प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← दशकम् १३ नारायणीयम्
दशकम् १४
[[लेखकः :|]]
दशकम् १५ →

समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।
निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥ १ ॥

समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ २॥

गरुडोपरि काळमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ ३॥

स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः ।
कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ ४॥

स मनुश्शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टस्समगात्कर्दममागतिप्रतीक्षम् ॥ ५॥

मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ६॥

सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने ।
वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥ ७॥

शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥ ८॥

निजभर्तृगिरा भवन्निषेवा निरतायामथ देव देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ॥ ९॥

वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै ।
कपिलात्मक वायुमदिरेशत्वरितं त्वं परिपाहि मां गदौघात् ॥ १०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_१४&oldid=32250" इत्यस्माद् पुनः प्राप्तिः