प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रथमैकरात्रे, अध्यायः ८ नारदपञ्चरात्रम्‌
अध्यायः ९
[[लेखकः :|]]
प्रथमैकरात्रे, अध्यायः १० →

प्रथमैकरात्रे नवमोऽध्यायः
श्रीव्यास उवाच
वरं दत्वा महादेवो भक्त्या तं ब्राह्मणातिथिं ।
पूजां चकार वेदोक्तां स्वयं वेदविदां वरः ।। ९.१ ।।

भुक्त्वा पीत्वा मुनिश्रेष्ठो महादेवस्य मन्दिरे ।
तिष्ठन्नुपासानां चक्रे पार्वतीपरमेशयोः ।। ९.२ ।।

एकदा चिरकालान्ते तं उवाच महामुनिं ।
महादेवः सभामध्ये कृपया च कृपानिधिः ।। ९.३ ।।

श्रीमहादेव उवाच
किं वा ते वाञ्छितं वत्स ब्रूहि मां यदि रोचते ।
वरो दत्तः किं अपरं यत्ते मनसि वर्तते ।। ९.४ ।।

महादेववचः श्रुत्वा तं उवाच महामुनिः ।
कैलासे च सभामध्ये यत्तन्मनसि वाञ्छितं ।। ९.५ ।।

श्रीनारद उवाच
ज्ञानं आध्यात्मिकं नाम वेदसारं मनोहरं ।
हरिभक्तिप्रदं ज्ञानं मुक्तिदं ज्ञानं ईप्सितं ।। ९.६ ।।

योगयुक्तं च यज्ज्ञानं ज्ञानं यत्सिद्धिदं तथा ।
संसारविषयज्ञानं एव पञ्चविधं स्मृतं ।। ९.७ ।।

आश्रमाणां समाचारं तेषां धर्मपरिष्कृतं ।
विधवानां च भिक्षूणां यतीनां ब्रह्मचारिणां ।। ९.८ ।।

पूजाविधानं कृष्णस्य तत्स्तोत्रं कवचं मनुं ।
पुरश्चर्याविधानं च सर्वाह्निकं अभीप्सितं ।। ९.९ ।।

जीवकर्मविपाकं च कर्ममूलनिकृन्तनं ।
संसारवासनां कां वा लक्षणं प्रकृतीशयोः ।। ९.१० ।।

तयोः परं वा किं वस्तु तस्यावतारवर्णमं ।
को वा तदंशः कः पूर्णः परिपूर्णतमश्च कः ।। ९.११ ।।

नारायणर्षिकवचं सुभद्रप्रवराय च ।
यद्दत्तं किं तद्देवेश तदाराध्यं प्रयत्नतः ।। ९.१२ ।।

मया ज्ञानंं अनापृष्ठं यद्यदस्ति सुरोत्तम ।
तन्मे कथय तत्त्वेन मां एवानुग्रहं कुरु ।। ९.१३ ।।

गुरोश्च ज्ञानोद्गिरणाज्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।
तत्तन्त्रं स च मन्त्रः स्याद्यतो भक्तिरधोक्षजे ।। ९.१४ ।।

ज्ञानं स्याद्विदुषां किंचिद्वेदव्याख्यानचिन्तया ।
स्वयं भवान्वेदकर्ता ज्ञानाधिष्ठातृदेवता ।। ९.१५ ।।

नारदस्य वचः श्रुत्वा सस्मितः पार्वतीपतिः ।
निरीक्ष्य पार्वतीवक्त्रं गजवक्त्रं उवाच सः ।। ९.१६ ।।

अथ नारदोपदेशग्रहणम्
श्रीमहादेव उवाच
अहो अनन्तदासानां माहात्म्यं परमाद्भुतं ।
कुर्वन्त्यहैतुकीं भक्तिं ये च शश्वद्धरेः पदे ।। ९.१७ ।।

पद्मनाभपादपद्मं पद्मापद्मेश्वरार्चितं ।
दिवानिशं ये ध्यायन्ते शेषादिसुरवन्दितं ।। ९.१८ ।।

आलापं गात्रसंस्पर्शं पादरेणुं अभीप्सितं ।
वाञ्छन्त्येव हि तीर्थानि वसुधा चात्मशुद्धये ।। ९.१९ ।।

कृष्णमन्त्रोपासकानां शुद्धं पादोदकं सुत ।
पुनाति सर्वतीर्थानि वसुधां अपि पार्वति ।। ९.२० ।।

कृष्णमन्त्रो द्विजमुखाद्यस्य कर्णं प्रयाति च ।
तं वैष्णवं जगत्पूतं प्रवदन्ति पुराविदः ।। ९.२१ ।।

मन्त्रग्रहणमात्रेण नरो नारायनात्मकः ।
पुनाति लीलामात्रेण पुरुषाणां शतं शतं ।। ९.२२ ।।

यज्जन्ममात्रात्पूतं च तत्पितृणां शतं शतं ।
प्रयाति सद्यो गोलोकं कर्मभोगात्प्रमुच्यते ।। ९.२३ ।।

मातामहादिकान्सप्त जन्ममात्रात्समुद्धरेथ् ।
यत्कन्यां प्रतिगृह्णाति तस्य सप्तावलीलया ।। ९.२४ ।।

मातरं तत्प्रशूं भार्यां पुत्राच्च सप्तपूरुषं ।
भ्रातरं भगिनीं कन्यां कृष्णभक्तः समुद्धरेथ् ।। ९.२४ ।।

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
फलं स लेभे पूजानां व्रती सर्वव्रतेषु च ।। ९.२६ ।।

विष्णुमन्त्रं यो लभेत्वैष्णवाच्च द्विजोत्तमाथ् ।
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।। ९.२७ ।।

कृष्णमन्त्रोपासकानां सद्यो दर्शनमात्रतः ।
शतजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।। ९.२८ ।।

वैष्णवाद्दर्शनेनैव स्पर्शनेन च पार्वति ।
सद्यः पूतं जलं वह्निर्जगत्पूतः समीरणः ।। ९.२९ ।।

दर्शनं वैष्णवानां च देवा वाञ्छन्ति नित्यशः ।
न वैष्णवात्परः पूतो विश्वेषु निखिलेषु च ।। ९.३० ।।

इत्युक्त्वा सङ्करः शीघ्रं नारदेन सहात्मजः ।
ययौ मन्दाकिनीतीरं नीरं क्षीरोपमं परं ।। ९.३१ ।।

तत्र स्नातो महादेवी नारदश्च महामुनिः ।
समाचान्तः शुचिस्तत्र धृत्वा धौते च वासवी ।। ९.३२ ।।

कृष्णमन्त्रं ददौ तस्मै नारदाय महेश्वरः ।
परं कप्लतरुवरं सर्वसिद्धिप्रदं शुक ।। ९.३३ ।।

लक्ष्मीर्मायाकामबीजं ङेन्तं कृष्णपदं ततः ।
जगत्पूतप्रियान्तं च मन्त्रराजं प्रकीर्तितं ।। ९.३४ ।।

मन्त्रं गृहीत्वा स मुनिः शिवं कृत्वा प्रदक्षिणं ।
सप्त वारान्नमस्कृत्य स्वात्मानं दक्षिणां ददौ ।। ९.३५ ।।

तत्पादपद्मे विक्रीतमाजन्म मस्तकं परं ।
मुनिना भक्तियुक्तेन स्वर्गमन्दाकिनीतटे ।। ९.३६ ।।

एतस्मिन्नन्तरे वत्स पुष्पवृष्टिर्बभूव ह ।
नारदोपरि तत्रैव सुश्राव दुन्दुभिर्मुनिः ।। ९.३७ ।।

ननर्त ब्रह्मणः पुत्रो ब्रह्मलोके निरामये ।
ब्रह्मा जगाम तत्रैव सुप्रसन्नश्च सस्मितः ।। ९.३८ ।।

पुत्रं शुभाशिषं कृत्वा तुष्टाव चन्द्रशेखरं ।
शम्भुश्च पूजयां आस ब्राह्मणं अतिथिं तथा ।
शम्भुं शुभाशिषं कृत्वा ब्रह्मलोकं ययौ विधिः ।। ९.३९ ।।

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
नारदोपदेशग्रहणं नाम नवमोऽध्यायः