नारदपञ्चरात्रम्‌/प्रथमैकरात्रे/अध्यायः ११

← प्रथमैकरात्रे, अध्यायः १० नारदपञ्चरात्रम्‌
अध्यायः ११
[[लेखकः :|]]
प्रथमैकरात्रे, अध्यायः १२ →

प्रथमैकरात्रे एकादशोऽध्यायः
अथ महोत्सवदर्शनम्
श्रीव्यास उवाच
अथ गन्धर्वराजस्तु भगवानाज्ञया विधेः ।
संगीतं च जगौ तत्र कृष्णरासमहोत्सवं ।। ११.१ ।।

सुसमं तालमानं च सुतानं मधुरं श्रुतं ।
वीणामृदङ्गमुरजयुक्तं ध्वनिसमन्वितं ।। ११.२ ।।

रागिणीयुक्तरागेण समयोक्तेन सुन्दरं ।
माधुर्यं मूर्च्छ्नायुक्तं मनसे हर्षकारणं ।। ११.३ ।।

विचित्रं नृत्यरुचिरं रूपवेशं उत्तमं ।
लोकानुरागबीजं च नाट्योपयुक्तहस्तकं ।। ११.४ ।।

दृष्ट्वा श्रुत्वा सुराः सर्वे मुनयः सर्वयोषितः ।
मूर्च्छां प्रायुश्च सहसा चेतनां च पुनः पुनः ।। ११.५ ।।

गोपीनां वस्त्रहरणं गोपीगणविलापनं ।
ताभ्यो वस्त्रप्रदानं च संमानं वरदानकं ।। ११.६ ।।

कात्यायनीव्रतं चापि विप्रदारान्नभोजनं ।
महेन्द्रदर्पपूजादि भञ्जनं शैलपूजनं ।। ११.७ ।।

पुनश्च शुश्रुवुः सर्वे श्रीवृन्दावनवर्णनं ।
संप्रापुश्च पुनर्मूर्च्छां पुनः प्रापुश्च चेतनां ।। ११.८ ।।

तस्मै ददौ पुरो ब्रह्मा वह्निशुद्धांशुकं परं ।
परं शुभाशीर्वचनं यत्तन्मानसवाञ्छितं ।। ११.९ ।।

अमूल्यरत्ननिर्माणं चारुकुण्डालयुग्मकं ।
मणीन्द्रसारमुकुटं परं रत्नाङ्गुरीयकं ।। ११.१० ।।

सुगन्धि चन्दनं पुष्पं स्वपादरेणुं ईप्सितं ।
अमूल्यरत्नतिलकं रत्नभूषणं उज्ज्वलं ।। ११.११ ।।

प्रत्येकं वस्तु रुचिरं तद्योषिद्भ्यश्च संददौ ।
विश्वकर्मा च निर्माणमणिं भूषणं उत्तमं ।। ११.१२ ।।

प्रत्येकं शङ्खसिन्दूरं कस्तूरीयुक्तचन्दनं ।
सकर्पूरं च ताम्बूलं रत्नेन्द्रसारदर्पणं ।। ११.१३ ।।

मणिनिर्माणामञ्जोरं श्वेतचामरशोभनं ।
मनोयायि रथं दिव्यं ईस्वरेच्छाविनिर्मितं ।। ११.१४ ।।

मुक्तामाणिक्यहीरेन्द्रैर्मणीन्द्रैश्च परिष्कृतं ।
सद्रत्नमालाजालैश्च श्वेतचामरदर्पणैः ।। ११.१५ ।।

सुशोभितं च परितो लक्षैः सुन्दरमन्दिरैः ।
मणिमानिक्यहीराढ्यं सद्रत्नकलशोज्ज्वलं ।। ११.१६ ।।

सहस्रचक्रसंसक्तं योजनायतसम्मितं ।
धनुर्लक्षोच्छ्रितं चैव सहस्राश्वेन योजितं ।। ११.१७ ।
एतदेव ददौ ब्रह्मा प्रहृष्टस्तुष्ट एव च ।
शम्भुस्तुष्टो ददौ हृष्टो हरिभक्तिं च निश्चलां ।। ११.१८ ।।

ज्ञानं अध्यात्मिकं चैव योगज्ञानं सुदुर्लभं ।
नानाजन्मस्मृतिज्ञानं नैपुण्यं सर्वसिद्धिषु ।। ११.१९ ।।

हरेश्चर्चाविधानं च स्तवनं पूजनं तथा ।
माणिक्यहीराहारं च रत्नलक्षं सुदुर्लभं ।। ११.२० ।।

नागहारं ददौ शेषो नागेन्द्रमौलिमण्डनं ।
नागकन्याशतं चैव वरभूषणभूषितं ।। ११.२१ ।।

नागेभ्यश्चाभ्यं नित्यं हिस्रजन्तुभ्य एव च ।
नृपालयगतिज्ञानं सर्वलोकविलोकनं ।। ११.२२ ।।

निर्विघ्नत्वं ददौ तस्मै विघ्न्राजश्च संसदि ।
सुदुर्लभं पादपद्मयुग्मरेणुं अभीप्सितं ।। ११.२३ ।।

अमूल्यं च निरुपमं ग्रीष्मसूर्यप्रभोपमं ।
मणिराजं सुदीप्तं च त्रिषु लोकेषु दुर्लभं ।। ११.२४ ।।

सर्वत्र विजयं चैव वाञ्च्छितं निर्मलं यशः ।
संगीतविद्याविज्ञानं तन्नैपुण्यं मनोहरं ।। ११.२५ ।।

लक्षस्वर्णं धनेशश्च दासानां च शतं शतं ।
धर्मः कीर्तिमयीं मालां स्कन्दो धैर्यं ददौ तथा ।। ११.२६ ।।

विषयजीर्णापहरणं ददौ धन्वन्तरिर्मनुं ।
सूर्यः स्यमन्तकमणिं स्वर्णाभाराष्टकप्रसुं ।। ११.२७ ।।

चन्द्रः श्वेताश्वरत्नं च ह्यमूल्यं उत्तमं ददौ ।
वह्निशुद्धांशुकयुगं ददौ वह्निश्च संसदि ।। ११.२८ ।।

उपेन्द्रो रत्नकोटिं च तदेवेन्द्रो ददौ पुरा ।
वीणाशिल्पं विश्वकर्मा वरुणश्च मणिस्रजं ।। ११.२९ ।।

स्मरः शृङ्गारनैपुण्यं वीर्यस्तम्भनं एव च ।
कामसन्दीपनं ज्ञानं कामिनीप्रेममूर्छनं ।। ११.३० ।।

कामिनीवशगं शिल्पं रतितत्त्वं ददौ तथा ।
पापदाहनमन्त्रं च रत्नछत्रं समीरणः ।। ११.३१ ।।

यमश्च धर्मतत्त्वं च नरकत्राणकारणं ।
वसवश्च वसून्दिव्यान्रुद्रस्तेभ्योऽभयं ददौ ।। ११.३२ ।।

मधुपात्रं सुधापात्रं जयन्तो नलकूवरः ।
शुक्लपुष्पं शुक्लधान्यं पादरेणुं अभीप्सितं ।। ११.३३ ।।

मनोभिरां मनुयो ददौ तस्मै शुभाशिषं ।
लक्ष्मीश्च परमैश्वर्यं भारती हारं उत्तमं ।। ११.३४ ।।

रत्नमालां ददौ दुर्गा सर्वत्राभयं ईप्सितं ।
तत्पत्नीभ्यश्च रत्नानि सिन्दूराभरणानि च ।। ११.३५ ।।

क्रीडापद्मं रोहिनी च रतिः सद्रत्नदर्पणं ।
तुलसी चातुलं माल्यं दिव्यं वसु वसुन्धरा ।। ११.३६ ।।

गङ्गा च विपुलं पुण्यं स्वाहा सद्रत्नपाशकं ।
यमुना जलजं पद्मं अम्लानं सार्वकालिकं ।। ११.३७ ।।

वारुणीं वारुणी तुष्टा रत्नपात्रं शची ददौ ।
मनसा प्रददौ तस्मै नागानां मौलिमण्डनं ।। ११.३८ ।।

गन्धर्वाश्चापि तत्पत्न्यः स्वशिल्पं प्रददुस्तथा ।
परमानन्दयुक्ताश्च मुनिपत्न्यः शुभाशिषं ।। ११.३९ ।।

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
महोत्सवदर्शनं नाम एकादशोऽध्यायः