नारायणीयम्/दशकम् १८
← दशकम् १७ | नारायणीयम् दशकम् १८ [[लेखकः :|]] |
दशकम् १९ → |
जातस्य ध्रुवकुल एव तुङ्गकीर्ते
रङ्गस्य व्यजनि सुतः स वेननामा ।
तद्दोषव्यथितमतिः स राजवर्य
स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ १॥
पापोऽपि क्षितितलपालनाय वेनः
पौराद्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजबलमेव संप्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ २॥
सम्प्राप्ते हितकथनाय तापसौधे
मत्तोऽन्यो भवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
शापाग्नौ शलभदशामनायि वेनः ॥ ३॥
तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै
स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथितादथोरुदण्डात्
दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ४॥
विख्यातः पृथुरिति तापसोपदिष्टैः
सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसम्पदं धरित्रीं
आक्रान्तां निजधनुषा समामकार्षीः ॥ ५॥
भूयस्तां निजकुलमुख्यवत्सयुक्तैर्
देवाद्यैः समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ ६॥
आत्मानं यहति मखैस्त्वयि त्रिधाम
न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥ ७॥
देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ
साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ८॥
तद्दत्तं वरमुपलभ्य भक्तिमेकां
गङ्गान्ते विहितपदः कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंस
न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ ९॥
विज्ञानं सनकमुखोदितं दधानः
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन् ॥ १०॥