प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← दशकम् ३० नारायणीयम्
दशकम् ३१
[[लेखकः :|]]
दशकम् ३२ →

प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथाऽपि
त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद ।
मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं
वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ ३११॥

तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ
प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।
भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ ३१२॥

विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।
यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्
बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥ ३१३॥

पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये
दित्युक्तेऽस्मिन्वरद भवते दातुकामेऽथ तोयम् ।
दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं
मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ ३१४॥

याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं
दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः ।
विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥ ३१५॥

निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्
व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् ।
दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा
मुच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥ ३१६॥

त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ
कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् ।
हर्षोत्कर्षात् सुबहु खेचरैरुत्सवेऽस्मिन्
भेरीं निघ्नन्भुवनमचरज्जाम्बवान् भक्तिशाली ॥ ३१७॥

तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा
देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।
कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः
किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ ३१८॥

पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी
स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि ।
पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥ ३१९॥

दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै
र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं
विप्रैस्सन्तानितमखवरः पाहि वातालयेश ॥ ३११०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_३१&oldid=32267" इत्यस्माद् पुनः प्राप्तिः