← दशकम् ११ नारायणीयम्
दशकम् १२
[[लेखकः :|]]
दशकम् १३ →

स्वायम्भुवो मनुरथो जनसर्गशीलो
दृष्ट्वा महीमसमये सलिले निमग्नाम् ।
स्रष्टारमाप शरणं भवदङ्घ्रिसेवा
तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ १॥

कष्टं प्रजाः सृजति मय्यवन्र्निमग्ना
स्थानं सरोजभव कल्पय तत्प्रजानाम् ।
इत्येवमेष कथितो मनुना स्वयम्भू
रम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥ २॥

हा हा विभो जलमहं न्यपिबं पुरस्ताद्
अद्यापि मज्जति मही किमहं करोमि ।
इत्थं त्वदङ्घ्रियुगळं शरणं यतोऽस्य
नासापुटात्समभवः शिशुकोलरूपी ॥ ३॥

अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्तात्
भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् ।
अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर्
विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ॥ ४॥

कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे
नासापुटात्किमु भवेदजितस्य माया ।
इत्थं विचिन्तयति धातरिशैलमात्रः
सद्यो भवन्किल जगर्ज्जिथ घोरघोरम् ॥ ५॥

तं ते निनादमुपकर्ण्य जनस्तपःस्थाः
सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् ।
तत्स्तोत्रहर्षुलमनाः परिणद्य भूय
स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ ६॥

ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा
प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।
तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
स्तोतॄन्मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥ ७॥

अन्तर्जलं तदनु सङ्कुलनक्रचक्रं
भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् ।
आविश्य भीषणरवेण रसातलस्था
नाकम्पयन्वसुमतीमगवेषयस्त्वम् ॥ ८॥

दृष्ट्वाऽथ दैत्यहतकेन रसातलान्ते
संवेशितां झटिति कूटकिटिर्विभो त्वम् ।
आपातुकानविगणय्य सुरारिखेटान्
दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ ९॥

अभ्युद्धरन्नथ धरां दशनाग्रलग्न
मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा ।
उद्धातघोरसलिलाज्जलधेरुदञ्चन्
क्तीडावराहवपुरीश्वर पाहि रोगात् ॥ १०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_१२&oldid=32247" इत्यस्माद् प्रतिप्राप्तम्