प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रथमैकरात्रे, अध्यायः ७ नारदपञ्चरात्रम्‌
अध्यायः ८
[[लेखकः :|]]
प्रथमैकरात्रे, अध्यायः ९ →

प्रथमैकरात्रे अष्टमोऽध्यायः
श्रीव्यास उवाच
अथ चाभ्यन्तरं गत्वा नारदो हृष्टमानसः ।
ददर्श स्वाश्रमं रम्यं अतीव सुमनोहरं ।। ८.१ ।।

पयः फेननिभशय्यासहितं रत्नमन्दिरं ।
साक्षाद्गोरोचनाभैश्च मणिस्तम्भैर्विभूषितं ।। ८.२ ।।

मणीन्द्रसारसोपानैः कपाटैश्च परिष्कृतं ।
मुक्तामाणिक्यहीराणां मालाराजिविराजितं ।। ८.३ ।।

शुद्धस्फटिकसंकाशं प्राङ्गणं मणिसंस्कृतं ।
सुन्दरं मन्दिरचयं सद्रत्नकलशोज्ज्वलं ।। ८.४ ।।

रत्नपत्रपटाकीर्णं वह्निशुद्धांशुकान्वितं ।
सुधानां च मधूनां च पूर्णकुम्भकं शतं शतं ।। ८.५ ।।

दासदासीसमूहैश्च रत्नालङ्कारभूषितैः ।
पार्वतीप्रियसङ्गैश्च स्वकर्माकुलसङ्कल्पं ।। ८.६ ।।

तद्दृष्ट्वा च मुनिश्रेष्ठस्तत्पराभ्यन्तरं ययौ ।
रत्नसिंहासनस्थं च शङ्करं च ददर्श सः ।। ८.७ ।।

व्याघ्रचर्माम्बरधरं सस्मितं चन्द्रशेखरं ।
प्रसन्नवदनं स्वच्छं शान्तं श्रीमन्तं ईश्वरं ।। ८.८ ।।

विभूतिभूषिताङ्गं च परं गङ्गाजटाधरं ।
भक्तप्रियं च भक्तेशं ज्वलन्तं ब्रह्मतेजसा ।। ८.९ ।।

त्रिनेत्रं पञ्चवक्त्रं च कोटिचन्द्रसमप्रभं ।
जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनं ।। ८.१० ।।

निर्लिप्तं च निरीहं च दातारं सर्वसम्पदां ।
स्वेच्छामयं सर्वबीजं श्रीकृष्णं प्रकृतेः परं ।। ८.११ ।।

सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितं ।
पार्श्वदप्रवरश्रेष्ठसेवितं श्वेतचामरैः ।। ८.१२ ।।

दुर्गासेवितपादाब्जं भद्रकालीपरिष्टुतं ।
पुरतो हि वसन्तं तं स्कन्दं गणपतीं तथा ।। ८.१३ ।।

गले बद्ध्वा च वसनं भक्तिनम्रात्मकंधरः ।
योगीन्द्रं स्वगुरुं शंभुं शिरसा प्रणनाम सः ।। ८.१४ ।।

तुष्टाव परया भक्त्या देवर्षिर्जगतां पतिं ।
स्वगुरुं च पशुपतिं वेदोक्तेन स्तवेन च ।। ८.१५ ।।

श्रीनारद उवाच
नमस्तुभ्यं जगन्नाथ मम नाथ मम प्रभो ।
भवरूपतरोर्बीज फलरूप फलप्रद ।। ८.१६ ।।

अबीजज प्रज प्राज सर्वबीज नमोऽस्तु ते ।
सद्भाव परमाभाव विभाव भावनाश्रय ।। ८.१७ ।।

भवेश भवबन्धेश भावाब्धिनाविनायक ।
सर्वाधार निराधार साधार धरणीधर ।। ८.१८ ।।

वेदविद्याधाराधार गङाधर नमोऽस्तु ते ।
जयेश विजयाधार जयबीज जयात्मक ।। ८.१९ ।।

जगदादे जयानन्द सर्वानन्द नमोऽस्तु ते ।
इत्येवं उक्त्वा देवर्षिः शम्भोश्च पुरतः स्थितः ।
प्रसन्नवदनः श्रीमान्भगवांस्तं उवाच सः ।। ८.२० ।।

श्रीमहादेव उवाच
वरं वृणु महाभाग यत्ते मनसि वर्तते ।
दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्वसंपदां ।। ८.२१ ।।

सुखं मुक्तिं हरेर्भक्तिं निश्चलां अविनाशिनीं ।
हरेः पादं तद्दास्यं सालोक्यादिचतुष्टयं ।। ८.२२ ।।

इन्द्रत्वं अमरत्वं वा यमत्वं अनिलेश्वरं ।
प्रजापतित्वं ब्रह्मत्वं सिद्धत्वं सिद्धसाधनं ।। ८.२३ ।।

सिद्धैश्वर्यं सिद्धिबीजं वेदविद्याधिपं परं ।
अणिमादिकसिद्धिं च मनोयायित्वं ईप्सितं ।। ८.२४ ।।

हरेः पदं च गमनं सशरीरेण लीलया ।
एतेषु वाञ्छितार्थेषु किं वा ते वाञ्छितं सुत ।। ८.२५ ।।

तन्मे ब्रूहि मुनिश्रेष्ठ सर्वं दातुं अहं क्षमः ।
शङ्करस्य वचः श्रुत्वा तं उवाच महामुनिः ।। ८.२६ ।।

श्रीनारद उवाच
देहि मे हरिभक्तिं च तन्नामसेवने रुचिः ।
अतितृष्णा गुणाख्याने नित्यं अस्तु ममेश्वर ।। ८.२७ ।।

नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयं ।
पार्वती भद्रकाली च कार्त्तिकेयो गणेश्वरः ।। ८.२८ ।।

सर्वं ददौ महादेवो नारदाय च धीमते ।
सर्वप्रदस्तु सर्वेशः सर्वकारणकारणः ।। ८.२९ ।।

नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत्शुचिः ।
हरिभक्तिर्भवेत्तस्य तन्नाम्नि गुणतो रुचिः ।। ८.३० ।।

दशवारजपेनैव स्तोत्रसिद्धिर्भवेन्नृणां ।
सर्वसिद्धिर्भवेत्तस्य सिद्धस्तोत्रो भवेद्यदि ।। ८.३१ ।।

इह प्राप्नोति लक्ष्मीं च निश्चलां लक्षपौरुषीं ।
परिपूर्णं अहैश्वर्यं अन्ते याति हरेः पदं ।। ८.३२ ।।

पुत्रं विशिष्टं लभते हरिभक्तं जितेन्द्रियं ।
सुसाध्यां सुविनीतां सुव्रतां च पतिव्रतां ।। ८.३३ ।।

प्रजां भूमिं यशः कीर्तिं विद्यां सकवितां लभेथ् ।
प्रसूयते महाबन्ध्या वर्षं एकं शृणोति चेथ् ।। ८.३४ ।।

गलत्कुष्ठी महारोगी सद्यो रोगात्प्रमुच्यते ।
धनी महादरिद्रश्च कृपणः सत्यवान्भवेथ् ।
विप्रद्ग्रस्तो राजबद्धो मुच्यते नात्र संशयः ।। ८.३५ ।।

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे अष्टमोऽध्यायः