नारदपञ्चरात्रम्/प्रथमैकरात्रे/अध्यायः ५
← प्रथमैकरात्रे, अध्यायः ४ | नारदपञ्चरात्रम् अध्यायः ५ [[लेखकः :|]] |
प्रथमैकरात्रे, अध्यायः ६ → |
प्रथमैकरात्रे कवचप्रश्नो नाम चतुर्थोऽध्यायः
प्रथमैकरात्रे पञ्चमोऽध्यायः
श्रीसनत्कुमार उवाच
तवेच्छा यत्र कवचे ध्याने तद्वद साम्प्रतं ।
यच्छृणोमि शुभं तच्च केन श्रेयसि तृप्यते ।। ५.१ ।।
ब्रमोवाच
ध्यानं सामवेदोक्तं दत्तं नारायणेन वै ।
कवचं च सुभद्राय धर्मिष्ठाय महात्मने ।। ५.२ ।।
नवीनजलदश्यामं पीतकौशेयवाससं ।
चन्दनोक्षितसर्वाङ्गं सस्मितं श्यामसुन्दरं ।। ५.३ ।।
मालतीमाल्यभूषाढ्यं रत्नभूषणभूषितं ।
मुनीन्द्रेशसुसिद्धेशब्रह्मेशशेषवन्दितं ।। ५.४ ।।
सर्वस्वरूपं सर्वेशं सर्वबीजं सनातनं ।
सर्वाद्यं सर्वज्ञं पुरुषं प्रकृतेः परं ।। ५.५ ।।
निर्गुणं च निरीहं च निर्लिप्तं ईस्वरं भजे ।
ध्यात्वा मूलेन तस्मै च दद्यात्पाद्यादिकं मुदा ।। ५.६ ।।
ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन्नरः ।
जप्त्वा च मन्त्रं भक्त्या दण्डवत्प्रणमेद्भुवि ।
इति ते कथितं वत्स किं भूयः श्रोतुं इच्छसि ।। ५.७ ।।
श्रीसनत्कुमार उवाच
ब्रूहि मे कवचं ब्रह्मन्जगन्मङ्गलमङ्गलं ।
पूज्यं पुण्यस्वरूपं च कृष्णस्य परमात्मनः ।। ५.८ ।।
अथ जगन्मङ्गलमङ्गलकवचम्
ब्रह्मोवाच
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतं ।
श्रीकृष्णेनैव कथितं मह्यं च कृपया परा ।। ५.९ ।।
मया दत्तं च धर्माय तेन नारायणर्षये ।
ऋषिणा तेन तद्दत्तं सुभद्राय महात्मने ।। ५.१० ।।
अतिगुह्यतमं शुद्धं परं स्नेहाद्वदाम्यहं ।
यद्धृत्वा पठनात्सिद्धाः सिद्धानि प्राप्नुवन्ति च ।। ५.११ ।।
एवं इन्द्रादयः सर्वे सर्वैश्वर्यं आप्नुयुः ।
ऋषिश्छन्दश्च सावित्री देवो नारायणः स्वयं ।। ५.१२ ।।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
राधेशो मे शिरः पातु कण्ठं रधेश्वरः ।। ५.१३ ।।
गोपीशश्चक्षुषी पातु तालु च भगवान्स्वयं ।
गण्डयुग्मं च गोविन्दः कर्णयुग्मं च केशवः ।। ५.१४ ।।
गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः ।
वक्षस्थलं वासुदेवश्चोदरं चापि सोऽच्युतः ।। ५.१५ ।।
नभिं पातु पद्मनाभः कङ्कालं कंससूदनः ।
पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकं ।। ५.१६ ।।
पुण्डरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयं ।
नासां च नखरं पातु नरसिंहः स्वयं प्रभुः ।। ५.१७ ।।
सर्वेश्वरश्च सर्वाङ्गं सन्ततं मधुसूदनः ।
प्राच्यां पातु च रामश्च वह्नौ च वंशीधरः स्वयं ।। ५.१८ ।।
पातु दामोदरो दक्षे नैरृते च नरोत्त्मः ।
पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयं ।। ५.१९ ।।
अनन्तश्चोत्तरे पातु ऐशान्यां ईश्वरः स्वयं ।
जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा ।। ५.२० ।।
पातु वृन्दावनेशश्च मां भक्तं शरणागतं ।
इति ते कथितं वत्स कवचं परमाद्भुतं ।। ५.२१ ।।
सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सतां ।
इदं कवचं इष्टं च पूजाकाले च यः पठेथ् ।। ५.२२ ।।
हरिदास्यं अवाप्नोति गोलोके वासं उत्तमं ।
इहैव हरिभक्तिं च जीवन्मुक्तो भवेन्नरः ।। ५.२३ ।।
नारद उवाच
नारायणर्षिणा दत्तं कवचं यत्सुदुर्लभं ।
सुभद्राय ब्राह्मणाय तन्मे वक्तुं इहार्हसि ।। ५.२४ ।।
ब्रह्मोवाच
मदिष्टदेव्याः कवचं कथं तत्कथयामि ते ।
मत्कण्ठे पश्य कवचं सद्रत्नगुटिकान्वितं ।। ५.२५ ।।
नारायणर्षिणा दत्तं कवचं गुटिकान्वितं ।
तथापीदं न कथितं निषिद्धं हरिणा स्मृतं ।। ५.२६ ।।
तस्यर्षेश्चेष्टदेव्याश्च नोक्तं तेनेदं ईप्सितं ।
मह्यं न दत्ता गुटिका बान्धवैर्भर्त्सितेन च ।। ५.२७ ।।
आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति ।
प्राणा नष्टाश्च दानेन चेति वेदविदो विदुः ।। ५.२८ ।।
शङ्करं गच्छ भगवन्जन्मान्तरगुरुं तव ।
स एव तुभ्यं कवचं दास्यस्येव न संशयः ।। ५.२९ ।।
त्वत्प्राक्तनेन विप्रेन्द्र सत्वरेण शुभेन च ।
ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत्सुदुर्लभं ।। ५.३० ।।
कुमार गच्छ वैकुण्ठं स्वगुरुं पश्य सत्वरं ।
नारायणश्च कवचं तुभ्यं दास्यसि निश्चितं ।। ५.३१ ।।
सनत्कुमारो भगवान्गत्वा वैकुण्ठं ईप्सितं ।
संप्राप्य कवचं वत्स कवचं तत्सुदुर्लभं ।। ५.३२ ।।
आज्ञया ब्रह्मणश्चापि नारदो गन्तुं उद्यतः ।
ब्रह्मा ययौ ब्रह्मलोकं जन्ममृत्युजरापहं ।। ५.३३ ।।
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे पञ्चमोऽध्यायः