नारदपञ्चरात्रम्‌/प्रथमैकरात्रे/अध्यायः १३

← प्रथमैकरात्रे, अध्यायः १२ नारदपञ्चरात्रम्‌
अध्यायः १३
[[लेखकः :|]]
प्रथमैकरात्रे, अध्यायः १४ →

श्रीशुक उवाच
स्तोत्रान्तरे च काले च किं रहस्यं बभूव ह ।
तन्मे कथय भद्रं ते भगवन्भगवद्वचः ।। १३.१ ।।

श्रीव्यास उवाच
स्तोत्रान्तरे च काले च गन्धर्वश्चोपवर्हणः ।
उवाच ब्रह्मसंसदि भगवन्तं सनातनं ।। १३.२ ।।

सर्वैर्देवैरहं शप्तश्चाधुना देवहेतुना ।
देवानां अग्निपुञ्जश्च प्रदीप्तश्च सुमेरुवथ् ।। १३.३ ।।

अधुना च त्वयि गते भस्मासान्मां करिष्यति ।
अतो रक्ष जगन्नाथ मां समुद्धर्तुं अर्हसि ।। १३.४ ।।

त्वदंशशूकरेणैव धरोद्धारः कृतः पुरा ।
हिरण्याख्यं महादैत्यं निहत्य चावलीलया ।। १३.५ ।।

पाद्मपद्मार्चितपदे पद्मे ते शरणागतं ।
मां अनाथं भयाक्रान्तं रक्ष रक्ष सुरानलाथ् ।। १३.६ ।।

गन्धर्वस्य वचः श्रुत्वा प्रहस्य जगदीश्वरः ।
उवाच श्लक्ष्णया वाचा ब्रह्मेशो ब्रह्मसंसदि ।। १३.७ ।।

अथ गन्धर्वमोक्षणम्
श्रीभगवानुवाच
गन्धर्वराजप्रवर स्थिरो भव भयं त्यज ।
शुभाश्रयस्य भक्तस्य भयं किं ते मयि स्थिते ।। १३.८ ।।

सर्वेभ्योऽपि भयं नास्ति मद्भक्तानां अकर्मणां ।
जन्ममृत्युजराव्याधिभयं तेषां न विद्यते ।। १३.९ ।।

मन्मन्त्रोपासकश्चैव स्वतन्त्रो नित्यविग्रहः ।
पुनर्न विद्यते जन्म मन्त्रग्रहणमात्रतः ।। १३.१० ।।

नास्ति कालाद्भयं तस्य न निषेकाद्विधेरपि ।
मन्त्रग्रहणमात्रेण मुच्यते सर्वकर्मणः ।। १३.११ ।।

मन्मन्त्रो हि देहात्पापं कोटिजन्मकृतं च यथ् ।
सुदीप्तो ज्वलदग्निश्च तृणपुञ्जं देहाद्यथा ।। १३.१२ ।।

मन्मन्त्रग्रहणाद्योगान्मन्नामग्रहणस्य वा ।
तेषां पापानि वेपन्ते कोटिजन्मकृतानि च ।। १३.१३ ।।

यमस्तन्नामलिखनं दूरीभूतं करोति च ।
अन्ते दास्यं च लभते गत्वा गोलोकं उत्तमं ।। १३.१४ ।।

यावदायुर्भ्रमेत्तावत्स्वतन्त्रो मत्तकुञ्जरः ।
ततः पापाः फलायन्ते वैनतेयादिवोरगाः ।। १३.१५ ।।

तेषां च पादरजसा सद्यः पूता वसुन्धरा ।
पुनाति सर्वतीर्थानि दूरतो दर्शनादपि ।। १३.१६ ।।

पूतश्च पवनो वह्निर्जलं च तुलसीदलं ।
पूतान्येव हि तीर्थानि गङ्गादीनि च गायन ।। १३.१७ ।।

पूता सुशीला धर्मिष्ठा सुव्रता स्त्री पतिव्रता ।
मन्मन्त्रोपासकाश्चैव तेभ्यः पूतोत्तमाः सदा ।। १३.१८ ।।

मन्त्रोपासकानां च तीर्थस्थानं व्रतं सुत ।
श्राद्धं दानं पूजनं च यथा चर्वितचर्वणं ।। १३.१९ ।।

भक्त्या तीर्थानि पूतानि स्वतः पूतो हि वैष्णवः ।
तत्तन्त्रं च तथा दानमलं श्राद्धं च निष्फलं ।। १३.२० ।।

श्राद्धस्य सम्प्रदानं च कर्तुश्च पुरुषत्रयं ।
पुरुषाणां शतं मुक्तं को भुङ्क्ते श्राद्धवस्तु च ।। १३.२१ ।।

केचिदेवं वदन्तीति पितृलोकार्थं एव च ।
तद्विरुद्धं च ते तुष्टा मन्त्रग्रहणमात्रतः ।। १३.२२ ।।

तेषां शुभाशिषं कर्म नैव भोगाय कल्पते ।
देवान्न प्रभवेद्वत्स सिद्धधान्ये यथाङ्कुरः ।। १३.२३ ।।

साक्षात्करोति तेषां च कर्ममूलनिकृन्तनं ।
मन्त्रोपासकादन्ये कर्मभोगं च भुञ्जते ।। १३.२४ ।।

मया स्वयं प्रदत्तश्च स्वमन्त्रः पुरुषाय च ।
परद्वाराद्ग्राहयित्वा भक्तं मुक्तं करोम्यहं ।। १३.२५ ।।

मया प्रदत्तमन्त्रश्च पुरा मृत्युञ्जयस्तथा ।
मृत्युञ्जयाय गोलोके शुद्धसत्त्वगुणाय च ।। १३.२६ ।।

पुनः सनत्कुमाराय धर्माय ब्रह्मणे तथा ।
कपिलाय च शेषाय गणेशाय च महामते ।। १३.२७ ।।

नारायणर्षये चैव धर्मपुत्राय धीमते ।
पुनर्महाविष्णवे च विश्वानि यस्य लोमसु ।। १३.२८ ।।

कालाधिष्ठातृदेवाय तस्मै सर्वान्तकाय च ।
उपेन्द्राय च कामाय भृगवेऽङ्गिरसे तथा ।। १३.२९ ।।

सरस्वत्यै च पद्मायै राधायै विरजातटे ।
शवित्र्यै विष्णुमायायै पार्षदेभ्यश्च पुत्रक ।। १३.३० ।।

तुभ्यं न दत्तो मन्त्रोऽत्र श्रूयतां तन्निमित्तकं ।
जनिष्यसि शूद्रयोनौ ब्रह्मणो वाक्यपालनाथ् ।। १३.३१ ।।

इत्येवं कथितं सर्वं गच्छ वत्स यथा सुखं ।
द्वादशाब्दान्तरे शूद्रयोनौ देवाज्जनिष्यसि ।। १३.३२ ।।

पञ्चवर्षाभ्यन्तरे च मन्मन्त्रं प्राप्य विप्रतः ।
दशाब्दान्ते वपुस्त्यक्त्वा ब्रह्मपुत्रो भविष्यसि ।। १३.३३ ।।

मन्मन्त्रं पुनरेवेति शम्भुवक्त्राल्लभिष्यसि ।
इत्येवं उक्त्वा सर्वात्मा तत्रैवान्तरधीयत ।। १३.३४ ।।

गन्धर्वः प्रययौ तस्माद्योषिद्भिः सह पुत्रक ।
इत्येवं कथितं सर्वं पूर्ववृत्तान्तं एव च ।। १३.३५ ।।

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
गन्धर्वमोक्षणं नाम त्रयोदशोऽध्यायः
प्रथमैकरात्रे चतुर्दशोऽध्यायः