प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← दशकम् १६ नारायणीयम्
दशकम् १७
[[लेखकः :|]]
दशकम् १८ →

उत्तानपादनृपतेर्मनुनन्दनस्य
जाया बभूव सुरुचिर्नितरामभीष्टा ।
अन्या सुनीतिरिति भर्तुरनादृता सा
त्वामेव नित्यमगतिः शरणं गताऽभूत् ॥ १॥

अङ्के पितुः सुरुचिपुत्रकमुत्तमं तं
दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।
आचिक्षिपे किल शिशुः सुतरां सुरुच्या
दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ २॥

त्वन्मोहिते पितरि पश्यति दारवश्ये
दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् ।
साऽपि स्वकर्मगतिसन्तरणाय पुंसां
त्वत्पादमेव शरणं शिशवे शशंस ॥ ३॥

आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा
मानी निरेत्य नगरात्किल पञ्चवर्षः ।
सन्दृष्टनारदनिवेदितमन्त्रमार्गस्
त्वामारराध तपसा मधुकाननान्ते ॥ ४॥

ताते विषण्णहृदये नगरीं गतेन
श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।
बालस्त्वदर्पितमनाः क्रमवर्धितेन
निन्ये कठोरतपसा किल पञ्च मासान् ॥ ५॥

तावत्तपोबलनिरुच्छ्वसिते दिगन्ते
देवार्थितस्त्वमुदयत्करुणार्द्रचेताः ।
त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता
दाविर्बभूविथ विभो गरुडाधिरूढः ॥ ६॥

त्वद्दर्शनप्रमदभारतरङ्गितं तं
दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुष्टूषमाणमवगम्य कपोलदेशे
संस्पृष्टवानसि दरेण तथाऽऽदरेण ॥ ७॥

तावद्विबोधविमलं प्रणुवन्तमेन
माभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूयः
सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥ ८॥

इत्यूचिषि त्वयि गते नृपनन्दनोऽसौ
आनन्दिताखिलजनो नगरीमुपेतः ।
रेमे चिरं भवदनुग्रहपूर्णकामस्
ताते गते च वनमादृतराज्यभारः ॥ ९॥

यक्षेण देव निहते पुनरुत्तमेऽस्मिन्
यक्षैः स युद्धनिरतो विरतो मनूक्त्या ।
शान्त्या प्रसन्नहृदयाद्धनदादुपेतात्
त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ १०॥

अन्ते भवत्पुरुषनीतविमानयातो
मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
एवं स्वभृत्यजनपालनलोलधीस्त्वं
वातालयाधिप निरुन्धि ममामयौघान् ॥ ११॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_१७&oldid=32253" इत्यस्माद् पुनः प्राप्तिः