङ्कारो व्यज्यत इति तैरुपगतमेव । केवलं तेऽलङ्कारलक्षणकारत्वद्वाच्यलङ्कारविशेषविषयत्वेनाहुरिति भावः ।। २.६ ।।
     ननु पूर्वैरेव यदीदमुक्तं किमर्थं तव यत्न इत्याशङ्क्याह---इयदिति । अस्माभिरिति वाक्यशेषः । पुनःशब्दस्तुदुक्ताद्विशेषद्योतकः । चन्दमऊ इति । चन्द्रमयूखादीनां न निशादिना विना कोऽपि परभागलाभः । सज्जनानामपि काव्यकथां विना कीदृशी

बालप्रिया

प्रकृतमित्यात्राह---अर्थेत्यादि । अत्रोपष्टम्भकमाह---तथाचेत्यादि । प्रकरणाद्व्यङ्ग्यत्वेनेति । ध्वन्यङ्गतेत्यनेनास्य सम्बन्धः । अलङ्कारान्तरेण अलङ्कारान्तरस्य व्यह्क्यत्वमित्यस्य एकालह्कारनिमित्तकमन्यलङ्कारस्य व्यङ्ग्यत्वमित्यर्थमभिसन्धाय भावार्थे विवृतः । अथरथन्तराभिप्रायेण विवृणोति---अन्तरशब्दो वेति । विशेषपर्यायः विशेषवाची । वैषयिकी विषयरूपार्थवाचिका । सप्तमीति । ऽअलङ्कारान्तरऽ इत्यत्रत्यसप्तमीत्यर्थः । फलितमाह---तदित्यादि । वाच्यति । वाच्यालङ्कारविशेषरूपो यो विषयस्तस्मिन्नित्यर्थः । वाच्यालङ्कारविशेषशालिनि काव्य इति यावत् । भातीति । यता ससन्देहादावुपमादिः ।। २.६ ।।
     चन्द्रेत्यादि । अत्र गुर्वीक्रियत इत्यस्य चन्द्रमयूखैर्निशेत्यादिभिः पञ्चभिः प्रत्येकं सम्बन्धः । अत्र निशया चन्द्रमयूखाः गुरवः क्रियन्ते इत्यादिविपरिणामेन पदानां सम्बन्धादर्थसामर्थ्याद्वा प्रतीयमानमर्थान्तरं दर्शयति---चन्द्रेत्यादि । कीदृशीति ।


हंसेहि सरसोहा कव्वकहा सज्जनेहि करै गरुरि ।।
(चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता ।
हंसैश्शारदशोबा काव्यकथा सज्जनैः क्रियते गुर्वी ।। इति छाया)
     इत्यादिषूपमागर्भत्वेऽपि सति वाच्यालङ्कारमुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालङ्कारतात्पर्येण । तस्मात्तत्र वाच्यालङ्कारमुखेनैव काव्यव्यपदेशो न्याय्यः । यत्र तु व्यङ्ग्यपरत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्यमुखेनैव व्यपदेशो युक्तः ।


लोचनम्

साधुजनता । चन्द्रमयूखेश्च निशाया गुरुकीकरणं भास्वरत्वसेव्यत्वादि यत्क्रियते, कमलैर्नलिन्याः शोभापरिमललक्ष्म्यादि, कुसुमगुच्छैर्लताया अभिगम्यत्वमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसुखकरत्वमनोहरत्वादि, तत्सर्वं काव्यकथायाः सज्जनैरित्येतावानयमर्थो गुरुः क्र्यित इति दीपकबलाच्चकास्ति । कथाशब्द इदमाह---आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः, सज्जनैर्विना काव्यमित्येष शब्दोऽपि ध्वंसते । तेषु तु सत्स्वास्ते सुभगं काव्यशब्दव्यपदेशभागपि शब्दसन्दर्भमात्रम्; तथा तैः क्रियते यथादरणीयतां प्रतिपद्यत इति दीपकस्यैव व्यवच्छेद्यबलेन योऽर्थोऽभिमतो यत्र तत्परत्वं स ध्वनेमार्ग इत्येवंरूपस्तं व्याचष्टे---यत्र त्विति । तत्र च वाच्यालङ्कारेण कदाचिद्व्यह्ग्यमलङ्कारान्तरं, यदि वा वाच्यालङ्कारस्य सद्भावमात्रं न व्यञ्जकता, वाच्यालङ्कारस्याभाव

बालप्रिया

न भवतीत्यर्थः । गुरुकीकरणं विवृणोति--चन्द्रमयूखैश्चेत्यादि । यत्क्रियते इति । तदिति शेषः । कमलैरित्यादिवाक्येष्वपि यत्क्रियत इत्यस्यानुषङ्गः । तत्सर्वमिति । काव्यकथान्वययोग्यं पूर्वोक्तं सेव्यत्वमनोहरत्वादिकमित्यर्थः । सज्जनैरिति । क्रियत इत्यस्यानुषङ्गः । चकास्तीति । वाच्यतया प्रतीयत इत्यर्थः । कवितेत्यनुक्त्वा काव्यकथेत्युक्तेः फलमाह---कथेत्यादि । काव्यकथेत्यस्य कथ्यमानं काव्यमित्यर्थः । तत्र कथाशब्दो वक्ष्यमाणं द्योतयतीत्यर्थः । सूक्ष्मा विशेषाः ध्वनित्वादयः । तेष्विति । सज्जनेष्वित्यर्थः । शब्दसन्दर्भमात्रमपि काव्यशब्दव्यपदेशभाक्सूभगमास्त इत्यन्वयः । कुत इत्यत्राह---तथेत्यादि । ऽइति दीपकस्येऽत्यादिनाऽवाच्येत्यादिवृत्तिग्रन्थो विवृतः । नोपमाया इति । सज्जनेषु हंसादीनां काव्यकथायां निशादीनां च गम्यमानाया उपमाया न प्राधान्यमित्यर्थः । व्यवच्छेद्यबलेनेति । यत्र भासते तत्परत्वं नेत्याद्युक्तिसामर्थ्येनेत्यर्थः । अभिमतः विवक्षितः । यत्रेत्यादिना प्रदर्शितस्य विकल्पेन त्रैविध्यं भवतीति दर्शयति---तत्र चेत्यादि । कदाचिदित्यस्योत्तरवाक्ययोरपि सम्बन्धः ।


यथा---
प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या-
न्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि ।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात-
स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ।।
यथा वा ममैव---
लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मि-
न्स्मेरेऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये
सुव्यक्तमेव जलराशिरयं पयोधिः ।।


लोचनम्

एव वेति त्रिदा विकल्पः । एतच्च यथायोगमुदाहरणेषु योज्यं । उदाहरति---प्राप्तेति । कस्मिंश्चिदनन्तबलसमुदायवति नरपतौ समुद्रपरिसरवर्तिनि पूर्णचन्द्रोदयतदीयबलावगाहनादिना निमित्तेन पयोधेस्तावत्कम्पो जातः । सोऽनेन सन्देहेनोत्प्रेक्ष्यत इति ससन्देहोत्प्रेक्षयोः सङ्करात्सङ्करालङ्कारो वाच्यः । तेन च वासुदेवरूपता

बालप्रिया

एषामुदाहरणानि स्फुटीभविष्यन्ति । प्राप्तश्रीरिति । एषः राजा, प्राप्ता श्रीः सम्पद्रमा च येन सः । अतः पुनरपि मयि तमनुभूतं । मन्थखेदं मथनहेतुकं दुःखं कस्मात्किमिति विदध्यात्कुर्यात् । अत्रादौ पुनरपीत्यादि सन्देहः, पश्चान्मथनफलभूतलक्ष्मीप्राप्तिबुद्ध्या कस्मादिति फलान्तरजिज्ञासा । एवमुपर्यपि बोध्यं । अनलसमालस्यरहितं मनो यस्य तस्येति हेतुगर्भं । अस्य राज्ञः पूर्वा निद्रामप्यहं नैव सम्भावयामि नैव संशये । सेतुमिति । एषमयीत्यनुषङ्गः । एषः यतः सकलद्वीपनाथैरनुयातः, अतः किमिति मयि भूयः सेतुं बध्नाति । त्वयि आयाते स्वसन्निधिमागते सति इति वितर्कान्पूर्वोक्तवाक्यैर्गम्यान्किं मथ्नीयादित्यादिसन्देहान् । दधत इव तद्धारणादिव पयोधेः कम्पः जलचाञ्चल्यमथ च वेपथुः आभातीत्यन्वयः । अत्र वाच्यं तद्य्वङ्ग्यं चालङ्कारं विवृणोति---कस्मिंश्चिदित्यादि । स इति । कम्प इत्यर्थः । अत्र जलचाञ्चल्यस्य वेपथोश्चाभेदाध्यवसायो बोध्यः । अनेन सन्देहेनेति । वितर्कान्दधत इति वाक्यप्रतिपादितेन एषः किं मथ्नीयादिति सन्देहेन हेतुनेत्यर्थः । उत्प्रेक्ष्यत इति । कम्पेन कार्येण निमित्तेन उक्तसन्देहरूपो हेतुः पयोधावुत्प्रेक्ष्यते । यद्वा---जलचाञ्चल्यरूपः कम्पः उक्तसन्देहहेतुकवेपथुत्वेनोत्प्रेक्ष्यत इति भावः । सङ्करादिति । एकवाक्यानुप्रवेशसङ्करादित्यर्थः ।


     इत्येवंविधे विषयेऽनुरणनरूपरूपकाश्रयेण काव्यचारुत्वव्यवस्थानाद्रूपकध्वनिरिति व्यपदेशो न्याय्यः । द्रपकध्वनिरिति व्यपदेशो न्याय्यः ।
  उपमाध्वनिर्यथा----
वीराणं रमै घुसिणरुणम्मि ण तदा पिआथणुच्छङ्गे ।
दिठ्ठी रिउगाकुम्भत्थलम्मि जह बहलसिन्दूरे ।।


लोचनम्

तस्य नृपतेर्ध्वन्यते । यद्यपि चात्र व्यतिरेको भाति, तथापि स पूर्ववासुदेवस्वरूपात्, नाद्यतनात् । अद्यतनत्वे भगवतोऽपि प्राप्तश्रीकत्वेनानालस्येन सकलद्वीपाधिपति विजयित्वेन च वर्तमानत्वात् ।
     न च सन्देहोत्प्रेक्षानुपपत्तिबलाद्रूपकस्याक्षेपः, येन वाच्यालङ्कारोपस्कारकत्वं व्यङ्ग्यस्य भवेत् । यो योऽसम्प्राप्तलक्ष्मीको निर्व्याजविजिगीषाक्रान्तः स स मां मथ्नीयादित्याद्यर्थसम्भावनात् । न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृष्टोऽर्थः । पुनरर्थस्य भूयोर्थस्य च कर्तृभेदेऽपि समुद्रैक्यमात्रेणाप्युपपत्तेः । यथा पृथ्वी पूर्वं कार्तवीर्येण जिता पुनरपि जामदग्न्येनेति । पूर्वा निद्रा च सिद्धा राजपुत्राद्यवस्थायामपीति सिद्धं रूपकध्वनिरेवायमिति । शब्दव्यापारं विनैवार्थसौन्दरयबलाद्रूपणाप्रतिपत्तेः ।

बालप्रिया

तेने सङ्करेण । वासुदेवरूपतेति । भगवद्वासुदेवाभेद इत्यर्थः । व्यतिरेको भातीति । प्राप्तश्रीकत्वादिना राज्ञो वासुदेवाद्व्यतिरेको भातीत्यर्थः । तथाच कथमभेदभानं भवतीति भावः । सः व्यतिरेकः । वूर्ववासुदेवस्वरूपादिति । पूर्वं मथनोद्युक्तो निद्रोन्मुखः सेतुबन्धनोद्युक्तश्च यो वासुदेवः तत्स्वरूपादित्यर्थः । नाद्यतनादिति । स भातीत्यनुषङ्गः । अत्र हेतुमाह---अद्यतनत्व इत्यादि । वर्तमानत्वादिति विशिष्टत्वादित्यर्थः । तथाचैतद्वचनकालीनतथाविधवासुदेवाद्व्यतिरेको न भातीति तदभेदोऽत्र ध्वन्यत इति भावः ।
     नन्वत्र निशि वासुदेवत्वप्रतीति विना पयोधेरुक्तवितर्का न धटन्त इत्यस्तद्व्यङ्ग्यं तदुपपादकतया गुणीभूतमिति शङ्कां परिहरति---न चेत्यादि । येनेति । अनुपपत्तिमूलकाक्षेपेणेत्यर्थः । वाच्यालङ्कारेति । ससन्देहोत्प्रेक्षासङ्करेत्यर्थः । नाक्षेप इत्यत्र हेतुमाह---यो य इत्यादि । वासुदेव इव असम्प्राप्तलक्ष्मीको यो यो जनः, स स मां मथ्नीयात् । निर्व्याजविजिगोषाक्रान्तो यो यः, स स मयि सेतुं बध्नीयादित्यादिसंशयसम्भवादित्यर्थः । स्वोक्त्या व्यङ्ग्याविष्करणमाशङ्क्य परिहरति---त चेत्यादि । अयमर्थ इति । राज्ञो वासुदेवत्वमित्यर्थः । इतीति हेतौ । अयं रूपकध्वनिरेवेति सिद्धमित्यन्वयः । अत्र हेतुमाह---शब्देति । शब्दव्यापारः अभिधा । क्वचित्ग्रन्थे प्राप्तश्रीरित्यस्यानन्तरं यथा वाऽज्योत्स्नापूरेऽत्यादि पाठो दृश्यते, स


लोचनम्

यथा च----
ज्योत्स्नापूरप्रसरधवले सैकतेऽस्मिन्सरय्वा
वादद्यूतं सुचिरमभवत्सिद्धयूनोः कयोश्चित् ।
एकोऽवादीत्प्रथमनिहतं केशिनं कंसमन्यो
मत्वा तत्तवं कथय भवता को हतस्तत्र पूर्वं ।।
     इति केचिदुदाहरणमत्र पठन्ति, तदसत्; भवतेत्यनेन शब्दबलेनात्र, त्वं वासुदेव इत्यर्थस्य स्फुटीकृतत्वात् ।
     लावण्यं संस्थानमुग्धिमा, कान्तिः प्रभा ताभ्यां परिपूरितानि संविभक्तनि हृद्यानि सम्पादितानि दिङ्मुखानि येन । अधुना कोपकालुष्यादनन्तरं प्रसादौन्मुख्येन । स्मेरेरिषद्विहसनशीले तरलायते प्रसादान्दोलनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्त्रणं । अथ चाधुना न एति, वृत्ते तु क्षणान्तरे क्षोभमगमत् । कोपकषायपाटलं स्मेरं च तव मुखं सन्ध्यारुणपूर्णशशधरमण्डलमेवेति भाव्यं क्षोभेण चलचित्ततया सहृदयस्य । न चैति तत्सुव्यक्तमन्वर्थतायं जलराशिर्जड्यसञ्जयः । जलादयः शब्दा भावार्थप्रधाना

बालप्रिया

त्वपपाठ इत्याह---यथोचेत्यादि । तदसदित्यत्र हेतुमाह---भवतेत्यादि । स्फुटीकृतत्वादिति । भवच्छब्दार्थस्य वर्ण्यस्य राज्ञो हननकर्तृत्वोक्त्या तस्य वासुदेवाभेदो यतः स्फुजीकृतस्तस्मादित्यर्थः । तथाचात्र व्यङ्ग्यं गुणीभूतमिति भावः । पौनरुक्त्यपरिहाराय लावण्यपदेनात्र विवक्षितमर्थं व्याचष्टे---संस्थानेति । आकृतिसौन्दर्यमित्यर्थः । ऽसंविभक्तानीऽत्यस्यैव विवरणं हृद्यानीत्यादि । दिङ्मुखानीति । दिशामारम्भदेशा इत्यर्थः । येषु मुखस्य स्वदृष्टिद्वारा सम्बन्धस्तानि दिङ्मुखानीति भावः । ऽअधुनेऽत्यस्यऽस्मेरेऽ इत्यनेन सम्बन्ध इति व्याचष्टे---कोपेत्यादि । प्रसादेति । प्रसादेन यावान्दोलनविकासौ ताभ्यां सुन्दरे इत्यर्थः । व्यङ्ग्यानुगणमर्थान्तरं चाह---अथ चेत्यादि । अधुनेत्यस्य न एति इत्यनेनापि सम्बन्ध इति भावः । अधुना नैतीत्यनेन गम्यमर्थान्तरं दर्शयति---वृत्ते त्वित्यादि । वृत्ते गते । क्षणान्तरे क्षणविशेषे, चन्द्रोदयकाले इति यावत् । क्षोभमगमदिति । पयोधिरिति शेषः । पयोधेः क्षोभो दृष्ट इति भावः । रूपकध्वनिं दर्शयति---कोपेत्यादि । इतीति हेतौ । तथाविधस्य मुखस्य तथाविधचन्द्रमण्जलाभिन्नत्वादित्यर्थः । तद्दर्शनादिति यावत् । भाव्यमित्यादि । सहृदयस्य मदनविकारत्मकचित्तचाञ्चल्यरूपेण क्षोभेण भाव्यमित्यर्थः । पयोधेस्तु सलिलोल्लासलक्षणः क्षोभः । द्वयोः क्षोभयोरत्राभेदाध्यवसायः । क्षोभपदस्य चित्तचाञ्चल्यमात्रार्थकत्वे तु मुखस्य सौन्दर्यातिशय एव ध्वनेन्न चन्द्राभेदः । अतश्चन्द्रोदयकार्यभूतसलिलोल्लासरूपक्षोभार्थकत्वमपि विवक्षितं । न चैतीति । पयोधिः क्षोभमिति शेषः । तदिति । क्षोभप्राप्त्यभावादित्यर्थः । जाड्यसञ्चय


लोचनम्

इत्युक्तं प्राक् । अत्र च क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखावलोकनेन भवतीतीयत्यभिधाया विश्रान्ततया रूपकं ध्वन्यमानमेव । वाच्यालङ्कारश्चात्र श्लेषः, स च न व्यञ्जकः । अनुरणनरूपं यद्रूपकमर्थशक्तिव्यङ्ग्यं तदाश्रयेणेह काव्यस्य चारुत्वं व्यवतिष्ठते । ततस्तेनैव व्यपदेश इति सम्बन्धः । तुल्योजनत्वादुपमाध्वन्युदाहरणयोर्लक्षणं स्वकण्ठेन न योजितं ।
वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे ।
दृष्टी रिपुगजकुम्भत्थले यथा बहलसिन्दूरे ।।
     प्रसाधितप्रियतमाश्वासनपरतया समनन्तरीभूतयुद्धत्वरितमनस्कतया च दोलायमानदृष्टित्वेऽपि युद्धे त्वरातिशय इति व्यतिरेको वाच्यालङ्कारः । तत्र तु येयं ध्वन्यमानोपमा प्रियाकुचकुङ्मलाभ्यां सकलजनत्रासकरेष्वपि शात्रवेषु मर्दनोद्यतेषु राजकुम्भस्थलेषु

बालप्रिया

इति । आश्रयाश्रयिणोरभेदाध्यवसायेनोक्तिः । मन्ये इत्यनेनास्य सम्बन्धः । निश्चिनोमिति तदर्थः. । तथाविधे मुखे प्रकाशमाने क्षोभप्राप्त्यभावात्, जनैरुच्यमानं महज्जाड्यं पयोधेर्निश्चिनोमित्यर्थः । अत्रापि जाड्यपदार्थस्यानाभिज्ञत्वस्य जलस्य चैक्याध्यवसायो बोध्यः । भावार्थप्रधाना इति । प्राधान्येन जाड्याद्यर्थवाचका इत्यर्थः । व्यङ्ग्यस्योक्तस्य वाच्यसिद्ध्यङ्गत्वं निराकुर्वन्ध्वनिं व्यवस्थापयति--अत्र चेत्यादि । त्वन्मुखावलोकनेनेति । सप्तम्यन्ततयापि पाठः । इयतीति । तथाविधक्षोभप्राप्त्यभावात्पयोनिधिर्जडराशिरिति निश्चिनोमि इत्येतावत्यर्थे इत्यर्थः । रूपकमिति । नायिकामुखे पूर्णचन्द्राभेद इत्यर्थः । श्लेष इति । जडशब्दगतश्लेष इत्यर्थः । न व्यञ्जक इति तस्योक्तरूपकध्वनावनुपयोगादिति भावः । अनुरणनरूपरुपकेत्यादि व्याचष्टे--अनुरणनरूपं यद्रूपकमित्यादि । ननु वृत्तौ वीराणामित्युदाहरणयोरुपमाध्वनिः स्वशब्देन कुततो न योजित इत्यत आह--तुल्येत्यादि । स्वकएठन स्ववचनेन । वीराणामिति । विराणां दृष्टिर्यथा बहलसिन्दूरे रिपुगजकुम्भस्थले रमते, तथा घुसृणारुणे प्रियास्तनोत्सङ्गे न समते इत्यन्वयः । घुसृणं कुङ्कुमं । विवृणोति---प्रसाधितेत्यादि । प्रसाधिता अलङ्कृता । समाश्वासनं सम्भोगेनानन्दनं । समनन्तरीभूतेति । प्रत्यासन्नेत्यर्थः । डोलायमाना चञ्चला । इति व्यतिरेको वाच्यालङ्कार इति । वीराणां दृष्टेः प्रियातनोत्सङ्गरमणापेक्षया रिपुगजकुम्भस्थलरमणेऽतिशयस्य प्रतिपादनात्सम्भोगत्वरापेक्षया युद्धे त्वरातिशयो गम्यत इति तस्य वाच्यायमानत्वात्वाच्यलङ्कारता । यद्वा---इति व्यतिरेक इत्यस्य इत्यर्थव्यञ्जको व्यतिरेक इत्यर्थः । स च पूर्वोक्तः । अत्रोपमाध्वनिं विवृणोति --तत्र त्वित्यादि । तत्र तद्वचने । येयमित्यादि----गजकुम्भस्थलेषु इत्यस्य उपमेत्यनेन सम्बन्धः । गजकुम्भस्थलानुयोगिका प्रियाकुचकुङ्मलप्रतियोगिका ध्वन्यमाना येयमुपमेत्यर्थः । अस्याः प्राधान्यं विवृणोति---सकलेत्यादि । एतानि कुम्भस्थलविशेषणानि वस्तुस्थितिकथनपराणि ।


यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य---
तं ताण सिरिसहोअरराणाहरणम्मि हिआमेक्करसं ।
बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ।।
(तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसं ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ।। इति छाया )
आक्षेपध्वनिर्यथा----
स वक्तुमखिलान्शक्तो हयग्रीवाश्रितान्गुणान् ।
योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ।।


लोचनम्

तद्वशेन रतिमाददानानामिव बहुमान इति सैव वीरतातिशयचमत्कारं विधत्त इत्युपमायाः प्राधान्यं । असुरपराक्रमण इति । त्रैलोक्यविजयो हि तत्रास्य वर्ण्यते । तेषामसुराणां पातालवासिनां यैः पुनः पुनरिन्द्रपुरावमर्दनादि किं किं न कृतं तद्धृदयमिति यत्तेभ्यस्तेभ्योऽतिदुष्करेभ्योऽप्यकम्पनीयव्यवसायं तच्च । श्रीसहोदराणामत एवानिर्वाच्योत्कर्षाणामित्यर्थः । तेषां रत्नानामा समन्ताद्धरणे एकरसं तत्परं यद्धृदयं तत्कुसुमबाणेन सुकुमारतरोपकरणसम्भारेण प्रियाणां बिम्बाधरे निवेशितं तदवलोकनपरिचुम्बनदर्शनमात्रकृतकृत्यताभिमानयोगि तेनकामदेवेन कृतं ।
तेषां हृदयं यदत्यन्तं विजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् । अत्रातिशयोक्तिर्वाच्यालङ्कारः ।

बालप्रिया

शात्रवेषु शत्रुभूतेषु, शत्रुमसम्बन्धिषु वा । अपिशब्दो रतिबहुमानोत्पत्तौ विरोधं द्योतयति । गजकुम्भस्थलेष्वित्यस्य रतिमित्यनेन बहुमान इत्यनेन च सम्बन्धः । तद्वशेन उपमावशेन । रतिं प्रीतिं । आददानां बिभ्रतां । इवेति प्रतीतौ । बहुमान इति । प्रियाकुचकुङ्मलसादृश्येन गजकुम्भस्थलेषु प्रीतिं बिभ्रतां वीराणां तेषु बहुमतिरिवेत्यर्थः । रतिमाददानामनुरक्तानमिवेत्यर्थ इति वा । इतीति हेतौ । सैव इक्तोपमैव । वीरतेति । प्रतीयमानो यो भटानां वीर्यातिशयस्तस्य यश्चमत्कारः चमत्कारकारित्वं तमित्यर्थः । विधत्ते सम्पादयति । इतीति हेतौ । वीररसोपस्कारकत्वेनेत्यर्थः । तत्रास्येति । विषमबाणलीलायां कामस्येत्यर्थः । ऽतेषाऽ मित्यस्यैव विवरणम्---यैरित्यादि । तदित्यस्य व्याखायानं यत्तेभ्य इत्यादि । अकम्पनीयेति । अचालनीयेत्यर्थः । गम्यर्थकथनम्---अनिर्वाच्येत्यादि । सुकुमारेत्यादि च । ऽबिम्बाधरे निवेशितम्ऽ इत्यस्य भावार्थमाह---तदित्यादि । तेषां हृदयं यदित्यादिना पूर्वार्धभावार्थकथनं तदिति शेषः । तत्तेन कामदेवेन तदवलोकनपरिचुम्बनदर्शनमानकृतकृत्यताभिमानयोगि कृतमिति सम्बन्धः । अत्रातिशयोक्तिरिति ।


     अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपस्यासाधारणतद्विशेषप्रकाशनपरस्याक्षेपस्य प्रकाशनं ।
     अर्थान्तरन्यासध्वनिः शब्दशक्तिमूलानुरणनरूपव्यङ्ग्योऽर्थक्तिमूलानुरणनरूपव्यङ्ग्यश्च सम्भवति । तत्राद्यस्योदाहरणम्---
देव्वाएत्तम्मि फले किं कीरै एत्तिअं पुणा भणिमो ।
कङ्किल्लपल्लवाः पल्लवाणं अण्णाण ण सरिच्छा ।।


लोचनम्

प्रतीयमाना चोपमा । सकलरत्नसारतुल्यो बिम्बाधर इति हि तेषां बहुमानो वास्तव एव । अत एव न रूपकध्वनिः । रूपकस्यारोप्यमाणत्वेनावास्तवत्वात् । तेषामसुराणां वस्तुवृत्त्यैव सादृश्यं स्फुरति । तदेव च सादृश्यं चमत्कारहेतुः प्राधान्येन । अतिशयोक्त्येति । वाच्यालङ्काररूपयेत्यर्थः । अवर्णनीयताप्रतिपादनमेवाक्षेपस्य रूपमिष्टप्रतिषेधात्मकत्वात् । तस्य प्राधान्यं विशेषणद्वारेणाह---असाधारणेति ।
     सम्भवतीत्यनेन प्रसङ्गाच्छब्दशक्तिमूलस्यात्र विचार इति दर्शयति ।

बालप्रिया

निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरं ।
भेदेऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते ।।
तथा सम्भाव्यमानार्थनिबन्धेऽतिशयोक्तिगीः ।
     इत्यादिना तल्लक्षणमुक्तमुद्भटादिभिः । रत्नाहरणे एकरसं यद्धृदयं तद्बिम्बधरे निवेशितमिति वस्तुतो भिन्नयोरन्तःकरणवृत्तिविशेषात्मकयोः हृदययोरैक्यमत्र प्रतिपादितमिति भेदे अभेदरूपातिशयोक्तिरित्यर्थः । निवेशनासम्बन्धेऽपि तत्सम्बन्धकथनात्सम्बन्धातिशयोक्तिर्वा । प्रतीयमानेति । ध्वन्यमानेत्यर्थः । उक्तं विवृणोति---सकलेत्यादि । समुपादेयत्वादिता रत्नासारतुल्यत्वं । अत एव वक्ष्यमाणादेव । रूपकस्यारोप्यमाणत्वेनेति । रत्नसाररूपोपमानाभेदस्य कल्पितत्वेनेत्यर्थः । रूपकस्योपचारत्वेनेति च पाठः । सादृश्यमिति । बिम्बाधरे रत्नसारसादृश्यमित्यर्थः । वृत्तौऽअनतिशयोक्त्येऽत्युक्तं तद्विवृणोति---वाच्येत्यादि । वाच्यालङ्काररूपयेति । ऽयोऽम्बुकुम्भैरिऽत्यादिना सम्भाव्यमानार्थनिबन्धनादिति भावः । अवर्णनीयताप्रतिपादनमेवेत्यत्र हेतुमाह---इष्टेति । इष्टमत्र वर्णनीयत्वप्रतिपादनमिति भावः । ऽअसाधारणेऽत्यादिकथनस्य फलं दर्शयति--तस्येत्यादिविशेषणद्वारेण तस्य प्राधान्यमाहेत्यन्वयः । अत्रऽयोऽम्बुकुम्भैरिऽत्याद्यतिशयोक्त्या हयग्रीवगुणानामवणनीयत्वप्रतिपादनरूपाक्षेपो ध्वन्यते, तेन तद्गुणानामसाधारणो विशेषश्चेति भावः । वृत्तौऽशब्दशक्तीऽत्याद्युक्तौ का सङ्गतिरित्यत आह---सम्भवतीत्यादि । अत्रेति ।


     पदप्रकाशश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्येऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा---
हिआट्टाविअमण्णुं अवरुण्णमुहं हि मं पसाअन्त ।
अवरद्धस्य वि ण हु दे पहुजाणा रोसिउं सक्कं ।।
(हृदयस्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् ।
अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यं ।। इति छाया)


लोचनम्

दैवायत्ते फले किं क्रियतामेतावत्पुनर्भणामः ।
रक्ताशोकपल्लवाः पल्लवानामन्येषां न सदृशाः ।।
     अशोकस्य फलमाम्रादिवन्नास्ति, किं क्रियतां पल्लवास्त्वतीव हृद्या इतीयताभिधा समाप्तैव । अत्र फलशब्दस्य शक्तिवशात्समर्थकमस्य वस्तुनः पूर्वमेव प्रतीयते । लोकोत्तरजिगीषातदुपायप्रवृत्तस्यापि हि फलं सम्पल्लक्षणं दैवायत्तं कदाचिन्न भवेदपीत्येवंरूपं सामान्यात्मकं । नन्वस्य सर्ववाक्यस्याप्रस्तुतप्रशंसा प्राधान्येन व्यङ्ग्या तत्कथमर्थान्तरन्यासस्य व्यङ्ग्यता, द्वयोर्युगपदेकत्र प्राधान्यायोगादित्याशङ्क्याह---पदप्रकाशेति । सर्वो हि ध्वनिप्रपञ्चः पदप्रकाशो वाक्यप्रकाशश्चेति यक्ष्यते । तत्र

बालप्रिया

अर्थशक्तिमूलविचारे इत्यर्थः । किं क्रियतामित्यन्तस्य विवरणम्---अशोकस्येत्यादि । उत्तरार्धविवरणम्----पल्लवा इत्यादि । इयतेति । उक्तार्थमात्रेणेत्यर्थः । ध्वनिं विवृणोति---अत्रेत्यादि । अत्र इत्येवंरूपं सामान्यात्मकं अस्य वस्तुनः समर्थकं फलशब्दस्य शक्तिवशात्पूर्वमेव प्रतीयत इत्यन्वयः । दैवायत्ते हि फले किं क्रियतामित्यत्र फलशब्दः प्रकरणवशात्सस्यरूपमर्थमभिधया वक्ति, ततश्चाशोकस्य फलं नास्तीति प्रस्तुतार्थो लभ्यते, पुनश्च फलशब्दश्शक्तिमूलध्वनिना सम्पदात्मकप्रयोजनरूपमर्थं बोधयति, ततश्च सर्वेषां सम्पदो दैवायत्ताः कदाचिन्न भवेयुरपीति सामान्यरूपोऽर्थः पूर्वोक्तप्रस्तुतार्थस्य समर्थको लभ्यत इत्यर्थः । पूर्वमेव प्रतीयते इत्यस्य दैवायत्ते हि फले इत्यस्य श्रवणकाल एव प्रतीयत इत्यर्थः । ऽपदप्रकाशऽ इत्यादिग्रन्थमवतारयति---नन्वित्यादि । अप्रस्तुतप्रशंसेति । उपायप्रवृत्तस्यापि सम्पल्लक्षणं फलमलब्धवतः कस्यचिद्राजादेः गुणप्रशंसारूपः प्रस्तुतार्थ इत्यर्थः । प्राधान्येन व्यङ्ग्येति । अप्रस्तुतप्रशंसास्थलेप्रस्तुतार्थो व्यङ्ग्यः, स क्वचित्प्रधानञ्चेति प्रथमोद्योते उक्तं । अर्थान्तरन्यासस्य व्यङ्ग्यतेति । प्राधान्येनेत्यनुषज्यते । कुत इत्यत्राह---द्वयोरित्यादि । भावार्थमाह---सर्वो हीत्यादि । वाक्ये त्वप्रस्तुतप्रशंसेति । प्राधान्येन व्यङ्ग्येति शेषः । नन्वेवं सति कथमत्र व्यवहार हत्यत


     अत्र हि वाच्यविशेषेण सापराघस्यापि बहुज्ञस्य कोपः कर्तुमशक्य इति समर्थकं सामान्यमन्वितमन्यत्तात्पर्येण प्रकाशते ।


लोचनम्

फलपदेऽर्थान्तरन्यासध्वनिः प्राधान्येन । वाक्ये त्वप्रस्तुतप्रशंसा । तत्रापि पुनः फलपदोपात्तसामर्थ्यसमर्थकभावप्राधान्यमेव भातीत्यर्थान्तरन्यासध्वनिरेवायमिति भावः ।
     हृदये स्थापितो न तु बहिः प्रकटतो मन्युर्यया । अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन्हे बहुज्ञ, अपराद्धस्यापि तव न खलु रोषकरणं शक्यं । अत्र बहुज्ञेत्यामन्त्रणार्थे विशेषे पर्यवसितः । अनन्तरं तु तदर्थपर्यालोजनाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि । सा हि खण्डिता सती वैदग्ध्यानुनीता तं प्रत्यसूयां दर्शयन्तीत्थमाह । यः कश्चिद्बहुज्ञो धूर्तः स एवं सापराधोऽपि स्वापराधावकाशमाच्छादयतीति मा त्वमात्मनि बहुमानं मिथ्या ग्रहीरिति । अन्वितमिति । विशेषे सामान्यस्य संबद्धत्वादिति भावः ।

बालप्रिया

आह---तत्रापीत्यादि । फलेति । फलपदोपात्तौ यौ समर्थ्यसमर्थकावर्थौ तयोर्भावस्य प्राधान्यमित्यर्थः । भाति सहृदयानां स्फुरति । अर्थान्तरेत्यादि । ऽप्राधान्येन व्यपदेशा भवन्तीऽति न्यायेनार्थान्तरन्यासध्वनिव्यवहार एवात्रेति भावः ।
     कस्याश्चिदन्तर्गतरोषाया अनाविष्कृतरोषचिह्नायाः कृतागसा वल्लभेन प्रसाद्यमानायाः तं प्रतिवचनम्--हृदयेत्यादि । विवृणोति--हृदये स्थापित इत्यादि । प्रसादयन्निति सम्बुद्ध्यन्तं । यद्वा--त्वमसीति शेषः । न खलुरोषकरणं शक्यमिति । मयेति शेषः । हे बहुज्ञ ! यतस्त्वं मां प्रसादयन्नसि, अतोऽपराद्धमपि त्वां प्रति रोषं कर्तुं न शक्नोमीत्यर्थः । ऽबहुज्ञस्येऽति । बहुज्ञं प्रतीत्यर्थः । ऽअशक्यऽ इति । केनाप न शक्य इत्यर्थः । स्ववैदुग्ध्येन स्वापराध्स्य तेन प्रच्छादनादिति भावः । ऽइतीऽति । एवंरूपमित्यर्थः । ऽसमर्थकं समानम्ऽ इत्यस्य विशेषणम्ऽअन्वितमन्यदिऽति च । ऽतात्पर्येण प्रकाशतऽ इति । ध्वनतीत्यर्थः । वृत्त्युक्तमेवार्थ विवृणोति---अत्रेत्यादि । विशेषे पर्यवसित इति । नाहमपराधी नाहमन्यां चिन्तयामि, त्वदेकासक्ते मयि प्रसीदेत्याद्यमेकवचनाभिज्ञेति बहुज्ञपदप्रकृतार्थे इत्यर्थः । ध्वनिं दर्शयति---अनन्तरमित्यादि । सालाम्यरूपं समर्थकमिति । तत्तु य इत्यादिना वक्ष्यते---सेति । प्रकृता नायिकेत्यर्थः । खण्डितेति । "ज्ञातेऽन्यासङ्गविकृते खण्जितेर्ष्याकषायितेऽति तल्लक्षणं । वैदुग्ध्यानुनीता स्ववैदुग्ध्येन प्रसादिता, नायकेनेति शेषः । कथमाहेत्यत्राह---य इत्यादि । त्वमात्मनि मिथ्याबहुज्ञानं मा ग्रहीः, यतो बहुज्ञास्तु सापराधा अपि तत्तद्वचनेन स्वापराधावकाशमाच्छादयन्तीत्यर्थः । अन्वितमित्यनेन सामान्यविशेषभावरूपसम्बन्धो विवक्षित इति दर्शयति---विशेष इत्यादि । "व्यति प्रागिऽत्येतद्विवृणोति-----स्वमित्यादि ।


     व्यतिरेकध्वनिरप्युभयरूपः सम्भवति । तत्राद्यस्योदाहरणं प्राक्प्रदर्शितमेव । द्वितीयस्योदाहरणं यथा---
जाएज्ज वणुद्देसे खुज्ज व्विअ पाअवो गडिअवत्तो ।
मा माणुसम्मि लोए ताएक्वरसो दरिद्दो अ ।।
(जायेय वनोद्देशे कुब्ज एव पादपो गलितपत्रः ।
मा मानुषे लोके त्यागैकरसो दरिद्रश्च ।। इत छाया)
     अत्र हि त्यागैकरसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटितपत्र्रकुब्जपा दपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यं । तथाविधादपि पादपात्तादृशस्य पुंस उपमानोपमेयत्वप्रतीतिपूर्वकं शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति । उत्प्रेक्षाध्वनिर्यथा----
चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः ।
मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः ।।


लोचनम्

व्यतिरेकध्वनिरपीति । अपिशब्देनार्थान्तरन्यासवदेव द्विप्रकारत्वमाह । प्रागिति । ऽखं येऽत्युज्ज्वलयन्तिऽ इति । ऽरक्तस्त्वं नवपल्लवैःऽ इति । जायेय, वनोद्देश एव वनस्यैकान्ते गहने यत्र स्फुटतरबहुवृक्षसम्पत्त्या प्रेक्षतेऽपि न कश्चित् । कुब्ज इत रूपयोटनादावनुपयोगी । गलितपत्र्र इति । छायामपि न करोति तस्य का पुष्पफलवत्तेत्यभिप्रायः । तादृशोऽपि कदाचिदाङ्गारिकस्योपयोगी भवेदुलूकादीनां वा निवासायेति भावः । मानुष इति । सुलभार्थिजन इति भावः । लोक इति । यत्र लोक्यते सोऽर्थिभिस्तेन चार्थिजनो न च किञ्चिच्छक्यते कर्तुं तन्महद्वैशसमिति भावः । अत्र

बालप्रिया

खं येऽत्युज्वलयन्ति इति, इत्यस्यानन्तरंऽरक्तस्त्वंनवपल्लवैऽरिति इति च पाठः क्वचित्दृश्यते, स प्रामादिकः । ऽन तु रक्तस्त्वम्ऽ इत्यादिपाठो वा । कुब्ज एवेति छाया । वनोद्देश इत्यनेनैवकारस्य सम्बन्ध इत्याह---वनेत्यादि । वनोद्देश इत्यस्य विवरणम्----वनस्येत्यादि । गम्यमर्थमाह---यत्रेत्यादि । एवमुपर्यपि बोध्यं । रूपघटनेति । प्रतिमाद्यकृतिनिर्माणेत्यर्थः । गलितपत्र इति । त्रुटितत्र इति च पाठः । आङ्गारिकस्येति । अङ्गारोपजीविन इत्यर्थः । अहं कुब्जः गलितपत्रः पादपः पनोद्देशे इव जायेय । त्यागैकरसो दरिद्रश्च मानुषेलोके माजयेय इत्यन्वयः । वृत्तो---ऽशब्दवाच्यऽमित्यस्यऽप्रकाशयतीऽत्यनेनान्वयः ।


     अत्र हि मधौ मलयमारुतस्य पथिकमूर्च्छाकारित्वं मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितत्वेनोत्प्रेक्षितमित्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनुरणनरूपा लक्ष्यते । न चैवंविधे विषये इवादिशब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्यते वक्तुं । गमकत्वादन्यत्रापि


लोचनम्

वाच्यालङ्कारो न कश्चित् । उपमानेत्यनेन व्यतिरेकस्य मार्गपरिशुद्धिं करोति । आधिक्यमिति । व्यतिरेकमित्यर्थः । उत्प्रेक्षितमिति । विषवातेन हि मूर्छितो बृंहित उपचितो मोहं करोति । एकश्च मूर्च्छितः पथिकमध्येऽन्येषामपि धैर्यच्युति विदधन्मूर्च्छां करोतीतित्युभयथोत्प्रेक्षा । नन्वत्र विशेषणमधिकीभवद्धेतुतयैव सङ्गच्छते । ततः किं? न हि हेतुता परमार्थतः । तथापि तु हेतुता उत्प्रेक्ष्यत इति यत्किञ्चिदेतत् ।

बालप्रिया

मार्गपरिशुद्धिं करोतीति । किञ्चिद्धर्मेण सादृश्यात्मकस्योपमाङ्गोपमेयत्वस्य प्रतीतिर्हि व्यतिरेकप्रतीतेरङ्गमिति भावः । वृत्तौ---ऽचन्दनेऽति । मलयाद्रिस्थचन्दनवृक्षेत्यर्थः । ऽमधौऽ वसन्ते । ऽपथिकेऽत्यादि । विरहिजनमोहकारित्वमित्यर्थः । ऽमन्मथेऽति । कामोद्दीपकत्वेनवस्तुदता हेतुनेत्यर्थः । ऽतत्त्विऽति । पथिकमूर्च्छाकारित्वन्त्वित्यर्थः । ऽचन्दनेऽत्यादि । चन्दनासक्तभुजगनिश्वासानिलमूर्ञ्छितत्वेन हेतुना उत्प्रेक्षितमित्यर्थः । एतद्विवृणोति---विषवातेनेत्यादि । विषवातेन विषयुक्तवायुना । प्रकृते निःश्वासानिलस्य भुजगसम्बन्धितयाविषसम्पर्को गम्यत इति भावः । "मूर्च्छामोहसमुच्छ्राययो"रिति धातुपाठः । तत्र समुच्छ्रायार्थाप्रायेणा व्याचष्टे---बृंहित इति अस्यैव विवरणम्---उपचित इति । मोहं करोतीति । स्वसर्ङ्गेणान्यस्य मोहावस्थां । जनयतीत्यर्थः । गोपार्थाभिप्रायेण व्याचष्टे---एकश्चेत्यादि । एकपदार्थत्वेनात्र पथिकायमानो वायुर्ग्राह्यः । धैर्यच्युतिं तद्द्वारेत्यर्थः । मूर्च्छामिति । मोहमित्यर्थः । उभयथोत्प्रेक्षेति विषवातोपचितत्वं मोहावस्थाप्राप्तिश्चेति ये तयोः मलयमारुतस्य पथिकमूर्च्छाकरणेहेतुत्वेनोत्प्रेक्षेत्यर्थः । वृत्तौऽमूर्च्छितत्वेनोत्प्रेक्षितऽमिति ग्रन्थस्य उक्तहेतूत्प्रेक्षापरत्वं शङ्कासमाधानाभ्यां दर्शयति---नन्वित्यादि । विशेषणं चन्दनेत्यादिविशेषणं । हेतुतयैवेति । हेतुगर्भत्वेनैवेत्यर्थः । समाधत्ते---तत इत्यादि । ततः किं हेतुगर्भत्वे सत्यपि किं । कुत इत्यत आह--न हीत्यादि । तद्विशेषणस्य पर्थिकमूर्च्छाकारित्वे वस्तुतो हेतुत्वं नास्तीत्यर्थः । तथापि त्विति । किं त्वित्यर्थः । हेतुता उत्प्रेक्ष्यत इति । उक्तयोर्द्वयोः हेतुत्वमुत्प्रेक्ष्यते इत्यर्थः । हेतुतापि इति च पाठः । तत्पक्षे मलयमारुते तयोर्द्वयोरुत्प्रेक्षाया अपिशब्देन समुच्चयः । चन्दनासक्तभुजगानां निश्वासानिलैः मूर्च्छितः सम्बद्ध इति स्वरूपकथनमात्रपरं तद्विशेषणमतो वाच्यार्थनिष्पत्तिर्बोध्या । वृत्तौऽसाक्षादनुक्तापीऽति । इवादिपदेनाबोधितापीत्यर्थः ।


तदप्रयोगे तदर्थावगृतिदर्शनात् । यथा---
इसाकलुसस्स वि तुह मुहस्स णं एस पुण्णिमाचन्दो ।
अज्ज सरिसत्तणं पाविऊण अङ्गे विअ ण माइ ।।
(ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः ।
अद्य सदृशत्वं प्राप्याङ्ग एव न माति ।। इति छाया)


लोचनम्

तदिति । तस्येवादेरप्रयोगेऽपि तस्यार्थस्येत्युत्प्रेक्षारूपस्यावगतेः प्रतीतेर्दर्शनात् । एतदेवोदाहरति---यथेतिर् । इर्ष्याकलुषस्यापीषदरुणच्छायाकस्य । यदि तु प्रसन्नस्य मुखस्य सादृश्यमुद्वहेत्सर्वदा वा तत्किं कुर्यात्त्वन्मुखं त्वेतद्भवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याभिप्रायः । अङ्गे स्वदेहे न मात्येव दश दिशः पूरयति यतः । अद्येयता कालेनैकं दिवसमात्रमित्यर्थः । अत्र पूर्णचन्द्रेण दिशां पूरणं स्वरससिद्धमेवमुत्प्रेक्ष्यते ।
     ननु ननुशब्देन वितर्कोत्प्रेक्षारूपमाचक्षाणेनासम्बद्धता निराकृतेति सम्भावयमान

बालप्रिया

ऽअनुरणनरूपाऽ संलक्ष्यक्रमव्यङ्ग्या । ऽलक्ष्यतेऽ ज्ञायते । शङ्कतेऽन चेऽत्यादिऽएवंविधे विषयेऽ इति चन्दनासक्तेत्यादिस्थल इत्यर्थः । ऽअसम्बद्धतेऽति । उत्प्रेक्षायाः वाक्यासम्बद्धतेत्यर्थः । वाक्याप्रतिपाद्यतेति यावत् । समाधत्ते---ऽगमकत्वादिऽति । चन्दनेत्यादिविशेषणस्य प्रतिपत्तृप्रतिभावदिसहकारेण बोधकत्वादित्यर्थः । अत्र प्रमाणमाह----ऽअन्यत्रापीऽत्यादि । ऽतदप्रयोगऽ इत्यादिग्रन्थं विवृणोति---तस्येत्यादिर् । इर्ष्येति । कुपितां नायिकां प्रसादयतुमुक्तिरः, इर्ष्याकलुषस्येत्यस्य व्याख्यानर्म्----इषदित्यादि । अपिशब्दगम्यमाह---यदि त्वित्यादि । उद्वहेत्कुर्यादित्युभयत्र चन्द्र इति शेषः । अद्येत्यनेन गम्यमाह---सर्वदेति । तत्तदा किं कुर्यादिति । सन्तोषातिशयेन यद्यत्कुर्यात्तन्न जानामीत्यर्थः । एतद्भवतीति । चन्द्रीभवतीत्यर्थः । अङ्ग एवेति छाया । एवकारस्य मातीत्यनेनान्वय इत्याह---नेत्यादि । अत्र गम्यं हेतुमाह---दशदिशः पूरयति यत इति । अद्येति पदं विवृणोति----इयतेत्यादि । ध्वनिं दर्शयति---अत्रेत्यादि । दिशां पूरणमिति । अङ्गेन भात्येवेत्यनेन लब्धं स्वप्रभया दिशं पूरणमित्यर्थः । स्वरससिद्धं अस्वाभाविकं । एवमुत्प्रेक्ष्यते इति । तव मुखस्य सदृशत्वं प्राप्येवेति मुखसादृश्यप्राप्तिहेतुकत्वेनोत्प्रेक्ष्यत इत्यर्थः ।
     उदाहरणान्तरमवतारयति---नन्वित्यादि । ननुशब्देनेति । गाथास्थननुशब्देनेत्यर्थः । सदृशत्वं प्राप्य नन्विति योजनेति भावः । ऽत्रासेऽत्यादि श्लोकं व्याचष्टे---सर्वत इत्यादि । निकेतान्परित इति । नानुबद्ध इति च सम्बन्धः । अनुबद्धः


यथा वा----
त्रासाकुलः परिपतन्परितो निकेतान्
पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिदङ्गनाभि-
राकर्णपूर्णनयनेषुहतेक्षणश्रीः ।।
शब्दार्थव्यवहारे च प्रसिद्धिरेव प्रमाणं ।
श्लेषध्वनिर्यथा---
रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ।।
     अत्र वधूमिः सह वलभीरसेवन्तेति वाक्यार्थप्रतीतेरनन्तरं वध्व इव

लोचनम्

उदाहरणान्तरमाह--यथा वेति । परितः सर्वतो निकेतान्परिपतन्नाक्रमन्न कैश्चिदपि चापपाणिभिरसौ मृगोऽनुबद्धस्तथापि न क्वचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते---अङ्गनाभिराकर्णपूर्णौर्नेत्रशरैर्हतारिक्षणश्रीः सर्वस्वभूता यस्य यतोऽतो न तस्थौ । नन्वेतदप्यसम्बद्धमस्त्वित्याशङ्क्याह----शब्दार्थेति । पताका ध्वजपटान्प्राप्तवन्ती । रम्या इति हेतोः । पताकाः प्रसिद्धीः प्राप्तवतीः । किमाकाराः प्रसिद्धीः रम्या इत्येवमाकाराः विविक्ता जनसङ्कुलत्वाभावादित्यतो हेतो रागं सम्भोगाभिलाषं वर्धयन्तीः । अन्ये तु रागं चित्रशोभामिति । तथा रागमनुरागं वर्धयन्तीः । यतो हेतोः विविक्ता विभक्तङ्ग्यो लटभाः याः । नमन्ति वलीकानि छदिपर्यन्तभागा यासु । नमन्त्यो वल्लयस्त्रिवलीलक्षणा यासां । सममिति सहेत्यर्थः । ननु समशब्दात्तुल्यार्थोऽपि प्रतीतः ।

बालप्रिया

अनुगतः,ऽन तस्थाविऽत्यत्र वास्तवो हेतुस्त्रासाकुल इत्यनेन दर्शित इत्याह---त्रासेत्यादि । आकर्णपूर्णैः कर्णपर्यन्तव्याप्तैः आकर्णकृष्टैश्च नेत्रशरैः नेत्राण्येव शरास्तैः, अतो न तस्थाविति । उक्ताद्धेतोरेव न स्थितवानित्यर्थः । तथाचात्र हेतूत्प्रेक्षाध्वनिरितिभावः । अत्राप्यङ्गनादृष्टिं प्रशंसापरमाकर्णेत्यादिकं स्वरूपकथनमितिवाक्यार्थनिष्पत्तिरवसेया । एतदपीति । उक्तोदाहरणमपीत्यर्थः । असम्बद्धमिति । उत्प्रेक्षारूपार्थाबोधकमित्यर्थः । वृत्तौऽशब्देऽति । एवमस्यशब्दस्यार्थ इति व्यवहार इत्यर्थः । ऽप्रसिद्धिरेवऽ प्रतिपत्तॄणां प्रतितिरेव । तथाचोक्तस्थले इवादिशब्दाभावेऽप्युत्प्रेक्षारूपार्थस्य सहृदयानां प्रतीतेरसम्बद्धत्वापादानं न युक्तमिति भावः । व्याचष्टे----पताका इत्यादि । अत्राद्योऽर्थो वलभीभिरन्वेति, द्वितीयस्तु वधूभिः । व्याख्यानान्तरमाह--अन्य इति । लटभा इति सुन्दर्य इत्यर्थः । नन्वित्यादि । समशब्दादिति ।


लोचनम्

सत्यं ; सोऽपि श्लेषबलात् । श्लेषश्च नाभिधावृत्तेराक्षिप्तः, अपि त्वर्थसौन्दर्यबलादेवेति सर्वथा ध्वन्यमान एव श्लेषः । अत एव वध्व इव वलभ्य इत्यभिदधतापि वृत्तिकृतोपमाध्वनिरिति नोक्तं । श्लेषस्यैवात्र मूलत्वात् । समा इति हि यदि स्पष्टं भवेत्तदोपमाया एव स्पष्टत्वाच्छ्लेषस्तदाक्षिप्तः स्यात् । सममिति निपातोऽञ्जसा सहार्थवृत्तिर्व्यञ्जकत्वबलेनैव क्रियाविशेषणत्वेन शब्दश्लेषतामेति । न च तेन विनाभिदाया अपरिपुष्टता काचित् । अत एव समाप्तायामेवाभिधायां सहृदयैरेव स द्वितीयोऽर्थोऽपृथक्प्रयत्नेनैवावगम्यः । यथोक्तं प्राक्---ऽशब्दार्थशासनज्ञानमात्रेणैवऽ इत्यादि । एतच्च सर्वोदाहरणेष्वनुसर्तव्यं । ऽपीनश्चैत्रो दिवा नातिऽ इत्यत्राभिधैवापर्यवसितेति सैव स्वार्थनिर्वाहायार्थान्तरं शब्दान्तरं वाकर्षतीत्यनुमानस्य श्रुतार्थापत्तेर्वा

बालप्रिया

सममिति शब्दादित्यर्थः । तुल्यार्थोऽपीत । अपिशब्देन पूर्वोक्तसहार्थस्य समुच्चयः । सोऽपि तुल्यरूपार्थोऽपि श्लेषबलादिति । वध्वन्वय्यर्थान्तरसामर्थ्यादित्यर्थः । श्लेषस्चेति । अर्थान्तरं चेत्यर्थः । अभिधावृत्तेः अभिधाव्यापाराद्धेतोः । नाक्षिप्तः न प्रतीतः । पदानां वलभीपदसमानविभक्तिकत्वेनाभिदाया वलभ्यन्वय्यर्थे नियमनादिति भावः । अत एवेति । वक्ष्यमाणहेतोरेवेत्षथः । समा इतीति । सममित्यस्य सथान इति शेषः । सममित्युक्तौ कुतो न स्पष्टत्वमत आह---सममित्यादि । अञ्जसा झटिति । सहार्थवृत्तिः साहित्यरूपार्थबोधकः । यूनां सवधूकानां सतां वलभीसेवनस्यार्थस्य प्रकृतत्वादिति भावः । क्रियाविशेषणत्वेनेति । सेवनक्रियायाः वर्तमाना इत्यव्याहृतक्रियाया वा विशेषणतयेत्यर्थः । शब्दश्लेषतामेतीति । तुल्यमित्यर्थान्तरं बोधयतीत्यर्थः । श्लेषध्वनिं स्थापयति--न चेत्यादि । अपूथक्प्रयत्नेन प्रयत्नान्तरं विना । प्रसङ्गादाह--पीन इत्यादि । अप्र्यवसितेति । दिवाभोजनमकुर्वतः कुतः पीनत्वमित्याकाङ्क्षासत्त्वेन शान्ताकाङ्क्षस्य बोधस्याजननादिति भावः । स्वार्थेति । पीनत्वादिघटितस्वविषयार्थेत्यर्थः । अर्थान्तरं रात्रिभोजनं । शब्दान्तरं रात्रौ भुङ्क्ते इति शब्दं । आकर्षति अनुसन्धापयति । अनुमानेत्यादि । यतासंख्यमत्र बोध्यं । यथासंख्यध्वनिं विवृणोति वृत्तौ---ऽअत हीऽत्यादि । ऽयथोद्देशंऽ उद्देशक्रममनतिलङ्ध्य । ऽअनूद्देशेऽ पश्चान्निर्देशे सति । ऽयच्चारुत्वम्ऽ चारुत्वकारि यत्ऽअनुरणनरूपंऽ संलक्ष्यक्रमं व्यङ्ग्यं । ऽमदनेऽति । मदनविशेषणीभूतो योऽङ्कुरितादिशब्दः सञ्जातेषत्प्रादुर्भावादिः तदर्थः तट्गतं तदाश्रितं । ऽतदिऽति । चारुत्वकारि यथासंख्यात्मकं व्यङ्ग्यमित्यर्थः । तत्तु यताश्रुतक्रमं संख्यासाम्यमेव । ऽमदनसहकारयोरिऽति । कार्यकारणात्मकयोस्तयोरित्यर्थः । ऽतुल्येऽति । तुल्ययोगिता तुल्यकालसम्बन्धः तद्रूपो यः समुच्चयस्तल्लक्षणादित्यर्थः । ऽवाच्यादिऽति । चकाराभ्यां बोध्यादित्यर्थः । ऽअतिरिच्यमानम्ऽ इति । उत्कृष्टमित्यर्थः । ऽआलक्ष्यतेऽज्ञायते ।


बलभ्य इति श्लेषप्रतीतिरशब्दाप्यर्थसामर्थ्यान्मुख्यत्वेन वर्तते ।
     यथासङ्ख्यध्वनिर्यथा---
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः ।
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः ।।
     अत्र हि यथोद्देशमनूद्देशे यचचारुत्वमनुरणनरूपं मदनाविशेषणभूताङ्कुरितादिशब्दगतं तन्मदनसहकारयोस्तुल्ययोगितासमुच्चयलक्षणाद्वाच्यादतिरिच्यमानमालक्ष्यते । एवमन्येऽप्यलङ्कारा यथोयोगं


लोचनम्

तार्किकमीमांसकयोर्न ध्वनिप्रसङ्ग इत्यलं बहुना । तदाह--अशब्दापीति । एवमन्येऽपीति । सर्वेषामेवार्थालङ्काराणां ध्वन्यमानता दृश्यते । यथा च दीपकध्वनिः--
मा भवन्तमनलः पवनो वा वारणो मदवलः परशुर्वा ।
वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ।।
     इत्यत्र बाधिष्टेति गोप्यमानादेव दीपकादत्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः । अप्रस्तुगतप्रशंसाध्वनिरपि---
ढुण्ढुल्लन्तो मरिहिसि कण्टाकलिआइं केऐवणाइं ।
मालैकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ।।
     प्रियतमेन साकमुद्याने विहरन्ती काचिन्नायिका भ्रमरमेवमाहेति भृङ्गस्याभिधायां

बालप्रिया

ऽअङ्कुरितेऽ इति सप्तम्यन्तपाठोऽपि पूर्वार्धे दृश्यते । लोचने--यथाचेति । तथा च इति च पाठः । इत्यत्रेत्यस्य दीपकध्वनिरित्यनेनापि सम्बन्धः । दीपकध्वनिं विवृणोति---बाधिष्ठेत्यादि । बाधिष्ठेति दीपकादिति । माङर्थान्वितलुङन्तबाधत्यर्थरूपादनलाद्यनेकान्वयि धर्मादित्यर्थः । अत्यन्तेति । लतासहिते वृक्षे वक्तृगतनिरतिशयश्नेहास्पदत्वस्य प्रतीत्येत्यर्थः । चारुत्वनिष्पत्तिरिति । यतस्ततो दीपकध्वनिरिति सम्बन्धः । अत्र "यश्च निम्बं परशुने"त्यादाविव मा भवन्तमनल इत्यत्र धाक्षीदित्यस्य, पवनो वेत्यादौ भाङ्क्षीरित्यस्य, परशुर्वेत्यादौ भैत्सीदित्यस्य चाध्याहारेण वाच्यार्थनिष्पत्तिर्बोध्या । अप्रस्तुतप्रशंसाध्वनिरपीति । सादृश्यनिमित्तकाप्रस्तुतप्रशंसाध्वनिरपीत्यर्थः ।
     डुण्ढु इत्यादि । अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमसदृशं भ्रमर भ्रमन्न प्राप्स्यसि ।।इति छाया । विवृणोति--प्रियतमेनेत्यादि । भ्रमरमिति । केतक्यभिमुखं चरन्तं कञ्जिन्मधुपमित्यर्थः । आहेतीति । वक्तीत्यतो हेतोरित्यर्थः । भृङ्गस्येति । भृङ्गवृत्तान्तस्येत्यर्थः । अभिदायामभिधेयत्वे सति ।
---

लोचनम्

प्रस्तुतत्वमेव । न चामन्त्रणादप्रस्तुतत्वावगतिः, प्रत्युतामान्त्रणं तस्या मौग्ध्यविजृम्भितमिति अभिधया तावन्नाप्रस्तुतप्रशंसा समाप्या । समाप्तायां पुनरभिधायां वाच्यार्थबलादन्यापदेशता ध्वन्यते । यत्सौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी कुलवधूर्निर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्ध्यतिशयानि शम्भलीकण्टकव्याप्तानि दूरामोदकेतकीवनस्थानीयानि वेश्याकुलानीतश्चेतश्च चञ्चूर्यमाणं प्रियतममुपालभते । अपह्नुतध्वनिर्यथास्मदुपाध्यायभट्टेन्दुराजस्य---
यः कालगुरुपत्र्रभङ्गरचनावासैकसारायते
गौराङ्गीकुवकुम्भभूरिसुभगाभोगे सुधाधामनि ।

बालप्रिया

प्रस्तुतत्वमेवेत्येवकारेणाप्रस्तुतत्वव्यवच्छेदः । शङ्केत---न चेत्यादि । आमन्त्रणादिति । भृङ्गस्येत्यनुषङ्गः । अनामन्त्रणीयस्य भ्रमरस्य सम्बोधनादित्यर्थः । अप्रस्तुतत्वावगतिः अप्रस्तुतत्वस्य बोधः । न चेत्यन्वयः । कुत इत्यत आह---प्रत्युतेत्यादि । तस्याः नायिकायाःयन्मौगध्यं मुग्धत्वं "मुग्धा नववयःकामे"त्यादि मुग्धालक्षणं, तस्य विजृम्भितं मौग्ध्यहेतुकमिति यावत् । इतीति हेतौ । अभिधया तावदित्यादि । भृङ्गवृत्तान्तस्य यद्यप्रस्तुतत्वं भवेतदा प्रियतमोपालम्भरूपार्थ एव वाक्यस्य विश्रान्त्या तस्याभिधया समाप्यत्वं भवेत्, प्रकृते भृङ्गवृत्तान्तस्यापि प्रस्तुतत्वसम्भवान्मुख्यतया विवक्षितः । प्रियतमोपालम्भरूपार्थोऽभिधया न समाप्य इत्यर्थः । समाप्तायामित्यादि । प्रकारणवशेन भृङ्गतदन्वय्यभिधेयार्थबोधे निष्पन्ने सतीत्यर्थः । वाच्यार्थबलादिति । वाच्यार्थसाम्यबलादित्यर्थः । अन्यापदेशतेति । अर्थान्तरमित्यर्थः । तदाह---यदित्यादि । सुकुमारः सुन्दरः मुग्धकुलवधूरिति च पाठः । प्रेमेति । प्रियतमविषयकप्रेमेत्यर्थः । परतया हेतुना उपालभते इति सम्बन्धः । कृतकेति । कृतकवैदग्ध्येन लब्धः प्रसिद्ध्यतिशयो यैः तानि । शम्भलीति । कण्टकतुल्याभिः कुट्टनीभिर्व्याप्तानीत्यर्थः । डाम्भिककण्टकेति च पाठः । दूरेति । दूरव्याप्तामोदानि यानि केतकीवनानि तत्तुल्यानीत्यर्थः । चञ्चूर्यमाणमिति । तत्सम्भोगाय मुहुश्चरन्तमित्यर्थः ।
     य इति । यः गौराङ्गीकुचकुम्भ इव भूरिः सुभगश्चाभोगो यस्य तस्मिन् । सुधाधामनि चन्द्रे कालागरुणा या पत्रभङ्गरचना रचितः पत्रभङ्ग इति यावत्, तद्रूपेण यो वासः, यद्वा---रचनाया आवासः आस्पदत्वं तेन एकेन सारायते । हे नताङ्गि सुन्दरि !


लोचनम्

विच्छेदानलदीपितोत्कवनिताचेतोधिवासोद्भवं
सन्तापं विनिनीषुरेष विततैरङ्गैर्नताङ्गि स्मरः ।।
     अत्र चन्द्रमण्जलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितप्लोषमलीमसच्छविमन्मथाकारतयापह्नवो ध्वन्यते ।
अत्रेव ससन्देहध्वनिः---यतश्चन्द्रवर्तिनस्तस्य नामापि न गृहीतं । अपि तु गौराङ्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्र्रभङ्गविच्छित्त्यास्पदत्वेन यः सारतामुत्कृष्टतामाचरतीति तन्न जानीमः किमेतद्वस्त्विति ससन्देहोऽपि ध्वन्यते । पूर्वमनङ्गीकृतप्रणयामनुतप्तां विरहोत्कण्ठितां वल्लभागमनप्रतीक्षापरत्वेन कृतप्रसाधनादिविधितया वासकसज्जीभूतां पूर्णचन्द्रोदयावसरे दूतीमुखानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालागुरुपत्र्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी चेयं कुवलयदलश्यामलकान्तिरेवमेव करोतीति प्रतिवस्तूपमाध्वनिरपि । सुधाधामनीति चन्द्रपर्यायतयोपात्तमपि पदं सन्तापं विनिनीषुरित्यत्र हेतुतामपि

बालप्रिया

एष इति । य इत्यस्य प्रतिनिर्देशः स इत्यर्थः । विच्छेदः प्रियतमविरह एवानलोऽग्रिः, तेन दीपितानि यानि उत्कानामुत्कण्ठितानां वनितानां चेतांसि तदधिवासेन उद्भवो यस्य तं । सन्तापं विनिनीषुः विनेतुं शमयितुमिच्छुरिति हेतुगर्भं । विततैरिति । प्रसारितैरित्यर्थः । अङ्गैरुपलक्षितः स्मरः भवतीत्यन्वयः । ध्वनिं दर्शयति--अत्रेत्यादिना । अपह्नव इति । नायमङ्कः, किन्तु तथाविधो मन्मथ इत्यपह्नव इत्यर्थः । यत इत्याद्याचरतीत्यन्तं व्याख्यातृवचनं । तस्येति । लक्ष्मण इत्यर्थः । न गृहीतमिति । विशेषतो न निर्दिष्टमित्यर्थः । अपि त्वित्यादि । गृहीतमित्यनुषज्यते । अपि तु इति गृहीतमिति सम्बन्धः । एवं निर्दिष्टमित्यर्थः । गौराङ्गीत्यादि । आभोगविशिष्टगौराङ्गीस्तनतुल्येत्यर्थः । रचनावासेत्यस्य विवरणम्---विच्छित्त्यास्पदत्वेनेति । आचरतीति । आवहतीत्यर्थः । फलितार्थकथनमेतत् । सारः उत्कृष्ट इवाचरति सारो भवति इति वा विग्रहः । तदिति । तथा निर्देशादित्यर्थः । न जानीम इत्यादि सन्देहाकारकथनं । इतीति । उक्तानध्यवसायात्मकवक्तृनायकगतसंशयप्रतीतेरित्यर्थः । ससन्देहः ससन्देहालङ्कारः । अपीति समुच्चये । पूर्वमितियादि । प्रणयः प्रियातमस्य प्रार्थना । अनुतप्तामिति । पश्चात्तापवतीमित्यर्थः । भूतामिति । नायिकामिति शेषः । चाटुकं कुर्वाण इत्यनेनास्य सम्बन्धः । त्वदीयेत्यादि । चाटुवचनं । एवमेव करोतीति । मन्मथोद्दीपनकारिणीत्यर्थः । इतिप्रतिवस्तूपमाध्वनिरिति । त्वदीयकुचकलशन्यस्तकालागरुपत्रभङ्गरचनामन्मथोद्दीपनकारिणो चन्द्रवर्तिनीयं कुवलयदलश्यामला कान्तिश्चैवमेव करोतीति वक्तृनायकचाटुवाक्यार्थस्य प्रतीत्या प्रतिवस्तूपमाया ध्वनिरित्यर्थः । हेतुतामिति । सुधाधामत्वरूपयोगार्थस्येति शेषः । शोभाभिः सह उद्दीपयति इति च पाठः ।


लोचनम्

व्यनक्तीति हेत्वलङ्कारध्वनिरपि । त्वदीयकुचशोभा मृगाङ्कशोभा च सह मदनमुद्दीपयत इति सहोक्तिध्वनिरपि । ऽत्वत्कुचसदृशश्चन्द्रश्चन्द्रश्चन्द्रसमस्त्वकुवाभोगःऽ इत्यर्थप्रतितेरुपमेयोपमाध्वनिरपि । एवमन्येऽप्यत्र भेदाः शक्योत्प्रेक्षाः । महाकविवाचोऽस्याः कामधेनुत्वात् । यतः---
हेलापि कस्यचिदचिन्त्यफलप्रसूत्यै कस्यापि नालमणवेऽपि फलाय यत्नः ।
दिग्दन्तिरोमचलनं धरणीं धुनोति खात्सम्पतन्नपि लतां चलयेन्न भृङ्गः ।।
     एषां तु भेदानां संसृष्टित्व सङ्करत्वं च यथायोगं चिन्त्यं । अतिशयोक्तिध्वनिर्यथा ममैव---
केलीकन्दलितस्य विभ्रममधोर्धुर्यं वपुस्ते दृशौ
भङ्गीभङ्गरकामकार्भुकमिदं भ्रूनर्मकर्मक्रमः ।
आपातेऽपि विकारकारणमहो वक्त्राम्बुजन्मासवः
सत्यं सुन्दरि वेधसस्त्रिजगतीसारस्त्वमेकाकृतिः ।।
     अत्र हि मधु मासमदनासवानां त्रैलोक्ये सुभगतान्योन्यं परिपोषकत्वेन । ते तु

बालप्रिया

     हेलेति । हेला लीला । यत्नः बुद्धिपूर्वको व्यापारः । वाक्यद्वये भवतीति शेषः । उक्तं सामान्यं विशेषेण समर्थयति---दिग्दन्तीत्यादि । दिग्दन्तिनोऽङ्गचलनमिति च पाठः । एषां त्वित्यादि । अपह्नवेन सहेतरेषां संसृष्टिः, ससन्देहप्रतिवस्तूपमोपमेयोपमानामेकवाक्यानुप्रवेशसङ्कर इत्यादिकं चिन्त्यमित्यर्थः ।
     केलीति । हे सुन्दरि ! ते तव दृशौ केलीविलासिजनस्य क्रीडा तस्याः कन्दलं नवाङ्कुरः रिषदाविर्भाव इति यावत् । तदस्य सञ्जातमिति केलीकन्दलितः, तस्य अचिराविर्भूतस्येत्यर्थः । विभ्रमः स्त्रीणां शृह्गारचेष्टा तत्कारी विभ्रमः शोभा, तच्छाली वा यो मधुर्वसन्तः तस्य धुरं कामोद्दीपनादिभारं वहतीति धुर्यं । वपुः स्त इति शेषः । त्वदीयं नेत्रद्वितयमचिराविर्भूतस्य वसन्तस्य कामोद्दीपनादिकार्यकारि शरीरं भवतीत्यर्थः । तथा ते इदमित्याद्येकं पदं । अयमनुभवैकगोचरो भ्रुवोर्नर्मकर्मणः लीलायाः क्रमः क्रमिकलीलाविशिष्टभ्रूयुग्ममित्यर्थः । भङ्की रचनाविशेषः, तया हेतुना भङ्गुरं वक्रं, यद्वा---भङ्गीयुक्तं वक्रं च यत्कामस्य कार्भुकं क्रमिककर्मविशिष्टं धनुः तद्भवति । यद्वा---इदमिति भिन्नं पदं कर्मुकविशेषणं, क्रमिककर्मविशिष्टमिति तदर्थः । तथा ते वक्त्राम्बुजन्मनि मुखपझे य आसवः मद्यविशेषः । अत्रासवत्वेनाधररसस्याध्यवसायः । आपातेऽपि किञ्जिदास्वादेऽपि । किकाराणां सम्मोहानन्दादिरूपचित्तविकाराणां कारणं भवति । अहो इदमद्भुतं । अतः त्वमेका वेधसः कृतिः सृष्टिः त्रिजगतीसारः त्रैलोक्यसारभूता भवति । सत्यं निश्चितं । अत्र हीत्यस्य ध्वन्यत इत्यादिभिः सम्बन्धः । पोषकत्वेनेत्यन्तं हेतुवचनं । ते इत्यादिव्यङ्ग्यकथनं ।


योजनीयाः ।
     एवमलङ्कारध्वनिमार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुमिदमुच्यते--
शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितं ।
तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ।। २८ ।।
     ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद्य्वङ्ग्यत्वेनेत्यवगन्तव्यं । व्यङ्ग्यत्वेऽप्यलङ्काराणां प्रधान्यविवक्षायामेव


लोचनम्

त्वयि लोकोत्तरेण वपुषा सम्भूय स्थिता इत्यतिशयोक्तिर्ध्वन्यते । आपातेऽपि विकारकारणमित्यास्वादपरम्पराक्रिययापि विना विकारात्मनः फलस्य सम्पत्तिरिति विभावनाध्वनिरपि । विभ्रममधोर्धुर्यमिति तुल्ययोगिताध्वनिरपि । एवं सर्वालङ्काराणां ध्वन्यमानत्वमस्तीति मन्तव्यं । न तु यथा कैश्चिन्नियतविषयीकृतं । यथायोगमिति । क्वचिदलङ्कारः क्वचिद्वस्तु व्यञ्जकमित्यर्थो योजनीय इति ।। २.७ ।।
     ननुक्तास्तावच्चिरन्तनैरलङ्कारास्तेषां तु भवता यदि व्यङ्ग्यत्वं प्रदर्शितं किमियतेत्याशङ्क्याह--एवमित्यादि । येषामलङ्काराणां वाच्यत्वेन शरीरीकरणं शरीरभूतात्प्रस्तुतादर्थान्तरभूततया अशरीराणां कटकादिस्थानीयानां शरीरतापादनं व्यवस्थितं

बालप्रिया

ते मधुमदनासवाः । लोकात्तरेण वपुषेति । नेत्ररूपेण भ्रूरूपेणाधररसरूपेण च शरीरेणेत्यर्थः । मदनधनुषो भ्रूरूपेण स्थित्या मदनस्य स्थितिः सिध्यतीति बोध्यं । इतीति । इतिवक्तृकामुकवाक्यार्थप्रतीत्येत्यर्थः । अतिशयोक्तिरिति । नेत्रादौ । वसन्ताद्यभेदप्रतीत्या भेदे अभेदरूपातिशयोक्तिरित्यर्थः । तुल्ययोगितेति । दृग्द्वयस्य मधोश्च साम्यविवक्षया दृशौ विभ्रममधोर्धुर्यं वपुरित्युक्त्या "न्यूनस्यापि विशिष्टेने"त्यादिना भामहादिलक्षिता तुल्ययोगितेत्यर्थः । ऽएवमन्येऽप्यलङ्काराऽ इति बहुवचनलब्धमर्थमाह---एवमित्यादि । गम्यं व्यवच्छेद्यमाह---न त्वित्यादि । न त्विति । तथेति शेषः । नियतेति । नियतः नियमितः विषयः अलङ्कारविशेषरूपाश्रयो यस्य तत्कृतमित्यर्थः । ध्वन्यमानत्वमित्यनुषज्यते ।। २.७ ।।
     किमियतेति । अलङ्काराणां व्यङ्ग्यत्वप्रदर्शनेन किं फलमित्यर्थः । आहेति । शरीरीत्यादिना तत्फलं दर्शयतीत्यर्थः । कारिकां व्याचष्टे--येषामित्यादि । वाच्यत्वेनेति हेतौ तृतीया । च्विप्रत्ययार्थं दर्शयन्व्याचष्टे---शरीरभूतादित्यादि । शरीरतापादनमिति । शरीरत्वसम्पादनमित्यर्थः । व्यवस्थितत्वे गम्यं हेतुमाह---सुकविनामयत्नसम्पाद्यतया ।


सत्यां ध्वनावन्तःपातः । इतरथा तु गुणीभूतव्यङ्ग्यत्वं प्रतिपादयिष्यते । आङ्गित्वेन व्यङ्ग्यतायामपि ।
     अलङ्काराणां द्वयी गतिः--कदाचिद्वस्तुमात्रेण व्यज्यन्ते, कदाचिदलङ्कारेण । तत्र---
व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया ।
ध्रुवं ध्वन्यङ्गता तासां
     अत्र हेतुः----
काव्यवृत्तिस्तदाश्रया ।। २९ ।।


लोचनम्

यदि वा वाच्यत्वे सति येषां शरीरतापादनमपि न व्यवस्थितं दुर्घटमिति यावत् । तेऽलङ्कारा ध्वनेर्व्यापारस्य काव्यस्य वाङ्गतां व्यङ्ग्यरूपतया गताः सन्तः परां दुर्लभां छायां कान्तिमात्मरूपतां यान्ति । एतदुक्तं भवति---सुकविर्विदग्धपुरन्धीवद्भूषणं यद्यपि श्लिष्टं योजयति, तथापि शरीरतापत्तिरेवास्य कष्टसम्पाद्या कुङ्कुमपीतिकाया इव । आत्मतायास्तु का सम्भावनापि । एवम्भूता चेयं व्यङ्ग्यता या अप्रधानभूतापि वाच्यमात्रालङ्कारेभ्य उत्कर्षमलङ्काराणां वितरति । बालक्रीडायामपि राजत्वमिवेत्यमुमर्थं मनसि कृत्वाह---इतरथा त्विति ।। २.८ ।।
     तत्रेति । द्वय्यां गतौ सत्यां । अत्र हेतुरित्ययं वृत्तिग्रन्धः । काव्यस्य कविव्यापारस्य

बालप्रिया

सुकवीनामित्यादि । वाच्यत्वे इति सप्तम्यन्तं । नेति पृथक्पदमित्यन्यथापि व्याचष्टे---यदि वेत्यादि । ऽध्वन्यङ्गताम्ऽ इत्यत्र ध्वनिशब्दं द्वेधा व्याचष्टे---व्यापारस्येत्यादि । कथमङ्गत्वमित्यत्राह----व्यङ्ग्यतयेति । यदि वेत्युक्तव्याख्यानानुरोधेन भावार्थमाह---अतदुक्तमित्यादि । भूषणमिति । उपमादिकं कुङ्कुमादिकं चेत्यर्थः । श्लिष्टमिति । सक्तमित्यर्थः । अतिश्लिष्टमिति च पाठः । शररीतापत्तिः शरीरत्वसम्पादनं । अस्येति । उपमादेर्भूषणस्येत्यर्थः । कुङ्कुमेति । कुङ्कुमयुक्तानुलेपनविशेषः कुङ्कुमपीतिका तस्या इवेत्यर्थः । आत्मताया इति । आत्मत्वसम्पादनस्येत्यर्थः । अस्येत्यनुषङ्गः । का सम्भावनापीति । आत्मत्वसम्पादनमतिकष्टसम्पाद्यमित्यर्थः । इतरथेत्यादिग्रन्थमवतारयति---एवंभूतेत्यादि । इयं व्यङ्ग्यता एवम्भूता चेत्यन्वयः । कथम्भूतेत्यत्राह---येत्यादि । राजत्वमिवेति । बालान्तरेभ्यो राजबालस्येति । शेषः ।। २.८ ।।
     वृत्तिग्रन्थ इति । न तु कारिकांश इति भावः । "काव्ववृत्तिस्तदाश्रये"ति


यस्मात्तत्र तथाविधव्यङ्ग्यालङ्कारपरत्वेनैव काव्यं प्रवृत्तं । अन्यथा तु तद्वाक्यमात्रमेव स्यात् । तासामेवालङ्कृतीनाम्--- अलङ्कारान्तरव्यङ्ग्यभावे
     पुनः,
ध्वन्यङ्गता भवेत् ।
चारुत्वोत्कर्षतो व्यङ्ग्यप्राधान्यं यदि लक्ष्यते ।। ३० ।।
     उक्तं ह्येतत्--ऽचारुत्वोत्कर्षनिबन्धना वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षाऽ इति । वस्तुमात्रव्यङ्ग्यत्वे चालङ्काराणामनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तदेवमर्थमात्रेणालङ्कारविशेषरूपेण वार्थेनार्थान्तरस्यालङ्कारस्य


लोचनम्

वृत्तिस्तदाश्रयालङ्कारप्रवणा यतः । अन्यथेति । यदि न तत्परत्वमित्यर्थः । तेन तत्र गुणीभूतव्यङ्ग्यता नैव शङ्क्येति । तात्पर्यं । तासामेवालङ्कृतीनामित्ययं पठिष्यमाणकारिकोपस्कारः । पुनरिति कारिकामध्य उपस्कारः । ध्वन्यङ्गतेति । ध्वनिभेदत्वमित्यर्थः । व्यङ्ग्यप्राधान्यमिति । अत्र हेतुः---चारुत्वोत्कर्षत इति । यदीति । तदप्राधान्ये तु वाच्यालङ्कार एव प्रधानमिति गुणीभूतव्यङ्ग्यतेति भावः । नन्वलङ्कारो वस्तुना व्यज्यते अलङ्कारान्तरेण च व्यज्यत इत्यत्रोदाहरणानि किमिति न दर्शितानीत्याशङ्क्याह---वस्त्विति । एतत्संक्षिप्योपसंहरति---तदेवमिति । व्यङ्ग्यस्य

बालप्रिया

कारिकापाठाभिप्रायेण व्याचष्टे---काव्यस्येत्यादि । कविव्यापारस्येति । शब्दार्थरूपस्येत्यर्थः । वृत्तिरिति । स्थितिरित्यर्थः । सा अलङ्कृतिराश्रयो यस्या इत्यभिप्रायेण व्याचष्टे---अलङ्कारेत्यादि । यदि न तत्परत्वमिति । व्यङ्ग्यालङ्कारपरत्वं न भवति यदीत्यर्थः । वृत्तौऽतद्वाक्यमात्रमेव स्यादिऽति । ऽतत्ऽ काव्यत्वेनाभिमतं । ऽवाक्यमात्रमेवऽ न तु काव्यात्मकमित्यर्थः । अतः तत्परत्वेन भाव्यं, तथाच ध्वन्यङ्गत्वमेवेति भावः । एतद्भावार्थं दर्शयति लोचने--तेनेत्यादि । तासामित्यस्यालङ्कारान्तरव्यङ्ग्यभाव इत्यनेनापि सम्बन्धः । तासामित्यस्यालङ्कृतीनामित्यर्थश्चेत्याशयेन वृत्तौऽतासामेवालङ्कृतीनांऽ इत्युक्तमित्याह--तासामेवेत्यादि । पठिष्येत्यादि । वक्ष्यमाणकारिकयापि सम्बन्धमासाद्य कासामित्याकङ्कक्षानिवर्तकत्वेनोपकारकारीत्यर्थः । प्रकृतानुगुण्येन व्याचष्टे--ध्वनिभेदत्वमिति । ध्वन्यवान्तरप्रकारत्वमित्यर्थः । वाच्यालङ्कार एवेति । दीपकादिरेवेत्यर्थः । कारिकायामलङ्कारान्तरव्यङ्ग्यभावे इत्यस्य अलङ्कारान्तरेण व्यङ्ग्यत्वे सतीत्यर्थः । तदेवमित्यादिग्रन्थस्य सारार्थमाह---व्यङ्ग्यस्येत्यादि ।


वा प्रकाशने चारुत्वोत्कर्षनिबन्धने सति प्राधान्येऽर्थशक्तुद्भवानुरणरूपव्यङ्ग्यो ध्वनिरवगन्तव्यः ।
     एवं ध्वनेः प्रभेदान्प्रतिपाद्य तदाभासविवेकं कर्तुमुच्यते--
यत्र प्रतीयमानोऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ।। ३१ ।।
     द्विविधोऽपि प्रतियमानः स्फुटोऽस्फुटश्च । तत्र य एव स्फुटः शब्दशक्त्यार्थशक्त्या वा प्रकाशते स एव ध्वनेर्मार्गो नेतरः । स्फुटोऽपि योऽभिधेयस्याङ्गत्वेन प्रतियमानोऽवभासते सोऽस्यानुरणनरूपव्यङ्ग्यस्य ध्वनेरगोचरः । यथा----
कमलाअरा णं मलिआ हंसा उड्डाविआ ण अ पिउच्छा ।


लोचनम्

व्यञ्जकस्य च प्रत्येकं वस्त्वलङ्काररूपतया द्विप्रकारत्वाच्चतुर्विधोऽयमथशक्त्युद्भव इति तात्पर्यम् ।। २९ ,३० ।।
     एवमिति । अविवक्षितवाच्यो विवक्षितान्यपरवाच्य इति द्वौ मूलभेदौ । आद्यस्य द्वौ भेदौ---अत्यन्ततिरस्कृतवाच्यर्ऽथान्तरसंक्रमितवाच्यश्च । द्वितीयस्य द्वौ भेदौ अलक्ष्यक्रमोऽनुरणनरूपश्च । प्रथमोऽनन्तभेदः । द्वितीयो द्विविधः---शब्दशक्तिमूलोऽर्थशक्तिमूलश्च । पश्चिमस्त्रिविधः---कविप्रौढोक्तिकृतशरीरः कविनिबद्धवक्तृप्रौढोक्तिकृतशरीरः स्वतस्सम्भवी च । ते च प्रत्येकं व्यङ्ग्यव्यञ्जकयोरुक्तभेदनयेन चतुर्धेति द्वादशविधोऽर्थशक्तिमूलः । आद्याश्चत्वारो भेदा इति षोडश मुख्यभेदाः । ते च पदवाक्यप्रकाशत्वेन प्रत्येकं द्विविधा वक्ष्यन्ते । अलक्ष्यक्रमस्य तु वर्णपदवाक्यसङ्घटनाप्रबन्धप्रकाश्यत्वेन पञ्चत्रिंशद्भेदाः । तदाभासेभ्यो ध्वन्याभासेभ्यो विवेको विभागः ।

बालप्रिया

     सुबोधायोक्तान्वक्ष्यमाणांश्च ध्वनिप्रभेदान्सङ्कलय्याह---अविवक्षितवाच्यैत्यादिना पञ्जत्रिंशद्भेदा इत्यन्तेन । उक्तभेदेति । वस्त्वलङ्कारभेदेत्यर्थः । आद्याश्चत्वार इति । अत्यन्ततिरस्कृतवाच्योऽर्थान्तरसङ्क्रमितवाच्योऽलक्ष्यक्रमव्यङ्ग्यः शब्दशक्तिमूलानुरणनरूपश्चेति चत्वार इत्यर्थः । द्विविधा वक्ष्यन्त इति । तथाच द्वात्रिंशदित्यर्थः । वर्णोत्यादि । अत्र पदवाक्यप्रकाशत्वेन भेदस्योक्तत्वादनेन वर्णसङ्घटनाप्रबन्धप्रकाशयत्वेन यद्भेदत्रयं तदेव विवक्षितं, तथाच पञ्चत्रिंशद्भेदाः । तदाभासेभ्य इत्यादि । ध्वनेरित्यस्यात्रापि सम्बन्धो बोध्यः । यत्रेत्यादिपूर्वाधस्य विवरणं । वृत्तौऽद्विविधोऽपीऽत्यादि । प्रतियमानःस्फुटः अस्फुटश्च द्विविधोऽप भवतीत्यन्वयः ।


केण वि गामतडाए अब्भं उत्ताणां फलिहं ।।
     अत्र हि प्रतियमानस्य मुग्धवध्वा जलधरप्रतिबिम्बदर्शनस्य वाच्याङ्गत्वमेव । एवंविधे विषयेऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्षप्रतीत्या प्राधान्यमवसीयते, तत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्षप्रतीत्या प्राधान्यमवसीयते, तत्र व्यङ्ग्यस्याङ्गत्वेन प्रतीतेर्ध्वनेरविषयत्वं ।
     यथा----
वाणीरकुडङ्गोड्डीणसौणिकोलाहलं सुणन्तीए ।
घरकम्मवावडाए बहुए सीअन्ति अङ्गाइं ।।
एवंविधो हि विषयः प्रायेण गुणीभूतव्यङ्ग्यस्योदाहरणत्वेन निर्दक्ष्यते ।


लोचनम्

अस्येत्यात्मभूतस्य ध्वनेरसौ काव्यविशेषो न गोचरः ।
कमलाकरा न मलिता हंसा उड्डायिता न च सहसा । न विषय इत्यर्थः ।
केनापि ग्रामतडागेऽभ्रमुत्तानितं क्षिप्तं ।। इति च्छाया ।
     अन्ये तु पि उच्छा पितृष्वसः इत्थमामन्त्र्यते । केनापि अतिनिपुणेन । वाच्याङ्गत्वमेवेति । वाच्येनैव हि विस्मयविभावरूपेण मुग्धिमातिशयः प्रतीयत इति वाच्यादेव चारुत्वसम्पत् । वाच्यं तु स्वात्मोपपत्तयेऽर्थान्तरं स्वोपकारवाञ्छया व्यनक्ति ।
वेतसलतागहनोड्डीनशकुनिकोलाहलं शृण्वत्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ।। इति च्छाया ।

बालप्रिया

ऽअपीऽति समुच्चये । ऽस्फुटऽ इति । अस्फुटभिन्न इत्यर्थः । ऽअस्फुटऽ इतिऽयः प्रम्लिष्टत्वेन भासतऽ इत्यस्य विवरणं । वाच्येत्याद्युत्तरार्धस्य विवरणम्---ऽस्फुटोऽपीऽत्यादि । ऽनास्यासाऽवित्यादिचतुर्थपादस्य वृत्तिग्रन्थेनाप्रकाशितमर्थमाह लोचने-अस्येत्यादि । कस्याश्चिन्मुग्धायास्तटाके प्रतिबिम्बितमभ्रं दृष्ट्वा विस्मितायाः सखीजनं पितृष्वसारं वा प्रति कमलेत्यादिवचनं । केनापि ग्रामतटाके अभ्रं मेधमण्डलं उत्तानितमुत्तानं कृतं सतन्यथा यथोपरि तथा जलान्तर्दर्शनं न भवेत्क्षिप्तं परन्तु । कमलाकराः न मलिनाः सञ्जातमलाः मलिना इति वा छाया । हंसाः सहसा उड्डायिताः उर्ध्वङ्गताः । न च इदमद्भुतमिति भावः । सहसेत्यस्य स्थाने पितृष्वस इति छायां केचित्पठन्तीत्याह---अन्य इत्यादि । केनापीत्यस्यविवरणम्---अतिनिपुणेनेति । वाच्याङ्गत्वं विवृणोति---वाच्यैनैवेत्यादि । स्वात्मोपपत्तये स्वबोधविश्रान्तये । अर्थान्तरमिति । व्यङ्ग्यं मुग्धवध्वा जलधरप्रतिबिम्बस्य दर्शनमित्यर्थः । स्वोपकारवाञ्छया स्वोपकारं करोतीति वाञ्छयेव ।
     वेतसेति । काव्यप्रकाशेऽप्युदाहृतेयं गाथा । गुणीभूतव्यङ्ग्यत्वमत्र विवृणोति---अत्रेत्यादि ।


यत्र तु प्रकरणादिप्रतिपत्त्या निर्धारतविशेषो वाच्योऽर्थः पुनः प्रतीयमानाङ्गत्वेनैवावभासते सोऽस्यैवानुरणनरूपव्यङ्ग्यस्य ध्वनेर्मार्गः ।
यथा---
उच्चिणसु पडिअ कुसुमं मा धुण सेहालिअं हलिअसुह्णे ।
अह दे विसमविरावो समुरेण सुओ वलासद्दो ।।


लोचनम्

अत्र दत्तसङ्केतचौर्यकामुकरतसमुचितस्थानप्राप्तिर्ध्वन्यमाना वाच्यमेवोपस्कुरुते । तथा हि गृहकर्मव्यापृताया इत्यन्यपराया अपि, वाध्वा इति सातिशयलज्जापारतन्त्र्यबद्धाया अपि, अङ्गानीत्येकमपि न तादृगङ्गं यद्गाम्भीर्यावहित्थवशेन संवरीतुं पारितम्, सदिन्तीत्यास्तां गृहकर्मसम्पादनं स्वात्मानमपि धर्तुं न प्रभवन्तीति । गृहकर्मयोगेन स्फुटं तथा लक्ष्यमाणानीति । अस्मादेव वाच्यात्सातिशयमदनपरवशताप्रतीतेश्चारुत्वसम्पत्तिः । यत्र त्विति । प्रकरणमादिर्यस्य शब्दान्तरसन्निधानसामर्थ्यलिङ्गादेस्तदवगमादेव यत्रार्थो निश्चितसमस्तस्वभावः । पुनर्वाच्यः पुनरपि स्वशब्देनोक्तोऽत एव स्वात्मावगतेः सम्पन्नपूर्वत्वादेन तावन्मात्रपर्यवसायी न भवति

बालप्रिया

दत्तेति । दत्तसङ्केतो यश्चौर्यकामुको जारः तस्य रतसमुचितस्थाने वेतसलतागहने प्राप्तिः । ध्वन्यमानेति । शकुनिकोलाहलोक्त्या व्यज्यमानेत्यर्थः । अन्येत्यादि । सातिशयेत्यादि च गम्यार्थकथनं । ताभ्यां सर्वाङ्गसादोत्पत्तेः प्रतिबन्धकसद्भावो दर्शितः । गाम्भीर्येण यदवहित्थमाकारगोपनं तद्वशेन । न प्रभवन्तीति । अङ्गानीत्यस्यानुषङ्गः गृहकर्मव्यापृताया इत्यनेन गम्यमाह---गृहेत्यादि । तथेति । सादातिशयवत्त्वेनेत्यर्थः । गृहकर्मयोगे स्फुटं तथा न लक्ष्यमाणानीति सम्बन्धः । अतः कोलाहलश्रवणमेव सादातिशयजनकमिति भावः । योगे चेति पाठेऽलक्ष्यमाणानीति छेदः । अस्मादेव वाच्यादिति । तथाविधायास्तस्याः कोलाहलश्रवणकाल एव सन्तन्यमानताविशिष्टसर्वाङ्गसादरूपवाच्यार्थदेवेत्यर्थः । ऽप्रकरणादीऽत्यादिपदेन "संयोगो विप्रयोगश्चे"त्यादिना अभिधानियामकतया निर्दिष्टानां ग्रहणमित्याशयेन व्याचष्टे---प्रकरणमादिर्यस्येति । शब्दान्तरेत्यादि । तद्धटितसमुदायस्येत्यर्थः । तदवगमादेवेति । तदज्ञानादेवेत्यर्थः । यत्रेत्यस्य सम्बन्धं दर्शयन्निर्धारितेत्यादिकं व्याचष्टे---यत्रार्थ इत्यादि । निश्चितेति । निश्चयोऽत्र । बोधयितव्यजनगतो वाक्यजन्यो ग्राह्यः । वाक्यजन्यबोधं प्रत्येव प्रकरणादिज्ञानस्य हेतुत्वातुपलक्षणं चेदमनुमानादजन्यनिश्चयस्य । ऽउच्चिन्विऽत्यादौ शेफालिकाधूननं न कर्तव्यं श्वशुरकोपाद्यनिष्टजनकत्वादिति वचनादिजन्यो बोधयितव्यनायिकादिगतो निश्चयो ग्राह्यः । समस्तस्वभाव इति विशेषपदविवरणं । पुनर्वाच्य इति हेतुगर्भमित्याह--अत एवेत्यादि । अत


अत्र ह्यविनयपतिना सह रममाणा सखी बहिःश्रुतवलयकलकलया


लोचनम्

तथाविधश्च प्रतीयमानस्याङ्गतामेतीति सोऽस्य ध्वनेर्विषय इत्यनेन व्यङ्ग्यतात्पर्यनिबन्धनं स्फुटं वदता व्यङ्ग्यगुणीभावे त्वेतद्विपरीतमेव निबन्धनं मन्तव्यमित्युक्तं भवति ।
उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालकस्नुषे ।
एष ते विषमविपाकः श्वशुरेण श्रुतो वलयशब्दः ।। इति च्छाया ।
     यतः श्वशुरः शोफालिकालतिकां प्रयत्नै रक्षंस्तस्या आकर्षणधूननादिना कुप्यति । तेनात्र विषमपरिपाकत्वं मन्तव्यं । अन्यथा स्वोक्त्यैव व्यङ्ग्याक्षेपः स्यात् । अत्र चऽकस्स वा ण होइ रोसोऽ इत्येतदनुसारेण व्याख्या कर्तव्या । वाच्यार्थस्य प्रतिपत्तये लाभाय एतद्य्वमपेक्षणीयं । अन्यथा वाच्योऽर्थो न लभ्यते । स्वतस्सिद्धतया अवचनीय एव सोऽर्थः स्यादिति यावत् । नन्वेवं व्यङ्ग्यस्योपस्कारता प्रत्युतोक्ता

बालप्रिया

एवेत्यस्य विवरणम्---स्वामेत्यादि । तावन्मात्रेति । वाच्यार्थमात्रेत्यर्थः । प्रतीयमानाङ्गत्वेनेत्यादेर्ववरणम्---प्रतीयमानस्येत्यादि । स इति । तत्काव्यमित्यर्थः । भावार्थमाह---अनेनेत्यादि ।
     उच्चिन्विति । शेफालिकामिति । "शोफालिका तु सुवहे"त्यमरः । हालिको हलकर्षकः तस्व स्नुषा पुत्रभार्या । धूनननिषेधे हेतुमाह---एष इत्यादि । एषः मया श्रूयमाणः । ते वलयशब्दः । श्वशुरेण श्रुतः सन्विषमविपाकः विषमोऽनिष्टजनको विपाकः परिणामो यस्य सः । भवेदिति शेषः । विषमविपाक इत्युक्तेर्वक्ष्यमाणव्यङ्ग्याक्षेपकत्वशङ्कां परिहरति---यत इत्यादिना । व्याख्या कर्तव्येति । विषयभेदेन नानाविधं व्यङ्ग्यमवधातव्यमिति भावः । अत्र यत्किञ्चिद्व्यङ्ग्यस्य वाच्याङ्गत्वेऽपि व्यङ्ग्यान्तरमादाय ध्वनित्वमिति दर्शयति वृत्तौ--ऽअत्रेऽत्यादिना । ऽअविनयपतिनाऽ जारेण । ऽसखीऽति । नायिकेत्यर्थः । एतदपेक्षणीयंऽवाच्यार्थप्रतिपत्तयेऽ इति ग्रन्थं विवृणोति---वाच्यार्थस्येत्यादि । वाच्यार्थस्य उच्चिन्वत्यादिगाथावाच्यार्थस्य । लाभायेति । निराकाङ्क्षाकबोधनिष्पत्तये । सफलबोधाय वेत्यर्थः । एतदित्यस्य विवरणम्---एतद्य्वङ्ग्यमिति । सखीकतृकनायिकाप्रतिबोधनरूपं व्यङ्ग्यमित्यर्थः । अपेक्षणीयमिति । सहकारितयापेक्षणीयमित्यर्थः । बोधयितव्यनायिकायाः सखी मां प्रतिबोधयतीति, सहृदयानां तु रममाणनायिकायै सखी प्रतिबोधयतीति च ज्ञानं ज्ञायमानं तद्य्वङ्ग्यं वा वाच्यार्थलाभं प्रति सहकारीति यावत् । उक्तं व्यवस्थापयति----अन्यथेत्यादि । अन्यथा व्यङ्ग्यापेक्षाभावे । न लभ्येतेति । कुत इत्यत आह---स्वत इत्यादि । स्वतस्सिद्धतया नायिकादिभिः स्वतो ज्ञातत्वेन । अवचनीय एवेति । निष्फलत्वेनेति भावः । सोऽर्थ इति । शेफलिकां मा धुनीरित्याद्यर्थ इत्यर्थः । व्य य्स्येति उक्तव्यङ्ग्यस्येत्यर्थः । पुनर्वाच्य इति ग्रन्थो यथाव्याख्यातस्तथा


सख्या प्रतिबोध्यते । एतदपेक्षणीयं वाच्यार्थप्रतिपत्तये । प्रतिपन्ने च वाच्येऽर्थे तस्यावनयप्रच्छादनतात्पर्येणाभिधीयमानत्वात्पुनर्व्यङ्ग्याङ्गत्वमेवेत्यस्मिन्ननुरणनरूपव्यङ्ग्यध्वनावन्तर्भावः ।
     एवं विवक्षितवाच्यस्य ध्वनेस्तदाभासविवेके प्रस्तुते सत्यविवक्षितवाच्यस्यापि तं कर्तुमाह---
अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ।। ३२ ।।


लोचनम्

भवेदत्याशङ्क्याह--प्रतिपन्ने चेति । शब्देनोक्त इति यावत् ।। ३१ ।।
     तदाभासविवेके प्रस्तुत इति सप्तमी हेतौ । तदाभासविवेकप्रस्तावलक्षणात्प्रसङ्गादिति यावत् । कस्य तदाभास इत्यपेक्षायामाह---विवक्षितवाच्यस्येति । स्पष्टे तु व्याख्याने प्रस्तुत इत्यसङ्गतं । परिसमाप्तौ हि विवक्षिताभिधेयस्य तदाभासविवेकः । न त्वधुना प्रस्तुतः । नाप्युत्तरकालमनुबध्नात । स्खलद्गतेरिति । गौणस्य लाक्षणिकस्य वा शब्दस्येत्यर्थः । अव्युत्पत्तिरनुप्रासादिनिबन्धनतात्पर्यप्रवृत्तिः । यथा----
प्रेङ्खत्प्रेमप्रबन्धप्रचुरपरिचये प्रौढसीमन्तिनीनां
चित्ताकाशावकाशे विहरति सततं यः स सौभाग्यभूमिः ।
     अत्रानुप्रासरसिकतया प्रेङ्खदिति लाक्षणिकः, चित्ताकाश इति गौणः प्रयोगः कविना कृतोऽपि न ध्वन्यमानरूपसुन्दरप्रयोजनांशपर्यवसायी । अशक्तिर्वृत्तपरिपूरणाद्यसामर्थ्यं ।

बालप्रिया

प्रतिपन्ने इत्येतद्व्याचष्टे---शब्देनोक्ते इति । वृत्तौऽतस्येऽति । वाच्यार्थस्येत्यर्थः । ऽअविनयेऽत्यादि । अविनयस्य चौर्यसुरतस्य प्रच्छादनं बलयशब्दादिना प्रकाशनाभावः । तत्तात्पर्येणेत्यर्थः । ऽव्यङ्ग्याङ्गत्वम्ऽ इति । वलयशब्दं मा कार्षीरित्यादिव्यङ्ग्याङ्गत्वमित्यर्थः ।। ३१ ।।
     तदाभास इति । तदाभासविवेक इत्यर्थः । स्पष्टे तु व्याख्यान इत्याद । प्रस्तुते इत्यस्य आरब्धे प्रकृते इति वा व्याख्याने सति तत्पदमसङ्गतं स्यादित्यर्थः । कुत इत्यत्राह--परसमाप्तौ हीत्यादि । अव्युत्पत्तिपदेन तत्कार्यं विवक्षितमिति दर्शयति---अनुप्रासादीति । अनुप्रासादिनिबन्धने यत्तात्पर्यं तेन काव्यप्रवृत्तिरित्यर्थः । प्रेङ्खदिति । प्रेङ्खतश्चञ्जलस्य यथोक्तं "स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चलम्ऽ इति । प्रेम्णः प्रबन्धः प्रकर्षेण बन्धः स्थिरीकरणं तेन सह प्रचुरः परिचयो यस्य तस्मिन् । लाक्षणिक इति । अस्थिर इत्यर्थे इति शेषः । गौण इति । अप्रत्यक्षत्वादिनां आकाशतुल्ये चित्ते इत्यर्थादिति भावः । अशक्तिपदं व्याचष्टे---वृत्तेत्यादि ।


     स्खलद्गतेरुपचरितस्य शब्दस्याव्युत्पत्तेरशक्तेर्वा निबन्धो यः स च न ध्वनेर्विषयः । यतः---
सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनं ।
यद्व्यङ्ग्यस्याङ्गिभूतस्य तत्पूर्णे ध्वनिलक्षणम् ।। ३३ ।।


लोचनम्

यथा----
विषमकाण्डकुटुम्बकसञ्चयप्रवर वारिनिधौ पतता त्वया ।
चलतरङ्गविघूर्णितभाजने विचलतात्मनि कुड्यमये कृता ।।
     अत्र प्रवरान्तमाद्यपदं चन्द्रमस्युपचरितं । भाजनमित्याशये, कुड्यमय इति च विचले । अत्रैतत्कामपि कान्तिं न पुष्यत, ऋते वृत्तपूरणात् । स चेति । प्रथमोद्द्योते यः प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवय इत्यत्रऽवदति बिसिनीपत्र्रशयनम्ऽ इत्यादि भाक्त उक्तः । स न केवलं ध्वनेर्न विषयो यावदयमन्योऽपीति चशब्दस्यार्थः । उक्तमेव ध्वनिस्वरूपं तदाभासविवेकहेतुतया कारिकाकारोऽनुवदतीत्यभिप्रायेण वृत्तिकृदुपस्कारं ददाति--यत इति । अवभासनमिति । भावानयने द्रव्यानयनमिति न्यायादवभासमानं व्यङ्ग्यं । ध्वनिलक्षणं ध्वनेः स्वरूपं पूर्णम्, अवभासनं वा ज्ञानं तद्ध्वनेर्लक्षणं प्रमाणं, तच्च पूर्णं, पूर्णध्वनिस्वरूपनिवेदकत्वात् । अत वा ज्ञानमेव

बालप्रिया

     विषमेति । विषमः विषमसंख्याकः काण्डश्शरो यस्य तस्य कामदेवस्य, यः कुडुम्बकसञ्जयः तस्य प्रवरमुख्य हे चन्द्रेत्यर्थः । वारिनिधौ पतता पतितेन त्वया । कुरङ्गेति पाठे च लताकुरङ्गेण मृगेण विधूर्णितं भाजनं मध्यभागो यस्य तस्मिन्नित्यात्मविशेषणं । तरङ्गेति पाठे वारिनिधिविशेषणं । कुड्यमये अचढ्चले । आत्मनिस्वशरीरे । विचलतेति । स चच्चलतेत्यर्थः । कृता उत्पादिता । उपचरितमित्यस्य उत्तरवाक्यायोरपि सम्बन्धः । स चेति चकारः प्रथमोद्योतोक्तसमुच्चायक इत्याह--प्रथमद्योतो इत्यादि । स नेत्यादि । तन्मात्रं ध्वनेरविषयो नेत्यर्थः । अन्योऽपीति । अव्युत्पत्तेरित्याद्युक्तप्रकारोऽपीत्यर्थः । अवभासनमित्यादिकं व्याचष्टे---भावेत्यादि । अवभासनपदेन अवभासमानं व्यङ्ग्यं लक्ष्यत इति भावः । पूर्णं स्वरूपमिति सम्बन्धः । नन्वेवं व्यङ्ग्यस्याङ्गीभूतस्येत्यस्यान्वयो दुर्घट इत्यत आह---अवभासनमित्यादि । तत्स्फुटत्वेन ज्ञानं । लक्ष्यते ज्ञायते अनेनेति व्युत्पत्यनुरोधेनाह---प्रमाणमिति । लक्षणपदस्य प्रमाणार्थकत्वं न स्वरसं, तत्पदमसाधारणधर्मार्थकमेवेत्याशयेनाह--अथवेत्यादि । लक्षणज्ञानयोः परिच्छेद्यपरिच्छेदकभावात्तयोरैक्यारोपेणात्र निर्देश इत्याह---ज्ञानमेवेत्यादि ।


तञ्चोदाहृतविषयमेव ।।

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके
द्वितीय उद्द्योतः ।।


लोचनम्

ध्वनिलक्षणम्, लक्षणस्य ज्ञानपरच्छेद्यत्वात् । वृत्तावेवकारेण ततोऽन्यस्य चाभासरूपत्वमेवेति सूचयता तदाभासविवेकहेतुभावोयः प्रक्रन्तः स एव निर्वाहित इति शिवं ।।
प्राज्यं प्रोल्लासमात्रं सद्भेदेनासूत्र्यते यया ।
वन्देऽभिनवगुप्तोऽहं पश्यन्तीं तामिदं जगत् ।।

इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तोन्मीलिते सहृदयालोक
लोचने ध्वनिसङ्केते द्वितीय उद्द्योतः ।।

बालप्रिया

ज्ञानपरिच्छेद्यत्वादिति । लक्ष्यज्ञानेन निर्णेतव्यत्वादित्यर्थः । गवादिज्ञानेन हि गवादिलक्षणं परिच्छिद्यते । एवकारेणेति । उदाहृतविषयमेवेत्येवकारेणेत्यर्थः । प्राज्यमिति । यया मायारूपया परमेश्वर्या प्राज्यं प्रभूतं इदं जगदति प्रथमान्ततया । डपकृष्यते ।
     प्रोल्लासः प्रतीतिस्तन्मात्रं सत्न तु वस्तुसदिति भावः । भेदेन ब्रह्मभिन्नत्वेन । यद्वा---सद्भेदेनेत्येकं पदं सतो ब्रह्मणो भिन्नत्वेनत्यर्थः ।
आसूत्र्यते प्रकाश्यते । इदं जगत्पश्यन्तीं तामभिनवगुप्तोऽहं वन्दे इति सम्बन्धः । इति सर्वं शिवं ।

इति श्रीसहृदयतिलकपण्डितराजरामशारकविरचितायां ध्वन्यालोकटिप्पण्यां
बालप्रियायां द्वितीयोद्द्योतः समाप्तः ।।