नारदपञ्चरात्रम्‌/प्रथमैकरात्रे/अध्यायः ४

← प्रथमैकरात्रे, अध्यायः ३ नारदपञ्चरात्रम्‌
अध्यायः ४
[[लेखकः :|]]
प्रथमैकरात्रे, अध्यायः ५ →

प्रथमैकरात्रे चतुर्थोऽध्यायः
ब्रह्मोवाच
ब्राह्मणस्य स्तवं श्रुत्वा परितुष्टो जनार्दनः ।
कृपां चकार भगवान्भक्तेशो भक्तवत्सलः ।। ४.१ ।।

एतस्मिन्नन्तरे तत्र भगवान्नन्दनन्दनः ।
नारायणर्षिः कृपया चाजगाम सरोवरं ।। ४.२ ।।

ददर्श ब्राह्मणवटुं तं एव मुनिपुङ्गवं ।
तेजसा सुखदृश्येन सुन्दरं सुमनोहरं ।। ४.३ ।।

पीतवस्त्रपरीधानं नवीनजलदप्रभं ।
चन्दनोक्षितसर्वाङ्गं वनमालाविभूषितं ।। ४.४ ।।

प्रसन्नवदनं शुद्धं सस्मितं सर्वपूजितं ।
विभान्तं च जपन्तं शुद्धस्फटिकमालया ।। ४.५ ।।

दृष्ट्वा ननाम सहसा शिरसा विप्रपुङ्गवः ।
शुभाशिषं ददौ तस्मै दत्वा शिरसि हस्तकं ।। ४.६ ।।

तं उवाच मुनिश्रेष्ठः कृपया दीनवत्सलः ।
हितं तथ्यं नीतिसारं परिणामसुखावहं ।। ४.७ ।।

श्रीनारायणर्षिरुवाच
अये विप्र महाभाग सफलं जीवनं तव ।
यस्मिन्कुले च जातोऽसि तद्धन्यं सुप्रशंसितं ।। ४.८ ।।

भज त्वं परमानन्दं सानन्दं नन्दनन्दनं ।
ध्रुवं यास्यसि गोलोकं परमानन्दं ईप्सितं ।। ४.९ ।।

तत्कुलं पावनं धन्यं यशस्यं च निरापदं ।
यस्मिन्स्वयं भवान्जातः पुण्यः कृष्णपरायणः ।। ४.१० ।।

नैवेद्यं पतितं मार्गे जीर्नं श्वापदभक्षितं ।
भुक्त्वा तवैषा बुद्धिश्च कृष्णभक्तिर्बभूव च ।। ४.११ ।।

कृष्णनैवेद्यमाहात्म्यं को वत्स कथितुं क्षमः ।
यद्वक्तुं न हि शक्ताश्च वेदाश्चत्वार एव च ।। ४.१२ ।।

वरं वृणुष्व भद्रं ते सुभद्र द्विजपुङ्गव ।
सर्वं दातुं अहं शक्तो यत्ते मनसि वाञ्च्छितं ।। ४.१३ ।।

नारायणवचः श्रुत्वा तं उवाच शिषुः स्वयं ।
पुनः कम्पितसर्वाङ्गः साश्रुनेत्रः पुटाञ्जलिः ।। ४.१४ ।।

सुभद्र उवाच
देहि मे कृष्णपादाब्जे दृढं भक्तिं सुदुर्लभं ।
तद्दास्यं तत्पदे वासं जरामृत्युहरं परं ।। ४.१५ ।।

अन्यं वरं न गृह्णामि न मे किंचित्प्रयोजनं ।
नाहं वरार्थी कामी च रागी वेतनभुग्यथा ।। ४.१६ ।।

नारायणर्षिरुवाच
श्रीकृष्णो यस्य भक्तिश्च तस्यात्र किं सुदुर्लभं ।
अणिमादिकद्वत्रिंशत्सिद्धिः करतले परा ।। ४.१७ ।।

निर्विकल्पो ददात्यस्य नैव गृह्णाति वैष्णवः ।
अनिमित्तां हरेर्भक्तिं भक्ता वाञ्च्छन्ति सन्ततं ।। ४.१८ ।।

गृहाण मन्त्रं कृष्णस्य परं कल्पतरुं वरं ।
भक्तिदं दास्यदं शुद्धं कर्ममूलनिकृन्तनं ।। ४.१९ ।।

लक्ष्मीर्मायाकामबीजं ङेऽन्तं कृष्णपदं तथा ।
वह्निजायान्तमन्त्रं च मन्त्रराजं मनोहरं ।। ४.२० ।।

इत्येवं उक्त्वा तत्कर्णे कथयां आस दक्षिणे ।
वारत्रयं मुनिश्रेष्ठः शुद्धभावेन पुत्रक ।। ४.२१ ।।

येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरं ।
आज्ञां चकार स ऋषिस्तदेव पठितुं मुदा ।। ४.२२ ।।

कवचं च ददौ तस्मै जगन्मङ्गलमङ्गलं ।
ध्यानं च सामवेदोक्तं सर्वपूजाविधिक्रमं ।। ४.२३ ।।

हरेर्दास्यं च तद्भक्तिर्गोलोकवासं ईप्सितं ।
जन्मद्वयान्तरे चैव कर्मभोगक्षये सति ।। ४.२४ ।।

सुभद्र उवाच
सत्यं कुरु महाभाग वरं मे यदि दास्यसि ।
वरं वृणोमि तत्पश्चात्यन्मे मनसि वाञ्च्छितं ।। ४.२५ ।।

नारायणर्षिरुवाच
ओं सत्यं वत्स दास्यामि वरं वृणु यथेप्सितं ।
ममाशक्यं नास्ति किंचित्दाताहं सर्वसम्पदां ।। ४.२६ ।।

सुभद्र उवाच
कण्ठे ते किं च कवचं कस्य वा सर्वपूजितं ।
अमूल्यरत्नगुटिकायुक्तं च सुमनोहरं ।। ४.२७ ।।

कवचं देहि मे देव स्वसत्यरक्षणं कुरु ।
विप्रस्य वचनं श्रुत्वा शुष्ककण्ठौष्ठातालुकः ।। ४.२८ ।।

वक्तुं न शक्तस्तद्वाक्यं दध्यौ कृष्णपदाम्बुजं ।
प्रददौ गुटिकां तस्मै नोवाच कवचं मुनिः ।। ४.२९ ।।

तं उवाच महर्षिश्च वितुष्टश्चोन्मनाः सुत ।
वत्स क्रोधो हि देवस्य वरं तुल्यं च वाञ्च्छितं ।। ४.३० ।।

नारायणर्षिरुवाच
त्रिंषत्सहस्रवर्षं च भुङ्क्ष्व राज्यं सुदुर्लभं ।
लभस्व दुर्लभां लक्ष्मीं मायया मोहितो भव ।। ४.३१ ।।

मदिष्टदेवकवचं गृहीतं येन हेतुना ।
सप्तकल्पान्तजीवस्य परत्र च भविष्यति ।। ४.३२ ।।

सुचिरेणैव कालेन गोलोकं च प्रायस्यसि ।
परे मृकण्डुपुत्रस्त्वं मार्कण्डेयो भविष्यसि ।। ४.३३ ।।

मया दत्तं च कवचं त्वां च रक्षति पुत्रक ।
तव कण्ठे स्थितिश्चाश्य प्रति जन्मनि जन्मनि ।। ४.३४ ।।

पुनश्च गुटिकायुक्तं कृत्वा च कवचं मुनिः ।
गले दधार भक्त्या च तद्भक्तो धर्मनन्दनः ।। ४.३५ ।।

वरं दत्वा च स मुनिर्ययौ गेहं स उन्मनाः ।
विप्राय कवचं दत्वा नष्टवत्सा गौर्यथा ।। ४.३६ ।।

भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना ।
मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः ।। ४.३७ ।।

विप्रः सम्प्राप्य कवचं मन्त्रं कल्पतरुं परं ।
सरोवरात्समुत्थाय प्रज्वलन्ब्रह्मतेजसा ।। ४.३८ ।।

क्षणं तस्थौ सरस्तीरे वटमूले मनोहरे ।
जजाप परमं मन्त्रं सम्पूज्य जगदीश्वरं ।। ४.३९ ।।

अथ तत्तातविप्रो हि समन्विष्य सुतं चिरं ।
गत्वा च स्वगृहं दुःखी शोकार्तः स रुरोद च ।। ४.४० ।।

समुद्यता तनुं त्यक्तुं तन्माता पुत्रवार्तया ।
न तत्याज तनुं विप्रो दृष्ट्वा सुस्वप्नं उत्तमं ।। ४.४१ ।।

विप्रो विप्रा गृहं त्यक्त्वा पुत्रान्वेषणपूर्वकं ।
प्रययौ काननं घोरं सर्वैश्च बान्धवैः सहः ।। ४.४२ ।।

सर्वं वनं समन्विष्य प्रययुस्ते सरोवरं ।
ददृशुस्ते शिशुं गृह्यं सूर्याभं वटमूलके ।। ४.४३ ।।

चुचुम्ब गण्डं पुत्रस्य विप्रो विप्रा च सारदं ।
आशिश्लेष क्रमेणैव माता तातः पुनः पुनः ।। ४.४४ ।।

पुत्रश्च सर्ववृत्तान्तं कथयां आस सादरं ।
श्रुत्वा पुत्रस्य विप्रश्च विप्रा बान्धवस्तथा ।। ४. ४५ ।।

ययुः सर्वे स्वदेशं च परमाह्लादमानसाः ।
चन्द्रभागां समुत्तीर्य विवेश नगरं परं ।। ४.४६ ।।

नगरस्थो नृपेन्द्रश्च दृष्ट्वा तेजस्विनं शिशुं ।
ददौ तस्मै स्वकन्यां च रत्नालङ्कारभूषितं ।। ४.४७ ।।

युवतीं सुन्दरीं श्यामां तप्तकञ्चनसंनिभां ।
पतिव्रतां महाभागां सुन्दरीं कमलाकलां ।। ४.४८ ।।

गजेन्द्राणां सहस्रं च प्रददौ यौतुकं मुदा ।
अश्वानां दशलक्षं च रत्नानां च सहस्रकं ।। ४.४९ ।।

दासीनां निष्ककण्ठीनां सौन्दरीणां सहस्रकं ।
वस्त्ररत्नसहस्रं च बहुमूल्यं सुदुर्लभं ।। ४.५० ।।

दासानां च सहस्रं च पदातीनां त्रिलक्षकं ।
दशलक्षं सुवर्णं च रत्नमालां सुदुर्लभां ।। ४.५१ ।।

दत्वा तस्मै च कन्यां च रुरोद च सभार्यकः ।
राजा च कन्यया सार्धं प्रययौ विप्रमन्दिरं ।। ४.५२ ।।

गत्वा चापि कियद्दूरं ददर्श नगरं नृपः ।
अतीव सुन्दरं रम्यं विजित्य चामरावतीं ।। ४.५३ ।।

शुद्धस्फटिकसंकाशं रत्नसारविनिर्मितं ।
त्रिकोटिचट्टालिकागेहं नवकोटिसुमन्दिरं ।। ४.५४ ।।

सप्तप्राकारयुक्तं च परिखात्रयसम्युक्तं ।
दुर्लङ्घ्यं अतिदुर्गम्यं रिपूणां अपि पुत्रक ।। ४.५५ ।।

शिशोश्च स्वाश्रमं रम्यं सद्रत्नसारनिर्मितं ।
स्फुरत्वज्रकपाटं च रत्नेन्द्रकलशान्वितं ।। ४.५६ ।।

सद्रत्नदर्पणाइर्दीपं रत्नकुम्भैर्विराजितं ।
प्राङ्गणं रत्नसाराढ्यं रत्नसोपानशोभितं ।। ४.५७ ।।

मनोहरं राजमार्गं सिन्दूरादिपरिष्कृतं ।
प्राकारं मणिभूषाढ्यं उच्चैराकाशस्पर्शि च ।। ४.५८ ।।

जगाम विस्मयं राजा दृष्ट्वा नगरं उत्तमं ।
पित्रा मात्रा सह शिशुर्विस्मयं च ययौ मुदा ।। ४.५९ ।।

गजेन्द्राणां त्रिलक्षं च श्वानां शतलक्षकं ।
चतुर्गुणं पदातीनां आययुस्तेऽप्यनुव्रजं ।। ४.६० ।।

वारणेन्द्रं पुरस्कृत्य वेश्यां च नर्तकं तथा ।
द्विजांश्च पूर्णकुम्भांश्च पतिपुत्रवतीं सतीं ।। ४.६१ ।।

महापात्रः शिशुं दृष्ट्वा गजेन्द्रोपरिसंस्थितं ।
मूर्ध्ना ननाम वेगेनाप्यवरुह्य गजादपि ।। ४.६२ ।।

शिशुं प्रवेशयां आस रत्ननिर्माणमन्दिरं ।
रत्नसिंहासनं तस्मै प्रददौ सादरं मुदा ।। ४.६३ ।।

कन्यादात्रे च पित्रे च मात्रे च सादरं मुदा ।
रत्नसिंःआसनं रम्यं प्रददौ पात्र एव च ।। ४.६४ ।।

शिशुं सिषेव पात्रश्च स्वयं च श्वेतचामरैः ।
दधार रत्नछत्रं च हीराहारपरिष्कृतं ।। ४.६५ ।।

उवास स सभार्यां च सुधर्म्यां महेन्द्रवथ् ।
श्वसुरश्च ययौ गेहं शिशुना च पुरस्कृतः ।। ४.६६ ।।

त्रिंशत्सहस्रवर्षं च राजा राज्यं चकार सः ।
कालान्तरे तत्पिता च वने व्याघ्रेण भक्षितः ।। ४.६७ ।।

पतिव्रता महाभागा माता सहमृता सुत ।
रत्नयानेन रम्येण सस्त्रीकः कृष्णमन्दिरं ।। ४.६८ ।।

प्रययौ सादरं विप्रः कृष्णनैवेद्यभक्षणाथ् ।
तदस्थि भुक्त्वा व्याघ्रश्च पूतः सद्यश्च सांप्रतं ।। ४.६९ ।।

ताभ्यां सार्धं च प्रययौ गोलोकं सुमनोहरं ।
शिशुर्देहं परित्यज्य हिमाद्रौ स्वर्णदीतटे ।। ४.७० ।।

दत्वा पुत्राय राज्यं च स्वर्गादपि सुदुर्लभं ।
मृकण्डुपत्नीगर्भे च लेभे जन्म स्वकर्मणा ।। ४.७१ ।।

मार्कण्डेयो मुनिश्रेष्ठो बभूव परजन्मनि ।
सप्तकल्पान्तजीवी च नारायणवरेण सः ।। ४.७२ ।।

बभूव सांप्रतं विप्रः कृष्णनैवेद्यभक्षणाथ् ।
श्वभक्षितं च नैवेद्यं भुक्त्वा चेदीदृशी गतिः ।
अकामतश्चाप्यज्ञातो जीर्णमार्गस्थितं सुत ।। ४.७३ ।।

यो भक्षेत्कामतो ज्ञातो नित्यं नैवेद्यं ईप्सितं ।
न जानन्ति गतिस्तस्य वेदाश्चत्वार एव च ।। ४.७४ ।।

इति ते कथितं ब्रह्मन्नितिहासं पुरातनं ।
आश्चर्यं मधुरं रम्यं किं भूयः श्रोतुं इच्छसि ।। ४.७५ ।।

श्रीनारद उवाच
श्रुतं नैवेद्यमाहात्म्यं अतीव सुमनोहरं ।
ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः ।। ४.७६ ।।

अधुना श्रोतुं इच्छामि स्वात्मसन्देहभञ्जनं ।
नारायणर्षेर्कण्ठे च कवचं तस्य तद्वद ।। ४.७७ ।।

अथ कवचप्रश्नः
सनत्कुमार उवाच
ममाप्यस्तीति सन्देहो वचने प्रपितामह ।
कस्य तत्कवचं ब्रह्मन्निदं वक्तुं त्वं अर्हसि ।। ४.७८ ।।

स पिता स गुरुः स्वच्छः करोति भ्रमभञ्जनं ।
शीघ्रं ब्रूहि महाभाग नारदं मां सुतप्रिय ।। ४.७९ ।।

पुत्रयोश्च वचः श्रुत्वा शुष्ककण्ठौष्ठतालुकः ।
उवाच वचनं ब्रह्मा स्मरन्कृष्णपदाम्बुजं ।। ४.८० ।।

ब्रह्मोवाच
नारायणेन मुनिना जगन्मङ्गलमङ्गलं ।
विप्राय कवचं दत्तं ध्यानं च पर्मात्मनः ।। ४.८१ ।।

तद्ब्रवीमि महाभाग त्वां एव नारदं प्रति ।
कण्ठस्थं कवचं वक्तुं नैव शक्नोमि सांप्रतं ।। ४.८२ ।।

मत्कण्ठे कवचं यस्य गोपनीयं सुदुर्लभं ।
नारायणर्षिकण्ठे च तदेव परमाद्भुतं ।। ४.८३ ।।

तदेव धर्मकण्ठे च नरस्य च महात्मनः ।
अगस्त्यस्य च कण्ठे च लोमशस्य महामुनेः ।। ४.८४ ।।

तुलस्याश्चापि संज्ञायाः सावित्र्याश्चापि पुत्रक ।
अन्येषां च भाग्यवतां भारते च सुदुर्लभे ।। ४.८५ ।।

नारद उवाच
पश्चात्श्रोष्यामि कवचं जगन्मङ्गलमङ्गलं ।
ध्यानं पूजां विधानं च कृष्णस्य परमात्मनः ।। ४.८६ ।।

आदौ कथय भद्रं ते परं परमभद्रकं ।
सुभद्रप्राप्तं कवचं माहात्म्यं यस्य दुर्लभं ।। ४.८७ ।।

ब्रह्मोवाच
सुभद्रप्राप्तं कवचं पश्चात्श्रोष्यसि पुत्रक ।
शङ्करस्य मुखाद्विप्र स्वगुरोर्ज्ञानिनस्तथा ।। ४.८८ ।।

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे ब्रह्मानारदसंवादे