प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रथमैकरात्रे, अध्यायः ११ नारदपञ्चरात्रम्‌
अध्यायः १२
[[लेखकः :|]]
प्रथमैकरात्रे, अध्यायः १३ →

प्रथमैकरात्रे द्वादशोऽध्यायः
शुक उवाच
महोत्सवे सुनिष्पन्ने दानस्योत्तरकालतः ।
किं बभूव रहस्यं च तन्मां व्याख्यातुं अर्हसि ।। १२.१ ।।

श्रीव्यास उवाच
संप्राप्य दानं देवानां गन्धर्वश्चोपवर्हणः ।
तेषां च पुरतो भक्त्या विदयां आस वै सदा ।। १२.२ ।।

श्रुत्वा तद्वचनं ब्रह्मा तं उवाच च संसदि ।
शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगतां अपि ।। १२.३ ।।

मथुरागमनं चैव कृष्णस्य परमात्मनः ।
विलापं गोपगोपीनां श्रावयास्मांश्च साम्प्रतं ।। १२.४ । ।।

महोत्सवं कुरु पुनः शृण्वन्तु मुनयः सुराः ।
गायन्तु ताश्च संगीतं नृत्यन्त्वप्सरां गणाः ।। १२.५ ।।

ब्रह्मणश्च वचः श्रुत्वा ननृत्युश्चाप्सरोगणाः ।
चक्रुस्ताः सरसं गीतं विद्याधर्यश्च संसदि ।। १२.६ ।।

मायिनां चैव प्रवरो गन्धर्वश्चोपवर्हणः ।
जगौ सन्धानभावेन मथुरागमनं हरेः ।। १२.७ ।।

विलापं गोकुलस्थानां श्रुत्वा विप्राः सुरादयः ।
मूर्च्छां प्रापुश्च रुरुदुर्ददुर्दानं पुनः पुनः ।। १२.८ ।।

गोपीनां विरहालापैर्मूर्च्छितश्चोपवर्हणः ।
विस्वरेण वितनात्तु तालभङ्गो बभूव ह ।। १२.९ ।।

तत्तालभङ्गं विज्ञाय देवाश्च मुनयस्तथा ।
चुकुपुः सहसा सर्वे निर्गतास्तन्मुखाग्नयः ।। १२.१० ।।

तद्दृष्ट्वा सहसा भीतो गन्धर्वश्चोपवर्हणः ।
सस्मार कृष्णं स्वभीष्टं परमात्मानं ईश्वरं ।। १२.११ ।।

ददृशुः स्मृतिमात्रेण तत्तेजो नभसि स्थितं ।
स्तम्भिता देवताः सर्वाशिचक्रपुत्तलिका यथा ।। १२.१२ ।।

स्तम्भिता वह्नयः सर्वे मुनयश्च विजृम्भिताः ।
हरिस्मृतिश्चाभयदा शुभदा विघ्ननाशिनी ।। १२.१३ ।।

ददृशुर्देवताः सर्वाः मुनयश्चापि योषितः ।
गन्धर्वाश्च तथैवान्ये तेजो दृश्यं सुखप्रदं ।। १२.१४ ।।

परं कुञ्ज्ञटिकाकारं कोटीन्दुकिरणप्रभं ।
योजनायतविस्तीर्णं सुस्निग्धं सुमनोहरं ।। १२.१५ ।।

तत्तेजोऽभ्यन्तरे सर्वे ददृशू रथं उत्तमं ।
गव्यूतिमानं विस्तीर्णं धनुष्कोटिसमुच्छ्रितं ।। १२.१६ ।।

श्वेताश्वानां च चक्राणां सहस्रेण समावृतं ।
अमूल्यरत्नरचितं ईश्वरेच्छाविनिर्मितं ।। १२.१७ ।।

नानाचित्रविचित्राढ्यं मनोयायि ममोहरं ।
मुक्तामाणिक्यपरमहीराहारैर्विराजितं ।। १२.१८ ।।

रत्नदर्पणलक्षैश्च त्रिलक्षैः श्वेतचामरैः ।
वह्निशुद्धांशुकानां च त्रिलक्षैः परिशोभितं ।। १२.१९ ।।

त्रिकोटिभिश्च ज्वलितं क्रीडासुन्दरमन्दिरैः ।
पारिजातप्रसूनानां मन्दराणां मनोहरैः ।। १२.२० ।।

मालाजालैस्त्रिलक्षैश्च मालतीनां च मण्डितं ।
एवंभूतं रथं दृष्ट्वा ददृशुस्ते तदनन्तरे ।। १२.२१ ।।

मध्यकोष्ठाभ्यन्तरे च किशोरं श्यामसुन्दरं ।
वह्निशुद्धांशुकेनैव पीतवर्णेन शोभितं ।। १२.२२ ।।

रत्नकेयूरवलयरत्नमञ्जीररञ्जितं ।
रत्नकुण्डलयुग्मेन गण्डस्थलसमुज्ज्वलं ।। १२. ।२३ ।।

ईषद्धास्यप्रसन्नास्यं नित्योपास्यं सुरासुरैः ।
चन्दनोक्षितसर्वाङ्गं मालतीमाल्यमण्डितं ।। १२.२४ ।।

मणिना कौस्तुभेन्द्रेण गण्डस्थलविभूषितं ।
परं प्रधानं परमं परमात्मानं ईश्वरं ।। १२.२५ ।।

स्तुतं ब्रह्मेशशेषैश्च राधावक्षः स्थलस्थितं ।
वेदानिर्वचनीयं च स्वेच्छामयं अनीश्वरं ।। १२.२६ ।।

नित्यं नित्यं निर्गुणं च ज्योतिरूपं सनातनं ।
प्रकृतेः परं ईशानं भक्तानुग्रहकातरं ।। १२.२७ ।।

कोटिकन्दर्पलावण्यलीलाधाममनोहरं ।
मयूरपुच्छचूडं च वरं वंशीधरं परं ।। १२.२८ ।।

दृष्ट्वा तं अद्भुतं रूपं तुष्टाव कमलोद्भवः ।
गणेशः शेषः शम्भुश्च तदन्ये मुनयः सुराः ।। १२.२९ ।।

ब्रह्मोवाच
परं ब्रह्म परं धाम परमात्मानं ईश्वरं ।
वन्दे वन्द्यं च सर्वेषां सर्वकारणकारणं ।। १२.३० ।।

सर्वेश्वरं सर्वरूपं सर्वाद्यं सद्भिरीडितं ।
वेदावेद्यं च विद्वद्भिर्न दृष्टं स्वप्नगोचरे ।। १२.३१ ।।

श्रीमहादेव उवाच
सिद्धस्वरूपं सिद्धाद्यं सिद्धबीजं सनातनं ।
प्रसिद्धं सिद्धिदं शान्तं सिद्धानां च गुरोर्गुरुं ।। १२.३२ ।।

वन्दे वन्द्यं च महतां परात्परतरं विभुं ।
स्वात्मारामं पूर्णकामं भक्तानुग्रहकातरं ।। १२.३३ ।।

भक्तिप्रियं च भक्तेशं स्वभक्तिदास्यदं परं ।
स्वपदप्रदं एकं च दातारं सर्वसम्पदां ।। १२.३४ ।।

अनन्त उवाच
वक्त्राणां च सहस्रेण किं वा स्त्ॐइ श्रुतिश्रुतं ।
कोटिभिः कोटिभिर्वक्त्रैः को वा स्तोतुं क्षमः प्रभो ।। १२.३५ ।।

किं उ स्तोष्यति शम्भुश्च पञ्चवक्त्रेण वाञ्च्छितं ।
कर्ता चतुर्णां वेदानां किं स्तोष्यति चतुर्मुखः ।। १२.३६ ।।

षड्वक्त्रो गजवक्त्रश्च देवाश्च मुनयोऽपि वा ।
वेदा वा किं वेदविदः स्तुवन्ति प्रकृतेः परं ।। १२.३७ ।।

वेदानिर्वचनीयं च वेदा निर्वक्तुं अक्षमाः ।
वेदविज्ञातवाक्येन विद्वांसः किं स्तुवन्ति तं ।। १२.३८ ।।

श्रीगणेश उवाच
मूर्खो वदति विष्णाय बुधो वदति विष्णवे ।
नम इत्येवं अर्थं च द्वयोरेव समं फलं ।। १२.३९ ।।

यस्मै दत्तं च यज्ज्ञानं ज्ञानदाता हरिः स्वयं ।
ज्ञानेन तेन स स्तौति भावग्राही जनार्दनः ।। १२.४० ।।

एकवक्त्रोऽनेकवक्त्रो मूर्खो विद्वान्स्वकर्मणा ।
अधनी च धनी वापि सपुत्रो वाप्यपुत्रकः ।। १२.४१ ।।

कर्मणा परं ईशं च स्तोतुं को वाप्यनुत्तमं ।
यथाशक्ति स्तुतिः पूजा वन्दनं स्मरणं हरेः ।। १२.४२ ।।

संकीर्तनं च भजनं जपनं बुद्ध्यनुक्रमं ।
कुर्वन्ति सन्तोऽसन्तश्च सन्ततं परमात्मनः ।। १२.४३ ।।

कार्तिकेय उवाच
सर्वान्तरात्मा भगवान्ज्ञानं च सर्वजीविनां ।
ज्ञानानुरूपं स्तवनं सन्तो नैव हसन्ति तं ।। १२.४४ ।।

भवेषु त्रिविधो लोकोऽप्युत्तमो मध्यमोऽधमः ।
सर्वे स्वकर्मवशगा निषेकः केन वार्यते ।। १२.४५ ।।

सर्वेश्वरं च संवीक्ष्य सर्वो वदति मत्प्रभुं ।
मदीश्वरस्य समता सर्वेषु किंकरेषु च ।। १२.४६ ।।

भजन्ति केचित्शुद्धान्तं परमात्मानं ईश्वरं ।
केचित्तदंशांशं प्राप्नुवन्ति क्रमेण तं ।। १२.४७ ।।

धर्म उवाच
अहं साक्षी च सर्वेषां विधिना निर्मितः पुरा ।
विधातुश्च विधाता त्वं सर्वेश्वरं नमोऽस्तु ते ।। १२.४८ ।।

देवा ऊचुः
यं स्तोतुं असमर्थश्च सहस्रायुः स्वयं विधिः ।
ज्ञानाधिदेवः शम्भुश्च तं स्तोतुं किं वयं क्षमाः ।। १२.४९ ।।

वेदा ऊचुः
किं जानीमो वयं के वाप्यनन्तेशस्य यो गुणः ।
वयं वेदाश्त्वं अस्माकं कारणस्यापि कारकः ।। १२.५० ।।

मुनयः ऊचुः
यदि वेदा न जानन्ति माहात्म्यं परमात्मनः ।
न जानीमस्तव गुणं वेदानुसारिणो वयं ।। १२.५१ ।।

सरस्वत्युवाच
विद्याधिदेवताहं च वेदा विद्याधिदेवकाः ।
वेदाधिदेवो धाता च तदीशं स्त्ॐइ किं प्रभो ।। १२.५२ ।।

पद्मोवाच
यत्पादपद्मं पद्मेशः शेषाश्चान्ये सुरास्तथा ।
ध्यायन्ते मुनयो देवा ध्याये तं प्रकृतेः परं ।। १२.५३ ।।

सावित्र्युवाच
सावित्री वेदमाताहं वेदानां जनको विधिः ।
त्वां एव धत्ते धातरं नमामि त्रिगुणात्परं ।। १२.५४ ।।

श्रीपार्वत्युवाच
तव वक्षसि राधाहं रासे वृन्दावने वने ।
महालक्ष्मीश्च वैकुण्ठे पादपद्मार्चने रता ।। १२.५५ ।।

श्वेतद्वीपे सिन्धुकन्या विष्णोरुरसि भूतले ।
ब्रह्मलोके च ब्रह्माणी वेदमाता च भारती ।। १२.५६ ।।

तवाज्ञया च देवानां अविर्भूता च तेजसि ।
निहत्य दैत्यान्देवारीन्दत्वा राज्यं सुराय च ।। १२.५७ ।।

तत्पश्चाद्दक्षकन्याहं अधुना पार्वती हरे ।
तवाज्ञया हरक्रोडे त्वद्भक्ता प्रतिजन्मनि ।। १२.५८ ।।

नारायणप्रिया शश्वत्तेन नारायणी श्रुतौ ।
विष्णोरहं पराशक्तिर्विष्णुमाया च वैष्णवी ।। १२.५९ ।।

अनन्तकोटि ब्रह्माण्डं मया सम्मोहितं सदा ।
विदुषां रसनाग्रे च प्रत्यक्षं हि सरस्वती ।। १२.६० ।।

महाविष्णोश्च माताहं विश्वानि यस्य लोमसु ।
रामेश्वरी च सर्वाद्या सर्वशक्तिस्वरूपिणी ।। १२.६१ ।।

तद्रासे धारणाद्राधा विद्वद्भिः परिकीर्तिता ।
परमानन्दपादाब्जं वन्दे सानन्दपूर्वकं ।। १२.६२ ।।

यत्पादपद्मं ध्यायन्ते परमानन्दकारणं ।
पादपद्मेशशेषाद्या मुनयो मनवः सुराः ।। १२.६३ ।।

योगिनः सन्ततं सन्तः सिद्धाश्च वैष्णवास्तथा ।
अनुग्रहं कुरु विभो बुद्धिशक्तिरहं तव ।। १२.६४ ।।

इति संवृतं स्तोत्रं यः पठेत्संयतः शुचिः ।
इहैव च सुखं भुङ्क्ते यात्यन्ते श्रीहरेः पदं ।। १२.६५ ।।

निवृत्तेषु च वेदेषु देवीषु मुनिपुङ्गवे ।
उपवर्हणगन्धर्वः स्तुतिं कर्तुं समुद्यतः ।। १२.६६ ।।

अथ गन्धर्वकृतस्तोत्रम्
गन्धर्व उवाच
वन्दे नवघनश्यामं पीतकौशेयवाससं ।
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परं ।। १२.६७ ।।

राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं ।
राधासेवितपादाब्जं राधावक्षःस्थलस्थितं ।। १२.६८ ।।

राधानुरागं राधिकेष्टं राधापहृतमानसं ।
राधाधरं भवाधारं सर्वाधारं नमामि तं ।। १२.६९ ।।

राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं ।
राधासहचरं शश्वत्राधाज्ञापरिपालकं ।। १२.७० ।।

ध्यायन्ते योगिनो योगात्सिद्धाः सिद्धेश्वराश्च यं ।
तं ध्याये सततं शुद्धं भगवन्तं सनातनं ।। १२.७१ ।।

सेवन्ते सन्ततं सन्तो ब्रह्मेशशेषसंज्ञकाः ।
सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनं ।। १२.७२ ।।

निर्लिप्तं च निरीहं च परमात्मानं ईश्वरं ।
नित्यं सत्यं च परं भगवन्तं सनातनं ।। १२.७३ ।।

यं सृष्टेरादिभूतं च सर्वबीजं परात्परं ।
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनं ।। १२.७४ ।।

बीजं नानावताराणां सर्वकारणकारणं ।
वेदावेद्यं वेदबीजं वेदकारणकारणं ।। १२.७५ ।।

योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनं ।
इत्येवं उक्त्वा गन्धर्वः पपात धरणीतले ।। १२.७६ ।।

ननाम दण्डवद्भूमौ देवदेवं परात्परं ।
इति तेन कृतं स्तोत्रं यः पठेत्प्रयतः शुचिः ।। १२.७७ ।।

इहैव जीवन्मुक्तश्च परे याति परां गतिं ।
हरिभक्तिं हरेर्दास्यं गोलोके च निरामयः ।
पार्षदप्रवरत्वं च लभते नात्र संशयः ।। १२.७८ ।।

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
गन्धर्वकृतस्तोत्रं नाम द्वादशोऽध्यायः
प्रथमैकरात्रे त्रयोदशोऽध्यायः