प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← दशकम् १२ नारायणीयम्
दशकम् १३
[[लेखकः :|]]
दशकम् १४ →


हिरण्याक्षं तावद्वरद भवदन्वेषणपरं
चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥ १३१॥

स मायावी विष्णुर्हरति भवदीयं वसुमतीं
प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथो
भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ॥ १३२॥

अहो आरण्योऽयं मृग इति हसन्तं बहुतरै
र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुङ्था मृधविधौ ॥ १३३॥

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता ।
रणालोकैत्सुक्यान्मिलति सुरसंघे द्रुतममुं
निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ १३४॥

गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
गदाघाताद्भूमौ झटिति पतितायामहह ! भोः ! ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ १३५॥

ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत्
गळन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ १३६॥

भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
ततो मायाचक्रे विततघनरोषान्धमनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधीः ॥ १३७॥

महाकायःस्सोऽयं तव करसरोजप्रमथितो
गळद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया
मुनीन्द्रास्सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥ १३८॥

त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं
चतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा
विभो सोमो वीर्यं वरद गळदेशेऽप्युपसदः ॥ १३९॥

मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो
निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥ १३१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_१३&oldid=32248" इत्यस्माद् पुनः प्राप्तिः